श्रीलक्ष्मीरुवाच-
नारायण परब्रह्म भगवन् करुणानिधे ।
ध्यात्वा रूपं तव भक्ता भुक्तिं मुक्तिं प्रयान्ति च ॥१ ॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
सनत्सुजातः पञ्चैते त्वत्समा भुक्तिमुक्तिदाः ॥२ ॥
वैष्णवानामग्रणीश्च शङ्करो लोमशस्तथा ।
मार्कण्डेयो याज्ञवल्क्यो धर्मः शेषो वृषस्तथा ॥३ ॥
वेदाश्च वैष्णवा नित्या बलिर्बाणो विभीषणः ।
हनुमान् जाम्बवानश्वत्थामा प्रह्लाद आसुरिः ॥४ ॥
वोढुः पञ्चशिखो दिवोदासस्तथाऽम्बरीषकः ।
उद्धवश्च शशी सूर्योऽनिलश्चापि हुताशनः ॥५ ॥
एते भक्तास्तव नित्यं त्वाज्ञावहाः सुतास्तव ।
तव ध्यानं सदा कृत्वा चिरं तिष्ठन्ति जीविनः ॥६ ॥
शङ्करश्च तव पुत्रः कथं पञ्चशिरा ह्यसौ ।
त्वत्स्वरूपाद्विभिन्नश्च किमत्र कारणं वद ॥७ ॥
एकमस्तकदेवस्य पञ्चमस्तकपुत्रकः ।
तदिदं महदाश्चर्यं संशयं मे निरासय ॥८ ॥
श्रीनारायण उवाच-
पूर्वं भगवताऽजेन कृत्वा सृष्टिं तु विस्तृताम् ।
चतुर्विधां बहुकालं नरनारीमयीं शुभाम् ॥९ ॥
ततः स चिन्तयामास नारीरूपाणि सर्वशः ।
मोहस्थानानि रम्याणि कृतान्यपि ततोऽपि च ॥1.505.१ ०॥
नारीणामपि यत्र स्यान्मोहस्तादृशपुत्तलीम् ।
रचयामीति सङ्कल्प्य रूपसञ्चयसंयुताम् ॥११ ॥
एकामप्सरसं दिव्यां देवीभ्योऽपि च तैजसीम् ।
सर्वेषां द्युसदां तेजः समादाय तिलं तिलम् ॥१ २॥
रूपरूपातिरूपाढ्यां चमत्कृतिं स निर्ममे ।
यां दृष्ट्वा क्षोभमापन्नः स्वयमेव पितामहः ॥१ ३॥
ततस्तां प्रेषयामास योगिनः शङ्करस्य वै ।
धैर्यस्य सम्परीक्षार्थं साऽपि कैलासमाययौ ॥१४॥
अपश्यच्छङ्करं कृष्णध्यानमग्नं च निर्जने ।
नित्यं तत्र स्थिता भक्ता यथा ध्यानकरी सती ॥१५॥
समीपस्था कृष्णनारायणजापं चकार सा ।
तस्या देहात् कोटिचन्द्रतुल्यं मिष्टं च शीतलम् ॥१६॥
कानकं प्रससारोग्रं तेजोमण्डलमद्भुतम् ।
तत्तेजो वर्तुलाकारं गत्वा शङ्करपक्ष्मणोः ॥१७॥
लग्नं प्रकाशरूपं च नेत्रान्तः प्रविवेश ह ।
रश्मिद्वारागतं चान्तर्हृदयं यत्र योगिराट् ॥१८॥
तिष्ठत्यात्मनि चात्मानं संयुज्य तेजसां खनौ ।
तत्र शम्भुश्च तत्तेजो ददर्श कमनीयकम् ॥१ ९॥
द्वेधा वृत्तिः समाधौ च जाता सत्या मृषा समा ।
मृषां लोकयितुं चेहा बभूव शङ्करस्य वै ॥1.505.२०॥
सत्यां विसृज्य चायातो बहिः किमिति कौतुकात् ।
नेत्रमुद्धाट्य च यावत् पुरः पश्यति सुन्दरीम् ॥२१॥
विसस्मार सतीं मूर्तिं विस्मयं परमं गतः ।
वृत्त्या तल्लीनया ज्ञात्वा मुग्धं दर्शनलालसम् ॥२२॥
सापि तृतीयनेत्रस्योद्घाटने भस्मताभयात् ।
मुग्धं विलोकयन्तं तं हित्वा पूर्वस्थलीं ततः ॥२३ ॥
प्रदक्षिणाया व्याजेन सा प्रणम्य कृताञ्जलिः ।
दक्षिणं सा गता पार्श्वं शम्भुनिश्चलमस्तकः ॥२४॥
द्रष्टुकामश्च तां हृदा समीयेषाऽतिरागतः ।
तावद्वै दक्षिणं वक्त्रं निर्गतं तत्क्षणं शुभम् ॥२५॥
अथ सा भयसम्पन्ना ययौ पश्चिमतोदिशम् ।
शम्भुस्तस्याः स्वरूपाकृष्टान्तर्भावोऽपि पश्चिमम् ॥२६ ॥
वदनं तृतीयं चक्रे दर्शनार्थं नवं शुभम् ।
अथ सा भयमापन्नोत्तरभागं गता ततः ॥२७॥
तां द्रष्टुं चोत्तरं वक्त्रं निर्माय सा ददर्श ताम् ।
अथाऽऽकाशे गता सा च तां द्रष्टुं पञ्चमं शिरः ॥२८॥
व्योमगं शङ्करस्तत्र चकार च ददर्श ताम् ।
जहास च मुधा प्रेम्णा रूपलीनो बभूव ह ॥२१॥
ग्रीवां न चालयामास योगाभ्यासबलान्वितः ।
एतस्मिन्नन्तरे देवो नारदः पार्वतीं प्रति ॥1.505.३ ०॥
सर्वं निवेदयामास प्राह शङ्करचेष्टितम् ।
दृष्ट्वा रूपवतीं नारीं कृतवान् स नवं नवम् ॥३ १ ।
मुखं तेनाऽभवद् वक्त्रपञ्चक शङ्करस्य वै ।
अहं जानामि नास्त्यन्या नारी त्वत्सदृशी क्वचित्॥३ २ ॥
पतिस्ते च कथं मुग्धो हास्यास्पदो भविष्यति ।
हास्यस्य पदवीं त्वं च गमिष्यस्यद्य पार्वति ॥३३ ॥
येन कामो भस्मरूपः कृतो योगीश्वरः स्वयम् ।
स चाद्य मायया विष्णोर्मोहं यातो दिवः स्त्रियाम् ॥३४॥
सर्वासां देवपत्नीनां पूज्या त्वं त्वत्पतिश्च सः ।
तच्चित्तं स्निग्धतां यातं देवदास्यां विलोकय ॥३५॥
द्रागेव तां समादाय निजाङ्के स्थापयिष्यति ।
तव मूल्यात्परं मूल्यमप्सरसः करिष्यति ॥३६ ॥
कुरु शीघ्रं निरोधं वै यावदङ्के करोति न ।
इति श्रुत्वा नारदस्य दृष्ट्वा पञ्चमुखं पतिम् ॥३७॥
विकृतं तं समालोक्य नेत्रेषु प्रविवेश सा ।
सर्वनेत्राणि वै शम्भोः रोधयामास योगिनी ॥३८॥
एतस्मिन्नन्तरे सर्वतेजांस्यपि हतानि च ।
अन्धकारमयं सर्वं पुष्पवन्तौ वितेजसौ ॥३९ ॥
प्रलयस्य समुत्थानं कालरात्रेः समागमः ।
भूकम्पाश्च तदा जाता भयभीताश्च देहिनः ॥1.505.४०॥
एवं जाते सर्वसृष्टिक्षोभे नन्द्यादयो गणाः ।
सर्वे सतीं नमस्कृत्य स्तुत्वा चापि पुनः पुनः ॥४१ ॥
मुञ्च मुञ्च सुरश्रेष्ठे शम्भोर्नेत्राणि मुञ्च वै ।
पश्यन्तु हरनेत्राणि जगदान्ध्यं प्रसर्पतु ॥४२॥
एवमुक्तापि सा देवी न नेत्राणि मुमोच सा।
तावद्धरेण भालस्थं विसृष्टं लोचनं परम् ॥४३ ॥
कृपाविष्टेन लोकानां येन रक्षा प्रजायते ।
वारयितुं न शक्तोऽस्मि देवीं प्राणगरीयसीम् ॥४४॥
अथ देवी ततो नेत्रयोगं विहाय सुस्थिरा ।
हरस्य सन्निधौ तिलोत्तमामुवाच वै रुषा ॥४५॥
यस्मान्मे दयितः पापे त्वया रूपाद्विडम्बितः ।
तस्मात्त्वं रूपहीना च शीर्णकेशा महोदरी ॥४६॥
चिपिटाक्षी बृहद्दन्ती भव वै भग्ननासिका ।
अथ जाता तत्क्षणेन तिलोत्तमा कुरूपिणी ॥४७॥
तुष्टाव पार्वतीं कृताञ्जलिः क्षमां यस्म याचते ।
नास्ति मेऽत्राऽपराधो वै दास्या दर्शनयोषितः ॥४८॥
देवस्य तव किङ्कर्याः प्रसादं कर्तुमर्हसि ।
पार्वती च तदा प्राह समागच्छ मया सह ॥४९॥
शङ्करात् त्वं गृहाणात्र मन्त्रं पापहरं शुभम् ।
‘ओं नमः श्रीकृष्णनारायणाय पतये नमः’ ॥1.505.५० ॥
ततो याहि मया सार्धं तीर्थं श्रीहाटकेश्वरम् ।
नागनद्यां रूपतीर्थे स्नाहि शापनिवृत्तये ॥५१ ॥
एवं मन्त्रं गृहीत्वा च गृहीत्वा तुलसीस्रजम् ।
नागमत्यां ययौ सस्नौ सुरूपा सा बभूव ह ॥५२॥
पूर्वमासीद् यथारूपा तथारूपा विशेषतः ।
बभूव पार्वती नत्वा ययौ सत्ये पितामहम् ॥५३ ॥
सर्वं निवेदयामास पञ्चवक्त्रादिरोहणम् ।
ब्रह्मा प्राह प्रतिसृष्टिं तथा भवति पुत्रिके ॥५४॥
त्वां निमित्तं समासाद्य हरः पञ्चमुखो मुहुः ।
जायते च तव कीर्तिः सदा लोके भविष्यति ॥५५॥
इत्युक्त्वा तां ददावाशीर्वादान् सृष्टौ स्थिरा भव ।
देवकार्यकरी सत्यलोके वासकरी भव ॥५६॥
इति श्रीलक्ष्मीनाराणीयसहितायां प्रथमे कृतयुगसन्ताने तिलोत्तमानिमित्तेन शङ्करस्य पञ्चमुखवत्ता, तिलोत्तमायाः पार्वतीशापः, नागवत्या स्नानेन शापनिवृत्तिरित्यादिनिरूपणनामा पञ्चाधिकपञ्चशततमोऽध्यायः ॥५ ०५॥