श्रीनारायण उवाच-
शृणु लक्ष्मि! यथा स्त्रीणां कृष्णस्याऽऽराधनं तथा ।
येन मुक्तिर्भवेच्चापि तं धर्मं प्रवदाम्यहम् ॥१ ॥
धर्मोढा या भवेत् पत्नी दशदोषविवर्जिता ।
अक्लीबाऽव्यङ्गिनी शस्ता महारोगाद्यदूषिता ॥२ ॥
अनिन्दिता शुभकला चक्षूरोगविवर्जिता।
बाधिर्यहीना चपला कन्या मधुरभाषिणी ॥३ ॥
दूषणैर्दशभिर्हीना यथोक्तविधिना नरैः ।
विवाहिता तु सा पत्नी गृहिणी ख्यायते सती ॥४ ॥
पुण्यकार्येषु सर्वेषु प्रथमा सा प्रतिष्ठति ।
तया सुविहितो धर्मः सम्पूर्णफलदो भवेत् ॥५ ॥
कार्यं स्त्रीभिः सदा कृष्णं संस्मृत्य पञ्चयज्ञकम् ।
स्नानं च तर्पणं चापि वह्निहोमोऽच्युताऽर्चनम् ॥६ ॥
अतिथेः सत्कृतिश्चेति पञ्चयज्ञान्न सन्त्यजेत् ।
पञ्चयज्ञैस्तु सन्तुष्टा भवन्ति पितृदेवताः ॥७ ॥
स्त्रियाः पतिव्रतायास्तु पतिशुश्रूषया मुदा ।
पत्यात्मके हरौ तुष्टा भवन्ति पितृदेवताः ॥८ ॥
पतिव्रताया देहे तु सर्वे देवा वसन्ति हि ।
अतस्तया स्वामिना युक्तया धर्मस्य चागमः ॥९ ॥
उभयोर्मानसे चैक्ये सन्तुष्टाः पितृदेवताः ।
सर्वकार्यप्रसिद्धिश्च फलं सम्पद्यते शुभम् ॥1.441.१० ॥
समानजातिसम्भूता पत्नी विवाहिता भवेत् ।
तस्या भर्ताऽर्धभागी स्याद् धर्मकार्येषु सर्वथा ॥११ ॥
अर्धदेहाधिकारोऽस्यास्तेन धर्मार्धधारिणी ।
पतिर्धर्मार्धधारी च द्वयोः शुभेऽशुभेऽपि च ॥१२॥
याऽनुगच्छति भर्तारं मृतं सुतपसा प्रिये! ।
साध्वी महासती ज्ञेया यया तूद्ध्रियते कुलम् ॥१३ ॥
यं कञ्चिद्वा पतिं मृतं धृता वाऽथ विवाहिता ।
वैश्वानरस्य मार्गेण सा तमुद्धरते पतिम् ॥१४॥
यथा तु तारको मज्जन्तं समुद्धरते जलात् ।
तथा चोद्धरते साध्वी भर्तारं याऽनुगच्छति ॥१५ ॥
या कन्या स्वयमुद्यम्य पित्रा दत्ता वराय सा ।
विवाहविधिनोदूढा पितृदेवार्थसाधिनी ॥१६ ॥
विवाहा दशधा. प्रोक्तास्तदन्यतममेव या ।
अवलम्ब्य पतिं प्राप्ता सा समुद्धरते कुलम् ॥१७॥
पुनर्विवाहिता साऽपि सती चेत् कुलतारिणी ।
क्रयक्रीता भवेद् दासी किन्तु चेत् सा विवाहिता ॥१८॥
सती प्रोक्ता धर्मवती सा समुद्धरते कुलम् ।
पवित्रकुलजा रङ्का धर्मोढा यदि साध्विका ॥१ ९॥
सा पुनाति कुलं सर्वं पातिव्रत्यप्रभावतः ।
प्राजापत्यस्तथा ब्राह्मो दैवाऽऽर्षौ ते सदुत्तमाः ॥1.441.२०॥
गान्धर्वश्चासुरश्चापि राक्षसश्च पिशाचकः ।
प्रातिभो घातकश्चेति विवाहाः कथिता दश ॥२१ ॥
औरसः क्षेत्रजश्चापि दत्त कृत्रिम इत्यपि ।
गूढोत्पन्नोऽपविद्धश्च कानीनश्च सहोढजः ॥२२
क्रीतः पौनर्भवश्चापि पुत्रास्ते दशधा मताः ।
एवं सुतसुतादारपतिपितृकुटुम्बिनः ॥२३ ॥
पातिव्रत्येन तीर्यन्ते सतीभिः कृष्णसेवया ।
देववद् दिवि दीव्यन्ति स्त्रियः सत्यः पतिव्रताः ॥२४॥
सर्वासां योषितां लक्ष्मि कृष्णभक्तिः सदा शुभा ।
शुद्ध्यर्थं सद्गुरोः सेवा गुरुपूजा सदोदिता ॥२५॥
स्वर्गार्थे स्वामिनः सेवा पतिपूजा सदोदिता ।
मोक्षार्थे श्रीकृष्णनारायणार्पणं तु योषिताम् ॥२६॥
एवं धर्मे समाश्रित्य शूद्रः पैजवनः पुरा ।
साध्व्या स्वभार्यया साकं कृष्णलोकं ययौ पुरा ॥२७॥
आसीत् स धर्मनिरतो विष्णुब्राह्मणपूजकः ।
न्यायाऽऽगतधने तुष्टः स्त्रीयुतः सेवकः सताम् ॥२८ ॥
सत्यवादी वैष्णावोऽभूत् तस्य भार्या च सुन्दरी ।
धर्मोढा तूक्तविधिना समानकुलजा शुभा ॥२ ९॥
पतिव्रता महाभागा देवद्विजहिते रता ।
काश्यां सम्बन्धिता कन्या वैजयन्त्यां विवाहिता ॥1.441.३ ० ॥
सा धर्माचरणे दक्षा वैष्णवव्रतधारिणी ।
भर्तारं श्रीकृष्णनारायणं ज्ञात्वा प्रसेवते ॥३१ ॥
अर्थाप्तिः सुकृतपुण्यैर्वर्धतेऽस्या गृहे सदा ।
वाणिज्येन सफलेन व्यापारेण सतीपतेः ॥३ २ ॥
एवमर्थश्च बहुधा सञ्जातो धर्मदर्शिनः ।
पुत्रद्वयं च सञ्जातं पुत्र्यश्चेति च वैष्णवाः ॥३३ ॥
कृष्णनारायणभक्ताः पितृसेवापरायणाः ।
पित्रोः शुश्रूषणे रक्ताः पत्नी पतिव्रता सदा ॥३४॥
सर्वे सम्पूज्यपूजां सङ्कुर्वन्ति सेवनादिकम् ।
कृप्णनारायणं स्मृत्वा पूजयन्त्यतिथींस्तथा ॥३१॥
ऋद्धिमद्भवनं तेषां धनधान्यसमन्वितम् ।
गृहागतो न विमुखो येषां याति कदाचन ॥३६ ॥
शीतकाले धनं प्रादुरुष्णकाले जलाऽन्नदाः ।
वर्षाकाले वस्त्रदाश्च बभूवान्नप्रदाः सदा ॥३७॥
वापीकूपतडागादिप्रपादेवगृहाणि च ।
कारयन्त्युचिते काले कृष्णभक्तिव्रतस्थिताः ॥३८॥
पङ्क्तिभेदो गृहे नैषां समभागेन तोषिणः ।
एवं वै वर्तमानानां गृहे श्रीगालवो मुनिः ॥३ ९॥
समाजगाम बहुभिर्भक्तशिष्यैः समावृतः ।
सुन्दरीसहितः पैजवनः पुत्रादिसंयुतः ॥1.441.४०॥
स्वागतं कृतवाँस्तस्य चाभ्युत्थानासनादिभिः।
अतिहर्षं गतस्तत्र पादयोर्जलमापिबन् ॥४१ ॥
कृतार्थं मानयन् नैजं कुटुम्बं समुवाच सः ।
अद्य मे सफलं जन्म जातं जीवितमुत्तमम् ॥४२॥
अद्य मे सफलो धर्मः सकुलश्चोद्धृतस्त्वया ।
मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने! ॥४३॥
हरिर्नारायणः कृष्णो गालवो मे गृहागतः ।
गृहं मम गृहस्थस्य कृष्णेन पावितं त्वया ॥४४॥
इति श्रुत्वा महाभक्त्या गतमार्गपरिश्रमः ।
प्रसन्नो गालवः शूद्रं पप्रच्छ कुशलं बहु ॥४५॥
कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते ।
कृष्णार्थकृतसर्वस्वाः कच्चित्ते दारबालकाः ॥४६॥
कृष्णनारायणे कच्चिद्भक्तिस्ते दानपूर्विका ।
धर्मार्थकाममोक्षेषु सस्नेहं मानसं तु वै ॥४७॥
विष्णुपादोदकं नित्यं शिरसा धार्यते नु किम् ।
सतीयं सर्वथा कृष्णकान्तसेवापरा नु किम् ॥४८॥
सत्या वै धार्यते सर्वं सत्या संरक्ष्यते तथा ।
सत्या निस्तीर्यते दुःखात् सती सुखादिसाधनम् ॥४९॥
स इत्युक्तः पैजवनः प्रत्युवाच कृपा तव ।
यन्मे सर्वं तथा त्वास्ते विशेषोऽनुग्रहस्तव ॥1.441.५०॥
शाधि मां सेवकं मत्वा सेविका तु सतीमिमाम् ।
सेवकाँश्च सुतान् सुताः प्रस्तुतागमकारणम् ॥५१ ॥
गालवस्तान् समुवाच यस्य भक्तिः सदाऽच्युते ।
यस्य भार्या सती साध्वी पतिकृष्णपतिव्रता ॥५२॥
यस्य पुत्रा हरेर्दासा दास्यः पुत्र्यः सतो हरेः ।
कुटुम्बं बान्धवाद्याश्च वैष्णवा यस्य पावनाः ॥५३ ॥
एतेषां सङ्गमे तीर्थे मुक्तिः क्वापि न दुर्लभा ।
कुटुम्बं वैष्णवं यद्धि ब्रह्मपिण्डमिदं शुभम् ॥५४॥
यस्य सन्दर्शनादेव पूतो भवति चाघवान् ।
निर्गुणस्य कृष्णनारायणस्य योगतस्तव ॥५५॥
सर्वं निर्गुणतां प्राप्तं भक्तियुग् दासधर्मतः ।
स्त्रीणामपि च साध्वीनां भक्तियुग् दासधर्मता ॥६६॥
प्रेमधर्मो बल्लवीनां शबर्याश्च हरावभूत् ।
पिङ्गलायाः प्रेमधर्मो मुक्तिदः पावनोऽभवत् ॥५७॥
कृष्णश्वेतगिरेः पुत्र्याः प्रेमधर्मोऽभवच्छिवे ।
तेन वर्षसहस्रान्ते सम्प्राप सा महेश्वरम् ॥५८॥
पार्वत्याश्च प्रभायाश्च ललितायास्तथा प्रिये! ।
लक्ष्म्या जयाया माणिक्यायाश्च स्नेहोऽतिकाष्ठगः ॥५९॥
अभवच्छ्रीकृष्णनारायणेऽवापुश्च ताः पतिम् ।
वृन्दायाश्च तुलस्याश्च विवाहः स्नेहमूलगः ॥1.441.६० ॥
तुलसीपत्रकैः कृष्णार्चया मोक्षो भवेद् ध्रुवम् ।
स्नेहमूलो हरौ मोक्षः सत्याः पत्यौ तथा मतः ॥६१ ॥
वृन्दाद्या अपि लोकानां तारकाश्चाऽभवन् क्षितौ ।
शृणु भक्तैकदा सर्वे पितरो हि पुरा युगे ॥६२॥
ययुर्भोजनतृप्त्यर्थं ब्रह्माणं शरणं तदा ।
तृप्त्यर्थं सलिलं यद्यद् वरुणाधिष्ठितं शुभम् ॥६३॥
विना तु तर्पणैर्नैव ग्राह्यं नो पितॄणां यतः ।
केनापि दीयमानं तद् ग्राह्यं भवति तृप्तिकृत् ॥६४॥
तस्मादस्मत्प्रतृप्त्यर्थं किञ्चिद्विधेहि पूर्वज ।
इत्यर्थितस्तदा ब्रह्मा श्रीकृष्णशरणं ययौ ॥६५॥
प्रार्थयामास तृप्त्यर्थं पितॄणां तु जलाप्तये ।
तदा भगवता श्रीमत्कृष्णनारायणेन वै ॥६६॥
क्षणं विचार्य कथितं सर्वात्मा भगवानहम् ।
सर्वेषां तृप्तिकृच्चास्मि नान्यो भवति तादृशः ॥६७॥
तस्मान्मया यथा तेषां तृप्तिः स्यात् कार्यमेव तत् ।
सर्वे जनाश्च मां कुत्र प्राप्स्यन्ति दिव्यरूपिणम् ॥६८॥
तस्मान्मया शुभं रूपं जलतर्पणहेतवे ।
धारणीयं जगत्प्राणिदत्तकल्याणकृद्भवेत् ॥६९॥
विचार्येत्थं स्वयं कृष्णोऽश्वत्थरूपो बभूव ह ।
पिप्पलो मूर्तिमान् भूत्वा दिव्यदेहो जनार्दनः ॥1.441.७०॥
रेवताद्रौ कृष्णनारायणदामोदरस्थले ।
द्वाभ्यां पूर्वं कृतं श्राद्धं तत्र नारायणे ह्रदे ॥७१ ॥
तस्थौ तदा प्लक्षमूले कृष्णद्वयेन मन्त्रतः ।
जलं प्रदत्तं तीर्थस्य तृप्तास्ते पितरस्ततः ॥७२॥
एवं श्रीमत्कृष्णनारायणः श्रीभगवान् स्वयम् ।
प्लक्षाऽवतारं धृतवान् रैवताद्रौ पुरा युगे ॥७३॥
अथर्षिभिर्जलदानं पिप्पलस्य सदा कृतम् ।
पिप्पलेऽर्पितसलिलं त्रैलोक्यां प्राप्यते गतैः ॥७४॥
अथ देवा महेन्द्राद्याः शिवाद्या वैष्णवास्तथा ।
कृष्णं लोकयितुं तत्र ययुर्नारायणे ह्रदे ॥७५॥
स्वर्णरेखानदीतीरे वने कृष्णः प्रमार्गितः ।
अन्वेष्यमाणोऽपि हरिः कैश्चित्तत्र हि मायया ॥७६॥
वृक्षरूपो हि भगवान् विज्ञातो नैव नैव च ।
ततो देवा बृहस्पतिं प्राहुर्वै भगवान् हरिः ॥७७॥
द्रुमता सङ्गतः सोऽयं कथं द्रष्टुं हि शक्यते ।
तदा बृहस्पतिः प्राह वृक्षश्चेद् द्रष्टुमीष्यते ॥७८।
वृक्षनेत्रैर्वृक्षरूपो हरिः प्रत्यक्षतां व्रजेत् ।
इत्युक्तास्ते सुराः सर्वे नारायणह्रदाऽन्तिके ॥७९॥
वृक्षरूपधरा जातास्तदा कृष्णं प्रवीक्षितुम् ।
श्रीस्तत्र तुलसीरूपा पार्वतीभालबिन्दुजः ॥1.441.८ ० ॥
महातरुर्बिल्वसञ्ज्ञः पार्वती बिल्वरूपिणी ।
जाता तत्र तदा ब्रह्मा वटरूपो बभूव ह ॥८ १ ॥
सावित्री तिलगुल्माख्या सतिला सम्बभूव ह ।
महेन्द्रो यववृक्षोऽभूच्चूतवृक्षाः प्रजेश्वराः ॥८२॥
गन्धर्वा मलयवृक्षा अगुरुश्च गणाधिपः ।
समुद्रा वैतसवृक्षा यक्षाः पुन्नागभूरुहाः ॥८३ ॥
नागवृक्षास्तदा नागाः सिद्धाः कङ्कोलकद्रुमाः ।
गुह्यकाः पनसवृक्षाः किन्नरा मरिचद्रुमाः ॥८४॥
यष्टिमधुद्रुः कन्दर्पो वह्निः रक्ताञ्जनद्रुमः ।
यमो बिभीतकवृक्षो निर्ऋतिर्बकुलद्रुमः ॥८५ ॥
वरुणः खर्जुरीवृक्षः पूगवृक्षस्तु मारुतः ।
धनदोऽक्षोटकवृक्षो रुद्रास्तु बदरीद्रुमाः ॥८६॥
सप्तर्षयो महाताला एलाद्रुमाः परे सुराः ।
जम्बूवृक्षास्तदा मेघा अशोका विद्युतोऽभवन् ॥८७॥
प्रियाला वसवो जाता आदित्यास्तु जपाद्रुमाः ।
मदनौ तु तदाऽश्विनीकुमारकौ बभूवतुः ॥८८ ॥
विश्वेदेवास्तु मधुका राक्षसा गुग्गुलद्रुमाः ।
सूर्यस्त्वर्कद्रुमश्चाथ पलाशश्चन्द्रमाऽभवत् ॥८९॥
मङ्गलः खदिरो जातश्चापामार्गो बुधोऽभवत्॥
बृहस्पतिस्तदाऽश्वत्थः शुक्रो ह्युदुम्बरोऽभवत् ॥1.441.९० ॥
शनैश्चरः शमीवृक्षो राहुर्दुर्वात्मकोऽभवत् ।
केतुर्दर्भस्वरूपोऽभूत्तथा फलद्रुमोऽपि सः ॥९१ ॥
सत्यस्ता देवपत्न्यो बभूवुर्वल्लयस्तदा ।
विष्णुः शालस्वरूपोऽभूत् ह्यपामार्गोऽस्य वाहनः ॥९२॥