श्रीनारायण उवाच–
शृणु लक्ष्मि कथां रम्यां वृकासुरकृतां शुभाम् ।
पुरा बभूव च वृको दैत्यस्तेपे परं तपः ॥१ ॥
शतवर्षं तु केदारे क्षेत्रे तुष्टो हरस्तु तम् ।
वरं दातुं ययौ नित्यं न जग्राहाऽसुरो वरम् ॥२ ॥
सर्वैश्वर्यं सर्वसिद्धिं भुक्तिं मुक्तिं हरेः पदम् ।
दैत्यः किञ्चिन्न गृह्णाति परितः शूलपाणिनः ॥३ ॥
शम्भुः रुरोद तं दृष्ट्वा प्रेमपाशेन वेष्टितः ।
रोदनश्रवणेनाऽस्य ध्यानभङ्गो बभूव ह ॥४ ॥
ददर्श पुरतः शम्भुं दातारं सर्वसम्पदाम् ।
वरं वव्रे वृकस्तस्मान्नत्वा च भक्तिपूर्वकम् ॥५॥
हस्तं दधे च यन्मूर्ध्नि स भस्म भवितेति च ।
ओमित्युक्त्वा प्रयान्तं तं दुद्राव दैत्यपुङ्गवः ॥६ ।
पपात डमरुः शम्भोर्व्याघ्रचर्म च भूतले ।
दैत्यं पृष्ठे च धावन्तं कृपया न च हन्ति सः ॥७ ॥
दुष्टानुसारं साधुश्च न करोति कदाचन ।
साधवो घ्नन्ति घ्नन्तं च भृत्यं पुत्रं प्रियां विना ॥८ ॥
शिवो मां मम शरणं त्वाययौ निरहङ्कृतः ।
हे हरे रक्ष रक्षेति जपन्तं भयविह्वलम् ॥९ ॥
तदा मया धृतं रूपं नार्या दैत्यश्च मोहितः ।
दापयित्वा निजमूर्ध्नि हस्तं तं दैत्यपुङ्गवम् ॥1.516.१ ०॥
भस्मीभूतं कृतवाँश्च शङ्करो विज्वरोऽभवत् ।
तथापि शङ्करो भक्तो मम गर्वान्वितोऽभवत् ॥११ ॥
सदा विष्णुर्मम कार्यं करोत्येव महापदि ।
संहर्ताऽहमिति मत्वा त्रिपुरं हन्तुमुद्यतः ॥१२॥
कोऽयं पतङ्गवद्दैत्य इति मत्वा रणं ययौ ।
विहाय शूलं मद्दत्तं मदीयकवचं तथा ॥१३॥
चिरं बभूव समरो वर्षमेकं दिवानिशम् ।
शम्भोः रथं बभञ्जापि जहाराऽस्त्राणि शङ्करात् ॥१४॥
शिवं शयानमुत्तोल्य पातयामास भूतले ।
तदाऽहं कलया शीघ्रं वृषरूपं विधाय च ॥१५॥
शयानं शङ्कर धृत्वा विषाणाभ्यामुरुक्रमम् ।
स मद्दत्तेन शूलेन जघान त्रिपुरं हरः ॥१६॥
सद्यः पपात दैत्येन्द्रश्चूर्णीभूतो हि भूतले ।
तुष्टुवुर्देवताः शम्भुं दर्पं तत्याज शङ्करः ॥१७॥
ततोऽहं वृषरूपेण वहामि भक्तशङ्करम् ।
मम प्रियतमो नास्ति त्रैलोक्येषु शिवात्परः ॥१८॥
शृणु लक्ष्मि हरस्याऽत्र कथां रम्यां पुराभवाम् ।
युगषष्टिसहस्राणि तपः कृत्वा महेश्वरः ॥१ ९॥
विरराम ततश्चाग्रे मां ददर्श नरायणम् ।
अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम् ॥1.516.२०॥
न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ।
पश्यन्निमेषरहितो रुरोद प्रेमविह्वलः ॥२१ ॥
एकेनाऽस्येन वै कथं स्तौमि श्रीपुरुषोत्तमम् ।
एवं चतुर्धा मनसि कल्पयामास मस्तकम् ॥२२॥
प्रतिकल्पनं च शिरो नूतनं नूतनं तदा ।
बभूव तच्चतुर्वक्त्रं पूर्वेण सह पञ्चमम् ॥२३॥
एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः ।
बभूव तेन शोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः ॥२४॥
स्तवनादधिका प्रीतिः शिवस्य मम दर्शने ।
तेनाधिकानि तस्यैवं बभूवुर्लोचनानि वै ॥२५॥
त्रिगुणानि तु नेत्राणि संहारकं तृतीयकम् ।
विभूतिगात्रः स विभुः सतीसंस्कारभस्मना ॥२६॥
धत्ते तस्यास्त्वस्थिमालां प्रेमभावेन भस्म च ।
अन्येषां मुण्डमालां च धत्ते संहृतदेहिनाम् ॥२७॥
जटां तपस्याकालीनां धोऽद्यापि विवेकतः ।
न चेच्छा केशसंस्कारे स्वाङ्गवेषेण योगिनः ॥२८॥
समता चन्दने पङ्के लोष्टे रत्ने मणौ धने ।
गरुडद्वेषिणो नागाः शङ्करं शरणं ययुः ॥२९॥
बिभर्ति कृपया स्वाङ्गे तानेव शरणागतान् ।
वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः ॥1.516.३ ०॥
पारिजातादिकं पुष्पं सुगन्धि चन्दनादिकम् ।
मयि सन्न्यस्य तेष्वेवं प्रीतिर्नास्ति कदाचन ॥३ १ ॥
धत्तूरे तत्सदा प्रीतिर्बिल्वपत्रानुलेपने ।
गन्धहीने सुगन्धे च योगोष्ठे व्याघ्रचर्मणि ॥३२॥
दिव्यलोके दिव्यतल्पे जनतायां न तन्मनः ।
श्मशानेऽतीव रहसि ध्यायते मामहर्निशम् ॥३३॥
ज्ञानं मृत्युञ्जयं शूलं धत्ते मत्तेजसाऽन्वितम् ।
जलं विषप्रशान्त्यर्थं धत्ते शीतं दिवानिशम् ॥३४॥
पार्वतीं च मया दत्तां योगिनीं कार्यसिद्धये ।
लोकशिक्षणदानार्थं धत्ते पत्नीं पतिव्रताम् ॥३५॥
शङ्करः परमात्मा मे प्राणेभ्योऽपि परः शिवः ।
त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात्परः ॥३६॥
न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।
सदा शिवस्य हृदये निबद्धः प्रेमपाशतः ॥३७॥
स्वरसिद्धं सुतानेन पञ्चवक्त्रैश्च शङ्करः ।
शश्वद् गायति मद्गाथां तेनाऽहं तत्समीपतः ॥३८॥
मम भक्तिं च दास्यं च मुक्तिं च सर्वसम्पदः ।
सर्वसिद्धीर्दातुमीशो न दाता शङ्करात् परः ॥३९॥
पञ्चवक्त्रैः स मे नाम प्रेम्णा गायत्यहर्निशम् ।
मद्रूपं ध्यायति शश्वन्न भक्तः शङ्करात्परः ॥1.516.४०॥
भक्तत्वात् स्वप्रतापाद्वा पात्रभेदात् क्षणान्तरात् ।
भिन्नरूपक्रियाचेष्टा धत्ते मन्वन्तराद्धरः ॥४१ ॥
अहं सुदर्शनं शम्भुस्तेजसा च वयं समाः ।
ब्रह्मा स्रष्टा तु योगेन नाऽस्माभिस्तेजसा समः ॥४२॥
सनत्कुमारो वैकुण्ठमेकदा प्रजगाम ह ।
ददर्श भुक्तवन्तं च नाथं नारायणं’ हि माम् ॥४३॥
मया दत्तं चावशेषं तस्मै तुष्टेन चेतसा ।
प्राप्तमात्रेण तत्रैव भुक्तं तेनैव किञ्चन ॥४४॥
किञ्चिद् ररक्ष बन्धूनां भक्षणार्थं च दुर्लभम् ।
किञ्चिद् दत्तं शङ्कराय भुक्तं सर्वं तु शम्भुना ॥४५॥
भक्त्युद्रेकात् प्राप्तमात्रं भुक्त्वा भक्त्या ननर्त सः ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो मुदान्वितः ॥४६॥
गायन् मम गुणान् भक्त्या सुकण्ठः पञ्चवक्त्रतः ।
रागभेदैकतानेन तालमानेन सुन्दरम् ॥४७॥
पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च ।
स्वयं निपत्य पश्चाच्च रुदन् मूर्छामवाप ह ॥४८॥
अतीव कमनीयं तद्रूपं ध्यात्वैकमानसः ।
सहस्रदलमध्यस्थं मां पश्यन् हृत्सरोरुहे ॥४९॥
एतस्मिन्नन्तरे देवी पार्वती परमेश्वरी ।
मुदाऽऽजगाम शीघ्रं तं प्रसन्नवदनेक्षणा ॥1.516.५०॥
रुदन्तं मूर्छितं दृष्ट्वा निपतितं च भक्तितः ।
प्रहस्य वार्तां पप्रच्छ पार्श्वस्थं सर्पमेव सा ॥५१॥
कामरूपधरं भक्तं वैष्णवं स्कन्धवासितम् ।
सर्वं तां कथयामास नागराट् सम्पुटाञ्जलिः ॥५२॥
नारायणप्रसादस्याऽदनेन प्रेमविह्वलः ।
ईदृशीं सुसमाधेश्चाऽवस्थां प्राप्तोऽस्ति शङ्करः ॥५३॥
श्रुत्वा चुकोप सा मह्यं प्रसादो नार्पितः कथम् ।
शप्तं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥५४॥
उवाच शम्भुं त्वं पोष्टा करोषि दुर्नयं कथम् ।
सदा ते परिपाल्याऽहं पोष्या भक्त्या च किङ्करी ॥५५॥
वञ्चिताऽहं त्वया नाथ हरेः प्रसादभक्षणे ।
पात्रं हरेः प्रसादस्य त्वं भक्तः प्रथमं हरेः ॥५६॥
पात्रं तव प्रसादस्य पार्वत्यहं तव प्रिया ।
पात्रं हरेर्हरस्यापि प्रसादस्याऽहमीश्वरी ॥५७॥
अदत्त्वा वञ्चिता त्वद्य हरनिर्माल्यभक्षणे ।
अदत्वा वञ्चिता चाद्य हरेः प्रसादभक्षणे ॥५८॥
अतो मत्तो गृहाणेदं फलं वञ्चनजं शिव ।
अद्य प्रभृति ये लोका नैवैद्यं भुञ्जते तव ॥५९॥
ते जन्मैकं सारमेया भविष्यन्त्येव सर्वथा ।
इत्युक्त्वा पार्वती तत्र रुरोद पुरतः क्षणम् ॥1.516.६०॥
शिवः करेण तन्नेत्रजलमार्जनमाचरत् ।
कृत्वा वक्षसि सद्वाक्यैर्बाधयामास सान्त्वनैः ॥६१ ॥
परितुष्टा तु सा देवी भर्तारं समुवाच ह ।
कलेवरं सन्त्यक्ष्यामि नैवेद्येन विना हरेः ॥६२॥
बिभर्मि देहं सततं तव सौभाग्यवर्धनम् ।
कथं वहामि सौभाग्यरहितं नु कलेवरम् ॥६३॥
अपूर्वं तव नैवेद्यं जन्ममृत्युजराहरम् ।
शप्तं मया कृतं दुष्टं सारमेयजनुप्रदम् ॥६४॥
यदि भक्ष्याम्यहं चापि सारमेयी भवामि च ।
न भक्ष्यामि तदा पत्युः प्रसादेन तु वञ्चिता ॥६५॥
पातिव्रत्येन धर्मेण हीना जीवामि वै कथम् ।
तस्माद् देहं परित्यज्य यामि गोलोकमेव च ॥६६॥
पार्वतीं चेत्युक्तवतीं ददौ धैर्यं हरः स्वयम् ।
शृणु देवि कुरु पाकं नैवेद्यं देहि विष्णवे ॥६७॥
तत्प्रसादमहं भुक्त्वा तुभ्यं दास्ये स्थिरा भव ।
लिङ्गप्रसादस्त्वग्राह्य इति तेऽस्तु वचःफलम् ॥६८॥
प्रतिमायाः प्रसादस्तु ग्राह्यः सर्वो भविष्यति ।
प्रतिमालिङ्गमिश्रोऽपि सर्वग्राह्यो भविष्यति ॥६९॥
एवं गृहाण मे शिष्टं पातिव्रत्ये स्थिता सदा ।
सारमेयजनिर्नैव तथा कृते भविष्यति ॥1.516.७०॥
लिङ्गमात्रप्रसादाधिकारे चण्डप्रचण्डकौ ।
नियुक्तौ तौ मया भक्तौ गणौ मम निरन्तरम् ॥७१ ॥
इत्युक्ता पार्वती कृत्वा पाकं श्रीहरये ददौ ।
शङ्कराय ददौ तं च शिष्टं सा बुभुजे सती ॥७२॥
इत्येवं लिङ्गशिष्टस्याऽग्राह्यत्वं कथितं रमे ।
अथ देवी महादेवं मिष्टान्नं विविधं सदा ॥७३ ॥
मम प्रसादं निर्वर्त्य भक्त्या भोजयति सती ।
षट्पञ्चाशत्प्रसङ्ख्यानि पक्वान्नव्यञ्जनानि च ॥७४॥
नित्यं मम प्रसादं तं भोजयामास सादरम् ।
कृष्णजन्मदिने कृत्वा मत्प्रसादं विधाय च ॥७५॥
भोजयितुं यदाऽऽरब्धा वैष्णवः शङ्करस्तदा ।
देवीं प्राह शृणु त्वद्य धर्मसङ्कटमागतम् ॥७६॥
व्रतस्येष्टस्य दिवसे भोजनं ग्राह्यमेव न ।
कृष्णप्रसादस्त्याज्यो न त्यागे पापं शताधिकम् ॥७७॥
वदात्र किं प्रकर्तव्यं करोमि चेन्न दूषणम् ।
पार्वती क्षणमात्रं स्वहृदयेऽन्तर्विवेश ह ॥७८॥
कृष्णनारायणं तत्र प्रसस्मार हरिः स्वयम् ।
समागत्याह देवेशी पश्य मां प्रति पार्वति ॥७९॥
शङ्करो मत्स्वरूपोऽस्ति नात्र भेदो हि विद्यते ।
मत्स्वरूपेण भुञ्जीत नात्र दोषो भवेत्तदा ॥1.516.८०॥
भक्तरूपेण नैवात्र व्रते भोक्तव्यमेव ह ।
मत्स्वरूपेण भोक्तव्यं तत्र दोषो न विद्यते ॥८१॥
वद त्वं शङ्करं देवि भक्तं रूपं विहाय च ।
भगवद्रूपमास्थाय करोतु भोजनं हरः ॥८२॥
इत्युक्ता सा सती तूर्णं नत्वा कृष्णनरायणम् ।
बहिरागत्य कान्तं स्वं यथोक्तं प्राह भावतः ॥८३॥
भक्तरूपं विहायात्र भगवद्रूपमाप्नुहि ।
ततो भोजनमाधत्स्व कृष्णे विभौ परात्मनि ॥८४॥
शम्भुः प्राह कथं देवि भक्तत्वं शाश्वतं मम ।
त्याज्यं भवेद् वदात्रार्थे तत्त्यागे दूषणं महत् ॥८५॥
अभक्तस्य जलं चान्नं ग्राह्यं पश्चान्न वै भवेत् ।
अभक्तः सर्वथा वर्ज्यो वैष्णवैश्च सुरादिभिः ॥८६॥
पार्वती प्राह देवाऽहं त्वबला बुद्धिवर्जिता ।
तथापि चात्र वादार्थे कथयामि तथा कुरु ॥८७॥
यदि चास्मि तव भक्ता नान्यभक्ता कदाचन ।
सिद्धान्नस्य सुसार्थक्यं भवेदेवङ्कृते कुरु ॥८८॥
कृष्णः शम्भुश्च सन्न्यासीत्येवं त्रिरूपवान् भव ।
कृष्णरूपेण वै सर्वं भुङ्क्ष्व सिद्धान्नमत्र मे ॥८९॥
तत्प्रसादस्वरूपं त्वं भुङ्क्ष्व सन्न्यासिरूपतः ।
साधोः सन्न्यासिनश्चापि प्रसादो मेऽर्थकृद् भवेत् ॥1.516.९०॥
तवाऽऽज्ञया ग्रहीष्यामि न चेन्नैव स्पृशाम्यपि ।
जलं फलं कुसुमं चौषधं दुग्धादिको रसः ॥९१ ॥
गुरोर्वाक्यं स्वामिवाक्यं न व्रतघ्न कदाचन ।
इत्युक्तः शङ्करस्तत्र दधार प्रतिमात्रयम् ॥९२॥
कृष्णरूपोऽन्नसर्वस्वं बुभुजे पार्वतीकृतम् ।
सारूप्येन स्वरूपेण भक्ता भुञ्जन्ति धामनि ॥९३॥
अथ सन्न्यासनैष्कर्म्ये भोजनेऽपि न दूषणम् ।
इति कृत्वा च बुभुजे सन्न्यासी शङ्करः स्वयम् ॥९४॥
तत्प्रसादं सती देवी सन्न्यासिनीस्वरूपिणी ।
शङ्करस्याऽऽज्ञया भूत्वा बुभुजे हरिभोजनम् ॥९५॥
भक्ता पात्रमार्जनादि चक्रे सतीस्वरूपिणी ।
तानि रूपाणि संहृत्य पार्वतीपरमेश्वरौ ॥९६॥
बभुवतुर्यथापूर्वरूपिणौ भक्तिकारिणौ ।
इत्येवं मम भक्तानां लक्ष्मि भक्तिर्हि विद्यते ॥९७॥
सूक्ष्मं वै धर्मसर्वस्वं को नु जानाति तं विना ।
शङ्करः स तु सन्न्यासी त्रिलोके व्यचरन्मुदा ॥९८॥
मम भक्तिं चकारोग्रामकारयच्च वैष्णवान् ।
काले काले तथा भूत्वा भक्तिं करोति मे शिवः ॥९९॥
शिवाऽपि यतिनी भूत्वा भक्तिं करोति मे तथा ।
मम ज्ञानाश्रयः शम्भुराचार्यः शास्त्रकृत् तथा ॥1.516.१ ००॥
तारको बद्धजीवानां ज्ञानभक्तिप्रदायकः ।
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥१० १॥
यज्ञरूपाणि पुण्यानि व्रतान्यनशनानि च ।
तपांसि नानादानानि विप्रदेवार्चनानि च ॥१ ०२॥
चिरं पुनन्ति सर्वाणि दर्शनादेव साधवः ।
सुसतां विष्णुभक्तानां रजसां स्पर्शमात्रतः ॥१०३ ॥
पूतानां पादपद्मानां सद्यः पूता वसुन्धरा ।
तीर्थानि च पवित्राणि समुद्राः पर्वतास्तथा ॥१ ०४॥
सुरा दर्शनमिच्छन्ति सतां पातकनाशिनाम् ।
सोऽज्ञानी नैव बुबुधे सन्तं मनुष्यजन्मना ॥१ ०५॥
परमं स्वादु दुग्धं वै न जानाति तथा दधि ।
तथा सद्भ्यो जायमानं न जानाति सतो जनान् ॥१ ०६॥
स्वगृहं नैव जानाति परज्ञानेन वै वृथा ।
स एव परमो लाभो वैष्णवानां सतां कृपा ॥१०७॥
भवाब्धितरणे तर्य्यां तत्र सन्तो हि नाविकाः ।
विप्रा गुरवो लोकस्य सन्तो विप्रगुरूत्तमाः ॥१०८॥
सनकाद्या महासन्तः सन्न्यासिनोऽतिपावनाः ।
शोधयन्ति भुवनानि वासना दीर्घकालजाः ॥१ ०९॥
एवं स शङ्करो भक्तो भक्ता शिवा तथा मम ।
साधुसाध्वीरूपयुक्तौ प्रसादार्थं बभूवतुः ॥1.516.११ ०॥
पद्मजे मम भक्तानां मदर्थं किमसाध्यकम् ।
मम लाभार्थमेवैते सर्वं त्यजन्ति रोधकम् ॥१११ ॥
इति ते कथितं पूर्वं पुनश्च स्मारितं शुभम् ।
मम दास्यं हरे देव्यां त्वयि चापि परात्परम् ॥११ २॥
एतस्य श्रवणात्पाठान्मननाद्वर्तनात्तथा ।
भुक्तिर्मुक्तिर्मम दास्यं सर्वं स्यान्नात्र संशयः ॥११३ ॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शङ्करस्य गर्वहरणं, भक्त्युद्रेकता, परमभागवतसर्वस्वार्पणधर्मवत्त्वं, सन्न्यासरूपधारित्वं, भगवत्प्रसादाशित्वं, चेत्यादिनिरूपणनामा षोडशाधिकपञ्चशततमोऽध्यायः ॥५१६ ॥