५५८

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! महादेवेन भाषितम् ।
पार्वत्यै नार्मदं चान्यत् तीर्थं तत् कथयामि ते ॥१ ॥ .मत्स्यायाश्च तथा ताप्याः सङ्गमो मोक्षदायकः ।
कलहंसाभिधः पूर्वं देवर्षिर्ध्यानतत्परः ॥२ ॥ तत्र कृत्वाऽऽश्रमं रम्यं तपस्तेपे सुदारुणम् ।
शाकमूलफलाहारो ह्यतिष्ठत्त्वेकपादतः ॥३ ॥ शिवध्यानपरस्याऽस्य तपसा देवराट् स्वयम् ।
भीतो ब्राह्मणरूपेण वञ्चयितुं समाययौ ॥४ ॥ उवाच कलहंस! त्वं किमर्थं कुरुषे तपः ।
ऋषिः प्राह कथं चेन्द्र! मां विडम्बयसे द्विजम् ॥५ ॥ जानामि त्वां तुराषाढं नेन्द्रराज्यं प्रकामये ।
आराधयाम्यहं शम्भुं कुरु राज्यं यथेप्सितम् ॥६ ॥ इन्द्रः प्राह वरं विप्र! वृणु द्रक्ष्यसि शङ्करम् ।
कलहंसस्तदोवाच नान्यं वरं वृणोम्यहम् ॥७ ॥ शम्भौ भक्तिः सदा मे स्यादिति शक्तोऽसि देहि चेत् ।
तथाऽस्त्विति सुरेशश्च ययावुक्त्वा त्रिविष्टपम् ॥८ ॥ शङ्करस्तु द्रुतं तत्र साक्षात् हसन् समाययौ ।
कलहंसो नमश्चक्रे स्तोतुं समुपचक्रमे ॥९ ॥ नमो भक्तकृपायुक्त महादेव नमोऽस्तु ते ।
नमः शिवाय भक्तानामिष्टप्रदाय ते नमः ॥1.558.१० ॥ भवसागरमग्नानामुद्धारकाय ते नमः ।
परब्रह्मस्वरूपाय वैष्णवाग्र्याय ते नमः ॥११ ॥ ओं नमः श्रीकृष्णनारायणात्मकाय ते नमः ।
पार्वतीपतये प्रभास्वामिदेवाय ते नमः ॥१२।
नारायणीशरूपाय जयाध्यक्षाय ते नमः ।
सर्वबीजस्वरूपाय कारणाय नमो नमः ॥१ ३॥ शम्भुः स्तोत्रं शुभं श्रूत्वा वरं वृणु जगाद तम् ।
कलहंसेश्वरं तीर्थं वव्रे च ऋषिसत्तमः ॥१४॥ तत्र प्राणैर्वियुक्तानां मोक्षं वव्रे शुभं वरम् ।
शम्भुः प्राह तथैवाऽस्तु चान्ते मुक्तिस्तवाऽस्तु च ॥१५॥ अन्तर्धानं ययावुक्त्वा कलहंसोऽपि सर्वथा ।
भजित्वा नार्मदं तीर्थं चान्ते ब्रह्मपदं ययौ ॥१६॥ मत्स्यातापीसङ्गमे तत्कलहंसं सुतीर्थकम् ।
पापघ्नं स्वर्गदं मोक्षप्रदं वर्तत ऐश्वरम् ॥१७॥ अन्यत् तीर्थ बृहत्याश्च नर्मदायाश्च सङ्गमः ।
विन्ध्यपर्वतशोभाढ्यं विद्यते तापसाश्रितम् ॥१८॥ रक्तधर्माभिधः कश्चिन्निषादस्तत्र चाययौ ।
भरणायात्मवर्गस्य वन्यकन्दफलादिभिः ॥१९॥ प्रातः स रेवासलिलं शिवाय वै समाहरत् ।
अज्ञानभक्तिगर्भस्तु स्नापयित्वा फलं ददौ ॥1.558.२०॥ अथोत्तरायणे प्राप्ते पुपूज कुसुमैः सदा ।
बिल्वादि चार्पयामास शङ्कराय स भावतः ॥२१ ॥ निषादः स ददर्शैकस्मिन् दिने शङ्करं गृहे ।
तृतीयमीक्षणं तत्र मूर्तेर्नैव स पश्यति ॥२२॥ तदा तु चिन्तयामास केनाऽप्यपहृतं हि तत् ।
विचार्य वामनेत्रं स्वं तीक्ष्णबाणेन तत्क्षणम् ॥२३॥ ललाटे देवदेवस्य समुत्कृत्य न्यवेदयत् ।
न कम्पो न च कार्पण्यं न विषादो न देवनम् ॥२४॥ तेन तुष्टो महादेवो निषादं प्राह संहसन् ।
वरं वृणु महाभक्त यदिष्टं मनसेप्सितम् ॥२५॥ निषादो वचनं श्रुत्वा साष्टाङ्गं प्रणिपत्य च ।
वरं वव्रे निषादास्तु सर्वे पक्षिगणैः सह ॥२६॥ सपुत्रदारपशवो ये चान्ये पापदेहिनः ।
त्वत्प्रसादाद्वरदानान्मुक्तिलोकं प्रयान्तु ते ॥२७॥ एवं वरं वृणे योग्यं भूतानां मोक्षकाम्यया ।
शम्भुः श्रुत्वा प्रसन्नः सन्नुवाचाऽस्तु तथा वरः ॥२८॥ सर्वसङ्कल्पकामाप्तिं मत्प्रसादात् त्वमाप्स्यसि ।
सर्वे मुक्तिं प्रयास्यन्ति यथा सङ्कल्पितं त्वया ॥२९॥ इत्युक्त्वा स महादेवस्तत्रैवाऽन्तरधीयत ।
ततः काले विमानस्थो निषादोऽनुचरादिभिः ॥1.558.३०॥ धृतस्वर्णातपत्रस्तु वीज्यमानोऽप्सरोगणैः ।
दिव्याभरणवस्त्राढ्यो दिव्यचन्दनपूजितः ॥३ १ ॥ पशुपक्षिगणैः साकं ययौ मुक्तिपदं यतः ।
तदिदं कथितं हैमि! शिवनेत्रह्रदात्मकम् ॥३२॥ तीर्थं वै पावनं सर्वस्मृद्धिदं मुक्तिदं तथा ।
अथाऽन्यत्परमं तीर्थं नार्मदे चोत्तरे तटे ॥३३॥ विद्यते क्रतवो यत्र तीर्थयात्रागतेन च ।
जनकेन कृतास्तत्र दक्षिणातोषिता द्विजाः ॥३४॥ धर्मराजस्तथा चाऽन्ये दिशां पालाः समाययुः ।
धर्मराजो जनकं सम्प्राहार्घादि ददन् नृपम् ॥३५॥ तपसा ध्यानयोगेन दानदेवार्चनैरपि ।
शिवरेवाप्रसादेन जिता लोकास्त्वयाऽखिलाः ॥३६॥ जनको धर्मराजं च पप्रच्छ विनयेन वै ।
के देशाः पर्वताः पुण्याः का नद्यश्चाश्रमाश्च के ॥३७॥ कानि तीर्थानि लोकेऽस्मिन् यत्र दत्तं हुतं तपः ।
न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः ॥३८॥ धर्मः प्राह शृणु राजन् शङ्करस्य मुखाच्छ्रुतम् ।
कल्माषपादो राजाऽऽसीन्माथुरे मण्डले पुरा ॥३९॥ नाभागाख्यश्च राजाऽऽसीत् साकेतमण्डले पुरा ।
नाभागस्य विमानं तु व्योम्नि चोपरि गच्छति ॥1.558.४०॥ कल्माषपादयानं तु भूतले याति नाऽम्बरे ।
इति हेतोः शिवं नत्वा कल्माषपादभूपतिः ॥४१ ॥ पप्रच्छ शृण्वतां सर्वगणानां संशयं स्वकम् ।
पुष्करे दशयज्ञाश्च विधत्ताश्च मया हर! ॥४२॥ गङ्गायां नैमिषारण्ये प्रभासे शशिभूषणे ।
प्रयागराजे काश्यां च प्रत्येके शतकं तथा ॥४३॥ इष्टं साग्रं क्रतूनां तु मया तत्र महेश्वर ।
अधो याति विमानं मे नाभागस्याऽम्बरोपरि ॥४४॥ कथमेवं न्यूनता मे पुण्येऽहं येन निम्नगः ।
शम्भुः प्राह तदा तं वै कल्माषपादभूपतिम् ॥४५॥ लक्षमेधं नामतीर्थं रेवाया उत्तरे तटे ।
शङ्करो लक्षमेधेशो राजते तत्र नित्यशः ॥४६॥ चकार तत्र नाभागो यज्ञमेकं सुवैष्णवम् ।
तेन पुण्येन यानं वै नाभागस्याऽम्बरे स्थितम् ॥४७॥ त्वया रेवातटे नैव यज्ञः कृतो महाफलः ।
तेन निम्नप्रदेशे ते विमानं याति नाऽम्बरे ॥४८॥ नर्मदायाः परं तीर्थं ततो नैव हि विद्यते ।
इति श्रुत्वा च कल्माषचरणो नृपतिस्ततः ॥४९॥ प्रययौ नर्मदातीरं दशयज्ञान् चकार ह ।
वैष्णवं चाथ रौद्रं च वाजिमेधं च वै क्रतुम् ॥1.558.५०॥ कारीरिं वाजपेयं च विश्वजितं महाक्रतुम् ।
पुण्डरीकं नरमेधं गोमेधं वैश्वदैवतम् ॥५१ ॥ एवं यज्ञाँश्चकाराऽयं ज्ञानयज्ञं तथा पुनः ।
लक्ष्मीनारायणसंहितायज्ञं प्रचकार सः ॥५२॥ ततो यानं स्वयं व्योम्नि समुत्थाय समूर्ध्वगम् ।
यथाकामं सत्यलोकं वैकुण्ठं च ययौ ततः ॥५३॥ नाभागस्य विमानाद्वै ह्युपर्युपरि याति तत् ।
एवं कल्माषपादो वै कृत्वा ब्रह्मसमर्पणम् ॥५४॥ जीवद्देहेन वैकुण्ठं गन्तुं योग्योऽभवत्ततः ।
यस्य क्रतौ स्वयं विष्णुर्लक्ष्म्या साकमुपस्थितः ॥५५॥ विष्णुना चार्पिता माला दिव्या कण्ठेऽस्य भूभृतः ।
तेन योगेन वैकुण्ठं यात्यायाति क्वचित् क्वचित् ॥५६॥ एवं राजा समर्थोऽभूत् श्रीविष्णोः सम्प्रसादतः ।
तत्तीर्थं जानकं चान्यत् काल्माषपादिकं तथा ॥५७॥ विद्यते नर्मदाकूले पावनं मोक्षदं परम् ।
अथाऽन्यद् विद्यते रम्यं सप्तसारस्वतं शुभम् ॥५८॥ सप्तसारस्वतो नाम गन्धर्वः शिवकिङ्करः ।
कैलासे गायनं कृत्वा प्रययौ रैवताचलम् ॥५९॥ विनाऽऽज्ञां शङ्करस्याऽथ त्वाययौ सुचिरेण सः ।
नन्दी शशाप तं कोपाद् व्रज चाण्डालतां क्षितौ ॥1.558.६०॥ नर्मदायां व्यतिपाते स्नात्वा यास्यसि मोक्षताम् ।
इत्येवं स तु गान्धर्वश्चाण्डालयोनितां गतः ॥६१॥ जातिस्मरोऽभवत् पृथ्व्यां बभ्राम नार्मदे तटे ।
स्नात्वा रेवाजले शम्भुं पूजयित्वा विधानतः ॥६२॥ चाण्डालयोनिसम्मुक्तो गान्धर्वतां ययौ पुनः ।
सप्तसारस्वतं तीर्थं मोक्षदं तत्प्रकीर्तितम् ॥६३॥ नर्मदादक्षिणे तीरे त्वशोकवनिकासु च ।
अशोकजननाख्यं सत्तीर्थं त्वपरमुत्तमम् ॥६४॥ अघमर्षऋषेस्तत्राश्रमो ब्राह्मणशोभितः ।
ऋषयो यत्र ब्रह्मिष्ठा विचिन्वन्ति प्रमोक्षणम् ॥६५॥ अघमर्षाश्रमं धर्मो वैश्यरूपेण चाऽऽगमत् ।
जिज्ञासार्थं कीदृशा वै ऋषयोऽत्र वसन्ति नु ॥६६॥ स वैश्योऽत्र तपश्चक्रे ब्राह्मणातिशयं ततः ।
ब्राह्मणेभ्यः स प्रददौ मृगचर्माणि सर्वशः ॥६७॥ कौपीनानि तथा भिक्षां ततो नाशिकमाययौ ।
वर्षमेकं व्यतीतं च वैश्यस्य तापसैः सह ॥६८॥ न भोगो न च कार्पण्यं न मानो न च मत्सरः ।
न दोषा द्वेषरागाद्या जितं सर्वं विशा ततः ॥६९॥ सप्तसारस्वतं तीर्थं नार्मदं त्वागमद्धि सः ।
स्नात्वा पुपूज विष्णुं श्रीकृष्णनारायणं हरिम् ॥1.558.७०॥ तथा शम्भुं बाणरूपं पूजयामास सादरम् ।
हरिः प्रत्यक्षतां प्राप्य प्राह त्वं वृष एव यः ॥७१ ॥ तथापि सिद्धतां प्राप्तस्तपसा च विशेषतः ।
इदं विमानमारुह्य दिव्यभोगसुखं कुरु ॥७२॥ पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज ।
धर्मः प्राह तदा विष्णो! ऋषयो नर्मदातटे ॥७३॥ अत्र दशसहस्राणि विद्यन्ते ये तपोधनाः ।
ते सर्वे मम तपसा विष्णुलोकं प्रयान्तु वै ॥७४॥ इमं वरमहं मन्ये श्रीहरेरेव नान्यतः ।
श्रुत्वैवं ऋषयः सर्वे साऽभिमानाऽहमान्विताः ॥७५॥ तिरश्चक्रुर्हि तं वैश्यं प्रोचुश्चापि परस्परम् ।
महतां भूसुराणां वै वैश्यः करोति लाघवम् ॥७६॥ वैश्यस्य तपसा विप्रा याता वैकुण्ठमित्यपि ।
लोके दर्शयितुं सोऽयं वरं वृणोति शाठ्यतः ॥७७॥ वैश्यस्य श्रेष्ठतां लोके ज्ञापयन् स वृणोति हि ।
न वयं तपसा तस्य गच्छामो वै दिवं प्रति ॥७८॥ ब्राह्मणस्याऽवमानेन वैश्योऽयं व तरिष्यति ।
इत्युक्त्वा ऋषयस्तं च वैश्यं प्राह प्रयाहि भोः ॥७९॥ वैश्यधर्मं गृहाणापि कृषिं कुरु गृहे स्थितः ।
न योग्यस्त्वं तपः कर्तुं जात्यभिमानवानसि ॥1.558.८०॥ गच्छ गच्छ गृहं मा चाऽऽयाहि त्वं वै द्विजान्तिकम् ।
इत्युक्तः स द्विजान् दृष्ट्वा साभिमानक्रुधान्वितान् ॥८१ ॥ विमुक्तनामकं विप्रं प्रजगाद स कर्षुकः ।
ब्राह्मणानां परो धर्मः क्रोधाभावः प्रशान्तता ॥८२॥ अहम्ममताराहित्यं तद्वान् यः स च भूसुरः ।
क्रोधाहम्ममतायुक्तो ब्राह्मणो नैव विद्यते ॥८३॥ तादृशस्य तपः सर्वं श्राद्धं वाऽपि च निष्फलम् ।
दैवतैरपि दुर्ज्ञेयो गहनो जातिनिर्णयः ॥८४॥ ब्रह्मकर्मसमाचारं वैश्यं ब्राह्मणमुच्यते ।
व्रह्मकर्मविहीनं च विप्रं वैश्यं समुच्यते ॥८५॥ निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम् ।
द्विजं विवादशूरं च दूरतः परिवर्जयेत् ॥८६॥ इत्युक्त्वा वैश्यवर्यः स विरराम क्षणं ततः ।
विप्राः पप्रच्छुरेनं त्वं कोऽसि वैश्यस्वरूपधृक् ॥८७॥ वैश्यः प्राह च धर्मोऽस्मि परीक्षार्थं समागतः ।
कीदृशा ब्राह्मणा यूयं नर्मदातटवासिनः ॥८८॥ अहम्ममते विसृज्य तपः कुरुत चोत्तमम् ।
रोषं तु सर्वथा त्यक्त्वा भजध्वं परमेश्वरम् ॥८९॥ एवं व्रह्मव्रतेनाऽत्र यूयं मुक्तिं गमिष्यथ ।
अथ ते शमयामासुर्धर्माद् दोषान्निजाँस्ततः ॥1.558.९०॥ धर्मं प्रपूजयामासुर्निर्दोषाः ऋषयोऽभवन् ।
अथ दिव्यविमानानि त्वागतानि वृषान्तिके ॥९१ ॥ वृषाज्ञया हि ते सर्वे समारुह्याऽघमर्षणः ।
अपि धर्मेण सार्धं च विष्णुना रमया सह ॥९२॥ सप्तसारस्वतं नत्वा ययुर्वैकुण्ठमेव च ।
श्रवणात्पठनाच्चापि भुक्तिमुक्तिप्रदं हि तत् ॥९३॥ इत्युक्त्वा शङ्करो देव्यै विरराम च पद्मजे! ।
मया तुभ्यं परं तीर्थं सप्तसारस्वतात्मकम् ॥९४॥ कथितं मुक्तिदं मोक्षप्रदं स्नातुर्विशेषतः ।
अनेकयज्ञफलदं पुत्रदारधनप्रदम् ॥९५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मत्स्यातापी सङ्गम-कलहंसेश बृहतीनर्मदासङ्गमशिवनेत्रहृद-लक्षमेधःसप्तसारस्वतादितीर्थानि सेतिहासचमत्कारभूतानि निरूपितानीतिनामाऽष्टपञ्चाशदधिकपञ्चशततमोऽध्यायः ॥५५८ ॥