४०६

श्रीलक्ष्मीरुवाच-
वेङ्कटाद्रौ महापुण्ये श्रीरमाकमलापते! ।
कथं प्रादुरभूः पूर्वं वद मे सर्वमद्भुतम् ॥१ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि! महिमानं कथयामि समासतः ।
सर्वेषामेव भूतानां कृष्णनारायणोऽस्मि भूः ॥२ ॥ गोलोकेऽहं कृष्णनामा वैकुण्ठेऽहं नरायणः ।
वासुदेवोऽमृते धाम्नि भूमाऽव्याकृतधामनि ॥३ ॥ अक्षरे तु परे धाम्नि भवामि पुरुषोत्तमः ।
हिरण्यगर्भो वैराजः सदाशिवो भवामि च ॥४ ॥ सहस्रशीर्षा भगवान् महाविष्णुर्भवामि च ।
एकशीर्षा कृष्णनारायणो भूमौ भवाम्यहम् ॥५ ॥ मम भासा जगत् सर्वं भासते भास्करोऽस्म्यहम् ।
विद्यया मम सृष्टिर्वै व्याप्रीयते स चास्म्यहम् ॥६ ॥ सर्वहृत्सु सन्निहितोऽन्तर्याम्यहं वसामि वै ।
हरिः सदाशिवो ब्रह्मा काम्भरेयो जनार्दनः ॥७ ॥ अहमेवाऽस्मि पर्यायाः सहस्राणि भवन्ति मे ।
यदेच्छामि शुभं कर्तुं तदाऽऽयामि भुवस्तलम् ॥८ ॥ सृजामि राजसेनैतत् सत्त्येनापि वहामि च ।
हरामि तामसेनैव निद्रया स्वपिमीति च ॥९ ॥ गतां जलतले भूमिमानेतुं स्वेच्छया मया ।
रूपं वाराहसदृशं धृतं वै लीलया पुरा ॥1.406.१० ॥ कर्दमभावमापन्ना मया दंष्ट्राग्रसिद्धिभिः ।
पिण्डीकृत्याऽऽहृता जलोपरि संस्थानहेतवे ॥११ ॥ जलं मर्यादितं यथा पृथ्वीं न नाशयेत्तथा ।
आधारार्थं दिग्गजाँश्च शेषं कूर्मं न्यवेशयम् ॥१२॥ ममाऽऽज्ञया जगद् ब्रह्मा यथापूर्वमकल्पयत् ।
कल्पे कल्पे च रक्षार्थं विहरामि महीतले ॥१ ३॥ वराहरूपधृक् चाहं प्रपेदे वेङ्कटाचलम् ।
स्वामिपुष्करिणीतीर्थे न्यवसं ब्रह्मणा तदा ॥१४॥ प्रार्थितो मूल्ररूपाय तदाऽदृश्योऽभवं प्रिये! ।
हैहयवंशजो राजा शङ्खनामा बभूव ह ॥१५॥ वैष्णवः परमो भक्तो नवधा भजनेऽनिशम् ।
लक्ष्मीनारायणसंहितां शृणोति सदा नृपः ॥१६॥ तथाऽप्यस्य न साक्षाच्छ्रीकृष्णनारायणोऽभवत् ।
तेनाऽयं चाऽतृप्तमना विचारमकरोन्मुहुः ॥१७॥ कथं नु यायाद् भगवान् विषयं मम नेत्रयोः ।
एवञ्चिन्तयतस्तस्योवाच श्रीभगवान् हृदि ॥१८॥ गच्छ श्रीवेङ्कटाद्रौ त्वं भज वर्षसहस्रकम् ।
अदृश्यो दृश्यतां यास्ये तव चागस्त्यकस्य च ॥१९।
आराध्य मां तपोनिष्ठौ मम दर्शनमाप्स्यथः ।
शङ्खो वज्रे सुते न्यस्य राज्यं श्रीवेङ्कटं ययौ ॥1.406.२०॥ अगस्त्योऽप्याससादैनं शैलं मुनिशतावृतः ।
प्रदक्षिणं चकारैनं ब्रह्मादिदेववासितम् ॥२१ ॥ देवाः सर्वे सनकाद्या ऋषयश्च तपोधनाः ।
प्रतीक्षन्ते हरेः साक्षाद् दर्शनं कुम्भयोनिवत् ॥२२॥ मिलित्वा ते समाजग्मुर्यत्र शङ्खोऽस्ति भक्तराट् ।
सुवर्णमुखरीतीरेऽपश्यँस्ते शङ्खभूपतिम् ॥२३॥ आसीनास्तत्र ते सर्वे सम्भाव्याऽन्योन्यमुत्सुकाः ।
गोविन्दकीर्तनपराः कृष्णनारायणात्मकाः ॥२४॥ तृतीयनिशिथे चान्ते ददृशुः स्वप्नमेव ते ।
शङ्खचक्रगदापाणिः पद्मिनीसहितः प्रभुः ॥२५॥ वरदानाय सम्प्राप्त इति ते ददृशुर्हरिम् ।
प्रातस्ते पुष्करिण्यां वै स्नात्वा तुष्टुवुरच्युतम् ॥२६ ॥ जेपुरष्टाक्षरं मन्त्रं ओंश्रीकृष्णनरायणः ।
तेषामग्रे प्रादुरभूदेकं तेजो महाद्भुतम् ॥२७॥ तत्र दृष्ट्वा कृष्णनारायणं तुष्टुवुरादरात् ।
जय विष्णो जय कृष्ण जय श्रीकृष्ण केशव ॥२८॥ जय भूधर गोविन्द वेङ्कटाद्रीश वै जय ।
कृतार्था नु कृताः सर्वे दिव्यदर्शनदानतः ॥२९॥ सदाऽत्र भगवन् वासं कुरु भक्तकृपाकर ।
सुवर्णमुखरीं चेमां कुरु त्रिलोकपावनीम् ॥1.406.३ ०॥ सदाऽस्मिन्नास्थितः शैले काङ्क्षितार्थप्रदो भव ।
कृष्णनारायणः श्रुत्वा प्राह तथास्त्विति प्रियम् ॥३ १ ॥ तेन कृष्णेन सुवर्णमुखरी स्वाश्रया कृता ।
शैलो वैकुण्ठशैलश्च कृतो वासेन नित्यदा ॥३२॥ धर्मार्थकाममोक्षाणां प्रदो जातो हरिः प्रिये! ।
शङ्खमाह हरिः कृष्णः प्रीतोऽस्मि तव भक्तितः ॥३३॥ आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ।
भुक्त्वा बहुविधान् भोगाँस्ततो मल्लोकमेष्यसि ॥३४॥ एवं दत्वा वरं देवान् नित्यवासं प्रदाय च ।
नारायणः कमलेशस्तत्रैवाऽन्तरधीयत ॥३५॥ एवं सौम्यवपुर्भूत्वा कृष्णो वसति वेङ्कटे ।
नारायणं वेङ्कटाद्रिं स्वामिपुष्करिणीं तथा ॥३६॥ कटाहादीनि तीर्थानि स्मृत्वा शुद्धा भवन्ति वै ।
लक्ष्मीश्रीभूपद्मिनीशं प्राप्नुयुः पुरुषोत्तमम् ॥३७॥ शृणु लक्ष्मि! पुरा काचिदञ्जनानामतः सती ।
पुत्रहीना तपः कर्तुं समारब्धाऽतिवैष्णवी ॥३८॥ मतङ्गाख्यो मुनिः कश्चित् तामाह तपसि स्थिताम् ।
किमिच्छसि दारुणेन तपसा वद सुन्दरि! ॥३९॥ अञ्जनाऽऽह पिता मे केसरी ज्ञातीयराक्षसः ।
तपश्चक्रे शिवं स्मृत्वा पुत्रार्थं दारुणं तपः ॥1.406.४०॥ शिवाशिवौ वृषभस्थौ समायातौ कृपाकरौ ।
शिवः प्राह च ते नास्मिन् जन्मनि पुत्रदायकम् ॥४१ ॥ पुण्यं किन्तु ददामि त्वां पुत्रीं लोकेषु विश्रुताम् ।
तस्याः पुत्रेण पुत्रीत्वं मन्येथाः स्वं सुखी भव ॥४२॥ इति तस्मै वरं दत्वा तत्रैवान्तर्दधे हरः ।
मत्पिता राक्षसस्तुष्टो गृहं यातस्ततः परम् ॥४३ ॥ जज्ञेऽहं तस्य पत्न्यां च काले विवाहिताऽभवम् ।
केसर्याख्येन पतिना किष्किन्धाख्यमहापुरे ॥४४ ॥ व्रतानि माघमासस्य कार्तिकस्य व्रतानि च ।
वैशाखस्य व्रतान्यपि चातुर्मास्यव्रतानि च ॥७५ ॥ कृतवतीं च नवधां भक्तिं नारायणस्य च ।
शालग्रामान्नदानानि गोदानं दीपदानकम् ॥४६ ॥ तिलदानं वस्त्रदानं भूदानं वारिदानकम् ।
फलपुष्पप्रदानं च सत्पुत्रफलकाङ्क्षया ॥४७ ॥ श्रावणस्य च यत्पुण्यं कृतवत्यपि सर्वथा ।
पुत्रं तथाऽप्यलब्ध्वाऽहं तदर्थं तपसि स्थिता ॥४८ ॥ अथ तां तापसीं साध्वीं मतङ्गः प्राह पुत्रदम् ।
इतो वै दक्षिणे घनाचलो नृसिंहवासभूः ॥४ ९ ॥ दशयोजनदूरं सः तत्पूर्वे दशयोजने ।
नदी सुवर्णमुखरी तदुद्ङ् वृषभाचलः ॥1.406.५ ० ॥ तदग्रेऽस्ति स्वामिपुष्करिणी सरसी शोभना ।
गच्छ स्नाहि विधानेन वराहं पश्य केशवम् ॥५ १ ॥ वेङ्कटेशं नमस्कृत्वा वियद्गङ्गां प्रयाहि च ।
वायुमुद्दिश्य च तपः कुरु तत्र हि वैष्णवि! ॥५२ ॥ इतिश्रुत्वा ययौ सा वै वेङ्कटाद्रिं तपस्विनी ।
चक्रे तीर्थानि विधिवत् तपश्चक्रेऽतिदारुणम् ॥५३ ॥ वियद्गङ्गातटे वायुः प्रादुरासीत्तु तत्पुरः ।
उवाच वरदानार्थं पुत्रं देहीति साऽब्रवीत् ॥५४ ॥ पुत्रस्तेऽहं भविष्यामीत्युक्त्वा चान्तर्दधेऽनिलः ।
तदा शङ्करधातुं वै समादाय महर्षयः ॥५५ ॥ समाजग्मुश्च तं वायुः केसरीरूपधृक् तदा ।
जहाराऽञ्जनीकर्णे तं ददौ पुत्रोऽभवत्ततः ॥५६ ॥ जातमात्रो युवा जातिस्मरो वायुबलातिगः ।
हनुमान् सोऽभवत्तस्यास्तपस्विन्याः सुपुत्रकः ॥५७ ॥ मेषसूर्ये चतुर्दश्यां चित्रानक्षत्रयोगके ।
सुवर्णमुखरीतीरे प्रादुरासाऽनिलः स्वयम् ॥५८ ॥ तदात्र स्नानदानादि कृतं भवति चाऽक्षयम् ।
अन्नदानं वस्त्रदानं स्वर्णदानं सुतार्पणम् ॥५९ ॥ शालग्रामशिलादानं गोदानं भूप्रदानकम् ।
प्रपादानं तिलदानं धान्यदानं गृहार्पणम् ॥1.406.६ ० ॥ गन्धचम्पकपुष्पादि. छत्रव्यजनचामरम् ।
ताम्चूलघनसारादि गृहोपकरणानि च ॥६ १ ॥ यो ददाति जनस्तत्र दिव्यवस्त्रसहस्रकम् ।
भुक्त्वा भोगाननेकाँश्च स्वर्गलोकेऽपि भोगवान् ॥६२।
सार्वभौमस्ततो विप्रो भूत्वा मुक्तिं प्रयाति सः ।
इति ते कथिता लक्ष्मि! वेङ्कटाद्रिचमत्कृतिः ॥६३ ॥ श्रवणात्पठनाच्चास्य भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।
श्रुणु त्वन्यां कथां दिव्यां कृष्णनारायणाश्रिताम् ॥६४॥ कथयामि तव प्रीत्या पातिव्रत्यपरायणाम् ।
एकदा श्रीवेङ्कटाद्रिर्मेरुं गन्तुमचिन्तयत् ॥६५ ॥ उड्डीय स्वीयपक्षाभ्यां यावदुत्पतति क्षितेः ।
तावज्जातो महान् कम्पो विनाशो बहुदेहिनाम् ॥६६ ॥ चुक्रुशुः प्राणिनः सर्वे वराहं शरणं ययुः ।
मृताः स्मो भगवन्नस्योड्डयनेन विनाऽऽश्रयम् ॥६७॥ कुरु नो रक्षणं क्ष्मेश! यथावत् स्थापय प्रभो ।
इत्यर्थितो वराहो वै स्वयं नारायणः प्रभुः ॥६८॥ जीवानाश्वासयामास सस्मारेन्द्रं सवज्रकम् ।
तावदुपागतश्चेन्द्रो वज्रमुद्यम्य पक्षहाः ॥६ ९॥ इन्द्रं दृष्ट्वा वेङ्कटाद्रिस्तत्रास कम्पितोऽभवत् ।
जगाम शरणं विष्णोर्वराहरूपिणस्तदा ॥1.406.७० ॥ तुष्टाव मरणाद् भीतस्तमाह भगवान् स्वयम् ।
यदि कदाचिन्मा याहि पक्षाभ्यां व्योममार्गतः ॥७१ ॥ तदा रक्षां करिष्यामि स्थिरो भवात्र भूधर ।
इत्युक्तः सोऽभवन्नत्वा निष्कम्पः सुस्थिरस्तदा ॥७२ ॥ अदृश्योऽभूद् वराहश्च महेन्द्रः स्वालयं ययौ ।
वराहस्याश्रयेणास्य पक्षौ नेन्द्रेण कर्तितौ ॥७३ ॥ अथैकदा स शैलस्तु कल्पयामास वै हृदि ।
आगतोऽहं हि गोलोकाद् वसाम्यत्र चिरं समाः ॥७४॥ गोलोकदर्शनार्थं वै गच्छामि कृष्णसन्निधौ ।
इति विचार्य स कृष्णजन्माष्टम्यां यश क्षितौ ॥७५ ॥ कुशस्थल्यां हि गोमत्यां स्नातुं तीर्थानि संययुः ।
ऋषयश्च गताः सर्वे नदा नद्यश्च देवताः ॥७६ ॥ अगस्त्यादय एवैते ययुर्गोमतीसङ्गमे ।
स्वं निर्जनं तदा दृष्ट्वा गन्तुं मनो दधे तदा ॥७७॥ चकम्पे पृथिवी तत्र जीवा नष्टाश्च कम्पनात् ।
तावत् तत्राऽभवदेका तापसी निर्धना सती ॥७८॥ ब्राह्मणी ब्राह्मणसेवापरा नित्यं प्रतिव्रता ।
नाम्ना सुवर्णरेखा च हिरण्या तत्स्वसा तथा ॥७१॥ हिरण्याऽभून्महासाध्वी कुमारिका तपस्विनी ।
सुवर्णरेखा सपतिका पतिर्नाम्ना नरायणः ॥1.406.८० ॥ नारायणं द्विजं प्राह पीत्वा जलं तु पादयोः ।
वेङ्कटाद्रिः सपक्षोऽस्ति प्रागुड्डयने वारितः ॥८ १ ॥ पुनरुड्डीयतेऽस्माकं मृत्युरेव भविष्यति ।
यदि पत्याज्ञया चैनं जडीकरोमि सर्वथा ॥८२ ॥ तदा श्रीवेङ्कटेशाद्याः क्रुद्धा नो दुःखदाः खलु ।
भविष्यन्ति ततो नाथ कर्तव्यं किं वदात्र मे ॥८ ३ ॥ इत्युक्तः सः प्रियामाह यथेष्टं कुरु भामिनि! ।
यदि ते पातिव्रत्यं वै दृढं चास्ति जनाविह ॥८४॥ सर्वे पराभवमाप्ता भविष्यन्ति तदग्रतः ।
मा भयं कुरु साध्वि त्वं शिक्षां कुरु हि पर्वतम् ॥८५॥ इति प्रियस्य वचनं समासाद्य सती तदा ।
प्राह यद्यस्मि मद्धर्मसंस्थिता वै पतिव्रता ॥८६ ॥ तदा पर्वतराजोऽत्र तव पक्षौ भुवोऽन्तरे ।
जडीभूतौ सदा स्तां वै पक्षशक्तिं विनाकृतौ ॥८७॥ पृथिव्या चैकतां प्राप्तौ यथा नोड्डयनं पुनः ।
इत्युक्तमात्रे तौ पक्षी जडीभूतावचञ्चलौ ॥८८ ॥ अभवतां शक्तिहीना भुवोऽन्तरं निवेशितौ ।
वेङ्कटाद्रिर्नम्रतया ययाचे वै क्षमां मुहुः ॥८ ९ ॥ सती प्राह सदा चात्र नारायणस्य मे तथा ।
वासो न निश्चितस्तस्माद् यास्यामो रैवताचलम् ॥1.406.९० ॥ त्वं सदा तिष्ठ निष्कर्मा मा भूः चञ्चलपर्वत! ।
अन्यथा ते पुनर्देवो ध्रुवं नाशं करिष्यति ॥९१ ॥ सपक्षस्त्वं सर्वदैवं तिष्ठ नोड्डयनं भवेत्॥ ददामि पक्षयोर्जीवं कृपया मा शुचः पुनः ॥९२ ॥ शलभानां शुकानां च कोटयस्तव पक्षयोः ।
भविष्यन्ति सशक्तास्ता उड्डयिष्यन्ति चाम्बरे ॥९३ ॥ शाद्वलेषु वनेष्वत्राऽरण्येषु शलभाः शुकाः ।
ओषधीन् भक्षयित्वा ते लयमेष्यन्ति पक्षयोः ॥९४॥ एवं ते पक्षयोः सजीवनतां ते ददामि वै ।
इत्युक्त्वा वेङ्कटं स्थिरीकृत्वा नारायणो द्विजः ॥९५ ॥ पतिव्रता स्वर्णरेखा ययतू रैवताचलम् ।
स्वर्णरेखा नदीरूपाऽभवन्नित्या पतिव्रता ॥९६ ॥ नारायणो ह्रदरूपोऽभवन्नित्योऽवसद् गिरौ ।
एवं नारायणः स्वर्णरेखा चेति हि दम्पती ॥९७ ॥ निवासं चक्रतुस्तीर्थरूपौ दिव्यौ हि रैवते ।
यत्र दामोदरेणापि पत्नीव्रतेन विष्णुना ॥९८ ॥ श्राद्धं कृतं परां तृप्तिं ददतुस्तौ हि चेतनान् ।
इति ते कथितं लक्ष्मि! चमत्कारमयं वृत्तम् ॥९९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वेङ्कटाद्रावगस्त्यशङ्खद्वारा वराहप्रादुर्भावः, तत्र तपसांऽजन्यां हनुमत्पुत्रलाभः, वेङ्कटाद्रेः पक्षयोर्जडीकरणम्, त्वारेखानारायणहृदयोः रैवताचले आगमनं चेत्यादिनिरूपणनामा षडधिकचतुःशततमोऽध्यायः ॥४०६ ॥