४७५

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि दुर्वाससोऽतिकष्टदम् ।
कदल्याश्चरितं पश्चाज्ज्ञानेन मोक्षदं परम् ॥१ ॥ पत्नीव्रतं तु मुनिना वाग्दानाऽवसरे धृतम् ।
क्षमामयं तथा सम्यग् वैराग्यदं तपःकरम् ॥२ ॥ बलेः पुत्रः साहसिको वने तिलोत्तमायुतः ।
रतिं चकार विजने दिवा कामेन मोहितः ॥३ ॥ यत्र दुर्वाससो देहे वल्मीकस्तपतोऽभवत् ।
दुर्वासास्त्वान्तरदृष्ट्या ज्ञातवाँस्तं बलेः सुतम् ॥४ ॥ अमर्यादं शशापाऽपि धेनुको भव दानवः ।
खरवद् वर्तसे यस्मात् सन्निधौ मम चाश्रमे ॥५ ॥ खरो भव वने चेयं तिलोत्तमाऽपि बाणजा ।
उषाऽनिरुद्धपत्नी च भवत्विति शशाप वै ॥६ ॥ उषा शशाप तं दुर्वाससं त्वं पीडितः स्त्रिया ।
भवाऽतिदुःखितः काममोहितश्चेति वै तदा ॥७ ॥ तेन दोषेण दुर्वासाः कामवानभवत् क्वचित् ।
तदा तत्रागमदौर्वनामर्षिः स्वसुतायुतः ॥८ ॥ ऊरूद्भवो ब्रह्मणस्तु पुरा कल्पे तपस्यतः ।
ऊर्ध्वरेता हि योगीन्द्र और्वस्तेनेति स स्मृतः ॥९ ॥ तस्य जानूद्भवा कन्या कदलीनाम विश्रुता ।
दुर्वाससं प्रार्थयन्ती नान्यं मनसि रोचते ॥1.475.१ ०॥ सुतायुक्तो मुनिरौर्वो दुर्वाससं ननाम ह ।
दुर्वासाश्च प्रणनाम समुत्तस्थौ मुदान्वितः ॥११ ॥ और्वो दुर्वाससं प्रोचे कन्यकाया मनोरथम् ।
कदली मम कन्येयं ध्यायन्ती त्वां स्मरत्यपि ॥१ २॥ सर्वरूपगुणाधारा दोषेणैकेन संयुता ।
अतीव कलहाविष्टा कोपेन गालिकाब्रुवा ॥१३ ॥ नानागुणयुतं वस्तु न त्यजेदेकदोषतः ।
और्वस्य वचनं श्रुत्वा दृष्ट्वा कन्यां सुसुन्दरीम् ॥१४ ॥ नवयौवनसम्पन्नां मुनिर्मुमोह कामतः ।
उवाचौर्वं सुखयता हृदयेन विदूयता ॥१५॥ नारी नरस्य संसारे मुक्तिमार्गनिरोधिका ।
व्यवधानं तपस्याया मोहपाशनिबन्धिनी ॥१६॥ कारागाराख्यसंसारे दुर्वहं निगडं तु सा ।
अतो मे ध्यायतः कृष्णपादाब्जं विघ्न आगतः ॥१७॥ एनं मोहं फलं तिलोत्तमाशापस्य वेद्म्यहम् ।
और्व मे रोचते नैव संसारो यद्यपि क्षयः ॥१८॥ तवाऽऽज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव ।
उपेतां कामिनीं त्यक्त्वा भयं स्यान्नाशकारकम् ॥१ ९॥ रहस्युपस्थितां कामाद् गृह्णीयान्नाशसङ्करे ।
किन्त्वतिनिन्दितः स स्यात् स्त्रीजितश्चेत् सदा भवेत् ॥1.475.२०॥ और्व त्वं तु स्वयं चात्र कन्यया सह चागतः ।
दातुं मह्यं हि ते कन्यां ततोऽस्मि धर्मसङ्कटे ॥२ १ ॥ विनाशाऽपेक्षया ग्राह्यो धर्म एव सनातनः ।
ग्रहीष्यामि तव कन्यां सहिष्ये शतगालिकाः ॥२२॥ अतिरेके कटुवाक्ये दास्यामि तत्क्षणे फलम् ।
शतगालीसहिष्णुत्वं पत्नीव्रतं मम ध्रुवम् ॥२३॥ अस्याः पतिव्रतं नित्यं शतगालीप्रदानकम् ।
यादृशो वरराजोऽस्ति तादृशी च वधूः कृता ॥२४॥ अहो भाग्यस्य वैचित्र्यं भोगिने सर्पिणी धृता ।
यद्यहं शतपूर्वं स्यामधैर्यः सा प्रदण्डयेत् ॥२५॥ भाषाबन्धं प्रकृत्वैवमौर्वो ददौ सुतां निजाम् ।
स्वस्तीत्युवाच दुर्वासा विवाहं विधिनाऽकरोत् ॥२६॥ और्वस्तां सुखकृद्वाक्यैर्बोधयामास कन्यकाम् ।
शृणु पुत्रि प्रवक्ष्यामि नीतिसारं सुखावहम् ॥२७॥ हितं सत्यं च गार्हस्थ्यपारकृद्वचनं मम ।
स्वकान्तस्तु परो बन्धुरिह लोके परत्र च ॥२८॥ नहि कान्तात् परः प्रेयान् कुलस्त्रीणां परो गुरुः ।
देवपूजा व्रतं दानं तपश्चानशनं जपः ॥२९॥ तीर्थस्नानं यज्ञदीक्षा पृथ्वीप्रदक्षिणादयः ।
त एते पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥1.475.३ ०॥ किमेतैः पतिभक्तायाः सर्वपुण्यप्रशेवधेः ।
दुःखी जनः सुखार्थं वै साकाङ्क्षः प्रथमो भवेत् ॥३ १ ॥ पतिसेवा सुखार्थेति तत्र दत्तमतिर्भव ।
पतिसेवा परो धर्मः स्वर्गमोक्षप्रदोऽस्ति ते ॥३२॥ स्वप्रज्ञानेन सततं कान्तं नारायणाऽधिकम् ।
दृष्ट्वा तश्चरणाम्भोजसेवां नित्यं करिष्यसि ॥३३॥ परिहासेन कोपेन भ्रमेणाऽवज्ञया मुनेः ।
कटूक्तिं स्वामिनः साक्षात्परोक्षान्न करिष्यसि ॥३४॥ स्त्रिया वाग्योनिदुष्टाया यमदण्डो भवेद् ध्रुवम् ।
सर्वधर्मपरीतां या कटूक्तिं कुरुते पतिम् ॥३५॥ नैकजन्मकृतं पुण्यं तस्या नश्यति निश्चितम् ।
गाली दानं न कर्तव्यं क्वापि कुत्रापि केनचित् ॥३६॥ त्वया पुत्रि वधूर्भूत्वा मुनेर्नैव विशेषतः ।
गालीदानं मनसाऽपि स्मर्तव्यं न पतिव्रते ॥३७॥ तदा सौख्यं च ते नित्यं सौभाग्यं सम्भविष्यति ।
अन्यथा तत्र विघ्नोऽस्ति वत्से निबोध मद्वचः ॥३८॥ प्राप्तो मणिर्न हातव्यो निर्मूल्यः कङ्करो यथा ।
लब्धः पतिर्न धिक्कार्यो यथा चौरः शठोऽहितः ॥३९॥ स्वामी नैवाऽवमन्तव्यो यथा श्वा मर्कटो यथा ।
त्वङ्कार्यो न त्वया कान्तः किङ्करोऽनिष्टकृद् यथा ॥1.475.४०॥ भर्ता नाऽवगणनीयो यथा कृत्तिमयो मृगः ।
त्राता वशे न कर्तव्यो यथा डित्थमयः करी ॥४१ ॥ वंशदाता न वंशेन ताडनीयः कदाचन ।
भोजनस्याऽर्पके पत्यौ नभोजनवदाचरेत् ॥४२॥ निन्दायितं नाचरेद्वै प्रिये त्वानन्ददायिनि ।
सेवनीये गुरौ नैव वनीयतां समाचरेत् ॥४३॥ सदाऽपारप्रदे पत्यौ पारदत्वं न वै चरेत् ।
पुरुषार्थप्रतिमायां रुषार्थं न चरेत् सती ॥४४॥ कामनायां प्रवृत्तायां न किम्मनायते प्रिया ।
पत्युः शेषतया शिष्टा वर्तेत न शिरस्तथा ॥४५॥ पत्यौ प्राणाँश्चार्पयित्वा तिष्ठेत प्राणहा न तु ।
रतिं दद्याद् यथातृप्तिं कष्टदां विरतिं न वै ॥४६॥ सर्वं दद्यात् स्वामिने वै गालीदानं न वै क्वचित् ।
आत्मार्पणं प्रकुर्याद्वै कष्टार्पणं विना सती ॥४७॥ इति कन्यां बोधयित्वा जगामौर्वः स्वकाश्रमम् ।
दुर्वासाश्चेतनारामः त्वाश्रमं स्त्रीयुतो ययौ ॥४८॥ अहो सुकृतिनां कामो वाञ्च्छामात्रेण सिद्ध्यति ।
कदली तं नवं कान्तं सिषेवे स च तां सतीम् ॥४९॥ तपो ध्यानं परित्यज्य गृहाऽऽसक्तोऽभवन्मुनिः ।
करोति कलहं नित्यं प्रातरुत्थाय कन्दली ॥1.475.५०॥ गालीवाक्यं विना नैव प्रबोधयति तं पतिम् ।
तस्यां पितुः कृता शिक्षा ऊषरे बीजवद् वृथा ॥५१ ॥ खाने पाने भोजनेऽर्थे विहारे सङ्गमेऽर्चने ।
कटूक्तिं प्रायशो ब्रूते सेहे तां क्रोधनो मुनिः ॥५२॥ पत्नीव्रतं प्रतिज्ञातं शतगालीसहिष्णुता ।
दुर्वासा बोधयामास नीतिवाक्यैस्तु कामिनीम् ॥५३॥ सा तन्न बुबुधे किञ्चित् करोति कलहे स्पृहाम् ।
तातप्रदत्तज्ञानं तु नान्तःस्थानं चकार वै ॥५४॥ उग्रा पूर्वाद् विशेषा सा पतिपुत्रवती यतः ।
न हीयते प्रबोधेन स्वभावो दुरतिक्रमः ॥५५॥ नित्यं कटूक्तिं कान्तं सा करोति हेतुना विना ।
तत्रापि भोजने देवपूजने तु विशेषतः ॥५६॥ जगत् प्रकम्पितं येन स कम्पितस्तया रुषा ।
पुत्राः पुत्र्योऽभवँस्तस्यां विंशतिर्विंशतिस्ततः ॥५७॥ कटूक्तिर्वर्धिता नार्या शताधिकगुणा सदा ।
अथ स्थानं परित्यज्य लोकलज्जाविगर्हितः ॥५८॥ ययौ स्थानान्तरं नीत्वा बालाँस्त्यक्त्वा तु तां प्रियाम् ।
एको बालो धृतो मूर्ध्नि द्वौ धृतौ स्कन्धयोः पुनः ॥५९॥ कट्यां धृतौ द्वावृषिणा पार्श्वयोर्यान्ति चापरे ।
अन्ये त्वग्रे पृष्ठतश्च प्रयान्ति वानरा यथा ॥1.475.६ ०॥ सर्वे मातृस्वभावास्ते पित्रंशास्तामसास्तथा ।
मार्गे कीशकुलायन्ते नाटयन्ति नटा यथा ॥६१ ॥ विगृह्णन्ति विना तत्त्वं क्रोशन्ति च मृषा मुधा ।
दुर्वाससः शिरोदेशेऽपत्यं मूत्रं चकार वै ॥६२॥ स्कन्धयोश्च मलं चक्रे कट्यां ष्ठीवनमाचरत् ।
विना जलं न वै शुद्धिस्तत एवं ययौ पुरः ॥६३॥ तत्राऽऽययौ च देवर्षिर्नारदः शङ्करस्तथा ।
ब्रह्मा विष्णुः सनकाद्याः सप्तर्षयः कुतूहलात् ॥६४॥ रूपान्तरैश्च ते प्राहुः किमेवं वहसे मलम् ।
दुर्वासाः प्राह गार्हस्थ्यसुखमत्राऽनुभूयते ॥६१॥ जीवन्वै नरके मग्नो यमकुण्डो गृहाश्रमः ।
अहो कष्टं मलिनत्वं नरक चन्दनायते ॥६६ ॥ मूत्रं जयति तैलस्य स्थाने जटासु मेऽद्य वै ।
अहो मोहस्य केदारो विषं यत्राऽमृतायते ॥६७॥ दुखं सुखायतेऽज्ञानादज्ञानं कन्दलीकृतम् ।
कं सुखं दलितं यस्मान्मम सा कन्दली प्रिया ॥६८॥ त्यजामि वा रक्षयामि किं करोमि तया विना ।
एवं निःश्वस्य दुर्वासाः सार्थमध्ये स्थितः क्षणम् ॥६ ९॥ हसितो बोधितश्चापि नारदाद्यैर्महर्षिभिः ।
गृहस्थानां भवेत् क्लेशः संसारः क्लेशसम्भृतः ॥1.475.७०॥ गच्छ गृहं पुनर्विप्र मैवं त्यज गृहं स्वकम् ।
इति सम्बोधितो यावत् तावत् सा कन्दली सती ॥७१ ॥ रुदती पृष्ठतः समाजगामाऽऽनयनाय तम् ।
पादयोः पतिता प्राह गालीं दास्येन न वै क्वचित् ॥७२॥ करोत्वनुग्रहं क्रोधिन्! शठापते स्थवीरक! ।
इतिवाक्यानि मिष्टानि कन्दल्याः सम्मतानि वै ॥७३॥ जगाद कन्दली नम्रा दीना च कातरा मुहुः ।
दयां कृत्वा च दुर्वासा धृतो वस्त्रे च योषिता ॥७४॥ ययौ गृहं शरीरेणाऽपत्यकर्दमलेपिना ।
सस्नौ शुद्धिं चकारापि जजाप ब्रह्म चान्तरे ॥७५॥ एवं रोषो लयं यातः कर्मवश्यस्य रोषिणः ।
पुत्रवती कटूक्तिं सा शतोत्तरां जगाद ह ॥७६ ॥ ज्ञानिनां प्रवरो विप्रः क्षमासंस्थां चकार ह ।
नित्यं शतोत्तरां वक्ति .बोधं चक्रे दयानिधिः ॥७७॥ मौनं तथापि सा धत्ते नैव वेगाद् दिने दिने ।
एवं गालीप्रदानैश्च प्रदग्धं मानसं मुनेः ॥७८॥ तस्याः कटूक्तिवाचिन्या आयुः पूर्णं बभूव ह ।
स्वात्मारामोऽपि मुनिराट् कोपावेशातिवेगितः ॥७९॥ शशाप कामिनीं रोषाद् भस्मराशिर्भवेति वै ।
मुनेरिङ्गितमात्रेण भस्मसात् सा बभूव ह ॥1.475.८० ॥ एवमत्युच्छ्रितानां वै मत्तानां श्रेय एव न ।
अपत्यानि मुनेस्तस्य चक्रुशुर्मातृनाशनात् ॥८ १ ॥ अथ तस्या आत्मतत्त्वं जीवोऽन्तरीक्षगोऽवदत् ।
हे नाथ सर्वदर्शी त्वं ज्ञानवान् योगिनां वरः ॥८२॥ सर्वं जानासि सर्वज्ञ किमहं बोधयामि ते ।
सदुक्तिर्वा कटूक्तिर्वा कोपः सन्ताप एव वा ॥८३॥ लोभो मोहश्च कामश्च क्षुत्पिपासादिकं च यत्॥ स्थौल्यं कार्श्यं विनाशश्च शान्तघोरसुमूढताः ॥८४॥ सर्वे शरीरधर्मास्ते शब्दो गाली च भौतिकाः ।
सत्त्वं रजस्तमश्चैव शरीरं त्रिगुणात्मकम् ॥८५॥ न्यूनाधिकं भवेत् तच्च संसारस्तेन जायते ।
रोदनं हसनं क्लेशश्चोद्वेगो भयमित्यपि ॥८६ ॥ क्रोधः शान्तिश्च शापश्च शारीरा नात्मनः प्रिय ।
सत्त्वोदयात्तु मोक्षेच्छा कर्मेच्छा तु रजोगुणात् ॥८७॥ तमोगुणात् कलहेच्छा द्वयोर्नौ सदृशं तमः ।
तमः कोपस्य जनको यथा त्वयि तथा मयि ॥८८॥ कोपात् कटूक्तिर्गाली च कटूक्त्या शत्रुता भवेत् ।
तया त्वप्रियता सद्यः शत्रुः कः कस्य कः सखा ॥८९॥ को वा प्रियोऽप्रियः कः किं किं मित्रं को रिपुर्भवेत् ।
रागद्वेषौ प्रधानौ वै सर्वत्र शत्रुमित्रयोः ॥1.475.९०॥ प्राणाऽधिकः प्रियः स्त्रीणां भर्तुः प्राणाधिका प्रिया ।
बभूव शत्रुता सद्यो दुरुक्त्या च क्षणाद् रुषा ॥९१ ॥ यद्गतं तद्गतं सर्वं भौतिकं भूतदोषतः ।
शोचनीयं गतं नैव जातं यत्तच्च नान्यथा ॥९२॥ अहं दग्धा तव पत्नी तेऽपि दग्धं तपोधनम् ।
दग्धयोर्देहयोश्चाथ गुणयोर्नागमः पुनः ॥९३॥ गते तद्वै गतं सर्वं नष्टं तन्नष्टमेव हि ।
अथाऽधुना प्रकर्तव्यं यथा श्रेयो भवेत्तु नौ ॥९४॥ क्षमापराधं निखिलं किं कर्तव्यं वदाऽधुना ।
किं करोमि क्व यामीति भविता कुत्र जन्म मे ॥९५॥ तव जाया सदा चास्मि नान्यस्य कुत्रचित् क्वचित्॥ न भूता न भविष्यामि प्राप्स्यामि त्वां पुनः पुनः ॥९६॥ इति श्रुत्वा वचस्तस्याः शोकेन हृतचेतनः ।
क्षणोत्तरं च स्वस्थः स प्राणाँस्त्यक्तुं समुद्यतः ॥९७॥ स्त्रीविच्छेदो विदग्धानां यतः शोकं करोति हि ।
ततो योगासनं कृत्वा मुमुर्षुर्न ह्युवाच ताम् ॥९८॥ सा त्वम्बरे मुनिं दृष्ट्वा मुमुर्षुं शोकविह्वला ।
सस्मार श्रीकृष्णनारायणं दुर्गमरक्षकम् ॥९९॥ तावत् तत्राऽऽययौ बालो विप्रो भूत्वा जनार्दनः ।
सस्मितः श्यामवर्णश्च दुर्वाससं जगाद च ॥1.475.१ ००॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वाससः और्वकन्यया कदल्या सह शतगालीसहनपूर्वकप्रतिज्ञया विवाहस्ततः पातिव्रत्यात्मकतद्धर्मनिरूपणं, विंशतिपुत्रपुत्रीमत्वं, क्रोधेनातिक्रामन्त्याः कदल्याः ऋषिशापेन भस्मता, कदल्याः स्तुतिः, जनार्दनागमश्चेत्यादि-
निरूपणनामा पञ्चसप्तत्यधिकचतुश्शततमोऽध्यायः ॥४७५ ॥