४०५

श्रीनारायण उवाच-
शृणु लक्ष्मि! वेङ्कटाद्रौ मुख्यतीर्थानि षट् तथा ।
स्वामिपुष्करिणी चैव वियद्गङ्गा ततोऽधिका ॥१ ॥ पापविनाशनं चापि पाण्डुतीर्थं तदुत्तमम् ।
कुमारधारिकातीर्थं तुम्बुरुतीर्थमित्यपि ॥२ ॥ कुम्भलग्ने पौर्णमास्यां मघायोगो यदा भवेत् ।
कुमारधारिकां यान्ति तीर्थानि सर्वतो दिशः ॥३ ॥ राजसूयफलं स्नानान्मुक्तिर्विष्णोः पदे भवेत् ।
अन्नदानं प्रदातव्यं शाश्वतं फलमाप्यते ॥४ ॥ उत्तराफाल्गुनीयुक्तधावल्यदलपर्वसु ।
मीनसूर्ये तु तीर्थानि तुम्बुरुं यान्ति सर्वतः ॥५ ॥ अपराह्णे स्नानमात्रात्पुनर्जन्म न विद्यते ।
यज्ञोपवीतकं ब्रह्मव्रतं विवाहलग्नकम् ॥६ ॥ द्रव्यं दत्वा कारयेद् यस्तस्य पुण्यमनन्तकम् ।
मेषसूर्ये च चित्रायां पूर्णिमायां हि सर्वतः ॥७ ॥ समायान्ति वियद्गङ्गां तीर्थानि पावनानि वै ।
तत्र स्नात्वा शतक्रतुपुण्यं प्राप्नोति मानवः ॥८ ॥ स्वर्णदानं चान्नदानं कन्यादानं विशेषतः ।
प्रदातव्यं परं स्वर्गमिच्छता गृहमिच्छता ॥९ ॥ द्वादश्यां वृषभार्के च व्रतादौ हरिवासरे ।
भौमयुक्ते पाण्डुतीर्थं गङ्गायां यान्ति सर्वतः ॥1.405.१० ॥ स्नात्वा च गां दोग्ध्रीं दत्वा मुच्यते पापकोटिभिः ।
अश्विन्यर्के शुक्लपक्षे सप्तम्यां सूर्यवासरे ॥११ ॥ उत्तराषाढयुक्सूर्ये तूत्तराभाद्रशालिनि ।
द्वादशीदिवसे चापि तीर्थं पापविनाशनम् ॥१२॥ शालग्रामशिलादानं कृत्वा स्नात्वा प्रमुच्यते ।
धनुर्मासे सिते द्वादशिकायामरुणोदये ॥१३ ॥ स्वामिपुष्करिणीतीर्थे तीर्थान्यायान्ति सर्वतः ।
यस्य जन्मसहस्रेषु पुण्यमेवाऽर्जितं भवेत् ॥१४॥ तस्य स्नानं भवेत् तत्र नाऽन्यस्याऽसुकृतस्य वै ।
यथाशक्तिप्रदातव्यं दानं स्नात्वा विमुच्यते ॥१५ ॥ शालग्रामं कामधेनुं दद्यात् तत्र विशेषतः ।
लक्ष्मीनारायणसंहिताया दानं समाचरेत् ॥१६ ॥ सौराष्ट्रेऽस्याः प्रदानेन गोलोकं चाप्नुयाद् ध्रुवम् ।
दक्षिणेऽस्याः प्रदानेन वैराजस्थानमाप्नुयात् ॥१७ ॥ प्राग्ज्योतिषि प्रदानेन सूर्यलोकमवाप्नुयात् ।
जालन्धरे प्रदानेन वारुणं लोकमाप्नुयात् ॥१८ ॥ उत्तरकुरुष्वस्यास्तु दानेन ब्रह्मतां व्रजेत् ।
सप्तद्वीपेषु दानेन सप्तद्वीपपतिर्भवेत् ॥१९ ॥ ये शृण्वन्ति कथां विष्णोः सदा भुवनपावनीम् ।
जीवन्मुक्तास्तु ते भक्ता महाभागवता मताः ॥1.405.२ ० ॥ मुहूर्तं वा तदर्थं वा क्षणं वा वेङ्कटाचले ।
लक्ष्मीनारायणसंहिताया अध्यायमेव वा ॥२१ ॥ यः शृणोति नरो भक्त्या मोक्षं शाश्वतमाप्नुयात् ।
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥२२ ॥ सकृत् संहिताश्रवणात् तत्फलं विन्दते जनः ।
संहिताश्रवणं कृष्णनारायणस्य कीर्तनम् ॥२३ ॥ उभे त्वेव मनुष्याणां कल्पद्रुपुण्यदायके ।
अमृतपानकृल्लोके स्यादेकश्चाजरामरः ॥२४॥ कृष्णकथाऽमृतपानात् कुलं स्यादजरामरम् ।
कृष्णनारायणश्चाहं वसामि वक्तरि सदा ॥२५ ॥ मद्रूपं वाचकं विद्यान्मन्यूर्ति बोधदायिनीम् ।
वक्ताऽहं भगवान् साक्षात् श्रोत्री लक्ष्मीर्मम प्रिया ॥२६ ॥ इति मत्वाऽर्चयेन्नित्यं श्रोतारं वाचकं तथा ।
मत्प्रवेशं विना कः स्याच्छक्तः श्रोता च वाचकः ॥२७ ॥ श्रोतुं वक्तुं च वा लक्ष्मि! दिव्याख्यानान्तरङ्गकम् ।
यत्रेयं संहिता लक्ष्मि! तत्र दिव्यस्वरूपवान् ॥२८ ॥ अवश्यमुपतिष्ठामि राधालक्ष्म्यादिसंवृतः ।
पार्षदैश्च समायुक्तः कथापात्रैर्युतस्तदा ॥२९ ॥ दिव्यदृशः प्रपश्यन्ति न तु चर्मदृशो जनाः ।
कथायां विद्यमानायां प्राणाँस्त्यजन्ति तानहम् ॥1.405.३० ॥ नयामि दिव्ययानेन वैकुण्ठं चाऽक्षरं तथा ।
गोलोकं चामृतं धाम यथा भक्तस्य वाञ्छितम् ॥३१ ॥ बालो युवाऽथवा वृद्धो दरिद्रो दुर्भगोऽपि वा ।
कथावक्ता सदा पूज्यः परमात्मस्वरूपकः ॥३२ ॥ संहिताज्ञे क्षुद्रबुद्धिं न कुर्वीत कदाचन ।
यस्याननोद्भवा वाणी मोक्षदा स्वर्गदा नृणाम् ॥३३ ॥ अनन्तजन्मक्षेत्रेपु भूत्वा भूत्वाऽतिनश्यताम् ।
समर्पयति जीवेभ्योऽभयदानं कथाव्रती ॥३४॥ व्यासो ज्ञानप्रदो व्यासासनस्थात् कः परो गुरुः ।
आसमाप्तेः कथायाश्च न नमेत् कस्यचित् गुरुः ॥३५॥ राजा सम्राट् चक्रवर्ती महाचार्योऽपि देशिकः ।
देवो वा सर्व एवैते निम्ना व्यासात्प्रकीर्तिताः ॥३६ ॥ एतेषामासनाद् व्यासासन तुङ्ग सदा मतम् ।
एतेषामागमे व्यासो नोत्तिष्ठेत् स्वासनात् क्वचित् ॥३७॥ देवालये चतुष्कादौ पञ्चश्रवणभूस्थले ।
गृहे तीर्थे शुभे क्षेत्रे तीर्थे पुण्यकथां वदेत् ॥३८॥ श्रद्धालवो भक्तिमन्तो वाग्यताः स्थिरमानसाः ।
अव्यग्राश्चास्तिका दान्ताः श्रोतारः पुण्यभाजनाः ॥३९॥ कथां कथाप्रवक्तारं सामग्रीभिः प्रपूजयेत् ।
तेषां पुण्यफलं शश्वल्लक्ष्मीश्रीधीप्रदं भवेत् ॥1.405.४०॥ अप्रदाय तु ये लोभाकृष्टाः शृण्वन्ति संहिताम् ।
तेषां पुण्यं फलं न स्याद् दारिद्र्यं स्याज्जनौ जनौ ॥४१ ॥ कथायां विघ्नकर्तारो वावदूका विडम्बकाः ।
अन्यगाथाप्रकर्तारो बालक्रीडादिबुद्धयः ॥४२॥ कथाध्यानप्रविक्षेपकर्तारः श्रुतिभञ्जकाः ।
तेषां भोगा विनश्यन्ति दारा धनानि सम्पद् ॥४३ ॥ ये च तुङ्गासनारूढा तथा वीरासनस्थिता ।
सिहासनस्थिताः पादोपरि पादनियोजकाः ॥४४॥ श्रोतारस्ते तु जायन्ते वायसाः पादपास्तथा ।
अप्रणम्य च श्रोतारो जायन्ते विषपादपाः ॥४५॥ शयानाश्चापि श्रोतारो भवन्त्यजगराः खलु ।
वक्तुः समासनस्थाश्च निन्दकाश्च दुरुत्तराः ॥४६॥ जन्मशतं ते शुनका गर्दभाः कृकलासकाः ।
शूकराश्चापि जायन्ते विघ्नकर्तार एव ये ॥४७॥ प्रशंसन्ति कथां ये ते पदं गच्छन्ति शाश्वतम् ।
कथानां श्रावका यान्ति शाश्वतं ब्रह्मणः पदम् ॥४८॥ कम्बलाजीनवासांसि दद्यादासनमुत्तमम् ।
स्वर्गलोकं स वै गच्छेद् धनदो ब्रह्मणः पदम् ॥४९॥ पुस्तकस्य शुभं वस्त्रं ददाति सुखभाग् भवेत् ।
महापातकिनः शुद्धा भवन्ति ज्ञानलब्धितः ॥1.405.५० ॥ इति श्रुत्वा महिमानं कथाश्रवणकर्मणः ।
देवाश्च मुनयः सिद्धाः ऋषयः पितरस्तथा ॥५१ ॥ दिक्पाला लोकपालाश्च नदा नद्यो वनानि च ।
तत्त्वानि पार्थिवा लोका वेङ्कटाद्रौ शुभालये ॥५२॥ लक्ष्मीनारायणसंहितायाः कथां सुपावनीम् ।
श्वेतवाराहवक्त्रात् ते शुश्रुवुर्योषितो नराः ॥५३॥ तेषां भोजनदानार्थं वेङ्कटेश्वरपाचकाः ।
मिष्टान्नानां कटाहानि महानसेष्वरक्षयन् ॥५४॥ अभोजयन्नसङ्ख्यातान् देवान् देवीश्च देहिनः ।
तत्तीर्थं पावनं जातं यद्वै कटाहतीर्थकम् ॥५५॥ महादेवो विजानाति तस्य तीर्थस्य वैभवम् ।
वर्णाश्रमस्थिता येऽन्ये पशुपक्ष्यादयोऽपि च ॥५६॥ कटाहतीर्थवासेन प्राप्नोति परमं पदम् ।
अप्रायश्चित्तपापानां ध्वंसः कटाहसेवनात् ॥५७॥ आर्तानामार्तिनाशः स्यादस्य जलस्य सेवनात् ।
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ॥५८॥ वराहतीर्थे भोज्यान्नं पानं जलस्य तस्य च ।
लक्ष्मीनारायणसंहितायाश्च श्रवणं सदा ॥५९॥ साधूनां नित्यसेवा च षट्कं त्रैलोक्यदुर्लभम् ।
संहितायाः कथारम्भे वाराहो भगवान् स्वयम् ॥1.405.६ ० ॥ चतुर्भुजः समायातो भूकटाहात् बहिर्हरिः ।
तत्तीर्थं भूकटाहाख्यं तत्रैव वर्तते प्रिये ॥६ १ ॥ यज्जलं चामृतं तेन तृप्ताः श्रवणकारकाः ।
संहितायाः कथामग्ना न विद्यैस्ते पराऽभवन् ॥६ २॥ मासं श्रुत्वा ययुः सर्वे निजस्थानानि देवताः ।
अथ केशवनामाख्यो विप्रो ब्राह्मणघातकः ॥६ ३॥ ब्रह्महत्यासमाक्रान्तो ययौ कटाहतीर्थके ।
स्नात्वा पीत्वा जलं शुद्धोऽभवत्तीर्थप्रतापतः ॥६४॥ तुङ्गभद्रातटे तस्य वेदग्रामेऽभवद् गृहम् ।
वैदिका ब्राह्मणाः शास्त्रविज्ञा ह्यासन् सहस्रशः ॥६५॥ अग्रहारः केशवोऽसौ कुलटापाशवञ्चितः ।
मातरं पितरं त्यक्त्वा भार्यामपि पतिव्रताम् ॥६६॥ सर्वदाकुलटासक्तोऽभवत् तद्गृहवासकृत् ।
बहुकाले गते तया रुग्णस्त्यक्तो हि केशवः ॥६७॥ स च बुभुक्षितश्चौर्यं कृतवान् ब्राह्मणगृहे ।
खड्गेन हतवान् विप्रं धनं नीत्वा सुवर्णकम् ॥६८॥ ययौ स कुलटागारं तया धनं प्रगृह्य च ।
ताडितो निष्कासितश्च ययौ स्वपितरं गृहे ॥६ ९॥ ब्रह्महत्यापृष्ठलग्नाऽभवत् सोवाच राक्षसी ।
अयं विप्रं विनिहत्य कुलटायै ददौ धनम् ॥1.405.७० ॥ तया निष्कासितो जारः पितृमातृविडम्बकः ।
भार्यात्यागी दुरात्माऽस्ति पितृगृहमुपागतः ॥७१ ॥ यैनं पुत्रं हि मन्येथाः पद्मनाम द्विजोत्तम ।
त्यजैनं ब्राह्मणहनं न चेत् त्यजसि पुत्रकम् ॥७२॥ तद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ।
भक्षयिष्यामि वंशं च तस्मान्मुञ्च दुरात्मकम् ॥७३॥ ब्रहाहत्या स्वयं चास्मि नैनं मुञ्चामि सर्वथा ।
नैकस्यार्थे कुलं सर्वं विनाशयितुमर्हसि ॥७४॥ इत्युक्त्वा ब्रह्महत्या सा ववल्गे केशवं सुतम् ।
प्राणानत्तुं समुद्योगा बभूव राक्षसीसमा ॥७५॥ कुटुम्बिनस्तदा सर्वे रुरुदुः खिन्नमानसाः ।
तस्मिन्नवसरे भरद्वाजस्तत्राऽऽययौ मुनिः ॥७६॥ पद्मनाभो द्विजः स्तुत्वा ययाचे शरणं मुहुः ।
मत्पुत्रं रक्ष कृष्णांश! यथा हत्या लयं व्रजेत् ॥७७॥ एक एव सुतो मेऽस्ति तन्मृतो वंशनाशनम्!
पितृपिण्डविलोपश्च नारकित्वं द्विजन्मनाम् ॥७८॥ समुद्धारय तद् विप्र! बहु पुण्यं भविष्यति ।
कृष्णनारायणांशः स भरद्वाजोऽब्रवीत् तदा ॥७९॥ अयं विप्र! तव पुत्रो वेङ्कटाद्रौ महाचले ।
श्रीभूतलीलायुतनारायणाश्रये मनोहरे ॥1.405.८०॥ कटाहतीर्थसलिले स्नायात् हत्यालयं व्रजेत् ।
इति वाक्यं गृहीत्वैव पद्मनाभो द्विजः सुतम् ॥८ १ ॥ नीत्वा ययौ वेङ्कटाद्रौ सस्नौ पुष्करिणीजले ।
वराहस्वामिनं नत्वा श्रीनिवासं ददर्श ह ॥८२॥ नत्वा दिव्यविमानं तद् ययौ कटाहतीर्थकम् ।
पपौ जलं जले सस्नौ सपुत्रो यावदेव तु ॥८३ ॥ तावद् हत्या लयं प्राप्ता भगवानाविरास च ।
प्राहैतत्तीर्थमागत्य ये पास्यन्ति जलं जनाः ॥८४॥ तेषां भुक्तिस्तथा मुक्तिः सर्वदा वै भविष्यति ।
इत्युक्त्वा श्रीकृष्णनारायणो माहात्म्यमाह तम् ॥८५॥ मया गोलोकधाम्नोऽयं चानीतो वेङ्कटाचलः ।
तत्र तपस्यतोऽगस्त्यमुनेर्ब्रह्मा सुतोषितः ॥८६॥ प्राह पुत्र वरं ब्रूहि ददामि यन्मनोगतम् ।
अगस्त्यो वेधसं प्राह वेङ्कटाख्ये महागिरौ ॥८७॥ मया गङ्गा समानेया जगतां पावनी सदा ।
ब्रह्मणा च स्मृता गङ्गा शीघ्रं तत्राऽऽजगाम ह ॥८८॥ अगस्त्यः शिखरादग्रे जगामाऽनुसरिद् ययौ ।
सुवर्णवत्प्रदेशं तं कुर्वती घोषकारिणी ॥८९॥ सुवर्णमुखरीनाम्ना वायुना बोधिता तदा ।
वेङ्कटाद्रिं निम्नदेशान् व्याप्य वार्धिगताऽभवत् ॥1.405.९०॥ अगस्त्यस्तां द्वितीयां वै गङ्गांशरूपिणीं नदीम् ।
मार्गं प्रदर्श्य तपसः स्थानं प्राप्याऽवसत् सुखम् ॥९१ ॥ यत्र श्रीवेङ्कटेशः श्रीकृष्णनारायणो हरिः ।
श्रीराधापार्वतीलक्ष्मीपद्मिनीमाणिकीपतिः ॥९२॥ प्रभारमाक्षितिलीलापद्मावृन्दापतिश्च सः ।
नित्यं स्नातिजलपानं करोत्येव सखीयुतः ॥९३ ॥ देवास्तीर्थानि मुक्ताश्च साध्व्यः स्नान्ति च पर्वसु ।
अगस्त्याचलसम्भूता दक्षिणोदधिगामिनी ॥९४॥ पवित्रयति देशान् वै नारायणसमाश्रयात् ।
जलं निष्कमितं पीतं नाशयेत्पापपर्वतान् ॥९५॥ नित्यं स्मरेन्नमस्कुर्यात् कीर्तयेन्मनसाऽर्चयेत् ।
शुद्धिक्षेमशिवापेक्षी सुवर्णमुखरीं स्मरेत् ॥९६ ॥ आहूता ब्रह्मणा गङ्गाऽगस्त्येन वाहिता भुवि ।
मूर्ता द्वितीयरूपा सा सुवर्णमुखरीश्वरी ॥९७॥ अस्यास्तटे भुवो दानं धनदानं सुतार्पणम् ।
कृत्वा तु विधिवद् देही याति ब्रह्म सनातनम् ॥९८ ॥ जपो होमस्तपो दानं पितृकर्म सुरार्चनम् ।
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ॥९९॥ अगस्त्योदयमासे ये स्नानमस्यां प्रकुर्वते ।
तैः कल्पं तु सुरावासे स्थीयन्ते पुण्यभागिभिः ॥1.405.१०० ॥ सौवर्णागस्त्यदातारो यान्ति वै ब्रह्मशाश्वतम् ।
अगस्त्यः कुम्भसम्भूतो गोवर्धनस्य नेतृकः ॥१०१ ॥ विन्ध्यसंस्तभनो वार्धिचुलुकीकृतिसिद्धिमान् ।
जलनैर्मल्यसामर्थ्यः सुवर्णमुखरोवहः ॥१ ०२॥ प्रीतिमाप्नोतु महतीं दानेनाऽनेन मे प्रभुः ।
इत्युक्त्वा तु ददेन्मूर्तिं जटाचर्मादिशोभिताम् ॥१०३ ॥ दण्डकमण्डलुयुक्तां स्वस्तिकासनसंस्थिताम् ।
सवल्कलामक्षमालायुक्करां सुमनोहराम् ॥१ ०४॥ नारायणेन सहितां दद्यात् पापविशुद्धये ।
स्मरेत् तीर्थानि सर्वाणि दानकाले शुणु प्रिये ॥१ ०५॥ अगस्त्यतीर्थं तन्मूलेऽगस्त्येश्वरश्च शङ्करः ।
यत्र वै वर्तते तत्रोत्तरायणे विशेज्जलम् ॥१०८ ॥ अग्निष्टोमसहस्रस्य फलं भवति स्वर्गदम् ।
अधः क्रोशमितं तीर्थं देवर्षिपितृनामकम् ॥१ ०७॥ तत्र स्नाता ऋणत्रयान्मुक्तो भवति मानवः ।
ततो योजनयुगले वेणानद्याः सुसङ्गमः ॥१ ०८॥ तत्र दशाश्वमेधानां फलं स्नानेन लभ्यते ।
ततो योजनतुर्ये प्रागस्त्येश्वरं सुलिङ्गकम् ॥१ ०९॥ ततोऽर्धयोजने व्याघ्रपदायाः सङ्गमोऽस्ति वै ।
तत्र विराजते शङ्खतीर्थे शङ्खेश्वरः शिवः ॥1.405.११० ॥ शङ्खेन मुनिना पूर्वं स्थापितः पापनाशकः ।
निम्ने कल्यानदी तत्र सङ्गता पापनाशिनी ॥१११ ॥ यत्र ब्रह्मशिला रम्या सरिन्मध्ये हि वर्तते ।
अथोदिच्यां योजनार्धं वैङ्कटाद्रिर्विराजते ॥११ २॥ क्रोशोच्छ्रयस्य तस्यैवाभितश्चान्येऽपि भूधराः ।
अञ्जनोऽनन्तो वृषभो नीलो वराहः केसरी ॥११३ ॥ नारायणाचले श्रीवेङ्कटाद्रौ वासमाचरत् ।
वाराहस्तेन भूभृत्स वाराहक्षेत्रमीरितः ॥१ १४॥ सुवर्णमुखरीतीरे वेङ्कटाद्रौ श्रिया युतः ।
भुवा युतश्च पद्मिन्या युतः श्रीभगवान् हरिः ॥१ १५॥ युक्तश्च जयया ललितया बकुलया श्रिया ।
पार्वत्या प्रभया लक्ष्म्या माणिक्या लीलया च युक् ॥११६ ॥ सेव्यते सिद्धगन्धर्वमुनिमानवदानवैः ।
तस्य स्मरणकर्तॄणां सिद्ध्यन्ति वाञ्छितानि वै ॥१ १७॥ इति ते कथितं लक्ष्मि! तीर्थानां मण्डलं शुभम् ।
श्रवणात्पठनाच्चास्य स्वर्गं मोक्षश्च वै भवेत् ॥१ १८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वेङ्कटाद्रौ षट्तीर्थानि, लक्ष्मीनारायण-संहिताकथाकर्तृश्वेताख्यव्यासस्य पूजनम्, केशवाख्य-
विप्रस्य ब्रह्महत्यामोक्षणम्, गङ्गाख्यसुवर्णमुखर्या आनयनम्, अन्यतीर्थानामुद्देशादि चेत्यादिनिरूपणनामा पञ्चाधिकचतुःशततमोऽध्यायः ॥४०५ ॥