४०४

श्रीनारायण उवाच-
शृणु लक्ष्मि! दानपात्रं सत्तीर्थं कथयामि ते ।
नारायणः परं तीर्थं देयमस्मै तु शार्ङ्गिणे ॥१ ॥ साधवे धर्मशीलाय विद्याजुषे महात्मने ।
त्यागिने ब्रह्मवेत्रे च दत्तं भवति चाक्षयम् ॥२ ॥ साध्व्यै भोगप्रसक्तायै हरिकृष्णस्य योषिते ।
नारायण्यै महालक्ष्म्यै दत्तं भवति शाश्वतम् ॥३ ॥ सत्कर्मनिरतायै च सेविकायै हरेस्तथा ।
कृष्णनारायणपत्न्यै सत्यै दत्तं तु शाश्वतम् ॥४ ॥ अनाथायै च भक्तायै योगिन्यै दत्तमक्षयम् ।
भक्ताय ब्रह्मरूपाय ब्रह्मणे वेदवेदिने ॥५ ॥ कृष्णनारायणमूर्तिरूपाय देशिकाय च ।
विप्राय देवशिष्याय तथा सत्कर्मकारिणे ॥६ ॥ अनपेक्षितशान्ताय दत्तं भवति चाऽक्षयम् ।
गवे बालाय कन्यायै पितृभ्यां दत्तमक्षयम् ॥७ ॥ पत्न्यै स्वस्रे दुहित्रे च दौहित्राय सुकर्मिण्णे ।
स्वसृपुत्राय शिष्याय दत्तं भवति चाक्षयम् ॥८ ॥ गुरवे गुरुपत्न्यै च गुरुपुत्राय वेदिने ।
धर्मप्रचारकर्त्रे च दत्त भवति चाक्षयम् ॥९ ॥ व्याख्यात्रे ज्ञानदात्रे च शास्त्रिणे विदुषे तथा ।
विद्याधिकारिणे विद्यापात्रे दत्तं हि चाक्षयम् ।1.404.१ ०॥ वृत्तिशून्याय वै देयं दरिद्राय कुटुम्बिने ।
देवस्य पूजकायाऽपि परोपकारकारिणे ॥१ १ ॥ अध्यापकाय दातव्यं दातव्यं देश हेतवे ।
अभ्युदयार्थमेवापि दातव्यं रक्षकाय च ॥१ २॥ नारायणस्य सामीप्ये दत्तं भवति चाक्षयम् ।
वैष्णवाय प्रदातव्यं येन तुष्टो भवामि वै ॥१३ ॥ दम्भाचाराय चौराय विद्विषे निन्दकाय च ।
परद्रव्यपरदारपरे दत्तं तु निष्फलम् ॥१४॥ कृतघ्नस्य च मूर्खस्याऽसूयाविष्टहृदस्तथा ।
हिंसकस्य विक्रयिणो दत्तं भवति निष्फलम् ॥१५ ॥ परोपतापकर्तुश्च नास्तिकस्य जडस्य च ।
खलस्य छलधर्मस्य मर्यादाभेदकस्य च ॥१६ ॥ पाखण्डिनः कितवस्य शठस्याऽधर्मवर्तिनः ।
विवाढशालिनश्चण्डरूपस्यापि तु निष्फलम् ॥१७॥ तीर्थे चक्रपुष्करिणीतीरे देयं विशेषतः ।
दाने पुण्यतमं तीर्थं चक्रतीर्थमनुत्तमम् ॥१८॥ पुरा श्रीवत्सगोत्रीयः पद्मनाभो द्विजर्षभः ।
चक्रपुष्करिणीतीरे तपोऽतप्यत दारुणम् ॥१ ९॥ वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ।
कञ्चित्कालं जलाहारो वाय्वाहारः कियत्समाः ॥1.404.२०॥ एवं वै द्वादशे वर्षे तुष्टः कृष्णनरायणः ।
प्रत्यक्षतामगात्तस्य श्रीराधाकमलापतिः ॥२१ ॥ दृष्ट्वा कृष्णं श्रीनिवासं स्तोतुं समुपचक्रमे ।
गोपालकृष्णरूपाय काम्भरेयाय विष्णवे ॥२२॥ नमः शेषाद्रिवासाय वेङ्कटेशाय ते नमः ।
नारायणाद्रिवासाय श्रीनिवासाय ते नमः ॥२३ ॥ भक्तिप्रियाय लक्ष्मीशपद्मिनीशाय ते नमः ।
इति स्तुतो घनश्यामः श्रीनिवासस्तुतोष ह ॥२४॥ पद्मनाभं द्विजं चाह चक्रतीर्थेऽत्र सर्वदा ।
आकल्पं पूजयँस्त्वं मां वस भक्तोत्तम प्रिय! ॥२५॥ इत्युक्त्वा भगवान् कृष्णस्तत्रैवाऽन्तरधीयत ।
पद्मनाभोऽवसत् तत्र कदाचित्तं तु भक्षितुम् ॥२६ ॥ राक्षसश्चागतस्तत्र जग्राह ब्राह्मणं तदा ।
प्रचुक्रोश चक्रपाणे! रक्ष रक्षेति वै मुहुः ॥२७॥ वेङ्कटेश हरे कृष्ण कृष्णनारायण! प्रभो! ।
काम्भरेय! कृपानाथ रक्ष मां रक्षसा धृतम् ॥२८॥ इति स्तुवतस्तस्यैव रक्षार्थं चक्रधारकः ।
स्वचक्रं प्रेषयामास चक्रपुष्करिणीतटम् ॥२९॥ सुदर्शनं महाज्वालं दृष्ट्वा रक्षः प्रदुद्रुवे ।
तस्य शिरश्चकर्तेदम विप्रस्तुष्टाव चक्रकम् ॥1.404.३० ॥ विष्णोश्चक्र! नमस्तेऽस्तु भक्तरक्षणदीक्षित! ।
कृष्णनारायणहस्तपद्मभूषण! ते नमः ॥३१ ॥ सर्वदाऽत्र प्रतिष्ठ त्वं रक्षकं भव मत्कृते ।
नारायणस्वरूपाय मोक्षदाय नमो नमः ॥३ २ ॥ इत्यर्थितं पद्मनाभभक्तं प्राह सुदर्शनम् ।
चक्रतीर्थं मम नाम्ना बोध्यं भक्त! त्वया कृतम् ॥३३ ॥ चक्रतीर्थे सततं संवसामि तव वाञ्च्छया ।
इतः परं जनानां न पीडा स्याद् राक्षसादिजा ॥३४॥ स्नातारोऽत्र धूतपापा यास्यन्ति श्रीहरेः पदम् ।
इत्युक्त्वा तां चक्रपुष्करिणीं प्राविशदुज्ज्वलम् ॥३५॥ इत्येवं मुक्तिदं भक्तपातिव्रत्यप्रभावतः ।
तीर्थं चक्राश्रितं जातं लक्ष्मि! पापविनाशनम् ॥३६ ॥ शृणु यथाऽभवत् सोऽपि राक्षसो यो मृतोऽधुना ।
पुरा श्रीरङ्गपुर्यां वै वशिष्ठाद्यास्तु वैष्णवाः ॥३७ ॥ उपासाञ्चक्रिरे श्रीरङ्गनाथं मुक्तिकाङ्क्षया ।
कदाचित् तत्र गन्धर्वः सुन्दराख्यः समाययौ ॥३८ ॥ सलिले युवतीभिर्विवस्त्राभिः स्नानमाचरत् ।
क्रीडां चकार विविधां वशिष्ठस्तावदेव हि ॥३९ ॥ स्नातुं गतो ददर्शैनं नग्नं शशाप निस्त्रपम् ।
मां दृष्ट्वापि न वै वासो धत्से तस्माद्धि सुन्दर! ॥1.404.४० ॥ याहि राक्षसतां सद्यस्ततोऽसौ राक्षसोऽभवत् ।
युवत्यः श्रीवशिष्ठं सनत्वा क्षमां ययाचिरे ॥४१ ॥ दयासिन्धो विलोक्याऽस्मान् कोपं मा कर्तुमर्हसि ।
पतिरेव हि नारीणां भूषणं परमं मतम् ॥४२ ॥ पतिहीना तु या नारी शतपुत्रापि नो शुभा ।
विधवेत्यमङ्गला सा ततो जन्म निरर्थकम् ॥४३ ॥ एकोऽपराधः क्षन्तव्यः प्रसीदाऽस्मत्प्रिये प्रभो ।
एवं स्तुतो वशिष्ठस्ताः प्राह शापो न मेऽफलः ॥४४॥ षोडशाब्दावधौ रक्षः पश्चाद् गन्धर्वतां व्रजेत् ।
चक्रतीर्थे पद्मनाभविप्रयोगे विमोक्ष्यति ॥४५॥ सुदर्शनेन चक्रेण मुक्तिरस्य भविष्यति ।
पतिर्वस्त्रिदिवं भूयो रमयिष्यति सुन्दरः ॥४६ ॥ इत्युक्त्वा स वशिष्ठो वै ययौ श्रीरङ्गमन्दिरम् ।
सुन्दरो राक्षसो जातो महादंष्ट्रो भयानकः ॥४७॥ तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ।
भ्रमतो रक्षसश्चाद्रौ षोडशाब्दानि निर्ययुः ॥४८ ॥ ततो ब्राह्मणयोगेन सुदर्शनेन मोचितः ।
सुन्दरः सुन्दरो जातो विमानेन दिवं ययौ ॥४९ ॥ चक्रं तत्रोषितं शश्वच्चक्रतीर्थमतोऽभवत् ।
यच्छ्रुत्वा पापजालानां नाशो भवति वै ध्रुवम् ॥1.404.५० ॥ जाबालितीर्थमाहात्म्यं शृणु लक्ष्मि! वदामि ते ।
दुराचाराभिधो विप्रः कवेरीतीरवासकृत् ॥५१ ॥ सदाऽभूत पापिसंसर्गी नष्टब्राह्मण्यसत्क्रियः ।
ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा ॥५२ ॥ बहुकालोत्तरं सोऽयं भ्रमन् वेङ्कटपर्वतम् ।
न्यमज्जत् तु जले तावद् वेतालेन विमोचितः ॥५३ ॥ यत्र जलेऽभवन्मुक्तस्तत्र जाबालिको मुनिः ।
अवसत् तन्महत्तीर्थं जाबालितीर्थमुच्यते ॥५४ ॥ वेतालोऽप्यभवत् पूर्वं ब्राह्मणो नास्तिको महान् ।
निन्दको देवसाधूनां तेन वेतालतां गतः ॥५५ ॥ सोऽपि तीर्थप्रभावेण पुनर्मानुष्यमेष्यति ।
इति ते कथितं लक्ष्मि! जाबालितीर्थमुत्तमम् ॥५६ ॥ तुम्बुरुतीर्थमत्रापि कथयामि शृणु प्रिये! ।
पापिनो मनुजाः सर्वे ह्यमासु स्नान्ति वै मुहुः ॥५७ ॥ विसृज्य पापजालानि पूता भवन्ति ते जनाः ।
अस्माकं पापजालानि कथं नश्यन्ति सर्वतः ॥५८ ॥ एवमालोच्य तीर्थानि गतानि वेङ्कटाचलम् ।
तत्र स्वामिपुष्करिणीजले सस्नुश्च तुम्बुरौ ॥५९ ॥ तीर्थे सस्नुरुत्तराफाल्गुन्यां शुक्ले तु पर्वणि ।
तेषां पापानि नष्टानि ययुस्तानि यथालयम् ॥1.404.६ ० ॥ महापापरतं क्रूरं दानहीनं कुलान्तकम् ।
पशुघ्नं द्रोहकर्तारं पिशुनं चानृतं जनम् ॥६ १ ॥ मित्रद्रुहं कृतघ्नं च भ्रूणहं परदारगम् ।
परार्थसूचकं स्वामिद्रोहं देवपराङ्मुखम् ॥६२ ॥ शठं च वञ्चकं धर्मविघ्नं कुलविभेदकम् ।
सुपल्लवफलोपेतवृक्षोद्यानविनाशकम् ॥६३ ॥ अग्निदं गरदं चापि पापं विश्वासघातकम् ।
गुरुद्वेषकरं दुष्टं दम्पत्योर्विरसावहम् ॥६४॥ एतान्सर्वांश्च वै लक्ष्मि! तुम्बुरुतीर्थमुत्तमम् ।
पुनाति स्नानपानाद्यैः स्वर्गं मोक्षं ददाति च ॥६५॥ तुम्बुरुर्नामगन्धर्वो भार्यामुवाच वै पुरा ।
माघत्रये मया साकं स्नानं कुरु मलापहम् ॥६६ ॥ माघमास्युदिते सूर्ये गोमयालेपनं कुरु ।
रङ्गवल्ल्यादिभिः शुभ्रपद्मधातुकस्वस्तिकैः ॥६७॥ कृष्णनारायणपूजास्थलं शुद्धं कुरु प्रिये! ।
दीपं कुरु घृतवर्त्तिप्रकाशितं सुगन्धकम् ॥६८॥ देहि पाकं शुचिर्भूत्वा कृष्णनारायणाय च ।
प्रदक्षिणानमस्कारैर्मया सह प्रसेवय ॥६९ ॥ देवसेवां कुरु नित्यं कथाश्रवणमाचर ।
नित्यं कृष्णप्रसादान्नजलं गृहाण वैष्णवि! ॥1.404.७०॥ कृष्णनारायण विष्णो काम्भरेय जनार्दन ।
गोपालकृष्णगोविन्द रमाराधापते प्रभो ॥७१ ॥ श्रीलक्ष्मीपार्वतीनाथ माणिकोश प्रभापते! ।
अन्तर्यामिन् मुक्तिदातृ चेति कीर्तय सर्वदा ॥७२॥ क्रोधमात्सर्यलोभादींस्त्यक्त्वा व्रत समाचर ।
तेनैव जायते मुक्तिर्विष्णुलोको ह्यवाप्यते ॥७३ ॥ इति भर्तुर्वचः श्रुत्वा क्रोधं कृत्वा तु भामिनी ।
प्रत्युवाच तदा कान्तं शीतपीडामये खलु ॥७४॥ प्राणहारिणि माघे वै किं स्नानं तेऽतिसम्मतम् ।
न करोमि पते! स्नानं म्रिये चेद् रक्षकोऽत्र मे ॥७५ ॥ धर्मस्तावज्जनैः कार्यो यावच्छक्यो भवेन्मृदुः ।
दुःखदो नाशकृद्धर्मो न कार्यो न करोमि तम् ॥७६॥ न च कर्माणि विष्ण्वर्थं शक्यानि च प्रगे मया ।
तुम्बुरुरित्युक्तवतीं शशापाऽप्रियवादिनीम् ॥७७॥ वेङ्कटाद्रौ घोणतीर्थे पिप्पलद्रुमकोटरे ।
तत्राम्बुरहिते मूढे मण्डूकी भव केवला ॥७८॥ श्रुत्वा साऽप्रार्थयत् कान्तं विशापमवदत् पतिः ।
कदाचिन्मुनिभिः सार्धमगस्त्यस्ते समीपतः ॥७९॥ स्थित्वा घोणस्य माहात्म्यं कथयिष्यति वै तदा ।
श्रुत्वा त्वं दूरतो मण्डूकीदेहाद्वै विमोक्ष्यसे ॥1.404.८० ॥ पुनरागत्य मे स्थानं मया साकं रमिष्यसि ।
इत्युक्त्वा विररामाऽथ धर्मपत्नी पतिव्रता ॥८१ ॥ भर्तृशापान्महाघोरां मण्डूकतनुमाश्रिता ।
बहुवर्षे गते कालेऽगस्त्यस्तत्र समाययौ ॥८२॥ स्वामिपुष्करिणीं स्नात्वा नत्वा वराहमीश्वरम् ।
वेङ्कटेशं श्रीनिवासं दृष्ट्वा पिप्पलसन्निधौ ॥८३ ॥ आगत्य घोणतीर्थस्य माहात्म्यमवदज्जनान् ।
मण्डूकी सा तदा मुक्ता पूर्वरूपवती बभौ ॥८४॥ उवाच मां दयया रक्ष पतिवाक्यविरोधिनीम् ।
पतिशापेन मण्डूकी जाताऽहं मोचिता त्वया ॥८५ ॥ अगस्त्यस्तां तदा प्राह पातिव्रत्यवृषान् शृणु ।
तव भर्ता सुधर्मज्ञस्त्वां शशाप ऋतं हि तत् ॥८६॥ पतिवाक्यविरोधिन्यां शापो युक्तो हि सर्वथा ।
पतिवाक्यमनादृत्य यथेष्टं वर्तते तु या ॥८७॥ सा पत्नी नरके कष्टे पतत्याकल्पमेव यत् ।
नार्या वाक्यं स्वपत्युर्वै नोल्लङ्घ्यं हि कदाचन ॥८८॥ पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च ।
स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ॥८९॥ पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः ।
पतिर्गुरुः पतिस्तीर्थं पतिर्मोक्षः परो मतः ॥1.404.९० ॥ पतिवाक्यमपाकृत्य या तु सुकृतकारिणी ।
न सा फलमवाप्नोति नैव शुद्धा भवेत्तथा ॥९१॥ गुर्वाज्ञावर्तमानाऽपि पत्याज्ञां न करोति चेत् ।
नैव पूता नवा पुण्या भवत सा कदाचन ॥९२॥ पत्याज्ञया विदध्यात् सा व्रतं धर्मादिकं तथा ।
पतिबुद्ध्या प्रकुर्याच्च हरेः सेवादिकं सदा ॥९३ ॥ पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ।
सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥९४॥ त्वया भुक्तं फलं दुःखं पुनर्जाताऽसि पूर्ववत् ।
गच्छ त्वं तुम्बुरोर्वासं सुखिनी भव सर्वथा ॥९५॥ तुम्बुरुतीर्थमेवैतत् तेन यातं प्रसिद्धताम् ।
अत्र स्नान्ति पौर्णमास्यां ते यज्ञफलभागिनः ॥९६ ॥ दिने दिने कपिलागोसहस्रदानजं फलम् ।
दिने दिने रत्नकोटिसहस्रदानजं फलम् ॥९७॥ दिने हस्तिसहस्रदानस्याऽश्वाऽयुतदानजम् ।
फलं वै प्राप्यते सुभ्रु घोणतीर्थाऽवगाहनात् ॥९८॥ कन्याकोटिप्रदानस्य फलं घोणाऽवगाहनात् ।
कुरुक्षेत्रे सुवर्णानां सहस्रस्य प्रदानजम् ॥९९॥ यत्फलं तदावाप्नोति तुम्बुरुतीर्थगाहनात् ।
गुर्वर्थे च सतामर्थे स्वाम्यर्थे यस्त्यजेत्तनुम् ॥1.404.१० ०॥ पतिव्रतार्थं साध्व्यर्थं हर्यर्थं यस्त्यजेत् तनुम् ।
तत्फलं समवाप्नोति घोणतीर्थाऽवगाहनात् ॥१०१ ॥ आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ।
सत्यव्रतानां यत्पुण्यं घोणतीर्थाद्धि यद्भवेत् ॥१० २॥ गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः ।
स्वर्णवत्यां यमुनायां यत्फलं तद्भवेदिह ॥१ ०३॥ इति श्रुत्वा जलं पीत्वा ययौ सा तुम्बुरुगृहम् ।
इति ते कथितं लक्ष्मि! तुम्बुरुतीर्थमुत्तमम् ॥१ ०४॥ यच्छ्रुत्वाऽपि जनो यायाद् वाजपेयफलं महत् ।
विष्णुलोकं परं स्वर्गं तथा वै शाश्वतं पदम् ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये दानपात्रं, चक्रतीर्थे जाबालितीर्थे च पतिव्रतामाहात्म्यं, तीर्थबलं चेत्यादिनिरूपणनामा
चतुरधिकचतुःशततमोऽध्यायः ॥४०४ ॥