४५०

श्रीनारायण उवाच-
शृणु लक्ष्मि! सुतार्थं वै पार्वत्याः पातिव्रत्यकम् ।
सत्या स्वयं सुरमध्ये व्रतान्ते सम्प्रकाशितम् ॥१ ॥ हिमालयो ददौ कन्यां पार्वतीं शङ्कराय तु ।
संरेमे नर्मदातीरे शय्यायां शिवया हरः ॥२ ॥ तयोर्बभूव शृङ्गारो योगिनोर्बहुवासरान् ।
देवा दैत्यार्दिताः शम्भुपुत्रं दैत्यविनाशकम् ॥३ ॥ अयोनिजं समिच्छन्तो ययुस्तयोः रतेर्गृहम् ।
वीर्यस्रावस्य निकटे प्राक्क्षणे द्वारि ते स्थिताः ॥४ ॥ आजुहुवुर्महादेवं देवास्ते रतिभञ्जकाः ।
उत्तिष्ठतो महेशस्य भूमौ वीर्यं पपात ह ॥५ ॥ तद्वै तत्र सुवर्णं च रजतं च व्यजायत ।
अथ वीर्यं न वै गर्भे प्राप्तं सत्याः शुशोच सा ॥६ ॥ यतो देवैः कृतं विघ्नं ततो देवा अपि सदा ।
रति भङ्गकराः सर्वे व्यर्थवीर्या भवन्त्विति ॥७ ॥ इत्युक्त्वा शङ्करं प्राह रतिविच्छेददुःखिता ।
रतिभङ्गो दुःखमेकं द्वितीयं वीर्यपातनम् ॥८ ॥ दुःखातिरेकिदुःखं तु तृतीयमनपत्यता ।
ततः पुत्रौो यथा मे स्यात्तथा कुर्वत्र शङ्कर! ॥९ ॥ श्रुत्वा तां शङ्करः प्राह हरेर्भक्त्यन्विता सदा ।
व्रतं तु पुण्यकं नाम वर्षमेकं कुरु प्रिये ॥1.450.१ ०॥ तेन पुत्रफलं तेऽत्र निश्चितं वै भविष्यति ।
व्रतं तत् सुखदं पुण्यं वाञ्च्छाकल्पद्रुमात्मकम् ॥११ ॥ जाह्नवी सरितां मध्ये सुराणां श्रीहरिर्यथा ।
अहं वैष्णवभक्तानां यथा त्वं देवयोषिताम् ॥१२॥ लक्ष्मीश्च सम्पदां यद्वत् सुवर्णं द्रव्यनामिनाम् ।
शीलव्रतं व्रतानां च तद्वत् पुण्यव्रतं त्विदम् ॥१३ ॥ वर्णानां ब्राह्मणो यद्वत् तीर्थानां बदरीवनम् ।
पारिजातं कुसुमानां दलानां तुलसीदलम् ॥१४॥ एकादशी तिथीनां च वाराणां तु यथा रविः ।
मार्गशीर्षश्च मासानामृतूनां च वसन्तकः ॥१५॥ सम्वत्सरश्च वर्षाणां युगानां च कृतं यथा ।
विद्यागुरुश्च पूज्यानां गुरूणां जननी यथा ॥१६ ॥ सती पत्नी यथाऽऽप्तानां विश्वस्तानां तु हृद् यथा ।
यथा रत्नं धनानां च प्रियाणां च यथा पतिः ॥१७॥ यथा सुतश्च बन्धूनां कल्पद्रुः शाखिनां यथा ।
आम्रफलं फलानां देशानां सौराष्ट्रको यथा ॥१८॥ वृन्दावनं वनानां च राधिका योषितां यथा ।
पुरीणां च यथा काशी लक्ष्मीनां कम्भरा यथा ॥१ ९॥ तेजस्विनां यथा त्वर्कः खण्डानां त्वजनाभकम् ।
रात्रीशानां यथा चन्द्रो मोहकानां च मन्मथः ॥1.450.२०॥ विद्यानां तु यथा वेदाः साधूनां कपिलो यथा ।
वानराणां हनूमाँश्च क्षेत्राणां च सताम्मुखम् ॥२१ ॥ नेत्राणां च यथा विद्या वासना बलिनां यथा ।
मनोहराणां काव्यं च व्यापकानां वियद् यथा ॥२२॥ अङ्गानां लोचनं यद्वत् साध्यानां मोक्षणं यथा ।
वैभवानां कृष्णकथा सुखानां तृष्णिकालयः ॥२३॥ स्पर्शानां पुत्रसंस्पर्शो हिंसकानां खलो यथा ।
यथा मिथ्या च पापानां पापिनां मातृगो यथा ॥२४॥ पुण्यानां स्वार्पणं यद्वत् कार्याणां साधुसेवनम् ।
ऐकाग्र्यं तपसां यद्वल्लाभानां हरिसेवनम् ॥२५॥ गव्यानां च घृतं यथा वृक्षस्तपस्विनाम् ।
अमृतं भोज्यवस्तूनां सस्यानां व्रीहयो यथा ॥२६ ॥ पवित्राणां यथा वारि शोधकानां यथाऽनलः ।
स्त्रीरूपं सर्वरूपाणां मिष्टानां सुप्रियं वचः ॥२७॥ वैनतेयः पक्षिणां च ऐरावतश्च दन्तिनाम् ।
सनत्कुमारो योगिनां देवर्षीणां च नारदः ॥२८॥ गन्धर्वाणां चित्ररथो गुरुर्बुद्धिमतां यथा ।
कवीनां तु यथा शुक्रः काव्यानां संहिता यथा ॥२९॥ स्रोतस्वतां यथा त्वब्धिः क्षमिणां च क्षितिर्यथा ।
फलानां च यथा मुक्तिः शान्तिश्च सम्पदां यथा ॥1.450.३०॥ पावनानां वैष्णावाश्च वर्णानां प्रणवो यथा ।
कृष्णमन्त्रश्च मन्त्राणां पोष्टॄणां प्रकृतिर्यथा ॥३ १ ॥ सरस्वती विदुषीणां गायत्री छन्दसां यथा ।
यथा कुबेरः श्रेष्ठिस्थो नागानां वासुकिर्यथा ॥३२॥ शय्यानां च यथा शेषो लयानां निद्रिका यथा ।
निष्क्रियाणां यथाऽऽलस्यं शैलानां मेरुपर्वतः ॥३३॥ गवां च सुरभिर्यद्वत् तृणानां च यथा कुशः ।
वेदानां सामवेदश्च मनो वै वेगिनां यथा ॥३४॥ सुखदानां यथा लक्ष्मीरक्षराणामवर्णकः ।
हितार्थिनां यथा तातो हेतीनां कवचं यथा ॥३५॥ शालग्रामश्च मूर्तीनां पशूनां केसरी यथा ।
देहिनां मानवो यद्वदिन्द्रियाणां तु हृद् यथा ॥३६॥ मन्दाग्निश्च रुजां यद्वच्छक्तिः शक्तिमतां यथा ।
स्थूलानां च विराड् यद्वत् सूक्ष्माणां परमाणुकः ॥३७॥ आदित्यानां यथा विष्णुर्देवानामिन्द्र एव च ।
दैत्यानां च बलिर्यद्वद् दातॄणां च दधीचिकः ॥३८॥ प्रह्लादश्चैव साधूनां चक्राणां च सुदर्शनम् ।
ब्रह्मास्त्रं च यथाऽस्त्राणां रामादित्यश्च भूभृताम् ॥३९॥ धन्विनां च नरो यद्वत् कृष्णो हृदयवासिनाम् ।
प्रसेव्यानां गुरुर्यद्वद् व्रतानां पुण्यकं तथा ॥1.450.४० ॥ कर्तव्यं सेवनीयं च पालनीयं सुपुत्रदम् ।
हरेर्मन्त्रं गृहीत्वा त्वं व्रतं पुत्रप्रदं कुरु ॥४१ ॥ माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये ।
उपोष्य पूर्वदिवसे द्वितीये व्रतमाचरेत् ॥४२॥ श्रीकृष्णं षोडशवस्तुसूपचारैः प्रपूजयेत् ।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥४३॥ स्नानीयं मधुपर्कं च वस्त्राण्याभरणानि च ।
सुगन्धि पुष्पधूपं च दीपं नैवेद्यचन्दनम् ॥४४॥ यज्ञसूत्रं च ताम्बूलं द्रव्याण्येतानि षोडश ।
पुष्पाञ्जलिं प्रणामादीन् क्षमा चाथ विसर्जनम् ॥४५॥ नित्यं कुर्याद् व्रतं सांवत्सरं पुत्रफलप्रदम् ।
षण्मासाँश्च हविष्यान्नं मासान् पञ्च फलादिकम् ॥४६॥ हविः पक्षं जलं पक्षं व्रतमेव समापयेत् ।
देया व्रतसमाप्ती च दक्षिणा होमपूर्विका ॥४७॥ कृष्णांशो वै भवेत्पुत्रो व्रतकर्त्र्या न संशयः ।
प्रियव्रतोत्तानपादौ लेभे शतरूपा व्रतात् ॥४८॥ देवहूतिर्व्रताल्लेभे कृष्णांशं कपिलं सुतम् ।
अरुन्धती व्रताल्लेभे कृष्णांशं शक्तिकं सुतम् ॥४९॥ सावित्री च व्रतं कृत्वा लेभे वेदान् सुपुत्रकान् ।
शक्तिकान्ता व्रतं कृत्वा लेभे पुत्रं पराशरम् ॥1.450.५०॥ सत्यवती व्रतं कृत्वा लेभे व्यासं सुतं हरिम् ।
व्रतेन कम्भरा प्राप सुतं कृष्णनरायणम् ॥५१ ॥ अदितिश्च व्रतं कृत्वा लेभे वामनकं सुतम् ।
महेन्द्राणी व्रतं कृत्वा लेभे जयन्तकं सुतम् ॥५२॥ उत्तानपादपत्नी च लेभे ध्रुवं व्रतात् सुतम् ।
कुबेराणी व्रतं कृत्वा ललाभ नलकूबरम् ॥५३॥ सूर्यपत्नी श्राद्धदेवं मनुं लेभे च रैवतम् ।
अनसूया व्रतं कृत्वा लेभे चन्द्रं शुभं सुतम् ॥५४॥ लेभे चाङ्गिरसः पत्नी व्रतात्। सुतं बृहस्पतिम् ।
ख्यातिर्लेभे व्रतं कृत्वा शुक्राचार्यं सुतं कविम् ॥५५॥ एते नारायणांशा वै जाता व्रतप्रभावतः ।
व्रतस्यास्य प्रभावेण स्वयं गोपीपतिः प्रभुः ॥५६॥ ईश्वरः सर्वभूतानां तव पुत्रो भविष्यति ।
इत्युक्त्वा प्रययौ शम्भुः पार्वत्या सह जाह्नवीम् ॥५७॥ तस्यै ददौ हरेर्मन्त्रं श्रीकृष्णाय नमः शुभम् ।
स्नात्वा व्रतस्य सङ्कल्पं कृत्वा यया गृहं निजम् ॥५८॥ आनीय सर्वद्रव्याणि समारेभे व्रतं ततः ।
सनत्कुमारो भगवानभूत् तत्र पुरोहितः ॥५९॥ ब्रह्माद्या देवताः सर्वे मनवो यतयस्तथा ।
ऋषयो वालखिल्याश्च दक्षाद्या भूभृतस्तथा ॥1.450.६०॥ दिक्पाला लोकपालाश्च चिरजीविन आययुः ।
पूजिताः शम्भुना प्राहुः करोतु पुण्यकं शिवा ॥६१ ॥ श्रीकृष्णश्च सुतस्तस्या भविष्यति पुरा यथा ।
एवं क्रमो महादेव! कल्पे कल्पेऽस्ति सर्वथा ॥६२॥ इत्युक्तः शङ्करः सनत्कुमारेण निवेदिताम् ।
पार्वतीद्वारिकां कृष्णपूजां श्रेष्ठामकारयत् ॥६३॥ संस्थाप्य रत्नकलशं शुक्लधान्योपरि स्थितम् ।
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम् ॥६४॥ चन्दनागुरुकस्तूरीकुङ्कुमादिसमर्चितम् ।
मुनीन् सती पूजयित्वा सम्पूज्य स्वपुरोहितम् ॥६५॥ पुरः संस्थाप्य दिक्पालान् देवान् समर्च्य वै ततः ।
स्वस्तिवाचं वाचयित्वाऽऽवाह्य कृष्णं घटे ततः ॥६६ ॥ सम्पूज्य षोडशद्रव्यैरुपहारं चकार सा ।
तिलसर्पिषा हवनं त्रिलक्षं प्रचकार सा ॥६७॥ ब्राह्मणान् भोजयामास प्रददौ दक्षिणां पराम् ।
पुरोहितः शिवां प्राह देहि मे पतिदक्षिणाम् ॥६८॥ पतिरूपां दक्षिणां तु श्रुत्वा शुशोच पार्वती ।
शिवः प्राह शिवे! दक्षिणया कर्मफलं भवेत् ॥६९॥ यत्कर्म दक्षिणाहीनं तत्सर्वं निष्फलं भवेत् ।
तन्मुहूर्ते व्यतीते तु दक्षिणा द्विगुणा भवेत् ॥1.450.७०॥ चतुर्गुणा दिनातीते पक्षे शतगुणा भवेत् ।
मासे पञ्चशतगुणा षण्मासे तच्चतुर्गुणा ॥७१ ॥ सम्वत्सरे व्यतीते तु कर्म तन्निष्फलं भवेत् ।
पुत्रपौत्रधनैश्वर्यक्षयः स्यात्तु ततः परम् ॥७२॥ धर्मो नष्टो भवेत्तस्य धर्महीने तु कर्मणि ।
विष्णुः प्राह सति! रक्ष फलदं रक्षकं वृषम् ॥७३ ॥ ब्रह्मा प्राह सति! धर्मे नष्टे कर्ता विनश्यति ।
धर्मः प्राह शिवे! कान्तं दत्वा मां रक्ष यत्नतः ॥७४॥ रक्षिते च मयि साध्वि! सर्वं भद्रं भविष्यति ।
देवा ऊचुः रक्ष धर्मं कुरु पूर्णं व्रतं सति! ॥७५॥ वयं तव व्रते पूर्णे कुर्मस्त्वां पूर्णमानसाम् ।
ऊचुस्तां मुनयः शम्भुं देहि विप्राय दक्षिणाम् ॥७६ ॥ स्थितेष्वत्मत्सु धर्मज्ञे नाऽभद्रं ते भविष्यति ।
प्राह सनत्कुमारस्त्वं मे शिवं देहि दक्षिणाम् ॥७७॥ नो चेद् व्रतफलं सर्वं त्यज प्राप्स्याम्यहं फलम् ।
शिवा प्राह पतिर्यत्र ह्रियते तु पुरोधसा ॥७८॥ किं मे स्यात् तद्व्रतेनापि किं मे दक्षिणया सुराः ।
किं पुत्रेण च धर्मेण सर्वस्वं यत्र नीयते ॥७९॥ कुतः फलं कुतो वृक्षो यदि बीजं न विद्यते ।
भूमिः सा निष्फला बीजं विना सस्यप्रदा न वै ॥1.450.८०॥ कृषिश्च विफला सर्वा बीजं विना तु वार्षिकी ।
प्राणं त्यक्त्वा प्रयत्नेन वर्ष्मणा किं प्रयोजनम् ॥८१ ॥ दृष्टिशक्तिविहीनेन चक्षुषा किं प्रयोजनम् ।
शतपुत्राधिकः स्वामी साध्वीनां तु सुरेश्वराः ॥८२॥ यदि भर्ता व्रते देयः किं व्रतेन सुतेन वा ।
भर्तुर्वंशो हि तनयो भर्तुमूलो भवेत्सदा ॥८३॥ यत्र मूलं भवेद् भ्रष्टं तद्व्यापारस्तु हानिदः ।
विष्णुः प्राह सतीं तत्र पुत्रात् स्वामी परः सदा ॥८४॥ स्वामिनश्च परो धर्मस्तन्नाशे स्वामिनाऽपि किम् ।
ब्रह्मा प्राह सति पुत्रि धर्मो वै स्वामिनः परः ॥८५॥ धर्मात्परं सत्यकार्यं व्रतं सत्यं परं मतम् ।
सत्यं सदक्षिणं कर्म न तु भ्रष्टं कुरु व्रतम् ॥८६॥ शिवा प्राह च वेदेषु स्वशब्दो धनवाचकः ।
तद् यस्याऽस्तीति स स्वामी धनवान् स समुच्यते ॥८७॥ धनितः श्रेष्ठ एवात्र धर्मस्ततो व्रतं ऋतम् ।
तेभ्योऽधिकः पतिः स्वामी स्वामित्वं तत्र शाश्वतम् ॥८८॥ आगन्तुकं धनवतां तस्मात्। स्वामी पतिः परः ।
तस्याऽहं धनमेवाऽस्मि पित्राऽहं चार्पिता पुरा ॥८९॥ दानरूपा शिवस्वत्ववती चाहं न मे शिवः ।
स्वत्वं विना कथं दानं वदन्त्यत्र सुरादयः ॥1.450.९०॥ धर्मः प्राह सदा पत्नी स्वामिनोऽर्धाङ्गना मता ।
दम्पतीमूर्तिरेकैव स्वेन स्वं शक्यतेऽर्पितुम् ॥९१ ॥ सती प्राह मयि स्वाम्यं स्वामित्वं चेति चागतम् ।
स्वामित्वविगमं स्वाम्यं विनिवोगक्षमं भवेत् ॥९२॥ ततो योग्या न वर्तेऽत्राऽर्पयितुं तु पतिं मम ।
पतिर्दाने स्त्रिया दत्त इति सृष्टौ न वै श्रुतम् ॥९३॥ कन्यादानं श्रुतावुक्तं जामात्रे जगतां क्रमः ।
वरदानं वरार्थिन्यै ज्येष्ठपित्रे कुतः क्रमः ॥१४॥ देवाः प्राहुः सति! नैव बुद्धिमन्तो वयं त्वयि ।
पुण्यके कल्पितां स्वामिदक्षिणां धर्ममाचर ॥९५॥ श्रुतौ श्रुतः स वै धर्मो विपरीतो ह्यधर्मकः ।
सती प्राह विना लोकाचारं वेदोऽतिनिर्बलः ॥९६ ॥ वेदे प्रकृतिपुंसोस्तु गरीयान् पुरुषोऽधिपः ।
अधिपं नु कथं दास्ये बालाऽहं कथयामि किम् ॥९७॥ बृहस्पतिस्तदा प्राह सर्गश्चोभयनिर्मितः ।
श्रीकृष्णश्चोभयस्रष्टा समौ प्रकृतिपूरुषौ ॥९८॥ सती प्राह पुमान् कृष्णनारायणांश एव सः ।
नार्यस्तु मूलप्रकृतेरंशास्ततः पुमान् गुरुः ॥९९॥ पुमाँस्त्वत्र परब्रह्म सदाशिवः पतिर्मम ।
मया कथं पतिर्देयो वदन्त्वत्र हि देवताः ॥1.450.१० ०॥ इतिवादे प्रवृत्तेऽत्र विमानं स्वर्णभास्वरम् ।
आगतं श्रीपतिर्नारायणश्चतुर्भुजस्ततः ॥१० १॥ अवतीर्य सभामध्ये स्थितः सर्वैः प्रपूजितः ।
प्राह गौरीं सति! त्वया न्याय्यमेव समुच्यते ॥१ ०२॥ दक्षिणा यज्ञपत्नी च यजमानेन दीयते ।
विप्राय तत्र मूल्यं वै दीयते न क्रतुप्रिया ॥१ ०३॥ परपत्नी परेण दीयते पराय न क्वचित् ।
तन्निमित्तं स्वर्णरौप्यं दीयते धनमेव यत् ॥१ ०४॥ पत्नीदाने पुत्रदाने स्वस्य दाने पत्यर्पणे ।
गोप्रदानं विधायैव कर्म पूर्णॆ प्रजायते ॥१०५॥ विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः ।
विष्णुदेहा दक्षिणा च मूल्यात्मिका प्रदीयते ॥१ ०६॥ व्रतं पूर्णे कुरु शिवे! शिवं दत्वा तु दक्षिणाम् ।
पुनः समुचितं मूल्यं दत्वा नाथं ग्रहीष्यसि ॥१ ०७॥ इत्युक्ता सा हवनान्ते शिवं ३ दक्षिणां ददौ ।
स्वस्तीत्युक्त्वा तु जग्राह कुमारो देवसंसदि ॥१०८॥ सती प्राह गृहाणैतद् गवां लक्षं धनं च वा ।
देहि मत्स्वामिनं विप्र दास्ये दानानि वै ततः ॥१ ०९॥ पतिं विना न वै कर्म त्वन्यत् कर्तुॆ क्षमा यतः ।
सनत्कुमारश्चोवाच मे गवां न प्रयोजनम् ॥1.450.१ १ ०॥ रत्नानां च धनानां च साधोर्मे किं प्रयोजनम् ।
प्रयोजनं मे शिष्यस्य त्यागिनोऽवधूतस्य च ॥१११ ॥ स तु प्राप्तो मया त्वत्तो न दास्ये शङ्करं तव ।
कर्तुरेवेप्सितं कर्म स्वस्य द्रव्ये स्वतन्त्रता ॥१ १२॥ अन्ये वदन्तु यत्किञ्चिद् गोभिर्न मे प्रयोजनम् ।
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्त्रयम् ॥११ ३॥ बालकानां बालिकानां समूहस्मितकारणम् ।
इत्युक्त्वा तु शिवं पार्श्वे वासयामास वै सनत् ॥१ १४॥ पार्वती तु तदोत्तस्थौ जगाद शोकविह्वला ।
पुनर्लब्धः पतिर्नैव न प्राप्तं तु फलं व्रते ॥१ १५॥ एषा सती भवाम्यत्र वह्निमुत्पाद्य देहतः ।
हाहाकारोऽभवत् तत्र श्रीकृष्णो भगवान् स्वयम् ॥१ १६॥ झटित्येनां समाश्लिष्य वारयामास मूर्तिमान् ।
सत्या दृष्टश्च भगवान् विमानादवतीर्य सः ॥१ १७॥ रराज विनिवार्यैव सभामध्ये विलोकितः ।
देवौः सुपूजिते कृष्णं पार्वती तुष्टुवे हृदा ॥१ १८॥ त्वयाऽहं जीविता कृष्ण पुनर्जीवय शम्भुना!
शम्भुं देहि फलं देहि पुत्रं भवादृशं प्रभो ॥१ १ ९॥ इत्युक्तः श्रीहरिः सत्यै दापयामास शङ्करम् ।
पुरोधसे ददौ द्रव्यं विप्रेभ्यो दक्षिणास्तथा ॥1.450.१ २०॥ व्रतं समाप्य सा सर्वान् भोजयित्वा ततः परम् ।
बुभुजे स्वामिना सार्धं ताम्बूलं च ददौ ततः ॥१२१ ॥ देवाद्याः पूजिताः सर्वे ययुः स्वर्गं ततः सती ।
शय्यायां शम्भुना रेमे तावद् ब्राह्मणरूपधृक् ॥१ २२॥ कृष्णस्तत्र समायातो वृद्धो भिक्षुक आह च ।
मातर्भिक्षां तु मे देहि पुनः पुनरुवाच ह ॥१२३॥ शम्भुरुत्थाय तु शीघ्रं वीर्यमुत्सृज्य शायने ।
बहिः शीघ्रं त्वाजगाम तत् सत्याः शरीरेऽलगत् ॥१२४॥ वीर्यं यत्तत्कृतः पिण्डः कृष्णस्तस्मिन् व्यलीयत ।
तूर्णं बालोऽभवत् सत्या कृष्णतुल्यो विलोकितः ॥१२५॥ एवं प्राप्तो गणेशः सः श्रीकृष्णः स्वयमेव तु ।
पातिव्रत्येन सा दुर्गा पतिं तत्याज न क्वचित् ॥१ २६॥ पतिर्देवः पतिः पोष्टा परलोकप्रदायकः ।
पुत्रपौत्रादिवंशस्य मूलं पतिः परः प्रभुः ॥१२७॥ प्राणानां विगमे चापि न त्याज्यः स्वपतिः प्रियः ।
दक्षिणार्थं गृहीतोऽपि गृहीतो न विसर्जितः ॥१ २८॥ एवं पतिप्रिया साध्वी लभते कृष्णसदृशम् ।
सुपुत्रं कृपया पत्युः किमु वाच्यं नु पद्मजे ॥१२९॥ सतीव्रतसमाख्यानं पतिदानसमाग्रहम् ।
शृणुयाद्वा पठेद्वापि पुत्रं सौभाग्यमाप्नुयात् ॥1.450.१ ३०॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्याः पुण्यकव्रते शम्भुदक्षिणानिमित्तपातिव्रत्यबलं संवादो गणेशपुत्रप्राप्तिश्चेत्यादिनिरूपणनामा पञ्चाशदधिकचतुश्शततमोऽध्यायः ॥४५०॥