५५३

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततोऽगस्त्यं स्तुतिं नारायणस्य वै ।
शम्भुश्चकार च यथा प्राह चापि वदामि ते ॥१ ॥ ओं नमोऽक्षरवासाय परधाम्नि विराजते ।
परेशाय किशाराय मुक्तेशाय नमोऽस्तु ते ॥२ ॥ शुद्धाय मूलरूपायाऽनन्ताय ते नमो नमः ।
सर्वरूपस्वरूपाय सहस्रबाहवे नमः ॥३ ॥ सहस्ररश्मियुक्ताय वेधसे शुद्धकर्मणे ।
विशालदेहवासाय विश्वार्त्तिहारिणे नमः ॥४ ॥ सहस्रार्कस्वरूपाय शम्भवे तै नमो नमः ।
समस्तविद्यावासाय चक्रिणे ते नमो नमः ॥५ ॥ सदा समस्तगीर्वाणैर्नुते कृष्णाय ते नमः ।
अनादिने भूपतयेऽच्युताय शेषवासिने ॥६ ॥ मरुतां पतये सर्वपतये ते सदा नमः ।
जलेशाय क्षितीशाय विश्वनेत्राय ते नमः ॥७ ॥ शशाङ्काय च सूर्याय विश्वेश्वराय ते नमः ।
अप्रतर्क्यस्वरूपायाऽमृतरूपाय ते नमः ॥८ ॥ दिगन्तरप्रकाशाय हृदम्बराय ते नमः ।
नारायणाऽयनायेति विश्वतोमुखिने नमः ॥९ ॥ देवाऽऽर्तिहारिणेऽसङ्ख्यवक्त्राय विष्णवे नमः ।
पुराणाय महेशाय जगत्प्रसूयते नमः ॥1.553.१० ॥ कोटिदेहिषु कैश्चित् त्वं सन्मार्गिभिरुपास्यसे ।
एको भवान् प्रकृतेश्च परादक्षरतः परः ॥११ ॥ विदामग्रेसरः सर्वविज्ञो विशालमूर्तिकः ।
सूक्ष्मरूपो गुणा यत्र प्राकृता न वसन्ति हिं ॥१२ ॥ वाचा न विषयो यश्च भक्तवाग्विषयोऽस्ति सः ।
न च कर्माऽभिभूतो यः करोति सततं सृजिम् ॥१३ ॥ अनिन्द्रियोऽपि चेन्द्राद्यैरुपास्यश्चेन्द्रियादिमान् ।
असारेऽपि च संसारे साररूपोऽस्ति वै भवान्॥१४॥ यजद्भिरवसीयेताऽतादृशोऽपि चतुर्भुजः ।
परं रूपं न जानीमो जानीमो दृष्टिगोचरम् ॥१५ ॥ अवतारतनुं विद्मस्तद्द्वाराऽऽश्रयमाप्नुमः ।
अब्जयोनिस्तव वर्ष्म नैव वेद न चाप्यहम् ॥१६ ॥ वेद्मि विशुद्धतपसा पुराणं कविमीश्वरम् ।
अहं पद्मासनाद्याश्च प्रसूताश्चाऽसकृद् विभोः ॥१७॥ बालेनैव मया चान्यैः सम्बुद्ध्यसे न कीदृशः ।
नत्या तुष्टिं प्रगच्छामः स्तुत्या तृप्ताश्च वैदिकाः ॥१८ ॥जन्मान्तरविवेकोत्थत्वत्प्रसादान्मतिर्यदि ।
लब्धलाभा भवेत्तेन शिवं स्याद् ब्रह्मपारगम् ॥१९ ॥ सूक्ष्मः स्थूलो भवँश्चाऽद्य मम नेत्रस्य भूरभूः ।
दृष्टोऽसि कृतकृत्योऽहं सुलभो मेऽद्य भाग्यतः ॥1.553.२० ॥ नतोऽस्मि दण्डवत् विष्णोऽर्पितोऽस्मि पादयोस्तव ।
स्तुतिं जुषस्व भक्तस्य जनार्दन! विशेषतः ॥२ १ ॥ सृष्टिं सृजस्व वै ब्रह्मा निदेशमकरोन्मम ।
देहि तद्विज्ञतां सार्वभौमीं सृजामि सेवया ॥२२ ॥ हृदिस्थोऽसि नमस्तेऽस्तु बहिःष्ठोऽस्मि नमामि ते ।
सर्वगस्य न चात्राऽस्ति व्यवस्था मत्पृथक् तव ॥२३ ॥ इति प्रकाशं स्तवनं बुद्ध्वाऽऽन्तरं च वाचिकम् ।
भीतं पुनीहि भगवन् तवाऽस्मीति विभावय ॥२४॥ एवं स्तुतो हरिर्देवो रुद्रेणामिततेजसा ।
उवाच विष्णुः सन्तुष्टो वरं वरय चेप्सितम् ॥२५ ॥ रुद्रः प्राह सदा सृष्टेर्ज्ञानं देहि जनार्दन ।
रक्षणं सर्वथा तत्र कुरु मे संहृतेः परम् ॥२६॥ देवकार्यावतारेषु मानुषत्वमुपागतम् ।
त्वामेवाराधयिष्यामि त्वं सदा मेऽवनं कुरु ॥२७॥ श्रुत्वा श्रीभगवान् प्राह रुद्र ज्ञानी सदा भव ।
सृष्टिविज्ञानमूर्ध्वं च सदा तेऽस्तु पुरातनम् ॥२८।
सर्वलोकेषु पूज्यत्वं भव मत्तोऽप्यतीव वै ।
इत्युक्त्वा श्रीहरिः कृष्णोऽन्तर्धानं प्रजगाम ह ॥२९ ॥ अहं भजामि तं देवं नारायणं परात्परम् ।
एवमेष हरिर्देवः सर्वगः सर्वभावनः ॥1.553.३० ॥ वरदोऽभूत् पुरा मह्यं तेनाऽहं दैवतैर्वरः ।
नारायणात्परो देवो न भूतो न भविष्यति ॥३१ ॥ एतद्रहस्यं वेदानां पुराणानां च सत्तम ।
मया ते कथितं सर्वं यया सर्वमयो विभुः ॥३ २॥ इत्येवं शङ्करः प्राहाऽगस्त्यं वै मुनिपुङ्गवम् ।
अगस्त्यश्च परं ज्ञानं श्रुत्वा नैजाश्रमं ययौ ॥३३ ॥ अथ शम्भुः पार्वतीं च प्राहाऽऽकर्णय भामिनि ॥ नमुचिं दैत्यवर्यं मे भद्रकर्णो गणो महान् ॥३४॥ हतवानत्र तत्स्थाने भद्रकर्णह्रदात्मकम् ।
तीर्थे मे विद्यते रम्यमर्बुदाद्रौ सुखप्रदम् ॥३५॥ तथा केदारकुण्डाख्यं परं तीर्थं सुमुक्तिदम् ।
अजपालो महाराजो वैदेहनगरेऽभवत् ॥३६॥ पूर्वजन्मनि शूद्रोऽसौ कमलेन च शङ्करम् ।
येन पीत्
एकदा पूजयामास तेन पुण्येन भूपतिः ॥३७॥ जातो वैदेहनगरे जातिस्मरः स्मरन् जनुम् ।
केदारतीर्थं कृतवान् समागत्याऽर्बुदाचले ॥३८॥ ब्रह्मा सर्वाणि तीर्थानि नीत्वाऽर्बुदं समाययौ ।
तदा केदारतीर्थं तु रूपान्तरेण चागतम् ॥३ ९॥ हिमाचले प्रभासे चार्बुदे केदारकं त्रिधा ।
ऋषिर्मङ्कणको नाम सरस्वत्यास्तटे स्थितः ॥1.553.४०॥ तपस्तेपे सुधर्मात्मा रक्तं नास्ति हि वर्ष्मणि ।
सिद्धोऽहमिति विज्ञाय ततो नृत्यं चकार सः ॥४१ ॥ तस्यैवं नृत्यतस्तत्र ननृतुस्तस्य नर्तनात् ।
पृथिव्यादीनि तत्त्वानि सर्वे स्थावरजङ्गमाः ॥४२॥ ततो देवा हरं प्राहुर्नर्तनस्याऽवरोधनम् ।
शीघ्रं कुरु महादेवाऽन्यथा भूतक्षयो भवेत् ॥४३ ॥ शम्भुस्तत्र समागम्याऽब्रवीत् किं नृत्यसे कथम् ।
मङ्कणकस्तदा प्राह पश्य विप्र कलेवरे ॥४४॥ तपसा मे पित्तरक्ते नष्टे हृष्यामि हर्षतः ।
एवमुक्तो महादेवः प्रोवाच पश्य मङ्कण! ॥४५ ॥ अङ्गुष्ठं ताडयाम्यत्र तर्जन्या पश्य मे तपः ।
इत्युक्त्वा ताडितोंऽगुष्ठो निष्क्रान्तं भस्म पाण्डुरम् ॥४६ ॥ तद् दृष्ट्वा विस्मितो विप्रो गर्वहीनो बभूव ह ।
जानुभ्यामवनिं गत्वा तुष्टाव तापसं हरम् ॥४७॥ मामुद्धर महादेव रूपं दर्शय शाश्वतम् ।
अत्र गङ्गासरस्वत्योः सङ्गमस्तीर्थमुत्तमम् ॥४८ ॥ मङ्कणकमहातीर्थं स्थातं स्यान्नित्यमेव ह ।
अत्र स्नातुः फलं स्वर्गं मोक्षश्चान्ते भवेदिति ॥४९ ॥ शम्भुः प्राह तथास्त्वत्र तीर्थं त्वन्नामतोऽस्तु वै ।
इत्युक्त्वाऽहं ततश्चाऽत्रान्तर्धानं प्रगतोऽभवम् ॥1.553.५ ० ॥ अथाऽन्यत्तीर्थवर्यं वै कोटीश्वरं तु विद्यते ।
यत्र हरेण बहुधा रूपाण्येकक्षणे पुरा ॥५ १ ॥ यात्रालुब्राह्मणानां तु दर्शनदानहेतवे ।
धृतानि तन्महत् तीर्थं पापतापप्रणाशनम् ॥५२॥ अर्बुदे रूपतीर्थं च वर्तते पावनं परम् ।
पुराऽऽसीत् काचिदाभीरी विरूपा विकृतानना ॥५३ ॥ एकदा फलमानेतुमागता गिरिनिर्झरे ।
जलेऽपसृत्य पतिता बभूव दिव्यरूपिणी ॥५४॥ पद्मनेत्रा सुकेशान्ता युवती षोडशाब्दिकी ।
तां विलोक्य तदा देवा मानवा विस्मयं ययुः ॥५५॥ कदाचित् तद्वने त्विन्द्रः पुष्करे प्रसमागतः ।
दृष्ट्वा द्युवासिनीतुल्यां दिव्यां देवीमनुपमाम् ॥५६॥ देवोऽपि मानुषो भूत्वा तां पप्रच्छ कुलादि किम्? ।
स्वस्येन्द्रत्वं जगादैनां सापि प्राह सुरेश्वरम् ॥५७॥ मां नय त्वं सहस्राक्ष! सुराऽऽवासं सहाऽऽत्मना ।
इन्द्रस्तां स्वविमानेन नीतवानमरावतीम् ॥५८॥ नाम्ना वपुरिति ख्यातां तां चकार शुभाप्सराम् ।
एवं प्रभाववत्तीर्थं वपुतीर्थं हि विद्यते ॥५९॥ तत्र पूर्वे बिलं चास्ते चास्ते तिलकपादपः ।
विवरान्निर्गतं वारि तिलकस्पृष्टमेव तत् ॥1.553.६ ० ॥ पिबेद् वन्ध्या भवेत् पुत्रवती रोगश्च नश्यति ।
रूपतीर्थे तपस्तप्तं पुराऽदित्या चिरं परम् ॥६१ ॥ इन्द्रे राज्यपरिभ्रष्टे बलौ राज्येश्वरे स्थिते ।
तस्यां वै तपसा जातो विष्णुर्हृस्वोऽसुरान्तकृत् ॥६२॥ एवं तस्यास्तपःस्थानं रूपतीर्थमुदाहृतम् ।
अथाऽम्बरीषतीर्थं च विद्यते त्वर्बुदाचले ॥६३॥ बहुवर्षसहस्राणि तपस्तेपेऽम्बरीषकः ।
नारायणश्चेन्द्ररूपं गृहीत्वा गरुडे गजे ॥६४॥ स्थित्वा समाययौ प्राह वरं गृहाण भूपते ।
राजा प्राह विना विष्णुं त्वत्तो वरं न काङ्क्षये ॥६५॥ मुक्तिं दातुं न शक्तोऽसि व्रज स्वर्गं यथागतम् ।
इत्युक्त्वा त्वान्तरे दध्यौ नारायणं परेश्वरम् ॥६६॥ तावदिन्द्रोऽभवद् विष्णुर्गजोऽपि गरुडात्मकः ।
प्राह तुष्टोऽस्मि ते भक्त्या वदेप्सितं वरं नृप! ॥६७॥ राजा प्रोन्मील्य नेत्रे तु यावत्पश्यति वै पुनः ।
नारायणं प्रसंवीक्ष्य हर्षं चाप जगाद् च ॥६८ ॥ संसारतारणोपाय वद् मे परमेश्वर ।
हरिः प्राह त्वया राजन् प्रातर्निद्रां विहाय च ॥६ ९॥ कर्तव्यं मम कैशोरे रूपे ध्यानं पुनः पुनः ।
ततः स्मरणं रटनं नाम्नां प्रकीर्तनं तया ॥1.553.७० ॥ कर्तव्यं स्नानकार्यादौ मन्मूर्तिं स्मरता त्वया ।
मम पूजा प्रकर्तव्या हृद्ये प्रतिमादिषु ॥७१ ॥ स्नानं चन्दनपुष्पादि वस्त्राभूषणमित्यपि ।
भोजनं जलपानादि नीराजनं स्तवादिकम् ॥७२॥ पुष्पाञ्जल्यर्पणं चापि देयं मह्यं विसर्जनम् ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥७३ ॥ होतव्यं वैश्वदेवादि सतामास्ये हुताशने ।
मिष्टं स्वेष्टं त्वया देयं गोपूजादिकमित्यपि ॥७४॥ भजनं मे सदा कार्यं कृष्णनारायणेति च ।
सर्वं कृष्णार्पणं कार्यं सुतदारधनादिकम् ॥७९॥ आत्मा समर्पणीयश्च प्रेम्णा तन्मुक्तिसाधनम् ।
शृणु नित्यं कथां मेऽत्र स्पृश मां पुरुषोत्तमम् ॥७६ ॥ पश्य मे प्रतिमां दिव्यां खाद् रसान् प्रसादजान् ।
गन्धं गृहाण मूर्तेर्मे कराभ्यां मम मर्दनम् ॥७७ ॥ पद्भ्यां प्रदक्षिणं मां च वाचा मे कीर्तनं कुरु ।
आनन्दं मम मूर्तेश्च गृहाण नृप सर्वथा ॥७८॥ विरुद्धं सर्वदा यन्मे वायुमिश्रं परित्यज ।
प्राणे धारय मां नित्यं मनने मे विधेहि यत् ॥७९॥ चिन्तनं निर्णयं चापि सन्मानं मे सदा कुरु ।
ब्रह्मानन्दं ब्रह्मरसं सर्वं काण्डमयं कुरु ॥1.553.८० ॥ यत्र यत्र भवानास्ते सम्भूय त्वेकलोऽपि वा ।
तत्र तत्राऽस्मि सुस्थोऽहं मां विलोकय सर्वथा ॥८ १ ॥ सर्वत्र सौम्यभावं त्वं कुरु राजन् मयि स्थिते ।
मुक्तेः सुसाधनं त्वेतत्परमं ते मयोदितम् ॥८२॥ इत्युक्तो नृपस्तिस्तेन विष्णुना प्रभविष्णुना ।
ततश्चकार नृपतिः स्वस्थितिं तन्मयीं पराम् ॥८३॥ स नित्यं पूजयामास गन्धमाल्यानुलेपनैः ।
ततः कालेन महता स राजा हरिमन्दिरे ॥०४॥ अवर्तत सुपूजायां सपुत्रदारबान्धवः ।
सर्वदा भगवाँस्तत्राश्रमे सन्निहितोऽस्ति वै ॥८५॥ एवं प्राप्य परां भक्तिं ययावक्षरधाम सः ।
तादृशं परमं तीर्थं चाम्बरीषतपःस्थलम् ॥८६ ॥ वर्तते चार्बुदे रम्यं मोक्षदं पापहारकम् ।
यस्तु सम्पूजयेद् भक्त्या हृषीकेशं तथाऽर्बुदे ॥८७॥ स याति विष्णुसालोक्यं प्रसादाच्छ्रीहरेः प्रिये! ।
अम्बरीषेण यत्राऽयं समाराधित ईश्वरः ॥८८॥ हृषीकेशस्वरूपेण नारायणो विराजते ।
एकादश्यां हृषीकेशसन्निधौ जागरं चरेत् ॥८९ ॥ दर्शनं तस्य कुर्याच्च कपिलाफलमाप्नुयात् ।
यस्तत्र चतुरो मासान् हृषीकेशं प्रपूजयेत् ॥1.553.९ ० ॥ परब्रह्म परन्धाम गच्छत्येव न संशयः ।
एकः सर्वाणि तीर्थानि करोति भुवनेषु वै ॥९१ ॥ पश्यत्यन्यो हृषीकेशं समं तस्य फलं मतम् ।
एको दानानि सर्वाणि सत्पात्रेभ्यः प्रयच्छति ॥९ २ ॥ पश्यत्यन्यो हृषीकेशं समं तस्य फलं मतम् ।
एकः कन्यासहस्रं तु दद्यात् तीर्थे विवाहतः ॥९३ ॥ पश्यत्यन्यो हृषोकेशं समं तस्य फलं मतम् ।
एको देहे हरिं पश्येत् पश्येदन्योऽबुदे हरिम् ॥९ ४॥ चातुर्मास्ये प्रभक्तः सन् फलं तस्याऽयुताऽयुतम् ।
धेनुदानसहस्रेण समं विष्णोर्हि दर्शनम् ॥९५ ॥ अग्निष्टोमादियज्ञैश्च समं विष्णोर्हि दर्शनम् ।
हिमालये त्यजेद् देहं ब्रह्मज्ञानं वदेत् सदा ॥९६ ॥ पश्यत्यन्यो हृषीकेशं समं तस्य फलं मतम् ।
प्रायोपवेशकृच्चैकोऽपरो विष्णुं हि पश्यति ॥९७॥ गयाश्राद्धं चरेदन्यश्चातुर्मास्ये समाहितः ।
चान्द्रायणेन वै तुल्यं हृषीकेशस्य दर्शनम् ॥९८॥ सहस्राब्दं तपःकर्ता मुक्तो भवति दर्शनात् ।
वेदाध्ययनतश्चापि हृषीकेशस्य दर्शनम् ॥९९॥ वर्धते पुण्यदं स्वर्गप्रदं मोक्षप्रदायकम् ।
बहुना किमिहोक्तेन शृणु सङ्क्षेपतः प्रिये! ॥1.553.१०० ॥ एकतो वर्तते सर्वमेकतो हरिदर्शनम् ।
तस्मात् सर्वप्रयत्नेन स्थातव्यं हरिसन्निधौ ॥१०१ ॥ एकतस्तु हृषीकेशस्त्वेकतः कर्णिकेश्वरः ।
तयोर्मध्ये मृता यान्ति वैकुण्ठे हरिसन्निधौ ॥१ ०२॥ पुष्पमेकं हृषीकेशे यस्त्वारोपयते हृदा ।
सर्वसौभाग्ययुक्तः स्यादिह लोके परत्र च ॥१०३ ॥ तस्य स्थाने मार्जनस्य फलं मुक्तिः प्रकीर्तिता ।
शुक्लपक्षेऽथवा कृष्णे ध्वजमारोपयेत्तु यः ॥१ ०४॥ तस्य पापानि नश्यन्ति याति धामाऽक्षरं हरेः ।
पञ्चामृतेन यः पूजां कारयेद् भोजयेद्धरिम् ॥१ ०५॥ भूदानं दापयेद् यद्वा मन्दिरं कारयेत् पुनः ।
शाश्वते समये धाम्नि सद्यो मुक्तिमवाप्नुयात् ॥१०६ ॥ इत्येवं शङ्करः प्राह पार्वतीं त्वर्बुदाचले ।
लक्ष्मि! मया तु ते प्रोक्तं माहात्म्यं तीर्थसम्भवम् ॥१ ०७॥ पठनाच्छ्रवणाच्चास्य भुक्तिं मुक्तिं लभेज्जनः ।
सकामो धनवान् पुत्रसम्पद्वान् जायते ध्रुवम् ॥१ ०८॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने- ऽर्बुदाचले शङ्करकृतनारायणस्तुतिः, भद्रकर्णहृदतीर्थं केदारकुण्डे मङ्कणकतीर्थं कोटीश्वरतीर्थं रूपतीर्थम् अम्बरीषतीर्थम् हृषीकेशतीर्थं च सोपाख्यानं निरूपितमितिनामा त्रिपञ्चाशदधिकपञ्चशततमोऽध्यायः ॥५५३॥