४९५

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयिष्ये कथां पातकनाशिनीम् ।
अग्नितीर्थसमुद्भूतां चमत्कारपुरे पुरा ॥१ ॥ सोमवंशेऽभवद्राजा प्रतीपो नामतो बली ।
तस्य पुत्रद्वयं ज्येष्ठो देवापिः शन्तनुस्ततः ॥२ ॥ राजा च निधनं प्राप्तो देवापिस्तपसे ययौ ।
प्रजाभिः शन्तनुः राज्ये सत्वरं विनियोजितः ॥३ ॥ एवं व्यतिक्रमे जाते शक्रो ववर्ष नैव तु ।
तेन कृच्छ्रं गतो लोकः सर्वोऽपि क्षुत्प्रपीडितः ॥४ ॥ सन्त्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ।
मातरश्च तथा पुत्रैर्लोकेष्वन्येषु का कथा ॥५ ॥ एवं वर्षत्रये जातं म्रियन्ते मानवादयः ।
दैवयोगात् क्वचित् किञ्चित् कस्यचिद् यदि दृश्यते ॥६ ॥ सस्यं सिद्धमसिद्धं वा ह्रियते बलिभिः परैः ।
शुष्काः सर्वे द्रुमा जाता आपगाश्च जलाशयाः ॥७ ॥ वस्तुहीनो जनः सर्वो यज्ञहीनोऽतिनास्तिकः ।
व्रतहीना धर्महीना नरा नार्योऽभवँस्तदा ॥८ ॥ क्षुधया पीडिताः सर्वे ऋषयस्तु विशेषतः ।
एतस्मिन्नन्तरेऽरण्ये विश्वामित्रो महामुनिः ॥९ ॥ चर्मास्थिशेषसर्वाङ्गो बुभुक्षार्त इतस्ततः ।
परिभ्रमँस्ततः प्राप्य कञ्चिद्ग्रामं विनोदकम् ॥1.495.१ ०॥ मृतमर्त्योद्भवैर्व्याप्तमस्थिशेषैः समन्ततः ।
मृतानां च शवानां च मांसादस्य निवेशनम् ॥११ ॥ चण्डालस्य गृहं त्वासीद् दुर्गन्धेन समावृतम् ।
तत्राऽपश्यत्सारमेयं मृतं शुष्कं चिरोषितम् ॥१ २॥ समादाय ततस्तं च ह्यापद्धर्मपरायणः ।
शुष्कं दण्डेन सन्ताड्य कृत्वा खण्डानि तानि च ॥१३ ॥ नीत्वा ययौ यत्र देशे जलं काष्ठं च लभ्यते ।
प्रक्षाल्य सलिले तानि श्रपयामास चानले ॥१४॥ आदाय पितॄन् तर्पित्वा यावदग्नौ जुहोति सः ।
तावद् वह्निरशुद्धेस्तु भयेनाऽदृश्यतां गतः ॥१५॥ सर्वत्र पृथिव्यामग्निशालायां हवनस्थले ।
चित्ते कोपं तथा कृत्वा शक्रोपरि विशेषतः ॥१६॥ अथाग्निविगमे होमे नष्टे देवप्रभोजनम् ।
निरुद्धं तेन देवर्षिब्रह्मविष्णुपुरस्सराः ॥१७॥ वह्नेरन्वेषणार्थाय बभ्रमुर्धरणीतलम् ।
अथाऽरण्ये गजो दृष्टः प्रपच्छुस्तं हिमालये ॥१८॥ वह्निर्हव्यप्रभोक्ता चेत् त्वया दृष्टोऽत्र नो वद ।
गजः प्राहाऽत्र सङ्कीर्णे वंशस्तम्बे प्रवर्तते ॥१ ९॥ गुप्तो भूत्वा प्रविष्टः स दग्धस्तेनाऽहमागतः ।
इत्युक्तास्ते ययुस्तत्र वह्निर्यत्र हि वर्तते ॥1.495.२० ॥ तावद्वह्निः शशापैनं गजं निर्देशकारकम् ।
गुप्तं मे त्वं निवेदयस्यतो जिह्वा सदा तव ॥२१ ॥ विपरीता भवत्वेवेत्युक्त्वा स्तम्बाद् विनिर्ययौ ।
देवैः स्तम्बे न वै दृष्टो लग्नाः पृष्ठे दिदृक्षया ॥२२॥ अथ दृष्टः शुको देवैर्भ्रममाणो हिमालये ।
पृष्टश्च शुक! वह्निं त्वं दृष्टवानत्र चेद् वद ॥२३ ॥ शुकः प्राह कुलायो मे शम्यामत्र हि वर्तते ।
वर्तन्ते शिशवो मेऽपि वह्निस्तत्र समागतः ॥२४॥ तेन दग्धा वयं सर्वे कृच्छ्रादेव विनिर्गताः ।
तत्र शम्यां गुप्तरूपश्चास्ते वह्निर्विदन्तु तम् ॥२५॥ एवमुक्तस्ततो वह्निः क्रुद्धः शुकं शशाप ह ।
अहं यस्मात् त्वया पक्षिन् देवानां विनिवेदितः ॥२६॥ तस्माच्छुक न ते वाणी विस्पष्टा सम्भविष्यति ।
एवं शप्त्वा शुकं वह्निः सुरैः शम्यां सुमार्गितः ॥२७॥ तावत् ततोऽदृश्यभावं कृत्वा देशान्तरं ययौ ।
पुष्करं तीर्थमासाद्य जलमध्ये तले स्थितः ॥२८॥ देवा ध्यानेन वै दृष्ट्वा मत्स्यं पप्रच्छुरुत्सुकाः ।
वह्निरत्रागतः कुत्र वर्तते वद नः सुरान् ॥२९॥ मत्स्यः प्राह तले चात्र पुष्करे वर्तते हि सः ।
तेन दग्धा वयं तीरे तिष्ठामो दुःखिता ह्यति ॥1.495.३०॥ इत्युक्तवन्तं मत्स्यं स शशाप क्रोधितोऽनलः ।
स्वज्ञातिभक्षका मत्स्या भवन्तु सर्वभक्षकाः ॥३ १ ॥ इति शप्त्वा ततः स्थानाद् दुद्राव बहुवेगतः ।
अश्वपट्टसरः प्राप्य सौराष्ट्रे चाऽऽस्थितोऽनलः ॥३२॥ सुरा ज्ञात्वा ध्यानवृत्त्या ययुः कुङ्कुमवापिकाम् ।
सरस्तीरगतं कूर्मं पप्रच्छुः वहिरागतः? ॥३३॥ चेदत्र वद नः कूर्म! स प्राहाऽत्र जले तले ।
प्रविष्टो वह्निरागत्य दग्धा वयं बहिर्गताः ॥३४॥ देवास्तं द्रष्टुमुत्कण्ठायुक्तास्तत्र तदाऽनलः ।
कूर्मं शशाप ते वंशो वृद्धिं नैव गमिष्यति ॥३५॥ एवं शप्त्वा ततः स्थानाद् देवाऽदर्शनवाञ्च्छया ।
हाटकश्वरजे क्षेत्रे नागनद्यां ययौ ततः ॥३६॥ जलाशयं सुगम्भीरं प्रविष्टस्तत्र चाऽऽश्रितः ।
तत्र वह्निप्रवेशेन दग्धा मत्स्याश्च दर्दुराः ॥३७॥ तीरं निर्गत्य यन्ति च देवा गत्वा च दर्दुरम् ।
पप्रच्छुस्तं वह्निरत्र वर्तते वा नवेति वै ॥३८॥ भेकः प्राहात्र गम्भीरे जले वह्निरुपागतः ।
तेन वै जलमध्यस्था दग्धा भूरिजलौकसः ॥३९॥ अहं कृच्छ्रेण निर्गत्य जीवामि देवसंश्रयात् ।
तच्छ्रुत्वा तं जले देवा मार्गयामासुरुत्सुकाः ॥1.495.४०॥ वह्निः शशाप तं भेकं देवेभ्यो यन्निवेदितः ।
तस्मात् त्वं भव वै न्यूनं विजिह्वोऽत्र धरातले ॥४१ ॥ एवं मुक्त्वा ततः स्थानाद् यावद्वह्निर्विनिर्गतः ।
तावत् स ब्रह्मणा प्रोक्तो भो भो वह्ने स्थिरो भव ॥४२॥ कथं धावसि गुप्तात्मा देवान् दृष्ट्वा प्रतिस्थलात् ।
त्वमाद्यश्चैव सर्वेषां देवानां वर्तसे मुखम् ॥४३॥ त्वय्याहुतिर्हुता सम्यगादित्यमुपतिष्ठति ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥४४॥ तस्माद् धाता विधाता च त्वमेव जगतां मतः ।
सन्तुष्टे ध्रियते विश्वं त्वयि रुष्टे विनष्यति ॥४५॥ सर्वे यज्ञा रसाः सर्वे पाकाः सर्वे त्वयि स्थिताः ।
तवाश्रयेण जीवानि जीवन्ति चान्तरश्चर ॥४६ ॥ ब्रूहि कस्मात् प्रगुप्तस्त्वं जायसे सुखदो भव ।
वह्निः श्रुत्वा ह्यजं प्राह शृणु गुप्तेस्तु कारणम् ॥४७॥ अनावृष्ट्या महेन्द्रस्य सञ्जातश्चौषधिक्षयः ।
ततोऽस्म्यहं तु मांसेन विश्वामित्रेण योजितः ॥४८॥ अभक्ष्यभक्षणाद्भीतो गुप्तो भवामि नान्यथा ।
ब्रह्माऽऽकर्ण्याऽऽह देवेशं किमर्थं नैव वर्षसि ॥४९॥ इन्द्रः प्राहाऽग्रजं त्यक्त्वा देवापिं भ्रातरं प्रजाः ।
चक्रिरेऽनुजनिं पृथ्वीपतिं शन्तनुमुत्पदम् ॥1.495.५० ॥ तत्पापेन न वर्षामि क्रमलङ्घनकारणात् ।
ब्रह्मा प्राह च तत्पापं भुक्तं शन्तनुना यतः ॥५१ ॥ अकालमृत्यवः सर्वे दुर्भिक्षमरणाः परे ।
शन्तनु क्षुधितश्चास्ते पापं भुक्तं तु तेन वै ॥५२॥ वृष्टिं कुरु महेन्द्र त्वं मम वाक्यात् प्रजाकृते ।
इत्युक्तः पुष्करावर्तान्मेघान् समादिदेश सः ॥५३ ॥ ववृषुश्च महामेघाः पूरयामासुरम्मयम् ।
ब्रह्मा वह्निं ततः प्राह प्रत्यक्षो भव पावक ॥५४॥ अग्निहोत्रेषु यज्ञेषु विप्राणां हवनेषु च ।
वरं वृणु यथेष्टं ते ददामि हितकाम्यया ॥५५॥ यत्र यत्राऽभवो गुप्तस्तत्तत् तीर्थं त्वदात्मकम् ।
वह्नितीर्थं प्रसिद्धं च पावनं सम्भविष्यति ॥५६ ॥ वह्निः प्राह च भगवन्! वर्षत्रयं हि भोजनम् ।
नाप्तवानस्मि कुत्रापि देहि मे भोजनं ततः ॥५७॥ ब्रह्मा विप्रान् समाहूय वह्नेस्तृप्त्यर्थमेव तु ।
वसोर्धाराप्रदानेन घृतस्य धारया मुदा ॥५८॥ तर्पयन्त्वनलं चेत्युवाच ते चक्रिरे तथा ।
वसोर्धाराप्रदानेन वर्षपर्यन्तमेव ह ॥५९॥ ततस्तुष्टिं परां प्राप्य परां पुष्टिं गतोऽनलः ।
यस्माद् भवति सम्पूर्णं पूर्णाहुत्या च धारया ॥1.495.६०॥ एवं वह्निं सम्प्रकाश्य वृष्टिं क्रतुं विधाय च ।
ब्रह्माद्या देवताः स्वर्गं ययुस्ततो गजादयः ॥६ १ ॥ ऋष्याश्रमेषु वन्येषु दृष्ट्वा वह्निं प्रकाशितम् ।
ययुः पावकशरणं प्रार्थयामासुरीश्वरम् ॥६२॥ यत्र यत्राऽभवद् वह्निर्येन यत्राऽवलोकितः ।
गजाद्या अनलं प्राहुः प्रभो शापं निवारय ॥६३ ॥ वह्निः प्राह गजेन्द्रं ते जिह्वा कार्यक्षमाऽस्तु वै ।
नृपवाहनरूपश्च मिष्टान्नं भक्षयिष्यसि ॥६४॥ शुकं प्राह च ते जिह्वा नृपप्रशंसिकाऽस्तु वै ।
भेकं प्राह च ते जिह्वा वृष्टिसूचनदाऽस्त्विति ॥६५॥ मत्स्यं प्राह च ते वंशश्चैकस्माच्छतकोऽधिकः ।
सहस्रान्तश्चैकस्मिन् प्रसवे प्रसवेऽस्तु वै ॥६६ ॥ कच्छपं प्राह ते चायुः शतवर्षपरं स्थिरम् ।
भवत्वपि भवद्वंशे भगवान् श्रीहरिः स्वयम् ॥६७॥ कार्यवशाज्जन्म लब्ध्वा तारयिष्यति वंशजान् ।
मत्स्यः कूर्मोऽभवत् साक्षाद्भगवान् श्रीहरिः स्वयम् ॥६८॥ गणेशश्च गजास्यो वै तथा लक्ष्मीर्गजानना ।
जातौ श्रीकृष्णरूपौ तौ व्यासपुत्रात्मकः शुकः ॥६९॥ सञ्जातो दर्दुरो राजा कामरूपधरो हरिः ।
सौराष्ट्रे देवनगरे येनाऽऽसीद् वैष्णवं जगत्॥1.495.७०॥ देवनगरराजः स बभूव वैष्णवः परः ।
जाजलिश्चाऽऽगमत् सोमेश्वरं तीर्थं तु चैकदा ॥७१ ॥ ततश्च रैवतं तीर्थं कृत्वा द्वारवतीं ययौ ।
ततो ययौ चमत्कारपुरं नागनदीतटे ॥७२॥ सुष्वाप स्वप्नदोषेण धातुः प्रस्खलितोऽभवत् ।
कौपीनं च समुत्थाय तेन प्रक्षालितं जले ॥७३॥ भेको तं भक्ष्यरूपेण निगीलितवती द्रुतम् ।
तस्यां पुत्रः समभवत् तीरे भेकी प्रपीडिता ॥७४॥ समागत्य मृतिं प्राप्ता धोवरेण धृता हि सा ।
उदरस्य प्रदेशश्च तस्या आसीत् प्रफाटितः ॥७५॥ तत्र दृष्टः शुभो बालः श्वसन् सङ्गृह्य तं सुतम् ।
धीवरस्तु ददौ सूर्यसमं राजवराय तम् ॥७६ ॥ चमत्कारेण राज्ञा स वर्धितो गौर्जरेश्वरः ।
राजाऽभवन् महाभक्तो वैष्णवो विष्णुरूपवान् ॥७७॥ यस्य राज्येऽभवन् सर्वे वैष्णवा मानवादयः ।
दर्दुरेण समुद्रस्य तटे दर्दुरकं पुरम् ॥७८॥ स्थापितं सुविशालं च राजधानीस्वरूपकम् ।
मोहमयं दिवः साम्ये दक्षिणे स्मृद्धिपूरितम् ॥७९॥ अथ भेकाय वह्निः स द्वितीयं तु वरं ददौ ।
चिरञ्जीवा तव जातिर्भवत्वेवं नवं पुनः ॥1.495.८०॥ प्रतिवर्षं नूतनं वै शरीरं प्राग्भवाद् भवेत् ।
पुनर्भूस्तेन वर्षायां जायते भेक एव ह ॥८१॥ इत्येवं कथितं सर्वं सामर्थ्यं वहिसंस्थितम् ।
विश्वामित्रश्च तं वह्निं लुप्तं ज्ज्व तु तत्क्षणम् ॥८२॥ दूरीचकार मांसं तत्सारमेयमशुद्धकम् ।
उपवासं तदा चक्रे तावत् तत्र महाजनः ॥८३॥ व्रीहीन् त्रैवार्षिकान् भूमेः खनित्वा भूदरस्थितान् ।
समादाय ययौ दैवात् ददौ तस्मै महर्षये ॥८४॥ स्नात्वा शुद्धिं परां कृत्वा कृत्वा होमं चिदम्बरे ।
आकाशवपुषि कृष्णे बुभुजे दैवभालितम् ॥८५॥ अथ यात्रां स निर्वर्त्य ययौ तीर्थार्थमेव च ।
श्रवणात्पठनाच्चास्य पापप्रज्वालनं भवेत् ॥८६॥ धर्मे श्रद्धा भवेच्चापि वह्नेः प्रसन्नता भवेत् ।
पावनं मानसं भूत्वा भक्तियोग्यं भवेत् प्रिये ॥८७॥ इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने ज्येष्ठं विहायाऽनुजस्य राज्याभिषेके वृष्ट्यभावे विश्वामित्र-हुतमांससंसर्गेण दोषभीतवह्नेरन्वेषकाणां देवानां सन्देशप्रदगजशुकपुष्करमत्स्यकूर्मभेकानां वह्नेः शापश्चानुग्रहश्चेत्यादिकथननामा पञ्चनवत्य-
धिकचतुश्शततमोऽध्यायः ॥४९५॥