४१९

श्रीनारायण उवाच-
शृणु लक्ष्मि! सतीधर्मान् स्वर्गमोक्षप्रदाँस्तथा ।
सत्या धार्याः सदा स्वामिधर्माएवाऽऽदृता भुवि ॥१ ॥ व्याघ्राऽरण्ये तु सौराष्ट्रे ह्यश्वपट्टसरस्तटे ।
कुङ्कुमवाप्यां सृष्ट्यादौ द्विजो गोपालकृष्णकः ॥२ ॥ वनं यातस्तपस्यार्थं तदा पतिव्रता सती ।
तत्पत्नी कम्भरालक्ष्मीः स्वामिनं प्राणनमन्मुदा ॥३ ॥ पतिः प्राह प्रियेऽरण्ये तपः कर्तुं प्रयाम्यहम् ।
त्वमत्र पर्णकुट्यां वै ऋषिकुटुम्बसन्निधौ ॥४ ॥ वस यावत्तपस्यातो विनिवृत्तो भवामि च ।
तदाऽश्रुसम्भृतनेत्रा कम्भरा सा पतिव्रता ॥५ ॥ प्राह स्वस्वामिनं साध्वी विनयेन हितं तदा ।
ब्रह्मपुत्र! पिता माता भ्राता पुत्रस्तथा स्नुषा ॥६ ॥ स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ।
भर्तुर्भाग्यं तु पत्न्येका ह्यवाप्नोति विवाहिता ॥७ ॥ अतश्चाऽहं त्वया साकं वने चायामि सर्वथा ।
न पिता नात्मजो वात्मा न माता न सखीजनः ॥८ ॥ इह प्रेत्य च नारीणां पतिरेको गतिः सदा ।
यदि त्वं प्रस्थितो दुर्गं वनं तापसवासितम् ॥९ ॥ अग्रतस्ते प्रगच्छामि मर्षित्वा कुशकण्टकान् ।
नय मां देव विस्रब्धः पापं मयि न विद्यते ॥1.419.१ ०॥ प्रासादाग्रे विमानैर्वा वैहायसगतेन वा ।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥११ ॥ सुखं वने निवत्स्यामि पत्युश्चरणमण्डिते ।
अचिन्तयन्ती त्रींल्लोकाँश्चिन्तयन्ती पतिव्रतम् ॥१२॥ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।
सह रंस्ये त्वया ब्रह्मन्! वनेषु मधुगन्धिषु ॥१३ ॥ फलमूलाशना नित्यं भविष्यामि न संशयः ।
नते दुःखं करिष्यामि निवसन्ती त्वया सदा ॥१४ ॥ अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि ।
अभिषेकं करिष्यामि त्वया साकमनुव्रता ॥१५॥ व्यतिक्रमं न वेत्स्यामि स्वर्गो मे यत्र वै भवान् ।
त्वया विना महास्वर्गं नाऽहं तदपि रोचये ॥१६ ॥ स्वर्गो यत्र भवांस्तत्र त्वया विना गृहं वनम् ।
वनं चाहं गमिष्यामि दुःसहं सुसहं मम ॥१७॥ तदैवन्निश्चयां साध्वीं कम्भरां धर्मभूसुरः ।
न नेतुं कुरुते बुद्धिं वने दुःखानि संस्मरन् ॥१८॥ आह पत्नि सदा साध्वि धर्मे च निरते प्रिये ।
इहाऽऽचरस्व धर्मं त्वं यथा मे मनसः सुखम् ॥१ ९॥ वने दुःखं बहुलं वै कष्टमेव सदा वनम् ।
हिंस्राणां सङ्गमा दुःखा दुष्टानां प्राणिनां वने ॥1.419.२० ॥ सग्राहाणि जलान्येव सपङ्काः सरितस्तथा ।
स्नाने चोत्तरणे दुःखा वर्षासु च भयप्रदाः ॥२ १ ॥ मत्तगजा मत्तवन्या राक्षसाद्याश्च कष्टदाः ।
लताकण्टकपाषाणा यत्र कष्टं हि तद्वनम् ॥२२।
सुप्यते पर्णशय्यासु रात्रिषु भूतले वने ।
कर्तव्यं तोषणं पर्णैः फलैर्दलैश्च मूलकैः ॥२३॥ उपवासोऽपि कर्तव्यो भवेद् भक्ष्यं विना क्वचित् ।
जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥२४॥ शीतोष्णजलयोगेन स्नानादौ कष्टदं वनम् ।
यथालब्धेन कर्तव्यः सन्तोषश्चार्द्रशुष्ककैः ॥२५॥ अतीव वातस्तिमिरं बुभुक्षा जायते सदा ।
भयान्यपि महान्त्येव जायन्ते दुःखदानि वै ॥२६ ॥ सरीसृपाश्च बहवो बहुवेषा वनेचराः ।
नदीनिलयना धूर्तास्ततो दुःखतरं वनम् ॥२७॥ मक्षिका वृश्चिकाः कीटा दंशाश्च मशका वने ।
बाधन्ते नित्यमबले! सर्वं दुःखतरं वने ॥२८॥ द्रुमाः कण्टकिनः स्वल्पबदरीबर्बुरादयः ।
कुशाद्याः पादभेद्यारस्ततो दुःखतरं वनम् ॥२९॥ कायक्लेशाश्च बहवो भयानि विविधानि च ।
कामक्रोधौ विमोक्तव्यौ कर्तव्या तपसे मतिः ॥1.419.३ ०॥ इति गोपालकृष्णस्य श्रुत्वा तु कम्भरा सती ।
प्रसक्ताऽश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥३ १ ॥ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणानित्येव तान् वेद्मि पातिव्रत्यपुरस्कृता ॥३२॥ मृगाः सिंहा गजा व्याघ्राः शार्दूलाः शरभादयः ।
चमराः सृमराश्चान्ये वन्या हिंस्राश्च मानवाः ॥३३ ॥ क्रूरा वा विघ्नदाश्चापसर्पेयुर्ब्रह्मतेजसा ।
त्वद्वियोगेन मे कृष्ण! त्यक्तव्यं स्याद्धि जीवितम् ॥३४॥ नहि मां त्वत्समीपस्थां प्रधर्षयितुमीश्वरः ।
कश्चिदपि भवेन्नाथ! पातिव्रत्यसुरक्षिताम् ॥३५॥ पतिहीना सती नारी न वै शक्ष्यति जीवितुम् ।
अत आज्ञाऽत्र हे नाथ! प्राप्तव्या भवतो मुखात् ॥३६॥ कृतादेशा भविष्यामि गमिष्यामि त्वया सह ।
वनवासः सदा मेऽतिरोचते सुखदो भवेत् ॥३७॥ भिक्षिण्याः शमवृत्ताया ममाऽधिकसुखं भवेत् ।
भर्तारमनुगच्छन्त्या भर्ता हि परदैवतम् ॥३८॥ प्रेत्यभावेऽपि कल्याणः सङ्गमो मे त्वया वने ।
विप्राण्यास्तु विशेषेण ब्राह्मणीनां सुमण्डले ॥३९॥ इह लोके पितृभिश्च या स्त्री यस्य द्विजस्य वै ।
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥1.419.४०॥ इति विप्र! स्वकां नारीं सुवृतां हि पतिव्रताम् ।
भक्तां च सात्त्वतीं दीनां सुसमां सुखदुःखयोः ॥४१ ॥ नेतुमर्हसि विप्रेन्द्र! समानसुखदुःखिनीम् ।
यदि मां स्वामिसन्दासीं वनं नेतुं न चेच्छसि ॥४२॥ विषमग्निं जलं पाशमास्थास्ये मृत्युकारणात् ।
द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् ॥४३ ॥ सावित्रीमिव मां विद्धि वने त्वद्वशवर्तिनीम् ।
तन्मामनादाय वनं तपस्यार्थं न तेऽर्हणम् ॥४४॥ तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात् त्वया सह ।
हिंस्राश्च प्राणिनो मे स्युर्महाभागवता वने ॥४५॥ कण्टकाः कर्कराः पङ्कभूमयो मे सुखा वने ।
महावातादिकं सर्वं रजश्च चन्दनं वने ॥४६॥ शाद्वला भूमयो नाथ! त्वया सह सुखा मम ।
पत्रं मूलं फलं तोयं स्वल्पं चापि वने बहु ॥४७॥ दास्यसे स्वप्रसादं मे तन्मेऽमृतरसो भवेत् ।
आर्तवान्युपभुञ्जाना सेवयिष्ये पतिं सदा ॥४८॥ मत्कृते न च ते शोको न भविष्यामि शोकदा ।
यस्त्वया सह सः स्वर्गो निरयो यस्त्वया विना ॥४९॥ त्वया विना प्रमर्तव्यं वस्तव्यं वा त्वया सह ।
इति मे निर्णयः साध्व्याः प्रसन्नो भव माधव! ॥1.419.५ ०॥ वियोगं सहितुं नाथ मुहूर्तमपि नोत्सहे ।
उज्झितायास्त्वया नाथ! पश्चान्मे मरणं वरम् ॥५ १ ॥ इति श्रुत्वा प्रियावाक्यं समुवाच पतिः प्रियाम् ।
अनुगच्छस्व मां देवि! सहधर्मचरी भव ॥५२॥ सर्वथा सदृशं साध्वि! मम स्वस्य कुलस्य च ।
व्यवसायमनुक्रान्ता कान्ते! त्वमतिशोभनम् ॥५३॥ नेदानीं कम्भरे! स्वर्गस्त्वदृते मेऽपि रोचते ।
कुरु वनार्थे प्रस्थानं यत्र तत्र सुमङ्गलम् ॥५४॥ नहि सत्या भयं किञ्चिद्वने वाऽरण्यभूभृतोः ।
यत्सृष्टाऽसि मया सार्धं धर्मार्थाय हि कम्भरे ॥५५॥ न विहातुं मया शक्या पातिव्रत्यपरा प्रिया ।
धर्मः श्रेष्ठतमः कृष्णनारायणः स्वयं च मे ॥५६॥ पत्नीव्रतं परं प्राह तदंश मां चकार सः ।
तव योगेन देवेशि! नार्यो धर्मपरायणाः ॥५७॥ वन्या अपि भविष्यन्ति तापस्योऽतिपतिव्रताः ।
न सत्यं दानमानौ वा यज्ञो वाऽप्याप्तदक्षिणः ॥५८॥ तथा बलकरा यादृग्धर्मः पत्नीव्रतात्मकः ।
स्वर्गो धनं तथा धान्यं विद्याः पुत्राः सुखानि च ॥५९॥ पातिव्रत्यनुरोधेन न किञ्चिद् दुर्लभं च ते ।
देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा परान् ॥1.419.६० ॥ प्राप्नुवन्ति सतीनार्यः पतिसेवापरायणाः ।
अनुगच्छस्व मां कान्ते सहधर्मचरी भव ॥६१ ॥ इत्युक्त्वा सा महासाध्वी महालक्ष्मीस्तु कम्भरा ।
ययौ स्वपतिना सार्धं सिंहाऽरण्ये तपोऽर्थतः ॥६२॥ पत्नीव्रतो महाभागो द्विजो गोपालकृष्णकः ।
पत्न्या सह ययौ सिंहारण्ये तपःप्रसिद्धये ॥६३॥ हिरण्यायाः पूर्वतटे तपस्तेपे सुदारुणम् ।
पूर्णं वर्षसहस्रं च निराहारः सभार्यकः ॥६४॥ तदा धाम्नः स्वयं दिव्यो भगवान्पुरुषोत्तमः ।
धर्मभक्तिसहितश्च ललिताश्रीजयायुतः ॥६५॥ प्रत्यक्षं दर्शनं स्वस्य ददौ वृणु वरं जगौ ।
तदा जायापती कृष्णमूचतुर्भगवन् यदि ॥६६॥ प्रसन्नोऽसि सदा चैतादृशो वर्तस्व नौ गृहे ।
धर्मसंरक्षणं कार्यं त्वया नौ सर्वथा प्रभो ॥६७॥ प्रत्यक्षो नौ सदा कृष्ण वर्तस्व सुखदो भव ।
युगधर्मानुरूपेण मा जहीहि च नौ विभो! ॥६८॥ अहं पत्नीव्रतो विप्रश्चेयं पतिव्रता सती ।
प्रथमं सत्यकालं च विलोक्य च ततः परम् ॥६९॥ कालहासं भाविनं च योगेन च समाधिना ।
तपसा ब्रह्मचर्येण त्वदनुग्रहतस्तथा ॥1.419.७० ॥ चिन्तयामि कृपासिन्धो धर्महासो न मे यथा ।
भवेत्तथा कृपासिन्धो! प्रदेहि तपसां फलम् ॥७१ ॥ तथाऽस्त्विति तदा प्राह प्राह कालकथां तथा ।
शुश्रुवतुश्च तौ चाद्यौ दम्पती कम्भराहरी ॥७२॥ कालभेदान् कालधर्मान् धर्म ह्रासान् जगौ हरिः ।
तदा तदा च रक्षार्थं गृह्णामि नौ सुपुत्रताम् ।७३॥ दिव्यः सदा च वर्तिष्ये सन्निधौ युवयोरिति ।
उक्त्वाऽदृश्योऽभवत् कृष्णो स्त्रीपती वेश्म जग्मतुः ॥७४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये कम्भरालक्ष्मीगोपालकृष्णयोस्तपश्चर्यार्थयाने कम्भरायाः पातिव्रत्यबलेन सहयानं तपसि भगवद्दर्शनं युगे युगे पुत्ररूपो भविष्यामीति वरदानं चेत्यादिवर्णननामैकोनविंशत्यधिकचतुश्शततमोऽध्यायः ॥४१९ ॥