श्रीनारायण उवाच-
शृणु लक्ष्मि! कृष्णनारायणसकाशतस्तु यत् ।
वस्त्रभूषादिकं दिव्यमर्पितं तु वधूकृते ॥१ ॥
ब्रह्मधाम्नो विभूतेर्वै सर्वं वस्त्रविभूषणम् ।
तत्सर्वं सन्दधारेयं भार्गवी दिव्यरूपिणी ॥२ ॥
भूषयाञ्चक्रिरे लक्ष्मीः श्रीः सावित्रीरमादिकाः ।
पार्वती माणिकी जया प्रभा च ललितादिकाः ॥३ ॥
ख्यात्याद्या मातरश्चापि तामलञ्चक्रुरादरात् ।
विभूषिताऽत्यलङ्कृता शुशुभे दिव्यतायुता ॥४ ॥
वह्निशुद्धांशुकाधाना कबरीभारभूषिता ।
कस्तूरीबिन्दुभिर्युक्ता स्निग्धसच्चन्दनार्चिता ॥५ ॥
सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वला ।
तप्तकाञ्चनवर्णाभा कोटिचन्द्रसमप्रभा ॥६ ॥
चन्द्रमोक्षितसर्वाङ्गा मालतीमाल्यशोभिता ।
नेत्रयो रञ्जितकृष्णा पक्वबिम्बौष्ठसुन्दरी ॥७ ॥
नागरङ्गस्तनी स्वर्णवर्णाङ्गुलिकरद्वया ।
सूक्ष्मरोमावलीराजत्तत्तत्स्थलीमनोहरा ॥८ ॥
लक्ष्मीस्थदिव्यचिह्नानां रेखाभिर्ज्ञातपद्मजा ।
अलक्ताञ्चितपादाब्जतला कमलवत्करा ॥९ ॥
आनीता मण्डपे वेदीसन्निधौ वरमालया ।
रत्नहीरकस्वर्णादिकुसुमादिसुक्लृप्तया ॥1.384.१० ॥
करयोर्धृतया स्त्रीभिः शोभिता वरसन्निधौ ।
कृष्णनारायणं नत्वा वह्निं नत्वा च देवताः ॥११ ॥
स्थिरीकृता सव्यपार्श्वे जयशब्दो ह्यभूत्तदा ।
वाद्यानि च विचित्राणि वादयन्ति स्म तन्महे ॥१ २॥
दृश्यमाणा सस्मिता सा कृष्णनारायणाननम् ।
प्रणम्य स्वपतिं लक्ष्मीः पुष्पाञ्जलिमवाकिरत् ॥१ ३॥
कृष्णस्य मूर्धनि भालेऽक्षतकुङ्कुमचन्द्रकम् ।
तिलकं चान्दनं चक्रे सुगन्धजलमार्पयत् ॥१४॥
वरमालां कृष्णगले दत्वा नमाम पादयोः ।
तीर्थजलेन चाङ्गुष्ठं प्रक्षाल्य त्वपिबज्जलम् ॥१५ ॥
सप्तप्रदक्षिणाः कृत्वा प्रणम्य स्वपतिं पुनः ।
सिषेच पल्लवैस्तीर्थजलं चन्दनमिश्रितम् ॥१६ ॥
अथ नत्वा वामपार्श्वे निषसाद सती यदा ।
तां सिषेच जगत्कान्तः कान्तां शान्तां ससुस्मिताम् ॥१ ७॥
साक्षतं चन्द्रकं तस्या भाले कृत्वा स्वयं प्रभुः ।
मस्तके च करौ दत्वा पुष्पाण्यवाकिरद्धरिः ॥१८ ॥
तदा पुरोहितो बृहस्पतिर्मालां गलस्थिताम् ।
नारदस्य समक्षं वै वधूकण्ठेऽप्यधापयत् ॥१९ ॥
वरमालान्विता लक्ष्मीः शुशुभे मेघवैद्युती ।
अथ मन्त्रास्तदा तत्र प्रावर्तन्तर्षिमण्डलात् ॥1.384.२ ० ॥
भृगुस्तत्र सुताहस्तं कृष्णहस्ते ददौ शुभम् ।
एवं भृगुः प्रदानेन वेदमन्त्रेण वै ददौ ॥२१ ॥
बृहस्पतेः कथनेन स्वस्तीत्याह हरिस्तदा ।
जग्राह लक्ष्मीं श्रीकृष्णनारायणः प्रियां स्वकाम् ॥२२॥
अथ दानानि रत्नानां द्रव्याणां च गवां तथा ।
गृहाणां भवनानां च ब्रह्माण्डानामपि प्रभुः ॥२३ ॥
भृगुश्चापि ददौ तत्र ददौ नारायणोऽपि च ।
भृगुः पुत्र्यै भृगुकच्छं पत्तनं प्रददौ तदा ॥२४॥
भूमा च भृगवे मोक्षदानं ज्योतिःप्रवेदनम् ।
त्रिकालाऽबाध्यविज्ञानं चार्पयत् करुणाकरः ॥२५॥
हस्त्यश्वयानवाहानां दानान्यपि ददौ तदा ।
यौतकं हस्तके द्रव्यं वध्वै वराय सन्ददुः ॥२६ ॥
अवतारा ईश्वराश्च मुनयः पितरस्तथा ।
देवाश्च मानवा भौमा पातालस्था यथायथम् ॥२७॥
येषां वै यादृशी स्मृद्धिस्तद्योग्यं दानमाचरन ।
अथाग्निं सम्प्रदक्षिणीकृत्य वारचतुष्टयम् ॥२८ ॥
दम्पती संस्थितौ वह्निसान्निध्ये च नतौ पुनः ।
निषेदतुस्ततो होमं चक्रतुस्तौ घृतादिभिः ॥२९ ॥
अङ्गुलीयकमेवाऽस्यै वध्वै ददौ हरिस्तदा ।
अङ्गुल्यग्रेषु धृत्वा सा भोज्यकवलमार्पयत् ॥1.384.३० ॥
कृष्णाय तस्यै कृष्णोऽपि भोज्यकवलमार्पयत् ।
ऊर्मिकयाक्षणं रन्त्वा निवृत्तौ तौ प्रमोदितौ ॥३१ ॥
स्वेदाक्तौ तु करौ लक्ष्म्याश्चाथ नारायणस्य तौ ।
पुलकाङ्कितरोमाणौ प्रकोष्ठयोर्बभूवतुः ॥३२ ॥
लग्नग्रन्थियुतौ तौ च वह्निं नत्वा गुरुं तथा ।
देवताश्च तदा नत्वा निर्यातौ मण्डपात् तदा ॥३३ ॥
ख्यात्यादिभिर्भोजितो तौ विश्रान्तौ रहसि क्षणम् ।
अथ हस्त्यादिभिः पूर्यां सर्वत्र भ्रामितौ मुदा ॥३४॥
पूजितौ तौ प्रजाभिश्च वन्दितौ पितरौ जनैः ।
लग्नग्रन्थिं नर्मदायां निर्ग्रन्थिं संविधाय च ॥३५॥
भार्गवीजननी ख्यातिरीशनीभिः क्रियादिभिः ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिता मुदा ॥३६॥
आगत्य मङ्गलं कृत्वा कुङ्कुमक्षालनादिकम् ।
दम्पतीं वेशयामास रत्ननिर्माणमन्दिरम् ॥३७॥
अनेकचित्रकृच्छोभं हीरहारेण भूषितम् ।
मुक्तामाणिक्यरत्नैश्च सुदीप्तं दर्पणैस्तथा ॥३॥
तत्र नारायणः कृष्णो ददर्श देवयोषितः ।
ईश्वरयोषितश्चापि मुक्तानिश्च रमादिकाः ॥३९॥
मुनिपत्नीश्च याः सर्वाः पातिव्रत्यपरायणाः ।
रत्नसिंहासनस्थास्ता रत्नभूषणभूषिताः ॥1.384.४० ॥
ता अपि श्रीकृष्णनारायणं दृष्ट्वा च सत्परम् ।
उत्तस्थुर्वासयामासू रत्नसिंहासने मुदा ॥४१ ॥
स्तुतिं चक्रुर्मुनिपत्न्यो नर्म चक्रुः सखीजनाः ।
ख्यातिः सम्भोजयामास वरेण सह कन्यकाम् ॥४२॥
सकर्पूरं सताम्बूलं प्रददौ वासितं जलम् ।
शारदा च ददौ कृष्णहस्ते श्लोकादिपत्रिकाम् ॥४३॥
सर्वासामाज्ञया देवी पठेति तमुवाच सा ।
पपाठ पत्रिकां कृष्णनारायणोऽतिहर्षितः ॥४४॥
*लक्ष्मीः सरस्वती दुर्गा सावित्री राधिका रमा ।
- सती मेना जया ख्यातिर्माणकी पार्वती प्रभा ॥४५॥
तुलसी पृथिवी वृन्दाऽरुन्धती यमुनाऽदितिः ।
गङ्गा सीता शतरूपा देवहूतिश्च नर्मदा ॥४६॥ देव्यश्चैता वरवध्वोः कुर्वन्तु मङ्गलं परम् ।
पपाठ चेति श्रीकृष्णः शुश्रुवुर्जहसुश्च ताः ॥४७॥ नवं तु यौवनं कान्तो नवः कान्ता नवा तथा ।
विदग्धाया विदग्धेन सङ्गमोऽस्तु नवो नवः ॥४८॥ प्रौढा रूपवती पुष्टा युवा वीर्यभरो बली ।
योगे बलाबले चाऽद्य ज्ञास्यामः कस्य वै जयः ॥४९॥ राधा रमा तथाऽन्याश्च तव सन्ति सुयोषितः ।
भार्गवी कीदृशी रम्या रहश्चास्ति वदात्र नः ॥1.384.५०॥ इति क्षणं वरतुष्ट्यै जहसुः सर्वयोषितः ।
लोपामुद्राऽनसूया चाऽप्यहल्याऽरुन्धती तथा ॥५१ ॥ कम्भरा ता मुनिपत्न्यो रभसं चक्रुरीश्वरम् ।
अथमुक्तानीश्वराँश्च देवान् स्थावरजङ्गमान् ॥५२॥ पूजयामास च भृगुर्भोजयामास चादरात् ।
खाद्यतां खाद्यतां मिष्टं दीयतां दीयतामिति ॥५३॥ शब्दो बभूव नगरे वाद्यसङ्गीतमङ्गलैः ।
अथ प्रभाते त्वरिताः सज्जा बभूवुरीश्वराः ॥५४॥ कारयामास यात्रां च नारायणं च भार्गवीम् ।
ख्यातिः रुरोद पुत्रीं स्वां कृत्वा वक्षसि वै क्षणम् ॥५५॥ पुत्रि! वत्से! विना त्वां वै कथं जीवामि दुःखिनी ।
वद नारायणं शश्वन् निवासार्थं भृगोर्गृहे ॥९६॥ जायापतिभ्यां दत्तं वै यौतकं भृगुपत्तनम् ।
अत्र द्वितीयरूपेण नारायणं निवासय ॥५७॥ लक्ष्मीः पतिव्रता नैवं चक्रे नियोगमच्युते ।
सजला नेत्रयोर्जाता कृष्णनारायणस्तदा ॥५८॥ लक्ष्मीं प्राह कथं सुभ्रु जाता सजललोचना ।
यथा श्वश्रूर्वदत्येवं करोम्येव वसाम्यहम् ॥५९॥ इत्युक्त्वा श्रीकृष्णनारायणो द्वेधा बभूव ह ।
भार्गवीसहितस्तत्र भृगोर्गेहेऽवसत् सदा ॥1.384.६ ०॥ द्वितीयं दम्पतीरूपं कोटियौतकसम्भृतम् ।
असङ्ख्यवाहिनीसङ्घैः शुक्लतीर्थं ययौ तदा ॥६१ ॥ प्रविश्य भवनं रम्यं कारयामास मङ्गलम् ।
भूमा नारायणो वाद्यं वादयामास सुन्दरम् ॥६२॥ सर्वा देव्यश्च मुक्तान्यस्तथाऽन्या योषितो हरेः ।
भार्गवीं श्रीकृष्णनारायणं विलोक्य वै मुहुः ॥६३ ॥ गृहं प्रवेशयामासुश्चक्रिरे मङ्गलानि हि ।
चतुर्विधं भोजयित्वा त्रिसृष्टिवासिनो जनान् ॥६४॥ महीमानान् रञ्जयित्वा परिहारं प्रचक्रिरे ।
भूमा सैन्यानि चादाय धामधामनिवासिनाम् ॥६५॥ ययौ वैकुण्ठमेवाऽऽद्य दम्पतीसहितस्तदा ।
महीमानाः स्वकान् लोकान् ययुर्धनप्रपूरिताः ॥६६॥ पृथ्वीजलादयश्चक्रुः क्लृप्तवैकुण्ठनाशनम् ।
भृगोर्गृहे महीमानाः भोजिताः पूजिताश्च ते ॥६७॥ ययुः सत्कारमादाय दिव्यरत्नादिसम्भृताः ।
भृगुक्लृप्तमासमुद्रं महीमाननिवासनम् ॥६८॥ संहृतं क्षणमात्रेण भृगुणा सिद्धिभिस्तदा ।
कम्भरा च महालक्ष्मीः कृष्णगोपाल एव तौ ॥६९ ॥ पितरौ पुत्रसान्निध्ये निवासं भृगुपत्तने ।
चक्रतुर्भार्गवीकृष्णनारायणस्य तुष्टये ॥1.384.७०॥ दिव्यदेहौ च पितरौ दम्पतीसविधे सदा ।
यथा ख्यातिभृगू पूज्यौ वर्तेते भृगुपत्तने ॥७१ ॥ भार्गवी श्रीकृष्णनारायणं प्राप्य रहः सदा ।
सेवते विविधैः कामैः पातिव्रत्यपरायणा ॥७२॥ कथं न स्मरसि लक्ष्मि! त्वं जाता भार्गवी तदा ।
अहं जातः कृष्णनारायणः स्मरामि लग्नकम् ॥७३ ॥ त्वादृशी मे सदा दासी पत्नी भोग्या च किङ्करी ।
सखी सह्या सहवासा सुरक्षिका पतिव्रता ॥७४॥ नाऽपरा मे सुखकर्त्री शान्ता सौभाग्यशालिनी ।
हृत्स्था रेखात्मिका गौरात्मिका श्रीवत्सविग्रहा ॥७५॥ अहं त्वं च त्वमेवाऽहं न भेदोऽस्ति मनागपि ।
इति ते कथितं लक्ष्मि! बहुभाग्यवती भव ॥७६॥ पठनाच्छ्रवणाच्चास्य स्वर्गं मोक्षः फलं भवेत् ।
नारीणां श्रीकृष्णनारायणप्राप्तिर्ध्रुवा भवेत् ॥७७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भार्गव्या मण्डपानयनं कन्यादानविधिर्विवाहोत्तरं महीमानानां वरस्य च यात्रा, कृत्रिमवैकुण्ठादिविलयनम्, जामातुर्भगुगृहे द्वितीयरूपेण वासश्चेत्यादिनिरूपणनामा चतुरशीत्यधिकत्रिशततमोऽध्यायः ॥३८४ ॥