श्रीनारायण उवाच-
लक्ष्मि! मया सदाशिवस्वरूपं सन्धृतं पुरा ।
त्यागवैराग्यरूपं तत् सर्वसंहारकारणम् ॥१ ॥
मम शिवस्य रूपस्य सोमवारेऽर्चकः पुरा ।
आर्यावर्ते नृपश्चित्रवर्माऽऽसीद्धार्मिकः परः ॥रे ॥
सुगोप्ता धर्मसेतूनां यष्टा यज्ञादिकर्मणाम् ।
पुण्यानामाश्रयो दाता भक्तः शिवमुकुन्दयोः ॥३ ॥
बहुपुत्रोत्तरं तस्य पत्न्यां कन्या व्यजायत ।
प्राग्जन्मनां तु कर्माणि जातमात्रा प्रवक्ति सा ॥४ ॥
जातिस्मरा सती साध्वी कृष्णधर्मपरायणा ।
सदा श्रीमत्कृष्णनारायणध्यानरता शुचिः ॥५ ॥
पातिव्रत्यपरा कृष्णे नान्यं स्मरति नित्यदा ।
एकदा भूभृता कृष्णसाधवो भोजिता गृहे ॥६ ॥
विप्राः सहस्रशो बाला नैष्ठिका बालिकास्तथा ।
ज्योतिर्विदो भाग्यविदो रेखाविदश्च योगिनः ॥७ ॥
तेषां ताम्बूलदानार्थं कन्या सेवापरा ह्यभूत् ।
दैवज्ञास्तां विलोक्यैव भिन्नं भिन्नं फलं जगुः ॥८ ॥
एकोऽब्रवीत् तव कन्या नाम्ना सीमन्तिनी नृप ।
पार्वतीव सुमाङ्गल्यवती राधेव रूपिणी ॥९ ॥
शारदेव कलाभिज्ञा लक्ष्मीरिव महागुणा ।
सुप्रजा देवमातेव सती कृष्णे धृतव्रता ॥1.448.१ ०॥
माणिक्येव हरौ लग्ना प्रभेव कृष्णमाश्रिता ।
दशवर्षसहस्राणि सह भर्त्रा प्रमोदिनी ॥११ ॥
अष्टतनयमातेयं भविष्यति सुखान्विता ।
अथाऽन्योऽपि द्विजः प्राह रेखाभिर्निर्भयस्तदा ॥१ २॥
एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति ।
अथ कायाकल्परूपं पतिं पुनरवाप्स्यति ॥१ ३॥
राजा वज्रसमं वाक्यं श्रुत्वा शुशोच सा त्वपि ।
किन्तु दैवकृतं सर्वं मत्वा तत्याज शोचनम् ॥१४॥
बाला सीमन्तिनीनाम्नी भाविवैधव्यशङ्किता ।
याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत ॥१५॥
मातस्त्वं ब्रह्मवेदित्री कृष्णात्मार्पणवैष्णवी ।
ज्ञानाधिशेवधिश्रेणी सर्वापन्नाशिनी ह्यसि ॥१६॥
मातस्त्वच्चरणाम्भोजं प्रपन्नाऽस्मि भयार्दिता ।
वैधव्यं ब्राह्मणाश्चाहुर्मेऽत्र किं भावि तद् वद ॥१७॥
पुनस्तस्यैव पत्युश्च प्राप्तिर्मेऽस्तीत्यप्यूचिरे ।
अतः सौभाग्यवृद्ध्यर्थं सुकृतं वद मेऽनघे! ॥१८॥
इत्युक्ता तां तु मैत्रेयी प्राह श्रीपार्वतीव्रतम् ।
सोमवारे पूजयस्व शिवं गौरीं श्रियाः पतिम् ॥१ ९॥
उपोषिता च सुस्नाता विरजोऽम्बरधारिणी ।
कृष्णपातिव्रत्यपरा प्रातः पूजां प्रकल्पय ॥1.448.२०॥
पापक्षयोऽभिषेकेण साम्राज्यं पादपूजनात् ।
सौभाग्यमखिलं सौख्यं गन्धमाल्याऽक्षताऽर्पणात् ॥२१ ॥
धूपदानेन सौगन्ध्यं कान्तिर्दीपप्रदानतः ।
नैवेद्यैस्तु महाभोगा लक्ष्मीस्ताम्बूलदानतः ॥२२॥
धर्मार्थकाममोक्षाश्च पुष्पाञ्जलिनमोऽर्पणात् ।
अष्टैश्वर्याणि सिद्ध्याद्याः श्रीकृष्णात्मसमर्पणात् ॥२३॥
होमेन सर्वकामाश्च सफलाः सम्भवन्ति हि ।
सर्वे देवाः प्रतुष्यन्ति विप्राणां भोजनात् सताम् ॥२४॥
इत्थमाराधय कृष्णयुतां शिवशिवां सुते ।
घोराद्धोरं भयं पुत्रि! तरिष्यसि न संशयः ॥२५॥
इत्युक्ता कन्यका तां मैत्रेयीं सम्पूज्य वस्तुभिः ।
गृहं गत्वा चकारैतद् व्रतं सौभाग्यवर्धनम् ॥२६ ॥
सा तेनाऽभूत् सिद्धियुक्ता पार्वतीश्रीसमा सती ।
अथ कन्यापिता चित्रवर्मा चन्द्राङ्गदाय ताम् ॥२७॥
ददौ नलस्य पुत्राय इन्द्रसेनसुताय वै ।
तदुद्वाहे महीपानां समवायो महानभूत् ॥२८॥
महोत्सवे सुनिर्वृत्ते जामाता श्वशुरगृहे ।
उवास कतिचिन्मासान् कन्यायाः स्नेहकारणात् ॥२९॥
एकदा यमुनां तर्तुं तरीमारुह्य बालकाः ।
ययुर्मध्ये दैवयोगादावर्त्ताभिहता तरी ॥1.448.३०॥
ममज्जुः सलिले ते तु मम्रिरे सुकुमारकाः ।
नाऽदृश्यन्त कुमारास्ते मज्जिता हि महाजले ॥३ १ ॥
हाहाकारो महानासीद् राजा राज्ञी प्रजास्तथा ।
सीमन्तिनी तथा सख्यो नायकाश्च पुरोहिताः ॥३२॥
विलेपुर्मन्त्रिणश्चेन्द्रसेनोऽपि विललाप ह ।
यमुनाया महापूरे शवा अपि लयं गताः ॥३३॥
चित्रवर्मा प्रकारयामासौर्ध्वदैहिकं विधिम् ।
सा तु सीमन्तिनी साध्वी योगिनी योगिवत्तदा ॥३४॥
विदधे संयमं सौधे स्थित्वा पत्यर्थमेव सा ।
समाधौ सङ्गता तूर्णं जलान्तरे तले सती ॥३५॥
बहुरूपधरा साध्वी बहुसामर्थ्ययोगिनी ।
यमुनां तां तदा पीतवती स्वाञ्जलिभिः सती ॥३६॥
शुष्काऽभवत्तदा त्वेषा यमुना क्षेत्रसदृशी ।
मृताः शवा अदृश्यन्त सा निनाय तटं तु तान् ॥३७॥
ब्रह्मरन्ध्रगतान् याँश्च यमलोकगताँस्तथा ।
आजुहाव मुहुः सत्यपरास्तेऽत्र समाययुः ॥३८॥
जीविता एव ये सर्वे पतितत्र भू दृश्यते ।
चन्द्राङ्गदः पन्नगीभिः कन्याभिर्दृष्ट एव यत् ॥३९॥
सकामाभिः सुजाताभिः पातालं प्रापितोऽभवत् ।
तक्षकस्य पुरं नीतश्चेन्द्रस्वर्गाऽधिकं शुभम् ॥1.448.४०॥
रूपयौवनमाधुर्यविलासगतिशोभिना ।
नागकन्यासहस्रेण समन्तात्परिवारितः ॥४१ ॥
तक्षकस्तं राजपुत्रं ददर्श कन्यकायुतम्।
पप्रच्छ सर्ववृत्तान्तं कन्यास्त्वाहुर्यथातथम् ॥४२॥
अथ चन्द्राङ्गदश्चापि शिवकृष्णेति सञ्जपन् ।
तक्षकेण श्रुतो दृष्टः प्रेष्णोक्तश्च सुमानतः ॥४३ ॥
परितुष्टोऽस्मि भद्रं स्तात् तव भक्तियुतस्य वै ।
बालोऽपि यं शिवं कृष्णं जपस्येव निरन्तरम् ॥४४॥
एष रत्नमयो लोक एताश्चारुदृशोऽबलाः ।
एते कल्पद्रुमाः सर्वे वाप्योऽमृतरसाम्भसः ॥४५॥
यथेष्टं- विहरेतेषु भुङ्क्ष्व भोगान् यथोचितान् ।
इति श्रुत्वा राजपुत्रः प्रोवाचाऽहं विवाहितः ॥४६ ॥
पतिव्रता मम कान्ता सती साध्वी शिवव्रता ।
कृष्णपातिव्रत्यपरा मत्वा मां तु मृतं ततः ॥४७॥
वैधव्यं सर्वचिह्नैस्तु ग्रहीष्यति ततोऽथवा ।
अग्नौ प्रवेक्ष्यति साध्वी सती सा विद्यते यतः ॥४८॥
अतो मया बहुतिथं नात्र स्थेयं कथञ्चन ।
तमेव लोकं कृपया मां प्रापयितुमर्हसि ॥४९ ॥
इत्युक्तवन्तं चन्द्राङ्गं तक्षको नागकन्यकाः ।
भवनानि सुभोग्यानि वाहनान्यमृतानि च ॥1.448.५ ०॥
ददौ कन्याप्रतुष्ट्यर्थं रमणार्थं समस्तकम् ।
अथाऽत्र तत्सती भार्याऽनवलोक्य प्रियं पतिम् ॥५ १ ॥
समुद्रं त्वाह्वयामास सत्येन च व्रतेन वै ।
यद्यहं श्रीकृष्णनारायणभक्ताऽस्मि सर्वथा ॥५२॥
यद्यहं स्वपतिप्राणा पतिव्रताऽस्मि सर्वथा ।
यद्यहं च शिवायुक्तशिवतुष्ट्यै व्रतान्विता ॥५३॥
तदा समुद्रस्त्वत्रैव समायातु समीपतः ।
इत्युक्त्वा स्वहस्तगतं जलं मुमोच सा भुवि ॥५४॥
तावत् समुद्रः सभयः सुमूर्तो वै समाययौ ।
ननाम तु सतीं रत्नप्रदानैः समतोषयत् ॥५५॥
उवाचैनां मया नैव पतिस्तेऽपहृतोऽस्ति वै ।
पाताले तक्षककन्या निन्युस्ते सुन्दरं वरम् ॥५६॥
आगमिष्यति शीघ्रं सः तोषयित्वा सुपन्नगीः ।
एवमुक्त्वा ययौ त्वब्धिः सीमन्तिनी सुहर्षिता ॥५७॥
किन्त्वज्ञैः राजमुख्यैः सा पुरोहितादिभिस्तथा ।
वैधव्यचिह्नयुक्तैव तत्र प्रसह्य कारिता ॥५८॥
अथ कन्यास्तोषयित्वा रथं रत्नानि भूरिशः ।
नागकन्याः शुभाः सर्वाऽऽभूषावस्त्रादिशोभिताः ॥५९॥
तक्षकेनाऽर्पिता नीत्वा यमुनायां समाययौ ।
सती सीमन्तिनी स्वप्ने त्वागतं यमुनाजले ॥1.448.६०॥
दृष्ट्वोत्थाय ययौ पूजापात्रं नीत्वा सखीयुता ।
सा ददर्श नदीतीरे विहरन्तं पतिं प्रियम् ॥६१ ॥
दिव्यरत्नसमाकीर्णं दिव्यमालावतंसकम् ।
दिव्यगन्धेन देहेनाऽपूर्वाकृतिं समुज्ज्वलम् ॥६२॥
विलोक्य जडवद् राज्ञीं तस्थौ तन्न्यस्तलोचना ।
तां च चन्द्राङ्गदो वीक्ष्य मुमोह क्षणमेव तु ॥६३॥
निर्मुक्तकण्ठाभरणां कण्ठसूत्रविवर्जिताम् ।
असंयोजितधम्मिलामङ्गरागविवर्जिताम् ॥६४॥
किञ्चिद्वैधव्यधर्माक्तां तामाहूयाऽब्रवीदिदम् ।
किमिदं दृश्यते साध्वि! शोकस्याऽऽवेदकं तव ॥६५॥
इति स्नेहेन सम्पृष्टा नाऽब्रवीदश्रुलोचना ।
सखी प्राह प्रसह्यैनां वैधव्यं कारितं जनैः ॥६६ ॥
विना पतिं हि क्षन्तव्यमनाथायास्तु सा गतिः ।
सोमवारव्रतं नैव त्यक्तं न च पतिव्रतम् ॥६७॥
कृष्णसेवा न वा त्यक्ता सर्वं तथैव विद्यते ।
मुनिपत्नीदर्शितस्य व्रतस्य फलमेव तु ॥६८॥
प्राप्तं ते प्रियया राजन्! गृहाणैनामनिन्दिताम् ।
इत्युक्तः स निजां पत्नीं चक्रे वक्षसि पीडिताम् ॥६ ९॥
अथ पौरजनास्तत्र दृष्ट्वाऽऽगतं नृपात्मजम् ।
गत्वा राज्ञे द्रुतं प्रोचुः राजा राज्ञी च नागराः ॥1.448.७० ॥
प्रत्युद्गम्य परिष्वज्य तमानिन्युर्निजालयम् ।
राजपुत्रः श्वशुरौ तु ववन्दे बाष्पमुत्सृजन् ॥७१ ॥
प्रजास्तं मानयामासुर्वर्धयामासुराशिषा ।
तेषां मध्ये समासीनः स्ववृत्तान्तमशेषतः ॥७२॥
राज्ञे निवेदयामास तक्षकस्य सुमित्रताम् ।
दत्तं रत्नादिकं सर्वं दिव्यं राज्ञे न्यवेदयत् ॥७३॥
सौमाङ्गल्यमयी वार्ता पत्नीराष्ट्रेऽभवत्तदा ।
तथा स्वस्य पितुः राष्ट्रे मानवैः कथिता कथा ॥७४॥
पितरौ च प्रजाः सर्वा निषधस्याऽतिहर्षिताः ।
तदुत्सवो महानासीद् राष्ट्रग्रामपुरादिषु ॥७५॥
सीमन्तिनी पतिं प्राप्य त्यक्तवैधव्यलक्षणा ।
वह्निं प्रदक्षिणीकृत्य सौभाग्यमङ्गलाऽभवत् ॥७६॥
चन्द्राङ्गदः स्वहस्तेन सिन्दूरादि समार्पयत् ।
बिन्दुं परस्परं तौ तु चक्राते साक्षतं शुभम् ॥७७॥
मालां परस्परं तौ चार्पयामासतुरैश्वरीम् ।
ताम्बूलकं ददतुश्च दानानि विविधान्यपि ॥७८॥
अथाऽयं श्वशुरौ नत्वा पत्नीयुतो निजं गृहम् ।
निषधं संययौ पित्रोः पादयोरपतत् ततः ॥७९॥
दशवर्षसहस्राणि सीमन्तिन्या स्वभार्यया ।
सार्धं चन्द्राङ्गदो राजा बुभुजे विषयान् बहून् ॥1.448.८ ०॥
प्रासूत तनयानष्टौ कन्यामेकां वराननाम् ।
रेमे सीमन्तिनी भर्त्रा ध्यायमाना हरिं हरम् ॥८ १ ॥
दिने दिने तु सौभाग्यं प्राप चैवेन्दुवासरात् ।
एवं लक्ष्मि सदा पातिव्रत्यं विजयते भुवि ॥८२॥
स्वर्गे सत्ये ब्रह्मलोके पाताले प्रमदाजने ।
पातिव्रत्यं रक्षितं चेत् सर्वसिद्धिकरं भवेत् ॥८३ ॥
पतिं कृष्णस्वरूपं तु मत्वा ध्यात्वा सदा सती ।
कल्पवृक्षसमं धर्मं पातिव्रत्यं समाचरेत् ॥८४॥
पराधीनाऽबलानां वै कामप्रतिमयोषिताम् ।
देहाः पापाश्रयाः सन्ति ततोऽप्यधिकपुण्यदाः ॥८५॥
पापं तु कामातिशयः, पुण्यं सेवा पदे पदे ।
पतिसेवा कृष्णसेवा व्रतदानादिसेवनम् ॥८६ ॥
अतिथेश्च सतां सेवा गवां सेवा पदे पदे ।
निष्पापानामपत्यानां सेवा ब्रह्मस्वरूपिणाम् ॥८७॥
गृहसंरक्षणं सेवा वह्नावन्नादिपाचनम् ।
वैश्वदेवात्मिका सेवा ह्यनाथश्वादिभोजनम् ॥८८॥
अन्नसत्रात्मिका सेवा बालस्य कलभाषणम् ।
विद्यादानात्मिका सेवा सहनं साधुभूषणम् ॥८९॥
पत्यधीना निरीहा च सद्गणादिसुशोभनम् ।
इत्येव सेवया पुण्यमनन्तकं स्त्रियाः सदा ॥1.448.९० ॥
भुक्तिमुक्तिप्रदं तस्मात् पातिव्रत्यं समाचरेत् ।
पठनाच्छ्रवणाच्चास्य स्वर्गो मोक्षः करे स्थितौ ॥९१ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्राङ्गदस्य कृष्णपतिव्रतया सीमन्तिनीनाम्न्या पत्न्या पातिव्रत्यबलचमत्कारैर्यमुनामग्नः पतिः पाताले नागकन्याभिर्नीतोऽपि पुनः प्राप्त इत्यादिनिरूपणनामाऽष्टचत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४४८ ॥