५१७

श्रीनारायण उवाच-
शृणु लक्ष्मि! पुरा त्वासीद् हिरण्यकशिपुर्महान् ।
तस्य पुत्रद्वयं जज्ञे प्रह्लादश्चान्धकस्तथा ॥१ ॥ हिरण्यकशिपौ प्राप्ते परलोकं हरेः करात् ।
अमात्यैरभिषेकाय प्रह्रादः सन्नियोजितः ॥२ ॥ किन्तु नैच्छत् स राज्य तद् दानवैर्द्वेषकारणात् ।
ततोऽन्धकोऽभिषिक्तश्च राज्ये दानवपुङ्गवैः ॥३ ॥ अन्धकोऽपि समाराध्य ब्रह्माणं त्वमरोऽभवत् ।
यावत्कल्प वरपुष्टस्ततः शक्रं जिगाय सः ॥‘४ ॥ अमरावतिकां स्वस्य राजधानीं चकार सः ।
इन्द्रः शम्भुं समाराध्य वरं वव्रे सुरार्थकम् ॥५ ॥ अन्धकेन हृतं सर्वं देवराज्यं मखादिकम् ।
यज्ञभागादिकं सर्वं राज्यं हृतं प्रयच्छ मे ॥६ ॥ शिवस्तथास्त्विति प्राह प्रेषयामास तं प्रति ।
वीरभद्रं निजदूतं स गत्वोवाच चान्धकम् ॥७ ॥ हरादेशात्परित्यज्य स्वर्गं गच्छ धरातलम् ।
पितृपैतामहं राज्यं पृथिव्यां त्वं समाचर ॥८ ॥ नो चेत् तव पदं सर्वं शङ्करः संहरिष्यति ।
अन्धकस्तं वीरभद्रं समुवाच हरं वद ॥९ ॥ कस्त्वं श्मशानवासोऽसि गणनायां ममान्तिके ।
कैलासं मे समर्प्य त्वम काश्यां गच्छ श्मशानके ॥1.517.१० ॥ नो चेत् प्राणान् हरिष्यामि तव सेन्द्रस्य शङ्कर ।
श्रुत्वा वीरप्रभद्रस्तं विनिर्भर्त्स्य ययौ हरम् ॥११ ॥ कथयामास तद्वाक्यं सन्नद्धश्च हरोऽभवत् ।
गणैर्देवैस्तथा चान्यैः सैन्यैर्युक्तोऽमरावतीम् ॥१ २॥ ययौ तां वाहिनीं दृष्ट्वा तत्रसुर्दैत्यपुङ्गवाः ।
अन्धकेन तु निद्रायां दृष्टं दुःस्वप्नमुल्बणम् ॥१३ ॥ समुद्वेगभयव्याप्तश्चाहारोत्साहवर्जितः ।
अन्धकः पुत्रमित्रादीनाह सर्वमरिष्टकम् ॥१ ४॥ मया दृष्टो निशीथेऽद्य दुःस्वप्नोऽतिभयप्रदः ।
बिभ्रतो रक्तपुष्पाणां माला च रक्तचन्दनम् ॥१५॥ रक्ताम्बरं तीक्ष्णखङ्गं खर्परं च भयानकम् ।
प्रकृत्याऽट्टाट्टहासं च ललज्जिह्वा भयङ्करी ॥१ ६॥ अतीव वृद्धा कृष्णाङ्गी नारी पुरेऽत्र नृत्यति ।
मुक्तकेशी छिन्ननासा कृष्णा कृष्णाम्बरान्विता ॥१ ७॥ विधवा सा महाशूद्रा ममालिङ्गनकामुकी ।
मलिनं चेलखण्डं च बिभ्रती रूक्षमूर्धजान् ॥१८॥ दधती चूर्णतिलकं कपोले मम वक्षसि ।
हसित्वा क्रूरतां दर्शयित्वा चुम्बति मां मुहुः ॥१९ ॥ कृष्णवर्णानि पक्वानि छिन्नभिन्नानि सर्वशः ।
पतन्ति कृत्वा शब्दांश्च शश्वत्तालफलानि हि ॥1.517.२० ॥ कुचैलो विकृताकारो म्लेच्छो हि रूक्षमूर्धजः ।
ददाति मह्यं भूषायां छिन्नभिन्नकपर्दकान् ॥२ १॥ महारुष्टा च दिव्या स्त्री पतिपुत्रवती सती ।
बभञ्ज पूर्णकुम्भं च साऽभिशप्य पुनः पुनः ॥२२॥ अम्लानां मुण्डमालां च रक्तचन्दनचर्चिताम् ।
ददाति मह्यं विप्रश्च महारुष्टोऽतिशप्य वै ॥२३॥ क्षणमङ्गारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् ।
क्षणं क्षणं रक्तवृष्टिर्जायते नगरे मम ॥२४॥ वानरं वायसं श्वानं भल्लूकं सूकरं खरम् ।
पश्यामि विकटाकारं शब्दं कुर्वन्तमुल्बणम् ॥२५॥ पश्यामि शुष्ककाष्ठानां राशिमम्लानकज्जलम् ।
अरुणोदयवेलायां कपींश्छिन्ननखानि च ॥२६॥ पीतवस्त्रपरीधाना शुक्लचन्दनचर्चिता ।
बिभ्रती मालतीमालां रत्नभूषणभूषिता ॥२७॥ क्रीडाकमलहस्ता च सिन्दूरबिन्दुशोभिता ।
कृत्वाऽभिशापं मां रुष्टा याति मन्मन्दिरात् सती ॥२८॥ पाशहस्ताँश्च पुरुषान् मुक्तकेशान् भयङ्करान् ।
अतिरूक्षाँश्च पश्यामि विशतो नगरं मम ॥२९॥ नग्ननारीं मुक्तकेशीं नृत्यन्तीं च गृहे गृहे ।
अतीव विकृताकारां पश्यामि सस्मितां सदा ॥1.517.३०॥ छिन्ननासा च विधवा महाशूद्री दिगम्बरा ।
सा तैलाभ्यङ्गितं मां च करोत्यतिभयङ्करी ॥३१ ॥ निर्वाणाङ्गारयुक्ताश्च भस्मपूर्णा दिगम्बराः ।
अतिप्रभातसमये चित्राः पश्यामि सस्मिताः ॥३ २॥ पश्यामि च विवाहं च नृत्यगीतमनोहरम् ।
रक्तवस्त्रपरीधानान्पुरुषान् रक्तमूर्धजान् ॥३३॥ रक्तं वमन्तं पुरुषं नृत्यन्तं नग्नमुल्बणम् ।
धावन्तं च शयानं च पश्यामि सस्मितं तथा ॥३४॥ राहुग्रस्तं च गगने मण्डलं चन्द्रसूर्ययोः ।
एककाले प्रपश्यामि सर्वग्रासं च तामसम् ॥३५॥ उल्कापातं धूमकेतुं भूकम्पं राष्ट्रविप्लवम् ।
झञ्झावातं महोत्पातं पश्यामि च क्षितिास्थितः ॥३६॥ वायुना घूर्ण्यमानाँश्च छिन्नस्कन्धान्महारुहान् ।
पतितान् पर्वतांश्चैव पश्यामि पृथिवीतले ॥३७॥ पुरुषं छिन्नशिरसं नृत्यन्तं नग्नमुच्छ्रितम् ।
मुण्डमालाकरं घोरं पश्यामि च गृहे गृहे ॥३८॥ दग्धं सर्वाश्रमं भस्मपूर्णमङ्गारसङ्कुलम् ।
हाहाकारं प्रकुर्वन्तं सर्वं पश्यामि सर्वतः ॥३९॥ स्नातुं गच्छामि च नदीं सा तु शुष्कायते क्षणात् ।
मूर्तयो देवतानां च दृष्टा विलीनतां गताः ॥1.517.४०॥ गर्दभं घोटकं गन्त्रीयुतं यान्तं च दक्षिणाम् ।
गन्त्र्यां स्थितं च मां तत्र प्रपश्यामि चिरं मुहुः ॥४१ ॥ अन्यत्र गमनं मे वै भाति लोकान्तरं प्रति ।
मयैव च विवाहोऽपि मया दृष्टो हि योषिता ॥४२॥ गाग्रेशमस्तकं स्कन्धाद्वियुक्तं दग्धमित्यपि ।
नद्यां मयेति सन्दृष्टं क्षणाज्जागरुकोऽभवम् ॥४३॥ उष्ट्रो भूफलिनीर्भुक्त्वा मां प्रत्येतीति वीक्षितम् ।
सिद्धान्नानि वीक्षितानि न च भुक्तानि वै मया ॥४४॥ स्वप्ने चातीव कलहः परस्परं प्रवीक्षितः ।
स्वस्यैव मुण्डनं स्वप्ने कारितं च मया मुहुः ॥४५॥ हरितद्रुमशाखानां भङ्गा विलोकिता मया ।
समुद्रे ब्रूडति कश्चिन्मम बन्धुर्विलोकितः ॥४६॥ कस्यचिल्लिङ्गतो रक्तं निःसृतं वीक्षितं मया ।
ब्राह्मणस्त्वतिरुष्टश्च शपतीत्यवलोकितम् ॥४७॥ जीर्णाम्बरं धृतं देहे नष्टं तत्पतितं तथा ।
कुक्कुरा मां विलोक्यैव भषन्तीत्यवलोकितम् ॥४८॥ शुष्ककाष्ठानि च मया द्वेधीकृतानि हस्ततः ।
निकृन्तने यन्त्रेण वेल्लणार्थं विलोकितम् ॥४९॥ फणाफुल्लो महासर्पो दृष्टश्चापि मृतोऽपि सः ।
व्योमसेतोर्बालकश्चाऽकूर्दयत् पतितुं जले ॥1.517.५०॥ जलं विहाय च दूरं पाषाणे पतितो भ्रमात् ।
अन्यस्य भवने दृष्टं गोष्ठं रिक्तं विवर्तितम् ॥५१ ॥ आरण्यकश्च मार्जारो विलोकितो मया वने ।
कृष्णाम्बरो जनो मां धूष्कृतीयन्त्रेण वै सुकृत् ॥५२॥ अलक्षयद् यथा हन्तुं कृत्वा मां वै प्रदक्षिणम् ।
मया रिक्ता धूष्कृती सा स्फोटिता तं जनं प्रति ॥५३ ॥ गौः सवत्सा बहिर्याति रात्रौ ममाऽऽश्रमात् तथा ।
भवनस्य ध्वजश्चापि पतितश्चावलोकितः ॥५४॥ सत्कार्यार्थं च कोशस्य कुञ्चिका नैव वीक्षिता ।
आशीर्वादपरा विप्रा मां विहायाऽन्यतो गताः ॥५५॥ एवं दृष्टं मया स्वप्ने सर्वमद्य निशात्यये ।
न जाने किं दैवयोगाद् विपरीतं भवेदिति ॥५६॥ शुशोचेति वर्णयित्वाऽन्धकस्तावच्च तत्प्रिया ।
पत्नी रात्रौ च दुःस्वप्नं यद् ददर्श जगाद तत् ॥५७॥ शृणु राजन् ममाऽप्यद्याऽरीष्टानि हि निशात्यये ।
उपस्थितानि निद्रायां तैश्च भयं व्रजामि वै ॥५८॥ अहो स्वामिन्निहाऽऽगच्छ त्वां करोमि स्ववक्षसि ।
परिणामे विधाता मे न जाने किं करिष्यति ॥५९॥ रत्नसिंहासनेऽहं च रत्नच्छत्रं च बिभ्रती ।
तदाऽऽतपत्रं जग्राह रुष्टो विप्रस्तु मे प्रभो ॥1.517.६०॥ सागरे कज्जलाकारे महाघोरे च दुस्तरे ।
गभीरे प्रेरयामास मामेव दुर्बलां स च ॥६१ ॥ तत्र स्रोतसि शोकार्ता भ्रमामि च मुहुर्मुहुः ।
महौर्मीणां च वेगेन व्याकुला नक्रसङ्कुलैः ॥६२॥ त्राहि त्राहीति हे नाथ त्वां वदामि मृतं पतिम् ।
त्वां न दृष्ट्वा महाभीता करोमि बहुरोदनम् ॥६३॥ नाथ तत्र निमजन्ती पश्यामि चन्द्रमण्डलम् ।
निपतन्तं च गगनाच्छतखण्डं च भूतले ॥६४॥ क्षणान्तरे शतखण्डं सूर्यं पश्यामि भूतले ।
एककाले द्वयोर्ग्राहः कृष्णं चाकाशमण्डलम् ॥६५॥ क्षणान्तरे प्रपश्यामि ब्राह्मणो दीप्तिमानिति ।
मत्क्रोडस्थसुधाकुम्भं बभञ्ज प्ररुषेति च ॥६६॥ क्षणान्तरे प्रपश्यामि महारुषं च भूसुरम् ।
गृहीत्वा संव्रजन्तं च सन्निधौ वै पतिं मम ॥६७॥ क्रीडाकपालदण्डं च हस्ताद्धस्तं मम प्रभो ।
सहसा खण्डखण्डं च बभूव सह हेतुना ॥६८॥ हस्ताद्धस्तं च सहसा दर्पणो वलयस्तथा ।
निर्मलः कज्जलाकारः खण्डखण्डो बभूव ह ॥६९॥ हारो मे रत्नसाराणां छिन्नो भूत्वा च वक्षसः ।
अतीव मलिनं पद्मं पपात धरणिस्थले ॥1.517.७०॥ सौधपुत्तलिकाः सर्वा नृत्यन्ति च हसन्ति च ।
आस्फोटयन्ति गायन्ति रुदन्ति च क्षणे क्षणे ॥७१॥ कृष्णवर्णं बृहच्छस्त्रं त्रिशूलं खे समागतम् ।
निपतन्तं भ्रमन्तं चोत्पतन्तं त्ववलोकये ॥७२॥ प्राणाधिदेवः पुरुषो निःसृत्याऽऽभ्यन्तरान्मम ।
प्रिये विदायं देहीति ततो यामीत्युवाच माम् ॥७३॥ कृष्णवर्णा च प्रतिमा मामाश्लिष्यति चुम्बति ।
कृष्णवस्त्रपरीधाना स्वप्ने पश्यामि साम्प्रतम् ॥७४॥ इतीदं विपरीतं च दृष्ट्वा वै प्राणवल्लभ ।
नृत्यन्ति दक्षिणाङ्गानि प्राणा आन्दोलयन्ति मे ॥७५॥ रुदन्ति शोकात् कर्षन्ति समुद्विग्नं च मानसम् ।
तव वामाङ्गकम्पं च लोकयामि पुनः पुनः ॥७६॥ किमिदं किमिदं नाथ विपरीतं भविष्यति ।
इत्युक्त्वा तं समाश्लिष्य क्षणं सुखं ललाभ ह ॥७७॥ अन्धकस्तां समाश्लिष्य ददौ धैर्यं पुनः पुनः ।
प्रेम्णा त्वाकृष्य तन्वङ्गीं परिरेभे चुचुम्ब च ॥७८॥ एतस्मिन्नेव समये महेन्द्रस्य शुभानि वै ।
सुस्वप्नान्यभवँस्तेन तुतोष हृष्टमानसः ॥७९॥ ददर्श प्रथमं विप्रबालकं पद्मलोचनम् ।
भूषितं सस्मितं पुष्पमालाचन्दनराजितम् ॥1.517.८०॥ बद्धशिखं सतिलकं जपन्तं वेदमातरम् ।
ततो ददर्श रुचिरां पतिपुत्रवतीं सतीम् ॥८ १॥ स्वर्णवस्त्रपरीधानां रत्नभूषणभूषिताम् ।
ज्वलत्प्रदीपहस्तां च शुक्लधान्यकरां वराम् ॥८२॥ शरच्चन्द्रनिभास्यां च सस्मितां वरदां शुभाम् ।
ततो ददर्श विप्रं च प्रकुर्वन्तं शुभाशिषम् ॥८३ ॥ श्वेतपद्मं राजहंसं तुरगं च सरोवरम् ।
ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् ॥८४॥ आम्रनिम्बनारिकेलागुर्वर्ककदलीतरुम् ।
दशन्तं श्वेतसर्प च स्वात्मानं पर्वतस्थितम् ॥८५॥ वृक्षस्थं च गजस्थं च तरीस्थं तुरगस्थितम् ।
वीणां प्रवादयन्तं च भुञ्जानं मिष्टपायसम् ॥८६॥ दधिक्षीरयुतान्नं च पद्मपत्रस्थमीप्सितम् ।
कृमिविट्सहिताङ्गं च शुक्लचन्दनचर्चितम् ॥८७॥ शुक्लधान्यपुष्पहस्तं प्रासादस्थं समुद्रगम् ।
ततो ददर्श रजतं मणिं शुभ्रं च काञ्चनम् ॥८८॥ मुक्तामाणिक्यरत्नं च पूर्णकुम्भजलं शुभम् ।
सुरभिं सहवत्सां च वृषभेन्द्रं मयूरकम् ॥८९॥ शुकं च सारसं हंसं चिल्लं खञ्जनमित्यपि ।
ताम्बूलं पुष्पमाल्यं च ज्वलदग्निं सुरार्चनम् ॥1.517.९० ॥ पार्वतीप्रतिमां कृष्णनारायणस्य सन्निधौ ।
शाङ्करं चोज्ज्वलं लिङ्गं गुरुं देवं बृहस्पतिम् ॥९१ ॥ विप्रबालां सुफलितां कृषिं पक्वफलान्विताम् ।
देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गजं मुनिम् ॥९२॥ दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराऽऽह्निकमीप्सितम् ।
शङ्करं कथयामास सर्वं वृत्तान्तमेव तम् ॥९३॥ शङ्करोऽपि तदा प्राह महेन्द्रं शकुनानि वै ।
यानि ददर्श मार्गे स मङ्गलार्हाणि सर्वथा ॥९४॥ जयप्रदानि सर्वाणि मङ्गलाऽऽसूचकानि वै ।
वामे विप्रं शिवां पूर्णकुम्भं नकुलचाषकम् ॥९५॥ पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम् ।
शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् ॥९६॥ दक्षिणे ज्वलदग्निं च विप्रं च वृषभं गजम् ।
वत्सप्रयुक्तां धेनुं च श्वेताश्वं राजहंसकम् ॥९७॥ वेश्यां च पुष्पमालां च पताकां दधि पायसम् ।
मणिं सुवर्णं रजतं मुक्तामाणिक्यमीप्सितम् ॥९८॥ मद्यं मांसं चन्दनं च माध्वीकं घृतमुत्तमम् ।
कृष्णसारं फलं लाजां सिद्धान्नं दर्पणं तथा ॥९९॥ विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा ।
शुक्लोत्पलं पद्मवनं शङ्खचिल्लं च कोरकम् ॥1.517.१० ०॥ मार्जारं पर्वतं मेघं मयूरं शुकसारसम् ।
शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् ॥१०१ ॥ विचित्रकृष्णसङ्गीतं हरिशब्दं जयध्वनिम् ।
एवम्भूतं शुभं दृष्टं कथयामास सर्वथा ॥१ ०२॥ तावद् भेर्यो ह्यवाद्यन्त शङ्खाः शङ्करसैन्यके ।
अन्धकश्चापि विज्ञाय ससैन्यः समरं ययौ ॥१ ०३॥ प्रथमं मिलिता नग्ना विधवा खण्डवस्त्रिका ।
मलिना विकृताऽऽकारा छिन्ननासोर्ध्वमूर्धजा ॥१ ०४॥ गर्दभो महिषश्चोष्ट्रः सूकरः श्वा च भल्लुकः ।
काको गृध्रो वानरश्च कङ्कः शुष्कतृणानि च ॥१ ०५॥ कुलालस्तैलकारश्च नापितो रजकस्तथा ।
दग्धकाष्ठं गलत्कुष्ठो वृषलो कलहद्विजः ॥१ ०६॥ रुष्टभिक्षुः प्रमुण्डा च प्रमुण्डी कृपणस्तथा ।
क्षुत्कारः शस्त्रपतनं रथात्मुकुटपातनम् ॥१ ०७॥ ध्वजदर्पणपतनं त्वश्वानां जानुभुग्नता ।
रिक्तं कलशयुगलं कृष्णसर्पो भयङ्करः ॥१ ०८॥ घूकस्य दर्शनं चेति समीपे मीलितानि वै ।
मृत्युसूचकवस्तूनि वीक्षितान्यन्धकेन वै ॥१० ९॥ पवनश्चातिवेगेन सम्मुखं वाति दुःखकृत् ।
यन्त्रीचक्रं प्रभग्नं च हस्तिः प्रमत्ततां गतः ॥1.517.११ ०॥ विदित्वैवं रणे त्रस्तो बहिर्धैर्याऽवलम्बनः ।
उपर्याडम्बरयुक्तो मृत्युनिश्चितमानसः ॥१११ ॥ अन्धकः कोटिसैन्येन हरान्तिकमुपाययौ ।
ददर्श देवसैन्यानि भुवि व्योम्नि जलेऽपि च ॥१ १२॥ दानवानां च सैन्यानि सन्नद्धानि प्रतिक्रमात् ।
युद्धारम्भस्य वाद्यानि त्ववाद्यन्ताऽसुरादिषु ॥११३ ॥ युद्धबोधकचिह्नात्मध्वजा व्योम्नि चकाशिरे
दैत्यः सशङ्करं नत्वा मुमोच शतसायकान् ॥१ १४॥ शङ्करस्तानर्धचन्द्रैश्छित्वा मुमोच मार्गणान् ।
शिलीमुखान् शतसङ्ख्यान् दैत्यस्तान् प्रचकर्त ह ॥१ १५॥ एवं समभवद् युद्धं देवानां दानवैः सह ।
गणैश्च विकृताकारैर्दानवानां भयङ्करम् ॥१ १६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽन्धकासुरस्य तत्पत्न्याश्च दुष्टस्वप्नाद्यपशकुनानि, इन्द्रस्य सुशकुनानि, शङ्करेण सहाऽन्धकस्य युद्धं चेतिनिरूपणनामा सप्तदशाधिकपञ्चशततमोऽध्यायः ॥५१७॥