४८५

श्रीनारायाण उवाच–
अन्यत्त्वाख्यानकं वक्ष्ये शृणु लक्ष्मि पुरातनम् ।
सकुटुम्बो गतो मोक्षमृषिर्दीर्घतमा महान् ॥१ ॥ काशीराजोऽभवच्चित्रसेनाऽऽख्यस्तस्य पत्तने ।
काश्यभिधे स वसते मुनिर्दीर्घतमाः सदा ॥२ ॥ काश्या उत्तरदिग्भागे मन्दारारामनामकम् ।
स्थलं द्रुमलताकीर्णं तत्र दीर्घतमा ऋषिः ॥३ ॥ तपस्तपति चात्यर्थं तिष्ठति दारपुत्रयुक् ।
शुश्रूषयन्ति ते सर्वे सुताः पञ्च तथेतरे ॥४ ॥ तस्य पुत्रः ऋष्यशृङ्गः कनीयानपि तापसः ।
योगी च ब्रह्मचारी च वेदाध्ययनतत्परः ॥५ ॥ कन्दमूलफलाहारस्तिष्ठति मृगरूपधृक् ।
मृगमध्ये वसन्नित्यं पित्रोर्नमः क्रियाकृते ॥६ ॥ प्रातः सायं समायाति पुनर्याति मृगेषु सः ।
अथ काशीपतिश्चित्रसेनो नृपो जनैः सह ॥७ ॥ मृगयार्थं गतश्चाश्वारूढो मन्दारपादपान् ।
तत्र राजा मृगयूथपश्यद्वै महत्तमम् ॥८ ॥ अधावँश्च मृगा दश दिशो भयान्नृपोऽपि च ।
एकाकी प्रययौ पृष्ठे मृगाणां गहने वने ॥९ ॥ मध्याह्नोऽपि प्रसञ्जातो दिग्भ्रमोऽपि च भूभृतः ।
क्षुत्तृषार्तोऽभवच्छायामाश्रित्य सरसस्तटे ॥1.485.१ ०॥ स्थितः क्षणं जले स्नानं चकार कुमुदानि च ।
गृहीत्वा तर्पणं कृत्वा पपौ वारि यथेप्सितम् ॥१ १॥ मृगमध्ये स्थितो योगी ऋष्यशृङ्गो महातपाः ।
मृगभक्षणकामश्च राजा वृक्षमूलाश्रितः ॥१ २॥ चापं धृत्वा कराग्रेण प्राक्षिपत्तच्छरं मृगे ।
ऋष्यशृङ्गः शरविद्धः कृष्णकृष्णेति संवदन् ॥१ ३॥ कस्यैषा दुर्मतिर्जाता मृगमध्ये स्थितौऽप्यहम् ।
केनाऽहं पातितस्त्वत्र न किञ्चिदपराधवान् ॥१४॥ वाचं तां मानुषीं श्रुत्वा राजा तन्निकटं ययौ ।
दृष्ट्वा तं घातितं विप्रं हाहाकृत्वा रुरोद ह ॥१५॥ विप्रः प्राह न ते सिद्धिर्मम नाशे तु भूमिप! ।
तवैव विहिता हत्या त्वया तत्प्रतिफालिनी ॥१६॥ जननी मे पिता वृद्धौ भ्रातरौ मे तपस्विनः ।
मम नाशं तु ते श्रुत्वा मरिष्यन्ति यदि नृप! ॥१७॥ एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत् तव ।
उपायं ते कथयामि कुरु तद् यदि मन्यसे ॥१८॥ मां गृहीत्वाऽऽश्रमं पुण्यं यत्र तीौ पितरौ मम ।
आवेदयस्व चात्मानं पुत्रहन्तारमागतम् ॥१ ९॥ तौ दृष्ट्वा मां करिष्येते कारुण्यं वै तवोपरि ।
उपायं वा करिष्येते येन शान्तिर्भविष्यति ॥1.485.२०॥ चित्रसेनस्तु तच्छ्रुत्वा स्कन्धे कृता तु भूसुरम् ।
मूर्छितं नीयमानं तं दृष्ट्वा मार्गे व्यसुं नृपः ॥२१ ॥ न्यग्रोधमूलके विप्रं दाहयामास तद्वने ।
स्नानं कृत्वाऽतिशोकार्तो रुरोद च मुमोद च ॥२२॥ ऋष्यशृङ्गस्य चास्थीनि गृहीत्वाऽऽश्रमसन्निधौ ।
गतवन्तं नृपं वीक्ष्य मुनिर्दीर्घतपास्तु तम् ॥२३ ॥ आसनं मधुपर्कादि ददौ स्नेहेन भूपतिम् ।
राजाऽऽह नार्घयोग्योऽहं पापवानस्मि भूसुर ॥२४॥ मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः ।
पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय ॥२५॥ मृगभ्रान्त्या हतो विप्रो दुष्कृतं तन्मया प्रभो ।
इति श्रुत्वा तु मात्राया रुरुदुर्बान्धवादयः ॥२६॥ दीर्घतपा विचार्यैव रुदन् ययौ तु तत्स्थलम् ।
जगाद नृपतिं राजन् बुद्धिः कर्मानुसारिणी ॥२७॥ जायते हि मनुष्याणां तथा तेऽपि मतिर्मता ।
हत्यां त्वं कृतवान् राजन्! किन्तु सा ते न वै भवेत् ॥२८॥ वयं पिता तथा माता भ्रातरश्च कुटुम्बकम् ।
ऋष्यशृङ्गस्य शोकेन योगेन च तनुत्यजः ॥२९॥ भविष्यामः क्षणाद् राजन्नस्थीन्यादाय नार्मदम् ।
शूलभेदं गच्छ तीर्थं क्षिपाऽस्थीनि च तज्जले ॥1.485.३ ०॥ मुच्यसे सर्वपापेभ्यो मम वाक्यान्न संशयः ।
आदेशं ते करिष्यामीत्याह तं नृपसत्तमः ॥३१ ॥ ऋष्यशृङ्गस्य शोकेन योगधारणया द्विजाः ।
कुटुम्बं व्यसुतां प्राप्तं दग्ध्वा तद् ब्राह्मणैर्जनैः ॥३२॥ राजाऽस्थीनि च सङ्गृह्य शुद्धो भूत्वा तु नर्मदाम् ।
ययौ स्वल्पेन कालेन पृष्ट्वा तीर्थं च तन्नृपः ॥३ ३॥ नर्मदादक्षिणे कूले शूलभेदं सुपावनम् ।
आगत्याऽस्थीनि सन्धृत्वा भूमौ स्नात्वा ततः शुचिः ॥३४॥ तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः ।
निक्षिप्याऽन्तर्जलेऽस्थीनि यावत्पश्यति चाम्बरे ॥३५॥ तान् ददर्श ततः सर्वान् देवमूर्तिन्धरान् शुभान् ।
दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ॥३६॥ विमानैः काञ्चनैर्दिव्यैः कृष्णषार्षदसेवितैः ।
उत्पततः समालोक्य राजा हर्षमुपागतः ॥३७॥ ऋषिर्विमानमारूढश्चित्रसेनमथाऽब्रवीत् ।
भोभो राजँस्त्वत्प्रसादाद् गतिर्दिव्या ममाऽद्य वै ॥३८॥ मदीयवचनाद् राजन् निष्पापस्त्वं भविष्यसि ।
इत्युक्त्वा प्रययुः सर्वे मुक्तिं दीर्घतपोजनाः ॥३९॥ राजा शम्भुं स्मरन् प्राणाँस्त्यक्तं तत्र समुद्यतः ।
शङ्करस्तु समागत्य तं रुरोध नृपं हठात् ॥1.485.४०॥ अद्यापि त्वं युवा राजन् न यु्क्तं मरणं तव ।
स्वस्थानं याहि राज्यं सम्भुक्ष्व कालान्तरे ततः ॥४१ ॥ काशीराज्यं चिरं कृत्वा ध्यात्वा श्रीशङ्करं तु माम् ।
नन्दिर्नामा गणो मे त्वं देहान्ते सम्भविष्यसि ॥४२॥ इत्युक्त्वा प्रययौ शम्भुः राजा काशीपुरीं ययौ ।
देहान्ते शङ्करं ध्यात्वा नन्दिर्नामा गणोऽभवत् ॥४३॥ इति ते कथितं लक्ष्मि! पावनं चरितं शुभम् ।
यच्छ्रुत्वा विलयं यान्ति पातकानि नृणां प्रिये! ॥४४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ऋष्यशृङ्गस्य मृगरूपस्य काशीराजचित्रसेनशरेण मृत्यूत्तरं तत्पितृदीर्घतपःप्रभृतीनां नर्मदाजलेऽस्थिनिक्षेपान्मुक्तिरित्यादिनिरूपणनामा पञ्चाशीत्यधिकचतुश्शततमोऽध्यायः ॥४८५॥