४५८

श्रीनारायण उवाच-
शृणु लक्ष्मि! माधवांशः पर्शुराम उवाच तम् ।
कार्तवीर्य रणमध्ये धर्मभृतं वचो यथा ॥१ ॥ शृणु राजेन्द्र! धर्मिष्ठ चन्द्रवंशसमुद्भव ।
विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः ॥२ ॥ कथे दुर्बुद्धिमाप्तस्त्वमहनो वृद्धभूसुरम् ।
ब्राह्मणी शोकसन्तप्ता भर्त्रा सार्धे गता सती ॥३ ॥ किं भविष्यति ते भूप परत्रैवाऽनयोर्वधात् ।
क्व गता कपिला सा ते कीदृक् कूलं भविष्यति ॥४ ॥ यत् कृतं तु त्वया राजन् हालिको न करिष्यति ।
सत्कीर्तिश्चाथ दुष्कीर्तिः कथामात्राऽवशेषिता ॥५ ॥ त्वया कृतो घोरतरस्त्वन्यायस्तत्फलं लभ ।
उत्तरं देहि राजेन्द्र समाजे रणमूर्धनि ॥६ ॥ कार्तवीर्याऽर्जुनः श्रुत्वा प्रवक्तुमुपचक्रमे ।
शृणु राम हरेरंशस्त्वमप्यसि न संशयः ॥७ ॥ सद्बुद्ध्या कर्मणा ब्रह्मभावनां करोति यः ।
स्वधर्मनिरतः शुद्धो ब्राह्मणः स प्रकीर्त्यते ॥८ ॥ अन्तर्बहिश्च मननात् कुरुते फलदां क्रियाम् ।
मौनी शश्वद् वदेत् काले हितकृन्मुनिरुच्यते ॥९ ॥ स्वर्णे लोष्टे गृहेऽरण्ये पङ्के सुस्निग्धचन्दने ।
रामवृत्तिः समभावो योगी यथार्थ उच्यते ॥1.458.१ ०॥ सर्वजीवेषु यो विष्णुं भावयेत् समताधिया ।
हरौ करोति भक्तिं च हरिभक्तः स उच्यते ॥११ ॥ तपोधनं ब्राह्मणानां मुनीनां योगिनां तथा ।
हरिभक्तस्य विप्रस्य तपस्याः कामधेनवः ॥१ २॥ क्षत्रियाणां सदैश्वर्ये स्पृहा रत्नेषु सर्वदा ।
क्षत्रियाणां तु तपसि स्पृहाऽतीवाऽप्रशंसिता ॥१३ ॥ ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता ।
रागी राजसिकं कार्यं कुरुते कर्मरागतः ॥१४॥ रागान्धो यो राजसिकस्तेन राजा प्रकीर्त्यते ।
रागतः कामधेनुस्तु मया वै याचिता मुने ॥१५॥ तव पित्रा तु सैन्यानि कृतान्ययं व्यतिक्रमः ।
कृत एव वद विप्र को दोषो रागिणोऽत्र मे ॥१६ ॥ त्रिंशदक्षौहिणीसेना हत्या नाशयितुं च माम् ।
उद्यतस्य तु हनने न दोषो ह्याततायिनः ॥१७॥ त्वं चापि तापसो भूत्वा विप्रधर्मविवर्जिताम् ।
प्रतिज्ञां कृतवान् सोऽयमन्यायः किं न मे वद ॥१८॥ पित्रोर्द्वयोः कृते त्वं तु कर्तुं पृथ्वीं निःक्षत्रियाम् ।
त्रिःसप्तकृत्वो यत्तत् किं न्याय्यं वद भूसुरः ॥१ ९॥ इति श्रुत्वा गर्ववाक्यं पर्शुरामाऽतिरुड्भरः ।
क्षणात् टङ्कारयित्वा स्वं धनुर्मुमोच सायकान् ॥1.458.२०॥ बाणौघैश्छादयामासाऽर्जुनं रथं तथाऽम्बरम् ।
मनोरमा स्थिता दिव्या रथे पतिव्रता सती ॥२ १ ॥ महालक्ष्मीयुता देवी ररक्ष स्वपतिं तदा ।
तावद् राजाऽपि बाणौघाँश्चिच्छेद निजसायकैः ॥२२॥ रामस्य भ्रातरः सर्वे चत्वारोऽन्ये प्रशिष्यकाः ।
निजघ्नुरर्जुनसैन्यं तीक्ष्णशस्त्राऽसिपाणयः ॥२३ ॥ शरजालेन राजेन्द्रो वारयामास तानपि ।
चिच्छिदुः शरजालं च जमदग्निसुतास्तदा ॥२४॥ राजा चिक्षेप दिव्यास्त्रं मुनयश्चिच्छिदुस्तु तत् ।
दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः ॥२५॥ रथं च सारथिं चैव राज्ञः सन्नाहमित्यपि ।
मनोरमा दिव्यरूपा ररक्ष स्वपतिं सती ॥२६॥ न्यस्त्रशस्त्रं नृपं दृष्ट्वा मुनयो हर्षविह्वलाः ।
जगृहुः शूलिनः शूलं मत्स्यराजजिघांसया ॥२७॥ शूलनिक्षेपसमये वाग्बभूवाऽशरीरिणी ।
शूलं त्यजत विप्रेन्द्रा शिवस्याऽव्यर्थमेव तत् ॥२८॥ शिवस्य कवचं दिव्यं सर्वावयवरक्षकम् ।
मत्स्यराजगलेऽस्त्येतत् कवचं याचत नृपम् ॥२९॥ श्रुत्वा रामो यतिर्भूत्वा ययाचे कवचं नृपम् ।
राजा ददौ तु कवचं ब्रह्माण्डविजये ततः ॥1.458.३ ०॥ रामो जघान शूलेन मूर्छां जगाम चार्जुनः ।
मनोरमा सती सत्यव्रतेन योगसिद्धिभिः ॥३ १ ॥ स्वस्वामिहस्तदा प्राणान् मूर्घ्नि ररक्ष भामिनी ।
सा तदाऽऽकाशवत् साध्वी समुवाच नृपान् सती ॥३२॥ बृहद्बलं सोमदत्तं विदर्भं मिथिलेश्वरम् ।
निषधाधिपतिं चापि मगधाधिपतिं तथा ॥३३॥ प्रशृण्वन्तु प्राणतुल्याः प्राणस्य मेऽवनं त्वहम् ।
करोमि यातु भवन्तो रणं कुर्वन्तु चोल्बणम् ॥३४॥ क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ।
रणे स्वाहा ब्राह्मणानां लोके वेदे विडम्बना ॥३५॥ क्षत्रियाणां बलं शस्त्रं व्यापारस्तु बलं विशाम् ।
भिक्षाबलं भिक्षुकाणां शूद्राणां सेवनं बलम् ॥३६॥ भक्तिर्दास्यं कृष्णनारायणे भक्तबलं हरिः ।
तपो बलं तापसानां दुष्टानां हिंसनं बलम् ॥३७॥ बलं वेषस्तु नारीणां यौवनं गृहयोषिताम् ।
बलं सैन्यं नृपाणां वै वालानां रोदनं बलम् ॥३८॥ सतां सत्यं बलं भक्तिः साधूनां तु बलं क्षमा ।
मिथ्या बलं चाऽसतां तु धैर्यं साहसिनां बलम् ॥३९॥ विद्या बलं पण्डितानां धनं तु धनिनां बलम् ।
बलं विवेकः श्रेष्ठानां प्रजानां बलमेकता ॥1.458.४०॥ गुणो बलं तु गुणिनां सतीनां पतिसेवनम् ।
पूजा देवबलं प्रोक्तं शिष्याणां गुरुसेवनम् ॥४१ ॥ बलं पत्नी गृहस्थानां भृत्यानां स्वामितोषणम् ।
त्यागिनां निस्पृहत्वं तु बलं ब्रह्मव्रतं महत् ॥४२॥ पुण्यं बलं सुकृतीनां जलजानां जलं बलम् ।
शान्तिर्बलं तु विप्राणां क्षत्रियाणां बलं बलम् ॥४३॥ ससैन्याः क्षत्रियाः सर्वे युद्धं कुर्वन्तु भूसुरैः ।
इत्युक्त्वा सा सती मनोरमाऽर्जुनं विमूर्छितम् ॥४४॥ परिचचार विविधैरुपचारैः सुशक्तिदैः ।
यद्यहं प्राणनाथस्य पतिव्रताऽस्मि सर्वथा ॥४५॥ प्राप्नोतु चेतनां स्वामी समुवाच पतिव्रता ।
तावत् स चेतनां प्राप्तः समुत्थितो रणाय च ॥४६॥ अथ रामस्त्रिशूलेन सोमदत्तं जघान ह ।
बृहद्बालं तु गदया विदर्भं तोमरेण च ॥४७॥ मैथिलां मुद्गरेणापि शक्त्या तु नैषधं तथा ।
मागधं तीक्ष्णनाराचैरस्त्रजालैश्च सैन्यकान् ॥४८॥ निहत्य निखिलान् भूपान् दुद्राव चाऽर्जुनं प्रति ।
तावत् सती समीपस्था मनोरमा व्यवस्थिता ॥४९॥ रामरामाऽधमविप्र भस्मीभूतो भविष्यसि ।
यदि त्वन्यायमालम्ब्य मन्नाथं मारयिष्यसि ॥1.458.५० ॥ श्रुत्वा सतीं पुरो दृष्ट्वा भयाद् रामो न्यवर्तत ।
कान्यकुब्जाः शतशस्तु सौराष्ट्राः शतशस्तथा ॥५१ ॥ राष्ट्रीयाः शतशश्चापि महाराष्ट्राश्च वङ्गजाः ।
गौर्जराश्च कलिङ्गाश्च रामेण व्यसवः कृताः ॥५२॥ द्वादशाक्षौहिणीः रामो जघान त्रिदिवानिशम् ।
तावद्राजा कार्तवीर्यः श्रीलक्ष्मीकवचं करे ॥५३॥ बद्ध्वा शस्त्रास्त्रसम्पन्नो रथमारुह्य चाययौ ।
युयुधे विविधैरस्त्रैर्जघान ब्राह्मणान् बहून् ॥५४॥ पर्शुरामः सपरशुर्दधाव कालरूपधृक् ।
शिरो निकृन्तितुं तावद् विष्णुर्विप्रस्वरूपधृक् ॥५५॥ मा याहीति करं धृत्वा रुरोध प्राह तत्क्षणम् ।
कवचं श्रीमहालक्ष्म्या बाहौ तेन धृतं यतः ॥५६॥ न मरिष्यति भूपालो ययाचे तं स्थिरो भव ।
विष्णुर्विप्रस्वरूपस्तद् याचितुं नृपमाययौ ॥५७॥ विप्रो भूत्वा च कवचं ययाचे भगवान् स्वयम् ।
मनोरमा तदा त्रासप्रापेदे पतिपक्षिणी ॥५८॥ अर्जुनो दित्सति तावन्मनोरमा न्यवारयत् ।
राजन् लक्ष्मीकवचं ते बाहौ यावद्धि वर्तते ॥५९॥ तावल्लक्ष्मीस्वरूपाऽहं शक्नोमि त्वां प्ररक्षितुम् ।
मा देहीति मुहुः प्रोक्तस्तथापि प्रददौ नृपः ॥1.458.६०॥ क्षणं मनोरमालक्ष्मीः पतिं नत्वा रुरोद वै ।
अथाऽशक्ता कवचेन समं यातुं च तत्परा ॥६ १ ॥ अभूद् विष्णुपरीक्षां च करोति स्म तदा सती ।
विष्णुः कवचमादाय रामं प्रति समाययौ ॥६२॥ ददौ समन्त्रं परशुरामाय तच्छृणु प्रिये ।
ओं श्रीकमलवासिन्यै स्वाहा मन्त्रं ददौ ततः ॥६ ३ ॥ प्रजापतिः ऋषिर्यस्य छन्दश्च बृहती तथा ।
देवी पद्मालया यस्य चतुर्वर्गं नियोजनम् ॥६४॥ ओं श्रीकमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
ओं श्री कपालं मे पातु लोचने श्रींश्रियै नमः ॥६५॥ ओ श्रींश्रियै स्वाहेति वै कर्णयुग्मं सदाऽवतु ।
ओंश्रीङ्क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥६६॥ ओं श्रीं पद्मालयायै च स्वाहा दन्तान् सदाऽवतु ।
औश्रीं कृष्णप्रियायै च दन्तरन्ध्रान् सदाऽवतु ॥६७॥ ओं श्रीनारायणेशायै मम कण्ठं सदाऽवतु ।
ओंश्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥६८॥ ओंश्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ओं ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥६९॥ ओंश्रीम्मो कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ओंह्रींश्रींश्रियै स्वाहा च मम हस्तो सदाऽवतु ॥1.458.७०॥ ओंश्रीनिवासकान्तायै मम पादौ सदाऽवतु ।
ओंश्रींह्रीङ्क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥७१ ॥ प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीहरिप्रिया ॥७२॥ पद्मालया पश्चिमे मां वायव्यां पातु मा स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥७३॥ नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम *॥७४॥

  • इतिसर्वैश्वर्यप्रदं वर्म बाहौ सुधारय ।
    देवेन्द्रैश्चासुरेन्द्रैश्चाऽवध्यो भवसि निश्चितम् ॥७५॥ इत्युक्त्वा कवचं दत्वा ययौ वैकुण्ठमच्युतः ।
    तावन्मनोरमा लक्ष्मीकलाऽर्जुनं विहाय वै ॥७६॥ ययौ तु विष्णुना सार्धं वैकुण्ठं विष्णुना हृता ।
    अर्जुनः प्राह रे पत्नि त्यक्त्वा मां याहि मा प्रिये ॥७७॥ मनोरमा तु तं प्राह सम्बन्धः सान्ततां गतः ।
    परशुरामशस्त्रेण हतो मामनुयास्यसि ॥७८॥ शीघ्रं ब्राह्मणहस्तेन हतः प्राप्स्यसि मोक्षणम् ।
    वैकुण्ठं त्वत्कृते राजन् निश्चितं यत्र मे स्थितिः ॥७९॥ इत्युक्त्वा सा ययौ देवी राजा युयोध दारुणम् ।
    द्विलक्षसैन्यं युयुधे ब्राह्मणैः सह पद्मजे ॥1.458.८०॥ राजा चिक्षेप शस्त्राणि रामशिष्याः पलायिताः ।
    चिक्षेप रामस्त्वाग्नेयं बभूवाऽग्निमयं रणे ॥८१ ॥ निर्वापयामास राजा वारुणेन महौजसा ।
    चिक्षेप रामो गान्धर्वं शैलसर्पादिकोटिकम् ॥८२॥ वायवेनार्जुनस्तद्वै वारयामास दारुणम् ।
    चिक्षेप रामो नागास्त्रं राजा चिक्षेप गारुडम् ॥८३॥ रामश्चिक्षेप माहेशं राजा चिक्षेप वैष्णवम् ।
    ब्रह्मास्त्रं चिक्षिपे रामो राजा ब्रह्मास्त्रमाक्षिपत् ॥८४॥ तावत् ध्यातोऽर्जुनगुरुर्दत्तात्रेयः समागतः ।
    ददौ शूलं हि रामस्य नाशार्थं कृष्णवर्म च ॥८५॥ जग्राह राजा शूलं तश्चिक्षेप रामकन्धरे ।
    मूर्छामवाप रामः सः पपात श्रीहरिं स्मरन् ॥८६॥ ब्राह्मणं जीवयामास शम्भुर्नारायणाज्ञया ।
    चेतनां प्राप्य च रामोऽग्रहीत् पाशुपतं यदा ॥८७॥ दत्तात्रेयेण दत्तेन सिद्धाऽस्त्रेणाऽर्जुनस्तु तम् ।
    जडीचकार तत्रैव स्तम्भितो राम एव वै ॥८८॥ श्रीकृष्णरक्षितं भूपं ददर्श कृष्णवर्म च ।
    ददर्शाऽपि भ्रमत्सुदर्शनं रक्षाकरं रिपोः ॥८९॥ एतस्मिन्नन्तरे तत्र वाग्बभूवाऽशरीरिणी ।
    कृष्णस्य कवचं राज्ञो बाहावस्ति तदुत्तमम् ॥1.458.९०॥ रक्षति तन्नृपं शम्भुर्याचतु भिक्षया तु तत् ।
    तदा हन्तुं नृपं शक्तो भार्गवोऽयं भविष्यति ॥९१ ॥ अथ शम्भुः सिद्धमन्त्रैर्दत्वा चेतनमेव तु ।
    अपोह्य स्तम्भनं रामो जग्राह परशुं स्वकम् ॥९२॥ पाशुपतं करे धृत्वा परशुं च तथा करे ।
    सस्मार श्रीकृष्णनारायणं तावत् स आययौ ॥९३॥ शम्भुर्विप्रः स्वयं भूत्वा ययाचेऽर्जुनमेव तत् ।
    कवचं नृपसन्दत्तं रामाय शम्भुरार्पयत् ॥९४॥ सुदर्शनं च कवचं कृष्णनारायणस्त्रयः ।
    रामपार्श्वे समागत्य प्राहुर्जेष्यसि साम्प्रतम् ॥९५॥ शम्भोः पाशुपतं श्रेष्ठं हरेरेव सुदर्शनम् ।
    एते प्रधाने सर्वेषामस्त्राणां तु जगत्त्रये ॥९६ ॥ कवचं रक्षकं श्रेष्ठं धारयित्वाऽऽह तं द्विजः ।
    राजन् कुरु रणं शीघ्रं कालभेदे जयाऽजयौ ॥९७॥ त्वयाऽधीतं बहुदत्तं शासिता च वसुन्धरा ।
    सङ्ग्रामेऽहं त्वया जडीकृतोऽत्रैव सुमूर्छितः ॥९८॥ जिताः सर्वेऽपि भूपाला रावणो लीलया जितः ।
    जितोऽहं दत्तशूलेन शम्भुना जीवितोऽस्म्यहम् ॥९९॥ शीघ्रं कुरु क्षणस्तेऽयं श्रुत्वैवं प्रत्युवाच सः ।
    अहो राम किमधीतं कि दत्तं का च शासिता ॥1.458.१ ००॥ गताः कतिविधा भूपा मच्छ्रेष्ठाः कालभक्षिताः ।
    बुद्धिस्तेजो विक्रमश्च जयश्च विजयस्तथा ॥१ ०१।
    श्रीरैश्वर्यं मतिर्दानं प्रतिष्ठा परमं तपः ।
    विद्या गर्वस्तथा मान्यं सार्वभौमत्वमित्यपि ॥१ ०२॥ सर्वं मनोरमासङ्गे गतमेव मम क्षणात् ।
    सा च लक्ष्मी कला साध्वी पातिव्रत्यपरायणा ॥१ ०३॥ मृता यावद् रक्षिका मे तया सार्धं गतं मम ।
    त्वं किं विप्र प्रथमं वै युद्धं पश्यसि केवलम् ॥१ ०४॥ मम युद्धानि पूर्वाणि नेक्षितानीति शोचना ।
    प्रथमाऽथ द्वितीयाऽपि मरणं ब्राह्मणेन मे ॥१ ०५॥ वृद्धदम्पतीनाशेन शोचना चातिनिष्ठुरा ।
    काले सिंहः शृगालं च सृगालः सिंहमेव वा ॥१ ०६॥ काले व्याघ्रं हन्ति मृगो गजेन्द्रं हरिणस्तथा ।
    महिषं मक्षिका काले गरुडं च तथोरगः ॥१ ०७॥ नृपश्च किङ्करं स्तौति महेन्द्रो मानवं तथा ।
    सर्वं कालकृतं विप्र कालो हि दुरतिक्रमः ॥१ ०८॥ ब्राह्मणस्य च हननं सर्वं नाशकरं मम ।
    पतिव्रताया मरणं ब्राह्मणीनाशकृत्फलम् ॥१ ०९॥ पतिव्रताया मरणे मृतोऽहं सर्वथा द्विज ।
    लक्ष्मीरूपा मृता प्राग्वै सङ्केतोऽच्युतकृद्धि सः ॥1.458.११० ॥ याचे त्वां च तथा देवान् गुरून् सर्वांश्च भावतः ।
    क्षमध्वं चापराधान्ये मा भून्मे नारकं पुरः ॥१११ ॥ इत्युक्त्वा च धनुष्टङ्कारयित्वा सायकान् मुहुः ।
    कालकाल इव भूत्वा ववर्ष लक्षशो बहून् ॥११ २॥ कृष्णकृष्णवदन् राजा मनोरमेति संवदन् ।
    अर्धचन्द्राँस्तथा शक्तीर्भल्लान् खड्गान् सहस्रशः ॥११३।
    चिक्षेप धनुषा तत्र ब्राह्मणेष्वायुषःक्षये ।
    रामो रूपद्वयं कृत्वा युयुधे तेन भूभृता ॥१ १४॥ कृत्रिमेण तु रूपेण धृत्वा कुठारकं करे ।
    दधाव तं पुरो गत्वा चिच्छेद भुजमण्डलम् ॥१ १५॥ द्वितीयेन स्वरूपेण जग्राहाऽस्त्रं महोल्बणम् ।
    पाशुपतं समन्त्रं च चिक्षेप लीलया नृपे ॥१ १६॥ हाहाकारो महानासीत् कार्तवीर्यार्जुनो हतः ।
    अन्ये ये जीवसङ्ग्राहास्तेऽप विप्रैर्हता रणे ॥१ १७॥ विदुद्रुवुस्तथा चान्ये स्वस्वराज्यानि चक्रिरे ।
    माहिष्मतीं तदा रामो ददौ विप्राय दक्षिणाम् ॥१ १८॥ अन्येषां चापि राज्यानि ददौ विप्राय दक्षिणाः ।
    देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः ॥११ ९॥ सर्वे चक्रुः पुष्पवृष्टिं राममूर्ध्नि च पद्मजे ।
    स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह ॥1.458.१ २०॥ एवं त्रिःसप्तकृत्वश्च चक्रे पृथ्वीं निःक्षत्रियाम् ।
    यशसा चापि परशुरामस्याऽऽपूरितं जगत् ॥१२१ ॥ ब्राह्मणेभ्यो ददौ रामो राज्यानि विरराम च ।
    हतास्तु क्षत्रियाः सर्वे गर्भस्था बालकास्तथा ॥१ २२॥ युवानो जरठा वृद्धाः स्तनन्धया अपि प्रिये ।
    काश्चन क्षत्रियनार्यः पातिव्रत्यपरायणाः ॥१२३ ॥ देव्यो दिव्यगतिकाश्च गुप्ता ययुर्हिमालयम् ।
    कन्दरासु वसन्त्यश्च पुपुषुर्बालकान् स्वकान् ॥१ २४॥ तद्वंशाः क्षत्रिया जाताः पुना राज्यानि चक्रिरे ।
    पर्शुरामः प्रतिज्ञां स्वां पूरयित्वा कुरुस्थले ॥१ २५॥ स्यमन्तपञ्चकान् कुण्डान् क्षत्रियरुधिराऽञ्चितान् ।
    कृत्वा रक्तैः पितुर्मातुर्ब्राह्मणानां जलाञ्जलीन् ॥१२६ ॥ श्राद्धं ददौ तदा तृप्तिं चकार पितृदेवताः ।
    ततो जलं तथाऽन्नं च बुभुजे शान्तितः स्वयम् ॥१ २७॥ क्षत्रियाणां विनाशे तु निर्बला ये ह्यसुप्रियाः ।
    मृषा वदन्तो जीवानां चक्रुर्वै रक्षणं तु ते ॥१ २८॥ अन्या अन्या जातयश्च जाता वर्णा विभिन्नकाः ।
    अक्षात्रास्ते क्षात्रकर्महीना दस्यव एव वै ॥१ २९॥ व्यापारकारकाश्चान्ये दास्यकृष्यादिकारकाः ।
    वर्तन्ते स्म भुवि लक्ष्मि! गुप्तक्षत्रियजातयः ॥1.458.१३ ०॥ अथ प्रतिज्ञां सम्पूर्णां कृत्वा रामो ययौ गुरुम् ।
    शिवं पूजयितुं दिव्ये कैलासे तत्र गोपुरे ॥१३१ ॥ गणेशेन निरुद्धः सः क्रुधा गणपतिं तदा ।
    रामो जघान दन्ते तं पर्शुना तु गणाधिपम् ॥१३ २॥ दन्तो भग्नस्ततश्चैकदन्तो गणेश उच्यते ।
    आमूलाद् भग्नदन्तेन कृत्वा शूण्ढं सुदीर्घकम् ॥१ ३३॥ गणेशेन धृतः शूण्ढे शूण्ढश्च वर्धितो बहुः ।
    त्रैलोक्ये भ्रामयित्वा तं रामं चिक्षेप वारिधौ ॥१ ३४॥ जडीभूतं पुनर्धृत्वा गोलोके विनिपातितः ।
    श्रीकृष्णचरणाम्भोजे पातकानां विशुद्धये ॥१ ३५॥ ततः शुद्धं कृतं राममुत्थाप्य श्रीगणेश्वरः ।
    चिक्षेप परशुरामं शङ्करस्य हि सन्निधौ ॥१ ३६॥ ददर्श शङ्करं प्राप्याऽऽशीर्वादं चाप्यनुग्रहम् ।
    शङ्करस्य शिवायाश्च प्रसाद्य श्रीगणेश्वरम् ॥१ ३७॥ चक्रे स्तुतिं शिवं शिवां तं तु शिवाऽऽह मङ्गलम् ।
    अमरो भव हे पुत्र! वत्स सुस्थिरतां व्रज ॥१ ३८॥ सर्वप्रसादात् सर्वत्र जयोऽस्तु तव सन्ततम् ।
    सर्वान्तरात्मा भगवाँस्तुष्टः स्यात् सन्ततं हरिः ॥१ ३९॥ भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ।
    शम्भुः प्राह सदा शिष्य चिरञ्जीवो भव ध्रुवः ॥1.458.१४० ॥ ततः परशुरामोऽसौ जगाम तपसे भुवम् ।
    महेन्द्रपर्वते स्थित्वा तपः करोति शाश्वतम् ॥१४१ ॥ इति ते कथितं लक्ष्मि! कार्तवीर्यस्य नाशनम् ।
    मनोरमायाः कथितं पतिव्रतबलं तथा ॥१४२॥ पठनाच्छ्रवणाच्चास्य पतिसेवाबलं लभेत् ।
    भुक्तिं मुक्तिं कृष्णसेवां लभेत् कृष्णप्रसादतः ॥१४३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पर्शुरामेण सह युद्धे मनोरमया दिव्यया पतिव्रतया सहस्रार्जुनो रक्षितः, लक्ष्मीकवचवियोगे मनोरमावियोगस्ततोऽर्जुनस्य मरणं, गणेशस्यैकदन्तत्वं चेत्यादिनिरूपणनामाऽष्टपञ्चाशदधिकचतुश्शततमोऽध्यायः ॥४५८ ॥