४३७

श्रीनारायण उवाच-
लक्ष्मि! सोमकुले राजा मनोजवोऽभवत्पुरा ।
अयष्ट स सुरान् यज्ञैर्ब्राह्मणानन्नसञ्चयैः ॥१ ॥ पितॄँश्च तर्पयामास कव्येन सेवया हरिम् ।
अहङ्कारोऽभवत्तस्य धनपुत्रादिनाशकृत् ॥२ ॥ अहङ्कारो मदो लोभो हिंसा कामश्च रुट् रतिः ।
एते सर्वे सवयस्याः सम्पदां नाशहेतवः ॥३ ॥ तस्य राज्ञोऽभवल्लोभो विप्रद्रव्यकराऽर्जने ।
धनं धान्यं च विप्राणां जहार किल लोभतः ॥४ ॥ देवानां चापि वित्तानि लोभाच्च जगृहे नृपः ।
क्षेत्राणि जीविकाश्चापि जहार रागतः स हि ॥५ ॥ अथ पुण्यविनाशेन क्रूरकर्मविपाकतः ।
पुरं तस्य महासैन्यैः रुरोध गोलभो रिपुः ॥६ ॥ षण्मासान् तौ युयुधाते गोलभस्य जयोऽभवत् ।
मनोजवः पुत्रदारयुक्तो वनान्तरं ययौ ॥७ ॥ यत्रान्नं प्राप्यते नैव फलान्यपि क्वचित्क्वचित् ।
तत्र बालः क्षुधितश्चाऽयाचताऽन्नं हि मातरम् ॥८ ॥ अम्ब मेन्नं प्रयच्छ त्वं क्षुधा मे बाधते भृशम् ।
पितर्भक्ष्यं देहि किञ्चिदन्यथा मे मृतिर्ध्रुवा ॥९ ॥ श्रुत्वा पिता सुमित्राख्यां भार्यां प्राह शनैस्तदा ।
सुमित्रे! किं करोम्यद्य क्व याम्यन्नार्जनाय तु ॥1.437.१० ॥ मरिष्यत्यचिरादेषः साऽवयोरपि वै गतिः ।
कथं ब्रह्मा ससृजे वै दुर्भाग्यं मां निरर्थकम् ॥१ १॥ नाऽन्नदानं प्रदत्तं वै पूर्वस्मिन् सम्भवे मया ।
न वा शम्भुर्हरिकृष्णनारायणः प्रपूजितः ॥१२॥ सूर्यवह्निवरुणाद्या देवा अपि न पूजिताः ।
न जीविकाः प्रदत्ता वै पूर्वजन्मनि सुन्दरि! ॥१३ ॥ अन्यदत्तं त्वपहृतं वितर्कये गते जनौ ।
तेन पापेन चास्मिन् वै जन्मन्यहं प्रगर्वितः ॥१४॥ अहङ्कारेण वै देवविप्रक्षेत्राण्यपाहरम् ।
वित्तं चाऽपाहरं दैवं वैप्रं धार्मिकमित्यपि ॥१५॥ एवं मे दुष्कृतं सर्वं यत्फलं राज्यनाशनम् ।
पराजयो वने वासो यत्राऽन्नादि न लभ्यते ॥१६॥ क्षुधिताः पुत्रदाराश्च तृषिताश्च यथा वने ।
क्षुधातृषाभिभूतेन विलोक्यन्ते तु हा गतिः ॥१७॥ पूर्वं दाने जलं चान्नं नैव दत्तं भवेद् यतः ।
न हुतं न कृतं तीर्थं श्राद्धं कृतं च नो भवेत् ॥१८॥ अतिथिः पूजितो नैव ज्ञातिभोजनमेव न ।
बालानां भोजनं चापि गवां चापि तृणादिकम् ॥१९॥ साध्वीनामाश्रयश्चापि सेवा सतां न वै कृता ।
जन्तूनां कणपिष्टादि दत्तं नैव भवेत् प्रिये ॥1.437.२०॥ अन्यथा वै कथं चेदृक् कष्टं मम समापतेत् ।
फलं जलं दलं कन्दो मूलं पुष्पं च पादुके ॥२१ ॥ ताम्बूलं चन्दनं छत्रं चामरं चानुलेपनम् ।
वस्त्रं विभूषणं यानं वाहनं किञ्चिदित्यपि ॥२२॥ अन्ततस्तक्रमेऽवापि प्रदत्तं न भवेदिति ।
तेन पापेन सर्वस्वदुःखाऽद्रिर्मे समागतः ॥२३॥ नाऽश्वत्थश्चाम्रवृक्षो वा कपित्थस्तिन्तिडी तथा ।
अमृतादिफलिवृक्षा रोपिताः सिञ्चिता नहि ॥२४॥ नारीकेलामलकीनां तरवो रोपिता नहि ।
अध्वगानां तैर्थिकानां विश्रान्तिभवनानि न ॥२५॥ धर्मशालाश्च वा नैव कारिताः स्युः पुरा प्रिये ।
देवालये मया सेवा मार्जनलेपनादिका ॥२६ ॥ न कृता कारिता नैव तडागाद्या न खानिताः ।
पुष्पोद्यानो न रोपितश्च न कृतं तुलसीवनम् ॥२७॥ तेन पापेन सर्वस्वदुःखाऽद्रिर्मे समागतः ।
न कृताः क्रतवश्चापि दक्षिणाश्चापि नार्पिताः ॥२८॥ उपोषणं व्रतानां न कृतं नान्येन कारितम् ।
श्रेष्ठमासे च वर्षासु देवपूजा न कारिता ॥२९॥ नैवेद्यं जलपानादि मया नीराजनादि न ।
देचोत्सवः कीर्तनं चोद्यापनं कारितं न च ॥1.437.३ ०॥ तुलसीमालिका नापि धृता कण्ठे सुपावनी ।
कृतो नैव जपश्चापि कारितो न कदाचन ॥३ १ ॥ तेन पापेन सर्वस्वदुःखाऽद्रिर्मे समागतः ।
एवं स विलपन् राजा दुःखमूर्छामुपाययौ ॥३२॥ सुमित्रा विललापाऽथाऽऽलिङ्ग्य सा पतिदेवता ।
अहो नाथ न यातोऽसि दुःखात् कच्चिन्मृतिं वने ॥३३॥ मामनाथां ससुता त्वं विहाय विजने वने ।
मृतोऽसि यदि राजेन्द्र निर्धवाऽनुव्रजाम्यहम् ॥३४॥ चन्द्रकान्तः सुतश्चापि पितरं परिरभ्य च ।
रुरोद तावद् योगीन्द्रः पराशरमहामुनिः ॥३४६॥ यदृच्छयाऽऽजगामाऽत्र दृष्ट्वा तं तु पतिव्रता ।
सुमित्रा तत्सुतश्चापि ववन्दाते समुत्थितौ ॥३६॥ आश्वासितौ तौ मुनिना प्राहतुश्च मुनिं तदा ।
गोलभेन हृतं राज्यं वनागमक्षुधादिकम् ॥३७॥ सर्व परिचयं राज्ञो मूर्छां चेति यथार्थकम् ।
शक्तिपुत्रस्तु तच्छ्रुत्वा पराशरः पतिव्रताम् ॥३८॥ सुमित्रां प्राह मा भीस्ते भूयादत्र ममाऽऽगमे ।
अशुभं वै विनष्टं यत् यत् साधोर्मे दर्शनं तव ॥३९॥ सम्बोधयामि राजानं पश्य कृष्णप्रतापतः ।
इत्युक्त्वा मुनिराट् हस्ते जलं कृत्वाऽऽह मन्त्रकम् ॥1.437.४०॥ ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
पस्पर्श च करेणैनं शवतुल्यं नराधिपम् ॥४१ ॥ तावन्मनोजवो राजा ह्युत्थितश्च ननाम तम् ।
प्रोवाच भगवन् रक्ष कष्टादस्माद्धि दारुणात् ॥४२॥ पराशरः सतीं पुत्रं प्राह मन्त्रं पुनः पुनः ।
पापं प्रज्वालयामास भक्तान् भागवतान् व्यधात् ॥४३॥ ददौ वन्यफलानां सुभोजनं जलमुत्तमम् ।
अक्षयं च फलं राज्ञ्यै प्रददौ स मुनीश्वरः ॥४४॥ प्रातः श्रीमत्कृष्णनारायणमूर्तिं जलेन वै ।
विधाय पूजनं कार्यं फलं मूर्त्या सहापि च ॥४५॥ पूजनीयं कुसुमाद्यैस्तस्मात् फलानि षोडश ।
अमृतानि जनिष्यन्ते प्रातः सायं च षोडश ॥४६ ॥ तान्येव भक्षणीयानि यावद्व्यसननाशनम् ।
इत्युक्त्वा च सुमित्रां स पातिव्रत्यं जगाद ह ॥४७॥ शृणु सुमित्रे! नित्यं त्वं त्वरण्ये प्रातरेव यत् ।
सुसंस्कृत्य शरीरं स्वं देशकालानुसारतः ॥४८॥ पतिं सम्पूज्य विधिवत् फलं सम्पूज्य भावतः ।
वह्निं प्रज्वाल्य समिधो दत्वा पुष्पफलानि च ॥४९॥ स्वपत्युर्विजयार्थं च शत्रूणां नाशनाय च ।
तव मस्तकतः केशं त्वेकमुत्पाट्य नाऽपरम् ॥1.437.५०॥ जुहुधि पावकं साध्वि! सायं प्रातः पृथक् पृथक् ।
‘शत्रुनाशकाय रुद्राग्नये स्वाहेति वै वद ॥५१ ॥ चत्वारिशद्दिनं होमं कुरु ब्रह्मव्रताऽन्विता ।
ब्रह्मचर्यवती साध्वि! विजयस्ते भविष्यति ॥५२॥ प्रयोगोऽयं सेतुबन्धे गन्धमादनपर्वते ।
अब्धितटे मङ्गलाख्यतीर्थे समाचरेः सति! ॥५३॥ इत्युक्ता सा ययौ राज्ञा सुतेन सहिता सती ।
पराशरं नमस्कृत्या फलाहारा पतिव्रता ॥५४॥ भोजयित्वा सुतं नाथं तीर्थे स्नात्वाऽथ सा सती ।
यथोक्तं श्रीकृष्णनारायणमन्त्रं जजाप च ॥५५॥ वह्नौ होमादिकं दत्वा केशं जुहाव मन्त्रतः ।
चत्वारिंशत्तमे सायाह्ने सा जुहाव केशकम् ॥५६॥ तद्धूमाद्द्राक्समुत्पन्न धनुर्लोकभयङ्करम् ।
अक्षयाविशुधी चापि खङ्गं च कनकत्सरू ॥५७॥ एकं चर्म गदा त्वेका शक्तिश्च मुशलो महान् ।
शङ्खो रथोऽश्वसहितः सपताकः ससारथिः ॥५८॥ अभेद्यं कवचं सेनापतिः सैन्यान्वितस्तथा ।
अस्त्रशस्त्राणि बहूनि यानानि वाहनानि च ॥५९॥ भोजनादीनि सर्वाणि फलाज्जातानि पद्मजे! ।
दिव्यवस्त्राणि भूषाश्च राजसम्पन्नवोत्तमा ॥1.437.६०॥ ओषधानि तथा वाहाः सर्वं तस्मादुपस्थितम् ।
आकाशवाणी तामाह भद्रे! साध्वि! जयोऽस्तु ते ॥६१ ॥ स्मारितश्च तथा पूज्यो महामुनिपराशरः ।
सस्मितो द्राग् विप्रवर्यश्चाययौ तत्पुरःस्थितः ॥६२॥ पराशरस्तदा राज्ञे ब्रह्माद्यस्त्रं समन्त्रकम् ।
साऽङ्गं च सरहस्यं च सोत्सर्गं सोपसंहृतिम् ॥६३॥ उपादिशत्तदा राजा जग्राहेश्वरराडभूत् ।
मुनिना प्रेरितो नत्वा चारुरोह रथं ततः ॥६४॥ राज्ञीं समादिशत्तत्र रथमध्ये स्थिरा भव ।
यावद् युद्धं च विजयो रथान्मा त्वमवातर ॥६५॥ तव मस्तककेशानां सैन्यं चामरमेव यत् ।
पतिश्चापि सुनिर्विघ्नो यावत्तेऽस्ति रथे स्थितिः ॥६६॥ त्वयि रथस्थितायां वै मृतस्य जीवनं भवेत् ।
पातिव्रत्यबलेनाऽस्य राज्ञो निर्विघ्नता भवेत् ॥६७॥ पुत्रं पार्श्वे तदा कृत्वा रथे तिष्ठ सदा सति! ।
यावत्स्वराज्यभवने चत्वरे ते गतिर्भवेत् ॥६८॥ राज्याङ्गणे त्वया तावत् स्थेयं रथे ततः परम् ।
तवाऽवरोहात्पूर्वं त्वं पुत्रं पतिं सुवस्तुकम् ॥६९॥ अवरोहयेः प्रागेव ततस्त्वं भूमिगा भव ।
तावदेव रथः सैन्यं केशजं लयमेष्यति ॥1.437.७०॥ गच्छ साध्वि! याहि राजन् कुमार राज्यमाप्नुहि ।
इत्युक्त्वा तिलकं बिन्दुं चन्द्रं कृत्वा तिरोऽभवत् ॥७१ ॥ सार्धं पत्न्या च पुत्रेण ससैन्यो विजयाय सः ।
गत्वा स्वीयपुरं राजा दध्मौ शङ्खं मुहुर्मुहुः ॥७२॥ गोलभो निर्ययौ तूर्णं युद्धाय सैन्यसंयुतः ।
दिनत्रयमभूद् युद्धं नष्टं सैन्यं तु गौलभम् ॥७३॥ चतुर्थे दिवसे राजा गोलभोऽपि विनाशितः ।
ततः सपुत्रभार्यश्च क्ष्मेशो मनोजवः स्वके ॥७४॥ भवने सम्प्रविवेश तेऽवतेरुः रथात्ततः ।
तावत्सैन्यं रथः शस्त्रं फलादीनि तिरोऽभवन् ॥७५॥ राज्यं चक्रे हतशत्रुं नाऽहङ्कारं चकार सः ।
धर्मं यज्ञं जपं दानं पुण्यं चक्रे निरन्तरम् ॥७६॥ देवब्राह्मणसाध्वीनां सतां सेवां सदाऽकरोत् ।
अतिथीन् पूजयाञ्चक्रे दानधर्मान् बहून् व्यधात् ॥७७॥ खातधर्मान् सत्रधर्मान् यज्ञधर्मांस्तथाऽऽचरत् ।
वृक्षसेचनधर्मांश्च श्राद्धधर्मांस्तथाऽकरोत् ॥७८॥ जीविकावृत्तिधर्मांश्च करक्षमापनादिकान् ।
गोरक्षादिकधर्मांश्च व्रतधर्मान् समाचरत् ॥७९॥ प्रजारक्षाकरान् धर्मान् देवपूजादिकान् स्वयम् ।
अकरोत् कारयामास कथाज्ञानादिधर्मकान् ॥1.437.८०॥ द्रोहनिन्दादिकं त्यक्त्वा चाहिंसो निरतोऽभवत् ।
राज्ञी चापि सतीधर्मान् पालयामास सुन्दरी ॥८१ ॥ पूर्वतस्तु विशेषेण यथा सा तापसी शिवा ।
नित्यं ध्यानपरा कृष्णनारायणे स्वस्वामिनि ॥८२॥ कान्ते सेवापरा नित्यं ब्रह्मचर्यपरा तथा ।
देवापूजापरा कृष्णव्रतकर्त्री निरञ्जनी ॥८३॥ त्रिषवणस्नायिनी च पतिकृष्णपरायणा ।
एकभुक्ता जपयज्ञपरा साधुप्रसेविका ॥८४॥ अभवच्च सदा तीर्थपाना मुन्यर्हभोजना ।
एवं स्वस्वामिनं दासी किङ्करीव प्रसेवते ॥८५॥ राजाऽप्यहिंसानिरतः सदा धर्मपरोऽभवत् ।
प्रजाः सर्वा वैष्णवीदीक्षितास्तेन विधापिताः ॥८६ ॥ विशेषतस्तु साधूनामाहूय मण्डलानि च ।
कारयामास सततं नामसङ्कीर्तनं हरेः ॥८७॥ ऋषीन् गृहे वासयित्वा वेदशास्त्रकथाः शुभाः ।
सकुटुम्बश्च शुश्राव सेवयामास सात्त्वतान् ॥८८ ॥ सहस्रवत्सरानेवं ररक्ष स मनोजवः ।
ततो राज्ये सुतं चाभिषिच्य तपसे संययौ ॥८९॥ ध्यायन् कृष्णमचिरेण गोलोकं प्रययौ नृपः ।
सुमित्राऽपि तपसे सा पत्युश्छायास्थिताऽभवत् ॥1.437.९० ।
पतिदेहं समालिङ्ग्य वह्निमुत्पाद्य देहजम् ।
अन्वारुह्य चितां तस्य प्राप धामाऽक्षरं हरेः ॥९१ ।
एतत्ते कथितं लक्ष्मि! पातिव्रत्यपरायणम् ।
यः शृणुयात्पठेद्वापि सर्वधर्मफलं लभेत् ॥९२।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मनोजवनृपतेर्नास्तिकत्वेन गोलभद्वारा राज्यादिनाशः पराशरोक्तमन्त्रहवनादिभक्त्या तत्पत्नीसुमित्रायाः पातिव्रत्येन हवनाद्युत्थितदिव्यसैन्यद्वारा पुनः राज्यप्राप्तिर्मोक्षादि चेतिनिरूपणनामा सप्तत्रिंशदधिकचतुश्शततमोऽध्यायः ॥४३७॥