४६३

श्रीनारायण उवाच-
आकर्णय महालक्ष्मि! प्रभे! पार्वति! पद्मजे ।
सरस्वति! रमे! कृष्णे! माणिकि । कम्भरे सति! ॥१ ॥ दुर्गे! राधे! शारदे! च वृन्दे! तुलसि! चाब्धिजे! ।
पद्मावति! पाण्डवेशि! सावित्रि! रुक्मिणी! प्रिये ॥२ ॥ विनतायास्तथा कद्र्वाः कथां पूर्वभवां पणे ।
दक्षदत्ते कश्यपाय कद्रूश्च विनता तथा ॥३ ॥ पतिव्रते महासाध्व्यौ स्वामिसेवापरायणे ।
कृष्णनारायणभक्ते कामरूपधरे शुभे ॥४ ॥ कृष्णार्थं च तपस्यन्त्यावास्तामपत्यवाञ्च्छने ।
कद्र्वाः सर्पाः सुता जाताः कामरूपधराः शुभाः ॥५ ॥ काद्रवेया गणास्ते वै कृष्णा रक्ता हरिद्गुणाः ।
पिशङ्गाः पीतरक्ताश्च कपिशाश्चित्रकास्तथा ॥६ ॥ श्वेता नीलास्तथा सूक्ष्मा मध्या दीर्घाः प्रदीर्घकाः ।
नागाः सरीसृपाः कद्रूसुताः कद्रूपिणोऽभवन् ॥७ ॥ श्यामाश्च शबलाश्चापि तथाऽर्जुनाश्च धूम्रकाः ।
मिश्रवर्णास्तुलालाब्वः कोटिशो नागजातयः ॥८ ॥ अथासूतोलूकतार्क्ष्याऽरुणादीन् विनता सुतान् ।
उलूको राज्यमाप्यापि ज्येष्ठत्वात् पक्षिणां ततः ॥९ ॥ निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ।
क्रूराक्षश्च दिवान्धश्च सदा वक्रनखोऽशुभः ॥1.463.१ ०॥ वाणी त्वस्योद्वेजिकेति नाऽयं राज्यसमर्हणः ।
अथ त्वराजके राज्ये वर्तन्ते स्वैरचारिणः ॥११ ॥ पक्षिणश्चेति राजार्थे पुत्रवीक्षणलालसा ।
अण्डं प्रास्फोटयामास मध्यमं विनता तदा ॥१ २॥ यद्वै पक्वं भवेद् वर्षसहस्रे पूर्णतां गते ।
तदभेदि तयौत्सुक्यादण्डमष्टमके शते ॥१३॥ तावत् सर्वाणि गात्राणि सन्ति पूर्णानि नैव हि ॥१४॥ स तु गर्भोऽभवत् क्रुद्धोऽर्धवर्ष्मसिद्धिभेदने ।
क्रोधेन शिशुना माता शापिता त्वविचार्य यत् ॥१५॥ मातृस्वयाऽर्धदेहान्तर्गतमण्डं विभेदितम् ।
रदनिष्पन्नसर्वाङ्गः शपामि त्वां सुताऽहिताम् ॥१ ६॥ यतो दृष्ट्वा काद्रवेयान् तन्मातुरङ्कलालितान् ।
अधैर्येणाऽण्डमेतन्मे स्फोटितं तन्मिषात्त्वया ॥१७॥ पुत्रं प्राप्य द्रुतं त्वङ्के लालयामीति चेहया ।
ततस्त्वमेधि दासीत्वं सपत्न्या वै विहङ्गमे ॥१८॥ इति श्रुत्वा सुतदत्तं शापं माता शुचान्विता ।
प्राहाऽनूरो ब्रूहि शापस्याऽन्तं पुत्र शुभं कुरु ॥१ ९॥ अनूरुः प्राह मा भिन्धि तृतीयाऽण्डमपूर्णकम् ।
तृतीयेऽण्डे भविष्यन् यः स शापॆ वारयिष्यति ॥1.463.२०॥ इत्युक्त्वा मातरं नत्वोड्डीयाऽनूरुर्ययौ वनम् ।
सूर्यमाराध्य तपसा वरं लब्ध्वा प्रभाकरान् ॥२१ ॥ सूर्येण रक्षितो यन्त्रे रव्यश्वान् वाहयत्ययम् ।
अरुणस्योदयः पूर्वं पश्चात् सूर्योदयः कृतः ॥२२॥ अथ वर्षसहस्रे तु पूर्णेऽण्डं तु तृतीयकम् ।
स्वयं भिन्नं ततो जातो गरुडः सूर्यसदृशः ॥२३ ॥ पतङ्गोऽपि बहिः साक्षादण्डान्निःसृत्य शावकः ।
क्षुधार्थी मातरं प्राह भक्ष्यं मे दीयतामिति ॥२४॥ हृष्टाऽऽह माता क्षुधितं गरुडं तु महाबलम् ।
क्षुधां शमयितुं पुत्र न शक्नोमि तदन्ततः ॥२५ ॥ तव तातः कश्यपोऽस्ति मेरौ तिष्ठति तं व्रज ।
स दास्यति भोजनं ते क्षुधा ते शममेष्यति ॥२६ ॥ मातुर्वचः समाकर्ण्य ययौ यत्र स कश्यपः ।
प्रणम्य शिरसा वाक्यमुवाच पितरं खगः ॥२७ ॥ सुतस्ते गरुडश्चाऽहं मात्रा विनतयेरितः ।
क्षुधया पीडितस्तात भक्ष्यं मे दीयतां प्रभो! ॥२८ ॥ ज्ञात्वा सुतं तमुवाच कश्यपः स्नेहप्रह्वणः ।
अनेकशतसाहस्रा निषादाः पयसां निधेः ॥२९ ॥ तीरे वसन्ति मत्स्यादास्ताँस्त्वं भक्ष सुखी भव ।
विना विप्रं निषादेषु देहयात्रां प्रवर्तय ॥1.463.३० ॥ इत्युक्तः प्रययौ तत्र गत्वा चखाद ताँस्ततः ।
अलक्ष्यभावो विप्रोऽपि गिलितस्तेन पक्षिणा ॥३१ ॥ अथ जातो गले वह्निर्जज्वाल कण्ठमध्यमम् ।
वमितुं गिलितुं वापि न शशाक स पक्षिराट् ॥३२ ॥ गत्वाऽथ पितरं प्राह कण्ठाऽन्तर्मेऽनलः पितः ।
करोति दहनं शश्वल्लग्नः कश्चिज्जनोऽन्तकृत् ॥२३ ॥ कश्यपः प्राह भो पुत्र भवेद् विप्रोऽन्यथा न तत् ।
इत्युक्त्वा कश्यपो विप्रं समाजुहाव वै बहिः ॥३४॥ विप्रः प्राह विहायैतान्न निर्गच्छामि भो पितः ।
गिलिताः सुहृदः केचित् प्रियाः सम्बन्धिनस्तथा ॥३ ५ ॥ एतैः सह प्रयास्यामि निरयं वा सुखं हरिम् ।
श्रुत्वा तु विस्मितः प्राह कश्यपः पतितं द्विजम् ॥३६ ॥ निषादैः सह सम्बन्धं चापावानसि तत्ततः ।
निरयं त्वेव गन्ताऽसि पापियोगाद्धि पापवान् ॥३७ ॥ अज्ञानाद् यदि वा मोहात्कृत्वा पापं सुदारुणम् ।
ततो धर्मं चरेच्चेत् स यायाद्वै परमां गतिम् ॥३८ ॥ पापकृन्न वृषं कुर्यात् कुर्यात्पापं पुनस्तदा ।
निमज्जति महाघोरे निरये ते गतिस्तथा ॥३९ ॥ निर्गच्छ वा मृतिं याहि कण्ठे मा तिष्ठ भूसुर ।
श्रुत्वा कश्यपवाक्यं स सम्बन्धिव्रतवान् द्विजः ॥1.463.४० ॥ उवाच कश्यपं स्पष्टं शृणु तात हितं मम ।
यद्यप्यस्मि द्विजो जात्या निषादी मेऽस्ति कामिनी ॥४१ ॥ निषादा मे श्यालकाश्च श्वशुरश्चापरे तथा ।
निगिलिता गरुडेन मृतास्ते त्वस्य जाठरे ॥२॥ पावनस्य तु योगेनाऽपावनं पावितं भवेत् ।
विप्रयोगेन ते सर्वे तव योगात्तु पावनाः ॥४३॥ गरुडगर्भयोगेन पावितास्ते विशेषतः ।
सम्बन्धिव्रतवाँश्चाहं पातिव्रत्यपरायणः ॥४४॥ निर्मुक्ताः स्युश्च ते सर्वे जीविताः स्युः पितर्मम ।
निर्गच्छामि तदा कण्ठादन्यथा मरणं ध्रुवम् ॥४५॥ बन्धुजीवः प्राणान्तो वा प्रतिज्ञा सुदृढा मम ।
कश्यपस्तत्समाकर्ण्य श्रेयोऽर्थं त्वाह पक्षिणम् ॥४६॥ उद्वमैतान् सविप्राँश्च निषादानपि सर्वशः ।
इत्युक्तो गरुडश्चैतानुद्ववाम निषादकान् ॥४७॥ ते वै दिक्षु विदिक्षु सम्वसन्ति पक्षिहिंसकाः ।
गरुडकुक्कुटहंसपारावातादिभक्षकाः ॥४८॥ कलौ सर्वे मिलिष्यन्ति त्वेकाहारे प्रजाजने ।
जातिभेदो यदा नैव स्थास्यत्यदनलग्नयोः ॥४९॥ अथापि क्षुधया युक्तो ययाचे भक्ष्यमुत्तमम् ।
कश्यपेन तदादिष्टो ययौ सागरसन्निधौ ॥1.463.५० ॥ तत्र दृष्ट्वा महासत्त्वौ नैकयोजनविग्रहौ ।
कूर्मगजौ नखैर्भित्वोत्पपाताऽऽकाशमुज्जयः ॥५१ ॥ मेरौ दृष्ट्वा जम्बुशाखां निषसाद महत्तमाम् ।
भग्नां शाखां गजकूर्मौ गृहीत्वोड्डीय चाम्बरे ॥५२॥ सत्यलोकं ययौ ब्रह्मसदनं यत्र माधवः ।
कृष्णनारायणो विष्णुः स्तुतस्तत्र समागतः ॥५३॥ हरिः प्राह कथं व्योम्नि भ्रमसि त्वं खगेश्वर ।
विधृत्य महतीं शाखां महान्तौ गजकच्छपौ ॥५४॥ गरुडस्तु हरिं प्राह काश्यपो विनतासुतः ।
गरुडोऽहं गजकूर्मो गृहीत्वा जम्बुभूरुहम् ॥५५॥ गतः स मेरुवृक्षोऽपि भग्नस्तिष्ठामि कुत्र वै ।
भक्षितुं क्षुधितश्चास्मि क्व यामि वद मे प्रभो ॥५६ ॥ मम भारं तथा वेगं सहन्ते न द्रुमादयः ।
पर्वताश्चापि कम्पन्ते ग्रहाः क्षुभ्यन्ति चाम्बरे ॥५७॥ इत्युक्तो भगवानाह तिष्ठ बाहौ ममात्र वै ।
क्षुधां कुरु प्रशान्तां त्वं भक्षेमौ गजकच्छपौ ॥५८॥ इत्युक्तो गरुडो बाहौ पपात श्रीहरेस्तदा ।
शाखां त्यक्त्वा महाब्धौ च चखाद गजकच्छपौ ॥५९॥ क्षुधा तथापि शान्ता न ततः प्राह हरिस्तु तम् ।
भुञ्जस्व मम मांसं त्वं भक्षयित्वा सुखी भव ॥1.463.६०॥ इत्युक्तो भुजमांसं स खादित्वा तृप्ततां गतः ।
तथापि न व्रणो बाहौ जातश्चेति विलोक्य सः ॥६ १ ॥ हरिं प्राह प्रियं किं ते करिष्यामि वद प्रभो ।
हरिः प्राह भव मे वाहनं त्वं सार्वकालिकम् ॥६२॥ अवध्यः सर्वभूतेषु भव त्वं चाऽजराऽमरः ।
सर्वत्र ते गतिश्चास्तु कर्म तेजश्च मत्समम् ॥६३॥ आहारं लप्स्यसे पूर्णं मातृव्यसननाशनात् ।
इत्युक्तः स ययौ पक्षी पितरं कश्यपं प्रति ॥६४॥ प्रष्टुं चाज्ञां ग्रहीतुं चाऽकथयत् पितरं च सः ।
प्रहृष्टात्मा कश्यपस्तु तनयं प्राह सद्वचः ॥६५॥ धन्योऽहं जननी धन्या धन्यं कुलं सुपुत्रवत् ।
यस्य पुत्रो विष्णुभक्तः कुलकोटिप्रमोचकः ॥६६॥ क्षयात्तु सर्वपापानां विष्णोः किङ्करतां व्रजेत् ।
विष्णुर्यस्य भवेत् प्रीतः सोऽपि स्यात्पुरुषोत्तमः ॥६७॥ पुत्रः पत्नी सुता गौश्च कृष्णार्थं यस्य विद्यते ।
धन्यः स देहवानत्र पूतं यस्य कुटुम्बकम् ॥६८॥ तपोभिर्बहुभिर्धर्मैर्मखैर्नानाविधैरपि ।
विष्णुर्न लभ्यते देवैस्त्वया लब्धो हरिः स वै ॥६९॥ मातरं त्वं सेवयित्वा गच्छ विष्णोः परं पदम् ।
इति त्वाज्ञां गृहीत्वा स शीघ्रं जगाम मातरम् ॥1.463.७० ॥ नत्वा तु मातरं स्वल्पशरीरेण स बालकः ।
कामरूपधरो भूत्वा रेमे जहर्ष सन्निधौ ॥७१ ॥ कद्र्वास्तु किङ्करीभूत्वा स्थितां दृष्ट्वा तु मातरम् ।
पप्रच्छ गरुडस्तत्र कारणं वद मेऽम्बिके ॥७२॥ माता प्राह शृणु पुत्र प्राग्वृत्तं कथयामि ते ।
कद्र्वा सह यः सञ्जातः पणस्तं त्वं निबोध मे ॥७३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कश्यपात् कद्रूप्रजाः सर्पाः, विनतायामुलूकस्याऽरुणस्य गरुडस्योत्पत्तिः, गरुडेन भक्षिताः सविप्रशबरा उद्वमिताः, विष्णुभुजपललं भक्षितम्, विष्णोर्वाहनं वरदानं चेत्यादिनिरूपणनामा त्रिषष्ट्यधिकचतुश्शततमोऽध्यायः ॥४६३ ॥