५३३

श्रीनारायण उवाच-
शृणु लक्ष्मि! च देवानां विवादेऽध्यात्मसञ्ज्ञितम् ।
ज्ञानं पूर्वे वराहः श्रीभगवानाह यद् भुवे ॥१ ॥ चिन्तामणिसमुत्पन्नः सुप्रभो नाम भूपतिः ।
प्रजापालोऽस्य नामापि द्वितीयं सार्थकं त्वभूत् ॥२ ॥ स त्वेकदा ययौ ऋष्याश्रमान् द्रष्टुं मुदा ऋषीन् ।
यत्र महातपा नाम ऋषिः कल्पायुरस्ति च ॥३ ॥ तपस्तपत्यनाहारो जपन् ब्रह्मसनातनम् ।
यत्र वृक्षास्तथा वल्ल्यःस्तम्बास्तृणानि पक्षिणः ॥४ ॥ पशवश्च मृगाः सरीसृपाः सन्ति मुमुक्षवः ।
रागद्वेषविहीनाश्च ऋषिवत्तपआस्थिताः ॥५ ॥ तान्पश्यन् स प्रजापालो महातपस आश्रमम् ।
प्रविवेश मुदा तं च ऋषिं दृष्ट्वा मुमोद च ॥६ ॥ ननाम परया भक्त्या चकार दण्डवन्मुदा ।
कुशासनस्थितस्यास्य ऋषेर्वै दर्शनात्तदा ॥७ ॥ मतिं मायामयीं तूर्णं विसस्मार जगन्मयीम् ।
मुनेः सान्निध्यतो राजा चकार धर्ममानसम् ॥८ ॥ आत्मज्ञानस्य जिज्ञासां मोक्षोपायागमं तथा ।
मुनिस्तं च नृपं दृष्ट्वा चकाराऽभ्यागतक्रियाम् ॥९ ॥ .आसनं स्वागतं पानं भोजनं कुशलं वचः ।
ततः पप्रच्छ तं शान्तं मुनिं विनयवान् नृपः ॥1.533.१ ०॥ भगवन् दुःखसंसारमग्नैः पुम्भिर्जिगीषुभिः ।
यत्कार्यं तन्ममाशंस प्रणतस्य सुखावहम् ॥११ ॥ महातपास्तु तच्छ्रुत्वा प्राह राजन्निबोध मे ।
संसारार्णवमग्नैश्च पोतः स्थिरो ध्रुवो दृढः ॥१२॥ कार्यः श्रीमत्कृष्णनारायणः श्रीपुरुषोत्तमः ।
पूजा दानानि यज्ञाश्च ध्यानं सर्वार्पणं तथा ॥१३॥ दास्यं चेमानि दिव्यानि सोपानानि मतानि वै ।
तेषां निःश्रेणिकां भक्तिं गृहीत्वाऽऽरोहणं कुरु ॥१४॥ पारावारस्यापि पारं गमिष्यसि न संशयः ।
नृपः प्राह कथं पूजा कर्तव्या तस्य वै हरेः ॥१५॥ ऋषिः प्राह हरेः पूजा कार्या यथा वदामि ते ।
धात्वादीना प्रतिमायां शालग्रामे शिवेऽथवा ॥१६॥ साधुजनेषु साध्वीषु गौःषु गुरौ जनार्दनम् ।
भावयेत् स्वामिनि पित्राः पतिव्रतायां भास्करे ॥१७॥ वह्नौ विप्रे कन्यकायां बालेऽनाथे निराश्रिते ।
चैत्यवृक्षे तुलस्या च भावयेत् पुरुषोत्तमम् ॥१८॥ मानसं हृदये ध्यायेदिन्द्रियादौ च वर्ष्मणि ।
देवषु चात्मान ध्यायेत् पूजयेच्छ्रीपतिं तथा ॥१ ९॥ पुरुषाणां तथा स्त्रीणां तथा कृष्णः प्रसीदति ।
इमे सर्वे समुत्पन्ना हरेरेव हरस्तनुः ॥1.533.२०॥ अग्निस्तथाऽश्विनौ गौरी गणेशश्च भुजङ्गमः ।
कार्तिकेयस्तथाऽऽदित्या मातरश्चापि दुर्गिकाः ॥२१ ॥ दिशः कुबेरो विष्णुश्च यमो रुद्रः शशा तथा ।
पितरश्चेति सम्भूता नारायणस्य मूर्तितः ॥२२॥ त एते पूजनीया वै नारायणसमन्विताः ।
मूर्तयस्ते भवन्त्येव नारायणसमुद्भवाः ॥२३॥ राजा प्राह मया कुत्र प्राप्तव्यास्ताः सुमूर्तयः ।
येनाऽहं पूजयाम्येव सूपचारैश्च गोचरान् ॥२४॥ ऋषिः प्राह शृणु राजन्! तेषां द्वेधा हि मूर्तयः ।
दिव्या देवस्वरूपाश्च प्रत्यक्षा न भवन्ति ताः ॥२५॥ आदित्यास्ते शरीरेऽत्र वसन्त्येव च गोचराः ।
त एते च भवन्त्येव सदा तत्त्वांशरूपिणः ॥२६॥ एकदा ते पृथक्पृथक् प्राप्ता गर्वं समन्ततः ।
अहं योग्योऽस्म्यहं श्रेष्ठश्चाऽहं याज्यः सदा तनौ ॥२७॥ नान्यो मत्सदृशश्चात्र देहे भवति कश्चन ।
एवं तेषां हि तत्त्वानां विवादः समजायत ॥२८॥ तेषां विवदमानानां निर्णयार्थं तु युक्तितः ।
हिरण्यगर्भो भगवान् प्रोवाच तान्प्रति प्रभुः ॥२९॥ युष्माकं यद्विना चेदं न स्यात्तद्वै महत्तमम् ।
एवमुक्ते प्रथमं तु वह्निरुत्थाय पार्थिव! ॥1.533.३० ॥ उवाचाऽहं महानस्मि मां यजध्वं ममाश्रये ।
विनाशमुपगच्छेद्वै शरीरं मद्विना कृतम् ॥३ १॥ एवमुक्त्वा जाठरोऽग्निर्वैश्वानरो विनिर्ययौ ।
त्यक्त्वा देहं वर्षमात्रमुवासाऽन्यत्र वै ततः ॥३२॥ निर्गतेऽपि तु तस्मिँस्तच्छरीरं नहि शीर्यते ।
तदा ज्ञातं वह्निना वै नाहं श्रेष्ठतमः पुनः ॥३३॥ ततोऽश्विनौ मूर्तिमन्तौ प्राणापानस्वरूपिणौ ।
आवां प्रधानावित्येवमूचतुर्देवमण्डले ॥३४॥ एवमुक्त्वा शरीरं संविहाय क्वचिदास्थितौ ।
वर्षमात्रं शरीरं तु तद्विनापि स्थितं यथा ॥३५॥ वायुव्यापारहीनं च सुस्थिरं कुम्भकेन वै ।
तयोर्ज्ञानं तदा जातं नाऽऽवां श्रेष्ठतमौ यतः ॥३६ ॥ ततो वागब्रवीद् गौरी प्राधान्यं मम वर्तते ।
साऽप्येवमुक्त्वा क्षेत्रात्तु निश्चक्राम बहिः शुभा ॥३७॥ तया विनापि तत्क्षेत्रं वागूनं व्यवतिष्ठत ।
मौनं तेन तया ज्ञातं नाहं श्रेष्ठतमा यतः ॥३८॥ ततो गणपतिर्वाक्यमाकाशाख्योऽब्रवीत्तदा ।
न मया रहितं किञ्चिच्छरीरं स्थायि वत्सरम् ॥३९॥ महानहं समुच्चार्य सोऽपि निष्क्रम्य देहतः ।
पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् ॥1.533.४०॥ विनाशाख्यमपि तेन विना नैव विशीर्यते ।
सुषिरैस्तु विहीनं तद् यथापूर्वं व्यवस्थितम् ॥४१ ॥ तेन व्योम्नोऽभवद् बोधो नाहं श्रेष्ठतमो यतः ।
अथ वै धातवः सर्वे स्थूलभूतादयोपि च ॥४२॥ प्राहुरस्मद्विहीनस्य शरीरस्य न धारणम् ।
वयं श्रेष्ठा इति चोक्त्वा जहुर्देहं शरीरजाः ॥४३॥ तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते ।
न च नष्टं किन्तु शुष्कं जातं सचेतनं ह्यपि ॥४४॥ तेन जातं हि धातूनां ज्ञानं श्रेष्ठा वयं नहि ।
तं दृष्ट्वा चाऽब्रवीत् स्कन्दः सोऽहङ्कारस्वरूपवान् ॥४५॥ मया विना शरीरस्य सम्भूतिरपि नेष्यते ।
तस्माच्छ्रेष्ठतमश्चाहं नान्योऽस्ति सदृशो मया ॥४६॥ एवमुक्त्वा शरीरात्तु स व्यपेतः पृथक्स्थितः ।
वत्सरं च विना तेन देहं मुक्तवदास्थितम् ॥४७॥ न शीर्णं न मृतं चापि शान्तं तिष्ठति पूर्ववत् ।
तेन तस्याऽभवज्ज्ञानं नाहं श्रेष्ठतमो यतः ॥४८॥ अथ चक्षुर्भानुरूपं कुपितं त्वरयाऽब्रवीत् ।
मया विना न वै क्षेत्रं क्षणं चापि प्रवर्तते ॥४९॥ एवमुक्त्वाऽथ यातं तत्, शरीरं तु न शीर्यते ।
आगत्य च यथापूर्वं स्थितं ददर्श वर्ष्म तत् ॥1.533.५०॥ तेन तस्याऽभवज्ज्ञानं नाहं श्रेष्ठतमं यतः ।
ततः कामादिदोषाणां तन्मात्राणि च मातरः ॥५१ ॥ शब्दाद्याश्च समूचुर्वै वयं श्रेष्ठतमा इति ।
नाऽस्माभिर्व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः ॥५२॥ उक्त्वा मात्रागणो वर्षं बहिर्ययौ ततः पुनः ।
शरीरं शीर्यते नैव पूर्ववदेव संस्थितम् ॥५३॥ मात्राणामभवज्ज्ञानं न नः श्रेष्ठ्यं ततः खलु ।
मूलमाया त्रिगुणात्मा दुर्गाऽब्रवीद् रुषा सती ॥५४॥ न मयाऽस्य विना भूतिस्तस्माच्छ्रेष्ठाऽस्मि सर्वतः ।
इत्युक्त्वाऽन्तर्दधे वर्षं पुनरेव समागता ॥५५॥ दृष्ट्वा देहं योगभावमापन्नं चेतनेन वै ।
यथापूर्वमभून्नैव शीर्णं नष्टं मृतं न वा ॥५६॥ चेतनस्य प्रतापेन तत्तथैव व्यवस्थितम् ।
ततस्तस्याः समभवज्ज्ञानं श्रेष्ठा न चाप्यहम् ॥५७॥ ततो दिशः समुत्तस्थुरूचुश्चेदं वचो महत् ।
नास्माभी रहितं कार्यं भवतीति विचार्य ताः ॥५८॥ श्रोत्रयुक्ता गता वर्षं शरीरं न हि शीर्यते ।
यथापूर्वमभूत्तत्तु कार्णश्रवणवर्जितम् ॥५९॥ तेन तासामभूज्ज्ञान वयं श्रेष्ठतमा न वै ।
अथ धनञ्जयो वायुर्धनेशः प्राह सर्वथा ॥1.533.६०॥ प्राणे यातेऽप्यहं स्थाता त्र्यहं शवेषु चान्ततः ।
मां विना न शरीरं स्याद् दुर्गन्धं नाशमाप्नुयात् ॥६१ ॥ ततः श्रेष्ठतमश्चास्मीत्युक्त्वा दूरगतोऽभवत् ।
तथापि चेतनयुक्तं यथावद्वै सुतिष्ठति ॥६२॥ तेन तस्याऽभवज्ज्ञानं नाहं श्रेष्ठतमः खलु ।
ततो विष्णुर्मनः प्राह नाऽयं देहो मया विना ॥६३॥ तस्माच्छ्रेष्ठतमं चाहमित्युक्त्वाऽन्तर्दधेऽपि च ।
अमननं शरीरं तु पूर्ववदेव संस्थितम् ॥६४॥ दृष्ट्वा तस्माऽभवज्ज्ञानं नाहं श्रेष्ठतमं यतः ।
ततो धर्मः कृतं कर्माब्रवीच्चाहं महत्तमम् ॥६५॥ अहं पालितवान् देहं तस्माच्छ्रेष्ठोऽस्मि सर्वथा ।
इदानीं मय्यपगते कथमेतद् भविष्यति ॥६६॥ एवमुक्त्वा गतौ धर्माधर्मौ कर्मात्मकावुभौ ।
तथापि चात्मना युक्तं शरीरं नहि शीर्यते ॥६७॥ आगत्य द्वौ निश्चयं हि चक्रतुर्न महत्तमौ ।
अथाऽब्रवीन्महादेवो महत्तत्त्वं महत्तमम् ॥६८॥ अहमेव महानस्मि मया हीनं न तिष्ठति ।
एवमुक्त्वा गतः शम्भुर्महत्तत्त्वं शरीरतः ॥६९॥ वर्षमात्रं तथाप्येतच्छरीरं शीर्यते न वै ।
ततस्तस्याऽभवज्ज्ञानं नाममात्रं महान् मम ॥1.533.७० ॥ वस्तुतो न महानस्मि मृषा मे श्रेष्ठता खलु ।
अथात्र पितरश्चोचुरिन्द्रियार्थाः महत्तमाः ॥७१ ॥ शब्दाद्याश्च वयं स्थूला अस्माभिर्देहजीवनम् ।
ततो वयं तु सर्वेभ्यो बलिष्ठाश्च महत्तमाः ॥७२॥ विनाऽस्माकं च वै शीघ्रं शरीरं सम्प्रशीर्यते ।
एवमुक्त्वा तु तद्देहं त्यक्त्वाऽन्तर्धानमागताः ॥७३॥ तथापि न शरीरं तद् विशीर्णं वै मनागपि ।
ततस्तेषामभूज्ज्ञानं वयं श्रेष्ठतमा न वै ॥७४॥ अथ भुजङ्गिका या तु वासना समुवाच सा ।
अहं श्रेष्ठतमा मां तु विना देहं न तिष्ठति ॥७५॥ सापि वर्षं गता दूरं पुनरेव समागता ।
दृष्ट्वा पूर्वं यथा वर्ष्म विवेद नोत्तमाऽप्यहम् ॥७६॥ अथ सर्वेऽपि सम्भूय देहं त्यक्त्वा बहिर्ययुः ।
अग्निः प्राणस्तथाऽपानो व्योम सर्वे च धातवः ॥७७॥ अहङ्कारो मनो भानुः कामाद्याश्च गणास्तथा ।
काष्ठा वायुर्विष्णुधर्मौ शम्भुश्चापीन्द्रियार्थकाः ॥७८॥ एतैर्मुक्तमपि क्षेत्रं मुक्ताविव सुसंस्थितम् ।
सोमेन चात्मना योगैश्वर्येणरक्षितं यतः ॥७९॥ पाल्यमानं न विशीर्णं तेन तेषां गणस्य च ।
गर्वो नष्टो न वै श्रेष्ठः समुदायोऽपि नः खलु ॥1.533.८०॥ अथ सोमस्य जीवस्य गर्वोऽभवन्महत्तमः ।
मया वै पाल्यते देहस्ततोऽहं सर्वथोत्तमः ॥८१ ॥ एवं वै निश्चिते सोमे षोडशात्मन्यथाऽक्षरे ।
त्वं महानिति जानीमः किन्तु तत्संशयास्पदम् ॥८२॥ यद्विना न शरीरं वै सन्तिष्ठेत हि तन्महत् ।
त्वं चाप्यत्र परीक्षां सङ्कुरु चात्मन् निजस्य हि ॥८३॥ विज्ञास्यामस्ततस्तेत्र श्रैष्ठ्यं दिव्यं हि नान्यथा ।
एवमुक्तो हि जीवात्मा निर्ययौ देहतस्तदा ॥८४॥ बभ्राम च बहिर्वर्षं सर्वानादाय चाम्बरे ।
नित्यं त्यक्तं शरीरं च पश्यत्येव बहिः स्थितः ॥८५॥ किन्तु नारायणस्तत्र तस्थौ श्रीपुरुषोत्तमः ।
जीवात्मनो गर्वनाशं कर्तुं कृष्णनरायणः ॥८६॥ शरीरं चेतयामास रक्षयामास सादरम् ।
स्वैश्वर्येण गुणैः स्वीयैर्विनाऽप्यात्मानमान्तरम् ॥८७॥ प्रागवस्थं शरीरं तु दृष्ट्वा सर्वज्ञपालितम् ।
ताभिश्च देवतत्त्वैश्च जीवात्मा पुनराययौ ॥८८॥ तेन स ज्ञातवान्नाऽहं श्रेष्ठोऽत्र सम्भवामि वै ।
अथ ता देवताः प्राहुर्वयं स्थास्याम एव हि ॥८९॥ गच्छ त्वमेकलश्चात्मन् जीवामो वा न वै वयम् ।
इत्युक्तो जीववर्माऽसौ तांस्त्यक्त्वा निर्ययौ बहिः ॥1.533.९०॥ जडतुल्योऽभवत्तत्र बहिर्नारायणं विना ।
अचेतन इव जातः सुषुप्त इव सर्वथा ॥९१॥ अतेजस्क इव जातोऽप्रकाश इव धूम्रकः ।
मृत इवाऽभवत्तत्र कृष्णनारायणं विना ॥९२॥ शरीरे तु स्थिता वह्न्यादयो हि जीवमन्तरा ।
अपि श्रीमत्कृष्णनारायणस्याऽन्वयतः खलु ॥९३॥ दिव्ययोगाद् दिव्यभावं ब्रह्मभावं समास्थिताः ।
परब्रह्मणो योगेन ब्रह्मभावं प्रपेदिरे ॥९४॥ जडा अपि च ते जाताश्चेतना मुक्तसदृशाः ।
श्रीहरेरन्यथाकर्तुं समर्थस्य प्रसङ्गतः ॥९५॥ ताः क्षेत्रदेवताः सर्वा वैलक्ष्यभावमास्थिताः ।
स्थूलं सूक्ष्मं कारणं च शरीरत्रयमित्यपि ॥९६॥ नारायणस्य योगेन नारायणात्मकं तदा ।
प्राप्तं नारायणरूपं दिव्यं ब्रह्मात्मकं यतः ॥९७॥ तदा जीवात्मनो गर्वो नष्टः सर्वस्तदाऽभवत् ।
तस्यापि चाऽभवज्ज्ञानं नाऽहं श्रेष्ठतमो यतः ॥९८॥ श्रेष्ठः पूज्यः सदा ध्येयः स्मर्तव्यः श्रीहरिं सदा ।
येन जातानि जीवन्ति वह्न्याद्याः सर्वदेवताः ॥९९॥ येनाऽऽश्रितोऽप्यहं जीवो जीवामि नान्यथा क्वचित् ।
तद्योगेन पथा दिव्यश्चात्मा भवामि सर्वथा ॥1.533.१ ००॥ तद्योगेन तथैतानि तत्त्वान्यपि च सर्वथा ।
दिव्यान्येव हि जातानि यानि पूर्वं जडान्यपि ॥१ ०१॥ मां विनाऽपि च दिव्या वै मुक्ताः स्युस्ते च धामसु ।
यदीच्छेन्मां विहायैव जडा दिव्या भवन्त्विति ॥१ ०२॥ सर्वं कर्तुं समर्थस्य विवृतिं को निवारयेत् ।
तस्मान्नारायणः कृष्णः सर्वश्रेष्ठतया मतः ॥१ ०३॥ ततो देवास्तुष्टुवुस्तं सर्वस्थं परमेश्वरम् ।
स्वस्वस्थाने स्थिताः प्राहुः कृष्णनारायणं मुहुः ॥१ ०४॥ त्वमग्निस्त्वं तथा प्राणस्त्वमपानो भवस्यपि ।
त्वं वाणी चाम्बरं त्वं च धातवस्त्वं शरीरगाः ॥१ ०५॥ अहम्भावस्त्वमेवाऽसि त्वमेवासि च नेत्रकम् ।
त्वं शब्दादीनि मात्राणि त्वं माया त्रिगुणात्मिका ॥१०६॥ त्वं श्रोत्रं वर्तसे धनञ्जयोऽपि त्वं मनस्तथा ।
त्वं धर्मस्त्वं महत्तत्त्वमिन्द्रियार्थास्त्वमेव च ॥१ ०७॥ त्वं च सद्वासनात्मा च जीवात्मा त्वं नरायणः ।
सर्वात्मा त्वं विना त्वां वै नैते सत्तामयः क्वचित् ॥१ ०८॥ सता त्वया वयं सन्तः सर्वेशस्त्वं परेश्वरः ।
स्वामी पतिः पोषकश्च जीवातुः रक्षकस्तथा ॥१ ०९॥ अस्माभिरपयातैस्तु कथमेतद् भविष्यति ।
एवमत्र शरीरं तु त्यक्तमस्माभिरेव तु ॥1.533.११० ॥ त्वया वै रक्षितं दिव्यं तत्स्थान्नस्त्वं प्रपालयेः ।
स्थानभङ्गो न नः कार्यस्तवाधीना वयं सदा ॥१११ ॥ एवं स्तुतस्ततो देवस्तेषां तोषं परं ययौ ।
उवाच चैतान् क्रीडार्थं भवन्तश्च कृता मया ॥१ १२॥ भवद्द्वारा प्रक्रीडामि नान्यदस्ति प्रयोजनम् ।
वरं वृणुत देवा वै तुष्टोऽस्मि च ददामि च ॥११३ ॥ तदा देवा वव्रिरे वै द्वेधा स्वरक्षणं सदा ।
शरीरेषु यथावस्थं दिव्यभावेन चापरम् ॥१ १४॥ श्रीहरिस्तां तदा प्राह द्वे द्वे प्रत्येकशोऽधुना ।
रूपे धृत्वा कृपया मे तिष्ठन्तु कथयामि च ॥१ १५॥ भूतकार्येष्वमूर्तेन तत्त्वरूपेण सर्वथा ।
देवलोके तु मूर्तेन तिष्ठध्वं मम सेवकाः ॥१ १६॥ प्रलये च लयं मयि त्वाविशत द्रुतं सुराः ।
अभिधानानि देवानां युष्माकं च करोम्यहम् ॥१ १७॥ अग्निर्वैश्वानरो देवः प्राणापानौ तथाऽश्विनौ ।
वाणी गौरी हिमपुत्री व्योम पद्मावतीपिता ॥१ १८॥ शरीरधातवश्चेमे नानाभूतानि चैव ह ।
अहङ्कारः स्वयं स्कन्दः कार्तिकेयो भविष्यति ॥१ १९॥ नेत्रे सूर्यशशिरूपे स्वर्गदेवौ भविष्यतः ।
शब्दादीनि च मात्राणि गजवक्त्रो भविष्यति ॥1.533.१२० ॥ शरीरमाया दुर्गा च कारणान्ते भविष्यति ।
श्रोत्रं दिग्भावमापन्नं देवरूपं भविष्यति ॥१२१ ॥ धनञ्जयो धनेशो वै कुबेरः सम्भविष्यति ।
इदं मनो विष्णुनामा भविष्यति न संशयः ॥१२२॥ धर्मोऽपि यमनामा च याम्यदेवो भविष्यति ।
महत्तत्त्वं च भगवान् महादेवो भविष्यति ॥१२३॥ इन्द्रियार्थाश्च पितरो भविष्यन्ति न संशयः ।
वासना च रतिरूपा भविष्यति तु कामिनी ॥१२४॥ जीवात्मा मे नररूपः पार्श्वस्थः सम्भविष्यति ।
क्वचिच्च चन्द्रमा भूत्वाऽमृताधारो भविष्यति ॥१ २५॥ एवं वरप्रदानेन जातास्ते सृष्टिदेवताः ।
हिरण्यगर्भतत्त्वस्था देहेऽपि तानि चापि हि ॥१ २६॥ परब्रह्म तु यः प्रोक्तः कृष्णनारायणः प्रभुः ।
स एव देवतारूपः सृष्टौ वै वर्तते प्रभुः ॥१२७॥ स एव तत्त्वरूपश्च शरीरेऽत्र वसत्यपि ।
तस्माद् राजन् भज देवांस्तथा तत्त्वानि वर्ष्मणि ॥१२८॥ शरीरे त्वं पूजयैतानभेदेन हरौ सदा ।
स एव तु त्वया स्वस्मिन् लब्धोऽस्त्यन्यत्र मा व्रज ॥१२९॥ एवं वेदान्तपुरुषः प्रोक्तो नारायणात्मकः ।
एवम्प्रभावो देवोऽसौ वेदवेद्यो जनार्दनः ॥1.533.१ ३०॥ श्रीपतिः श्रीकृष्णनारायणोऽनाद्यन्त एव सः ।
कथितो नृपते तुभ्यं प्रजापाल हि तं भज ॥१३ १॥ इत्युक्त्वा विररामाऽसौ महातपा मुनिस्तदा ।
वाराहः प्राह पृथिवीं त्वय्यपि सन्ति ते सुराः ॥१ ३२॥ तान् देवान् भज देवेशि येन मोक्षो भवेद् ध्रुवम् ।
इति ते कथितं लक्ष्मि प्रत्यक्षाख्यानमैश्वरम् ॥१३३॥ पठनाच्छ्रवणाच्चास्य तथोक्तानां प्रपूजनात् ।
तत्त्वानां ब्रह्मविज्ञानान्युक्तो भवति मानवः ॥१३४॥ धर्मार्थकाममोक्षाणां परा सिद्धिः प्रजायते ।
एवमेकात्मतां ज्ञात्वोपासते ऋषयो हरिम् ॥१ ३५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रजापालराज्ञो महातपानामकऋषिप्रदत्तशारीरतत्त्वात्मकवेदान्तपुरुषज्ञानोपासनादिनिरूपणनामा त्रयस्त्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३३॥