३८२

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पातिव्रत्यं परं तव ।
मां विहाय कदापि त्वं तिष्ठसे न जनान्तरे ॥१ ॥ यत्र यत्रास्ति मेंऽशो वै तत्र तत्रासि चांशतः ।
पातिव्रत्यं परं मुख्यं धर्मं धृत्वा हि वर्तसे ॥२ ॥ अहं चापि हृदि रक्षन् पत्नीव्रतपरायणः ।
वर्तामि च त्वयि लक्ष्मि! सर्वात्मनाऽऽन्तरे बहिः ॥३ ॥ मदिच्छातः पुरा जाता लक्ष्मीस्त्वं हृदयाद् बहिः ।
वैकुण्ठे त्वं ततो जाता सती नारायणप्रिया ॥४ ॥ गोलोके राधिकारूपा कृष्णप्रियाऽसि सर्वदा ।
श्रीश्च त्वं वर्तसे चाऽव्याकृते धाम्नि मम प्रिया ॥५ ॥ श्वेतद्वीपेऽपि मे पत्नी क्षीराब्धौ त्वं रमासि मे ।
प्रभा च पार्वती चासि मम धाम्नि चिदम्बरे ॥६ ॥ माणिकी च वरारोहा सर्वदाऽसि ममाऽऽसनम् ।
क्षीराब्धौ त्वं ततो जाता जाता केदारपुत्रिका ॥७ ॥ भृगोः ख्यात्यां समुत्पन्ना जाता पद्मा तथा प्रिया ।
अनरण्यगृहे त्वं वै धरण्यां चापि मे प्रिया ॥८ ॥ तथा त्वं कम्भरालक्ष्मीर्जाता सौराष्ट्रके शुभे ।
सा त्वं नित्या जगन्माता विष्णोः श्रीरनपायिनी ॥९ ॥ कृष्णनारायणसक्थ्नि वामे गौरस्वरूपिणी ।
वर्तसे त्वं सदा लक्ष्मीरदृश्या सेविका सती ॥1.382.१ ०॥ यथा सर्वगतश्चाऽहं तथा सर्वगताऽसि वै ।
न त्वां विना क्वचिच्चाहं मां विना त्वं न च क्वचित् ॥११ ॥ अपृथकसिद्धतादात्म्यं वर्तते लक्ष्मि! नौ सदा ।
सदा सर्वत्र सर्वाऽसि सर्वश्चास्मि तथाप्यहम् ॥१२॥ पतित्वं मे सदा ते च पत्नीत्वं सर्वदा प्रिये ।
कर्मणा मनसा वाचा वर्ष्मणा गुणचिन्तनैः ॥१ ३॥ जाग्रति स्वापने घोरे सुषुप्तावपि तुर्यके ।
स्थाने चात्मनि सर्वत्र विषये विलये तथा ॥१४॥ सृष्टौ लये चिदाकाशे जडे चेतनवर्गके ।
कार्ये वा कारणे लक्ष्मि! सदा त्वं मे पतिव्रता ॥१५॥ पत्नीव्रतस्तथाऽजस्रं भवाम्येव न संशयः ।
अहं विष्णुश्च सर्वत्र व्यापकोऽस्मि सती सदा ॥१६ ॥ त्वं तत्र व्यापिनी देवी मम शक्तिस्वरूपिणी ।
अक्षरेशोऽप्यहं त्वं चाक्षरी भवसि मत्प्रिया ॥१७॥ मुक्तेशोऽहं यदा लक्ष्मि! मुक्तानी त्वं हि वर्तसे ।
जया च ललिता त्वं वै हरिकृष्णस्तदाऽप्यहम् ॥१८॥ अह चार्थस्त्वं च वाणी नीतिस्त्वं च नयोऽस्म्यहम् ।
बोधश्चाहं त्वं च बुद्धिर्धर्मोऽहं त्वं च सत्क्रिया ॥१९ ॥ स्रष्टा चाहं त्वं च सृष्टिर्भूमिस्त्वं भूएधरोऽस्म्यहम् ।
सन्तोषोऽह त्वं च तुष्टिः कामोऽहं त्वं च कामना ॥1.382.२० ॥ यज्ञोऽहं दक्षिणा वै त्वं वेदोऽहं त्वं च वेदिका ।
आज्याहुतिस्त्वमेवासि पुरोडाशोऽस्मि वै तदा ॥२१ ॥ पत्नीशाला त्वमेवाऽसि प्राग्वंशोऽहं भवामि च ।
यूपोऽहं च चितिस्त्वं च त्वमिध्मा च कुशोऽस्म्यहम् ॥२२ ॥ उद्गीतिस्त्वं च सामाऽहं त्वं स्वाहाऽहं हुताशनः ।
गौरी त्वं शङ्करश्चाहं त्वं प्रभाऽहं दिवाकरः ॥२३ ॥ अहं पितृणस्त्वं च स्वधा शाश्वतपुष्टिदा ।
आकाशोऽहं तथा त्वं द्यौश्चन्द्रोऽहं त्वं च कौमुदी ॥२४ ॥ वायुश्चाऽहं धृतिस्त्वं वै वेला त्वं सागरोऽस्म्यहम् ।
इन्द्राणी त्वं महेन्द्रोऽहं धूमोर्णा त्वं यमोऽस्म्यहम् ॥२५ ॥ ऋद्धिस्त्वं च कुबेरोऽहं गौरी त्वं वरुणोऽस्म्यहम् ।
देवसेना त्वमेवाऽसि सेनान्यहं च कार्तिकः ॥२६ ॥ अवष्टम्भोऽस्म्यहं यत्र तत्र शक्तिस्त्वमेव मे ।
त्वं काष्ठाऽसि निमेषोऽस्मि मुहूर्तोऽहं कलासि मे ॥२७ ॥ त्वं ज्योत्स्नाऽहं प्रदीपोऽस्मि द्रुमोऽहं त्वं लतासि वै ।
दिवसोऽहं निशा त्वं च वधूस्त्वं च वरोऽस्म्यहम् ॥२८ ॥ नदोऽहं त्वं नदीरूपा पताका त्वं ध्वजोऽस्म्यहम् ।
लोभोऽहं त्वमसि तृष्णा रागोऽहं त्वं रतिर्मता ॥२९ ॥ देवतिर्यङ्मनुष्यादौ माया त्वं मायिकोऽस्म्यहम् ।
दुर्वासःशापतस्त्वं तु महेन्द्राद्रिं विहाय वै ॥1.382.३० ॥ समुदेऽतीव सम्मग्ना पुनश्चाविर्बभूविथ ।
त्वं सिद्धिस्त्वं पद्मिनी च ख्यात्यां लक्ष्मीर्भृगोः सुता ॥३१ ॥ नर्मदायास्तटे त्वं तु भार्गवी दिव्यविग्रहा ।
जातमात्रा युवती त्वं तेपिषे दुष्करं तपः ॥३२ ॥ नारायणः पतिर्मेऽस्तु चतुर्बाहुः स्वयं हरिः ।
इति वर्षाऽयुतं साध्वि! त्वया तप्तं परं तपः ॥३३ ॥ नित्यं षोडशवर्षीया वृद्धिहासविवर्जिता ।
तेजोमण्डलमध्यस्था भृगुकृच्छोच्छ्रयस्थिता ॥३४॥ वर्षसहस्रं पञ्चाग्नौ तपश्चकर्थ दारुणम् ।
ततो वर्षसहस्रं वै तण्डुलाहारकं तपः ॥३५ ॥ ततो वर्षसहस्रं वै फलाहारपरायणा ।
ततो वर्षसहस्रं वै कन्दाहारपरायणा ॥३६ ॥ ततो वर्षसहस्रं वै पत्राहारपरायणा ।
ततो वर्षसहस्रं त्वं शुष्कपत्रपरायणा ॥३७॥ ततो वर्षसहस्रं त्वं जलफेनपरायणा ।
ततो वर्षसहस्रं त्वं क्वचिज्जलपरायणा ॥३८ ॥ ततो वर्षसहस्रं त्वं धूम्रबाष्पपरायणा ।
ततो वर्षसहस्रं वै वायुपानपरायणा ॥३९ ॥ एकादशे सहस्रे त्वं सर्वेन्द्रियनिरोधिनी ।
ब्रह्मरन्ध्रं समासाद्य समाधिं मयि चागता ॥1.382.४० ॥ त्वया स्तुतोऽप्यहं नेति विवाहार्थं जगाद् ह ।
त्वया प्राणान् परित्यक्तुं ज्ञापयित्वा द्रुतं तु मे ॥४१ ॥ ब्रह्मरन्ध्रं समुद्धाट्य यावदूर्ध्वं गतिः कृता ।
तावन्मया समागत्य पुना रन्ध्रे निवेशिता ॥४२ ॥ त्वयोक्तं तु तदा लक्ष्मि! या त्वं मे पतिर्भव ।
तदा रोधय मे प्राणानन्यथा त्वं वियोजय ॥४३ ॥ विहस्य साश्रुनेत्रोऽहं प्रेमपुलकितांऽगकः ।
हृष्टरोमा स्वेदगात्रोऽभवमाश्लिष्टवानपि ॥४४॥ प्रोक्तवाँस्त्वं निवर्तस्व तपसश्चातिदारुणात् ।
यावत्सृष्टिर्ब्रह्मलोकस्तावत्पत्नीं करोमि वै ॥४५ ॥ गच्छ त्वं पितरं लक्ष्मि! मातरं वद सर्वथा ।
आगच्छति विवाहार्थं कृष्णनारायणः प्रभुः ॥४६ ॥ इत्युक्ता त्वं समुत्थाय नत्वा स्पृष्ट्वाऽऽननं मम ।
सर्वं समर्पितं कृत्वा गता स्वपितृमन्दिरम् ॥४७॥ अहं यातश्च वैकुण्ठं तदा सस्मार नारदम् ।
सप्तर्षीन् राधिकां श्रीं च माणिकीं पार्वतीं प्रभाम् ॥४८ ॥ ते सर्वे तु समागत्य पप्रच्छुः कारणं तु माम् ।
मया गदितो वृत्तान्तो भार्गवीयोगसम्भवः ॥४९॥ नर्मदायास्तटे रम्ये भृगुर्ब्राह्मणसत्तमः ।
दिव्यं वर्षसहस्रं तु समुपास्ते हरं प्रभुम् ॥1.382.५० ॥ वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् ।
तं ध्यायति समाधिस्थो वरं प्रार्थयते तथा ॥५१ ॥ आश्चर्यं तु महज्जातमुमायाः शङ्करस्य च ।
गौरी पृच्छति शम्भुं तु वल्मीकस्थोऽयमस्ति कः? ॥५२ ॥ शम्भुः प्राह भृगुर्नामा ऋषीणां प्रवरो मुनिः ।
वरं ध्यायति तपति प्रार्थयत्येव शङ्करात् ॥५३ ॥ तदा प्रहसिता गौरी शङ्करं प्रत्यभाषत ।
धूमवत्तु शिखा जाता ततोऽद्यापि न तुष्यसि ॥५४॥ दुराराध्योऽसि मे नाथ कथमेवं तु वर्तसे ।
शिवः प्राह महादेवि! भृगुः क्रोधेन चेष्टितः ॥५५॥ दर्शयामि तथा तथ्यं प्रियं ते च करोम्यहम् ।
स्मारितो देवदेवेन धर्मरूपो वृषस्तदा ॥५६ ॥ स्मरणाद् देवदेवस्य वृषः शीघ्रमुपस्थितः ।
वदते मानुषीं वाचमादेशो दीयतां प्रभो ॥५७॥ वल्मीकैश्छादितो विप्रः एव भूमौ निपातय ।
योगस्थस्तु ततो ध्यायँस्ततस्तेन निपातितः ॥५८॥ तत्क्षणात् क्रोधसन्तप्तो हस्तमुत्क्षिप्तवान् वृषम् ।
एष सम्भाषमाणश्च कुत्र गच्छसि भो वृष! ॥५९॥ अद्य त्वामत्र पाप्मानं प्रत्यक्षं हन्म्यहं वृष! ।
धर्षितस्तु तदा विप्रो ह्यन्तरिक्षगतं वृषम् ॥1.382.६ ०॥ आकाशे प्रेक्षते विप्रो ह्येतदद्भुतमुत्तमम् ।
ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः ॥६ १ ॥ तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात् पतितो भुवि ।
प्रणम्य दण्डवत् भूमौ स्तौति श्रीपरमेश्वरम् ॥६२॥ अलीकाहङ्कारयुक्तं क्षणभङ्गुरवैभवम् ।
क्रूरं कुपथपतितं त्राहि मां परमेश्वर ॥६३ ॥ शीघ्रं हरस्व मे तृष्णां लक्ष्मीं देहि च हृच्छ्रयाम् ।
छिन्धि पाशान् भवजातान् समुद्धारय शङ्कर! ॥६४॥ रुद्रवेदी भवेदेषा नारायणस्वरूपिणी ।
यदि तुष्टोऽसि विश्वेश चैतत्सम्पादयस्व मे ॥६५॥ तथास्त्विति तदा प्राह शम्भुर्लोकहिताय वै ।
नारायणी महालक्ष्मीः पुत्री तेऽत्र भविष्यति ॥६६॥ क्रोधस्थानं रुद्रवेदी भृगुक्षेत्रं भविष्यति ।
न पिता पुत्रयोश्चात्र ह्येकवाक्यं भविष्यति ॥६७॥ इत्युक्त्वा च हरस्तस्मात्तिरोभूच्च भृगोर्गृहे ।
दिव्या सङ्कल्पजा पुत्री लक्ष्मीर्जाताऽतिशोभना ॥६८॥ ख्यातिः पुत्रीमती जाता पुष्पवृष्टिर्दिवौकसाम् ।
बभूव चोत्सवश्चापि वैकुण्ठमिव भूरभूत् ॥६९॥ तदा प्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः ।
उपासते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ॥1.382.७०॥ नित्यं यत्राऽभवल्लक्ष्मीर्भार्गवी वै नरायणी ।
नारायणं पतिं लब्धुं तपस्तेपेऽतिदारुणम् ॥७१ ॥ अहं तुष्टश्च तपसाऽयुतवर्षोत्तरं ययौ ।
तस्यै पणं मया दत्तं विवाहाय ततो मया ॥७२॥ गन्तव्यं वै भृगुक्षेत्रं वररूपेण वै यतः ।
वैकुण्ठात्तु गमिष्यामः कुर्वन्तु सज्जतां प्रियाः ॥७३ ॥ भृगुतुङ्गे मुनिवर्यो भृगुः ख्यात्या विराजते ।
अष्टाशीतिसहस्रैश्च ब्रह्मर्षिभिस्तपोधनः ॥७४॥ ततो दूरं नर्मदायास्तटे विष्णुर्विराजिते ।
पञ्चाशद्योजने भागे विष्णुतीर्थे वयं खलु ॥७५॥ वैकुण्ठं कारयित्वैव पार्थिवं विश्वकर्मणा ।
स्थास्यामश्च त्रयस्त्रिंशत्कोटि देवा अपि प्रियाः ॥७६॥ देवतीर्थे तटे तत्र नः स्थास्यन्ति प्रवाहितः ।
ऋषितीर्थे च ऋषयो मानवाश्चक्रतीर्थके ॥७७॥ शुक्लतीर्थे च कृष्णाद्याः सर्वे वै परमेश्वराः ।
ब्रह्मतीर्थे तथा मुक्ताः स्थास्यन्ति महीमानकाः ॥७८॥ एवं वै नार्मदे देशे वत्स्यामो वयमादरात् ।
कार्तिक्यां च करिष्यामो वैकुण्ठं तत्र नूतनम् ॥७९॥ माघ्यां विवाहविधये यास्यामो भृगुपत्तनम् ।
इति सर्वान् विनिर्दिश्य कृष्णनारायणः प्रभुः ॥1.382.८०॥ आहूय पृथिवीं देवीं समाज्ञापयदच्युतः ।
कुरु रेवातटं रिक्तं शतयोजनविस्तरम् ॥८१ ॥ समतलं समुद्यानैर्व्यवस्थितैः सुशोभितम् ।
सर्वखाद्यखनियुक्ताः शालास्तत्र च कारय ॥८२॥ वस्तूनि चापि सर्वाणि तत्रोपस्थापय प्रिये ।
सस्यान्नानि फलपत्रकन्दमूलानि सर्वथा ॥८३॥ वेषवाराणि दिव्यानि गन्धचूर्णानि यानि च ।
मिष्टान्नानि च मृष्टानि शर्करादीनि चापि वै ॥८४॥ उपस्थापय ते गर्भे गह्वरेषु बहूनि च ।
भव दिव्या मम योगाद् वैकुण्ठाभा वसुन्धरा ॥८५॥ इत्याशीर्वादमादाय भूमिस्तत्र समागता ।
शतयोजनविस्तारे भूगर्भे सर्वसम्पदः ॥८६॥ रचयित्वा निधायैव स्वस्था चास्ते मुदान्विता ।
वरुणं जलदेवं च समाहूय नरायणः ॥८७॥ आदिदेशाऽमृतादीनां पेयानां पयसामपाम् ।
दध्नां च मादकानां च घृतानां रसिनां तथा ॥८८॥ मधूनां गूडवारीणां द्रुमाणां रसशालिनाम् ।
सोमवल्लीकल्पलताकल्पद्रुमादिसम्पदाम् ॥८९॥ रसानां च प्रवाहाणां पेयानां विपुलान् ह्रदान् ।
कर्तुं भर्तुं दिदेशाऽपि सोऽपि गत्वा तथाऽकरोत् ॥1.382.९० ॥ सूर्यं चन्द्रं विद्युतश्च वाडवाग्निं महानलम् ।
कृष्णनारायणश्चाज्ञापयामास महानसान् ॥९१ ॥ पाकशाला विविधाश्च वह्निशालाश्च बाष्पदाः ।
कर्तुं रचयितुं तत्र शीतोष्णकुण्डवैभवान् ॥९२॥ दीपप्रदीपशोभाश्च चन्द्रिकाशीतलप्रभाः ।
स्फीतालोकान्महालोकानन्धकारप्रकल्पकान् ॥९३ ॥ कण्डनीः पेषणीश्चुल्लीश्चोदकुम्भीश्च मार्जनीः ।
दिव्या दिव्यद्रवोपेताः कर्तुं दिदेश केशवः ॥९४॥ वायुं तथा समाहूय प्राणाँश्च मरुतस्तथा ।
व्यजनानां च तालानां मन्दसुगन्धशालिनः ॥९५॥ शीतान् वायून् क्वचित्तूष्णान् कर्तुमजीज्ञपद्धरिः ।
आकाशं च समाहूय चिदाकाशमथाऽकरोत् ॥९६ ॥ विभूतिं तत्र सम्प्रेष्य वैकुण्ठान्यमथाऽकरोत् ।
मेघान्प्राह हरिः कृष्णश्छत्राणि रचयन्त्विति ॥९७॥ इन्द्रं राजोपकरणान्याहर्तुं प्राह माधवः ।
कुबेरं सर्वरत्नाढ्ययन्त्रानयनमादिशत् ॥९८॥ यमं प्राह महासैन्यं शोभार्थं कुरु चाग्रगम् ।
शम्भुं प्राह हरिस्तत्र सगणं नर्तनाय वै ॥९९॥ वाद्यानां वादनार्थं तु सरस्वत्यै न्यवेदयत् ।
मण्डपानां रचनार्थं दिदेश विश्वकर्मणे ॥1.382.१० ०॥ शोभाऽऽधिक्यकरणार्थं प्रैरयद् देवशिल्पिनः ।
भृग्वादिष्टो गुरुर्लग्नं दृष्ट्वा विलिख्य पत्रिकाम् ॥१०१ ॥ धाम ययौ ददौ भूम्ने वाद्यान्यवादयच्च सः ।
नारदं प्रेषयामासाऽऽह्वनार्थं त्रिषु सृष्टिषु ॥१ ०२॥ बलिशेषादयः पातालस्था आकारितास्तथा ।
पर्वताद्याः सरितश्च तीर्थानि जडचेतनाः ॥१०३ ॥ ऋषयो मुनयो देवाः पितरो ब्रह्मचारिणः ।
साध्व्यश्च साधवः सर्वे सात्वता आहुतास्तथा ॥१ ०४॥ ईशाश्चेशेश्वराश्चापि भगवन्तो दिगीश्वराः ।
लोकपालाः प्रजापालास्तत्त्वेशाः परमेश्वराः ॥१ ०५॥ ब्रह्माणो विष्णवो रुद्रा आदित्या वसवस्तथा ।
वैराजा वालखिल्याश्च याम्या ग्रहाश्च तारकाः ॥१ ०६॥ केतवश्चावरणस्था ईश्वरा अमृताऽक्षराः ।
वैकुण्ठस्थाश्च गोलोकवासिनः श्वेतधामगाः ॥१ ०७॥ मायालोकपराश्चान्ये तेजःपरास्तथाऽपरे ।
मुक्ताश्च धामवासाश्च शक्तयो मुक्तयोषितः ॥१ ०८॥ ब्रह्माण्यः साङ्ख्ययोगिन्यो भगवत्यश्च देवताः ।
ईश्वरिण्यस्तथाऽऽर्ष्यश्च वेदा वेदान्य इत्यपि ॥१ ०९॥ अवतारास्तथा चावतारिण्यो हरियोषितः ।
मानव्यो वल्लिकाः सर्वा काश्यप्यः प्रमदास्तथा ॥1.382.११ ०॥ कुमारिकाश्च सधवास्तथा हरिधवाः पराः ।
जडाश्च चेतनाः सर्वाः समहूताश्च योषितः ॥१११ ॥ *कृष्णनारायणस्यात्र भार्गव्या सह लग्नके ।

  • विवाहोत्सववृद्ध्यर्थं माध्यामायान्तु मद्गृहे ॥११ २॥ अक्षराधिपतिः साक्षात्पुरुषोत्तमसञ्ज्ञकः ।
    आकारयाम्यतिप्रेम्णैकादश्यां मद्गृहे शुभे ॥११ ३॥ मण्डपारोहणे याने कन्यापितृगृहे तथा ।
    सहायाः सन्तु सर्वे वै स्वयं तुष्याम्यहं हरिः ॥१ १४॥ अक्षरे मम धाम्न्यत्र समागच्छन्तु सगृहाः ।
    सर्वे वयं गमिष्यामो भुवि भार्गवपत्तनम् ॥१ १५॥ नर्मदायास्तटे रम्ये शुक्लतीर्थे कृताश्रमे ।
    भार्गव्यास्तु विवाहार्थं ततो यास्याम ईश्वराः ॥११६ ॥ कुङ्कुमपत्रिकास्त्वेवं ब्रह्माण्डेषु प्रतिस्तरम् ।
    प्रेषिताः पार्षदैश्चाथ मङ्गलान्यभवँस्ततः ॥१ १७॥ देव्यस्तु गीतिकाश्चक्रुर्मङ्गलायतनाः शुभाः ।
    कृष्णनारायणं पिष्टचूर्णमर्दनमाचरन् ॥१ १८॥ वादकाश्चारुवाद्यानि सर्वतश्चाप्यवादयन् ।
    जगुस्तु देवगन्धर्वा नर्तक्यो नृत्यमाचरन् ॥११ ९॥ महीमानाः समाजग्मुरक्षराख्यं गृहं प्रति ।
    मानं सत्कारमाचक्रे भगवान् पुरुषोत्तमः ॥1.382.१ २०॥ भोजयामास दिव्यानि मिष्टान्नान्यमृतानि च ।
    पाययामास दिव्यानि वारीण्यमृतकानि च ॥१२१ ॥ शृङ्गारवेषरम्याणि यानवाहनकानि च ।
    कोटिशो हस्तिनः श्वेता गरुडाः कोटिशस्तथा ॥१ २२॥ हंसाः सिंहा वृषा नीलकण्ठाश्चापि च कोटिशः ।
    अश्वाश्च कोटिशो दिव्याः शरभा गवयादयः ॥१ २३॥ अर्बुदाः शेषशय्याश्च शिबिकाः कोटिकोटिशः ।
    पर्य्यः सपक्षाश्चानन्ता ईशान्यः पक्षचारिकाः ॥१ २४॥ संयुञ्जन्ति स्म वाहिन्यां विवाहप्रोत्सवोत्सुकाः ।
    अनन्ताश्चाक्षरमुक्ता गोलोकस्था अनन्तकाः ॥१ २५॥ श्रीकृष्णेन सह याता वैकुण्ठस्था असङ्ख्यकाः ।
    अमृतस्था हिरण्यस्था आवृतिस्था विराट्स्थिताः ॥१२६ ॥ सत्यस्थाश्च जनादिस्था देवाः सृपाश्च मानवाः ।
    स्थावरा जङ्गमाः सर्वे वाहिन्यामाययुर्मुदा ॥१ २७॥ कृष्णनारायणस्याऽस्ति भार्गव्या सह लग्नकम् ।
    गच्छामस्तद्दर्शनार्थं समायान्तु कुटुम्बिनः ॥१२८॥ इति सर्वे मुदा याताः पूजिता भोजितास्तथा ।
    आबालवृद्धाः सम्भूय वाहिन्यां मिश्रितास्तदा ॥१ २९॥ वरः शृगारितः सम्यग् यथा राधेश्वरोऽपरः ।
    साऽक्षतकुङ्कुमपुष्पमालाम्बरविभूषणैः ॥1.382.१३ ०॥ रत्नमौक्तिकसौवर्णशृङ्खलोर्मिककज्जलैः ।
    सुगन्धरसचूर्णाद्यैराशीर्भिर्वर्धितः पुनः ॥१३१ ॥ भार्गव्याश्च विवाहार्थं ययौ षोडशहायनः ।
    अक्षरब्रह्मलोकाद्वै वैकुण्ठलोकलम्बिनी ॥१ ३२॥ वाहिनी साऽभवद्दीर्घा वरपक्षानुयायिनी ।
    नृत्यमङ्गलवाद्यादिकण्ठघोषादिरञ्जिता ॥१३३ ॥ अर्बुदाऽर्बुदसङ्ख्यास्था शुक्लतीर्थं समाययौ ।
    ब्रह्माण्डेषु च सर्वेषु मङ्गलान्यभवँस्तदा ॥१ ३४॥ कोटिभूमिकवैकुण्ठे दिव्ये रेवातटे शुभे ।
    शतयोजनविस्तारे लक्षयोजनसूच्छ्रये ॥१३५ ॥ नारायणेच्छयाऽगम्याऽऽयतोच्छ्रायमये शुभे ।
    असङ्ख्यवाहिनीलोका ययुस्तत्र हरीच्छया ॥१३६ ॥ अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ।
    गरिमा वशिता कामावसायिता च सिद्धयः ॥१ ३७॥ भवन्ति तु हरेर्यत्र तत्राश्चर्यं नु वै किमु! ।
    ब्रह्माण्डान्यप्यसङ्ख्यानि यद्रोम्णा विवरेषु वै ॥१ ३८॥ अणुमात्रे स्थले सन्ति तत्राऽऽश्चर्यं नु वै किमु ।
    एवं समागता शुक्लतीर्थे सा वरवाहिनी ॥१३ ९॥ विशश्राम सुखं तत्र नैजे वैकुण्ठके मुदा ।
    स्नाताश्च भोजिताः सुप्ता धामधामनिवासिनः ॥1.382.१४०॥ सर्वत्र मङ्गलं जातं सोत्सुकाः प्राणिनस्तदा ।
    आयान्ति शुक्लतीर्थं ते विवाहः पद्मयोरिति ॥१४१ ॥ सावित्र्या सहितो ब्रह्मा भवान्या च भवः स्वयम् ।
    अनन्तश्चापि भोगिन्या धर्मो मूर्त्यादिभिः सह ॥१४२॥ भास्करः प्रभया साकं स्वाहया तु हुताशनः ।
    स्मृद्ध्या साकं कुबेरश्च वरुणो वारुणीयुतः ॥१४३ ॥ पवनश्चापि चाञ्जन्या यमो धूम्या सहाऽऽययौ ।
    रोहिण्यादियुतश्चन्द्रः शचीयुक्तः सुरेश्वरः ॥१४४॥ रुद्राण्यादियुता रुद्रा आदित्याः सह सञ्ज्ञया ।
    वसवश्चापि गन्धर्वाः किन्नरा देवदानवाः ॥१४५ ॥ आययुः शुक्लतीर्थं ते विवाहः पद्मयोरिति ।
    दृष्ट्वा तु देवताद्या वै वैकुण्ठं नूतनं कृतम् ॥१४६ ॥ आकाशाच्च विमानैश्च सम्प्राप्य नर्मदातटम् ।
    पत्तनं नूतनं चैव भृगुकच्छसमीपतः ॥१४७॥ मुक्तामाणिक्यहीरादिरत्नराजिविराजितम् ।
    परितश्चतुरस्रं च शतयोजनसम्मितम् ॥१४८॥ सप्तभिः परिखाभिश्च गम्भीराभिस्तु वेष्टितम् ।
    प्राकारैः षोडशलक्षैस्त्रयस्त्रिंशत्सरोवरैः ॥१४९ ॥ सपद्मैः सर्वतोभद्रैः पुष्पोद्यानाऽयुताऽयुतैः ।
    प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृतम् ॥1.382.१५ ०॥ आमोदितं च शीतेन मन्दचन्दनवायुभिः ।
    तरुभिः कोटिलक्षैश्च भूषितं चाम्रभूरुहैः ॥१५१ ॥ नारीकेलैश्च पनसैर्नवरङ्गैश्च दाडिमैः ।
    द्राक्षाभिर्नागवल्लीभिरेलालवङ्गकैश्च ह ॥१५२॥ बदरीभिश्च बिल्वैश्च जम्बूभिश्चम्पकैस्तथा ।
    बकुलैस्तिन्तिडीभिश्च जम्बीरैरिक्षुभिस्तथा ॥१५३ ॥ खर्जूरैर्नागरङ्गैश्च धात्रीभिः फलवद्द्रुमैः ।
    अन्यैरुद्यानवर्यैश्च युक्तं शाद्वलसम्प्लुतम् ॥१५४॥ असङ्ख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृतम् ।
    तत्तद्धाम्नां सुचित्रैश्च राजितं कलशान्वितैः ॥१५५॥ मणिसोपाननिकरैर्दिव्यस्तम्भोज्ज्वलं तथा ।
    दर्पणैः सूक्ष्मवस्त्रैश्च शोभितं श्वेतचामरैः ॥१५६॥ प्राङ्गणैः पद्मरागाद्यैरिन्द्रनीलपरिष्कृतम् ।
    सचत्वरैः राजमार्गैर्देवदेवीभिरञ्चितम् ॥१५७॥ दृष्ट्वा वैकुण्ठनगरं सर्वे ते विस्मयं ययुः ।
    विष्णुः पद्मः श्रीश्च पद्मा श्वशुरस्तु भृगुः स्वयम् ॥१५८॥ जामाता भगवान् यत्र किं न्यूनं यत्र वै भवेत् ।
    गान्धर्वाः किन्नरा विद्याधर्यः किन्नर्य ईशिकाः ॥१५९॥ नर्तक्यो गायिका वाद्यभाण्डका गायकास्तथा ।
    भिक्षुका गणका भट्टा भूपा वैद्याश्च सेवकाः ॥1.382.१६० ॥ नटा मल्ला बहुरूपा वेषध्रा मानवास्तथा ।
    सोत्साहा आययुस्तत्र विवाहः पद्मयोरिति ॥१६१ ॥ भृगुकच्छेऽपि सन्न्यासियतिनैष्ठिकयोगिनः ।
    भृग्वाहूता आययुर्वै विवाहः पद्मयोरिति ॥१६२॥ सनकश्च सनन्दश्च सनत् सनातनस्तथा ।
    आययुस्त्रिकोटिशिष्यैर्विवाहः पद्मयोरिति ॥१६३॥ दुर्वासा लक्षशिष्यैश्च लक्ष्यभृत्यैश्च कश्यपः ।
    पत्नीवतो लक्षशिष्यैर्विवाहः पद्मयोरिति ॥१६४॥ गौतमोऽयुतशिष्यैश्च वाल्मीकोऽयुतशिष्यकैः ।
    शुक्रश्च कोटिशिष्योऽगुर्विवाहः पद्मयोरिति ॥१६५ ॥ भारद्वाजोऽयुतशिष्यैः कोट्या बृहस्पतिः स्वयम् ।
    अङ्गिरोऽयुतशिष्यैश्च विवाहः पद्मयोरिति ॥१६६ ॥ लक्षशिष्यैर्वशिष्ठश्च प्रचेता लक्षशिष्यवान् ।
    पुलस्त्यो लक्षशिष्योऽपि विवाहः पद्मयोरिति ॥१६७॥ अगस्त्यो लक्षशिष्यैश्च पुलहो लक्षशिष्ययुक् ।
    क्रतुर्लक्षेण चात्रिस्तु कोटिशिष्येण चागतः ॥१ ६८॥ मरीचिर्लक्षशिष्यैश्च शतानन्दः सहस्रकैः ।
    भृगोर्गृहं समाजग्मुर्विवाहः पद्मयोरिति ॥१६९ ॥ सार्धं सहस्रशिष्यैश्च ऋष्यशृङ्गो विभाण्डकः ।
    पाणिनिः कोटिशिष्यैश्चाऽयुतैः कात्यायनस्तथा ॥1.382.१७०॥ याज्ञवल्क्यः सहस्रैश्च व्यासः कोटिप्रशिष्यकैः ।
    गर्गोयुतेन शिष्याणां विवाहः पद्मयोरिति ॥१७१ ।
    गालवोऽपि सहस्रेण सहस्रेण च सौभरिः ।
    कोटिना लोमशश्चापि विवाहः पद्मयोरिति ॥१७२॥ सान्दीपनिर्देवलश्च मार्कण्डेयश्च लक्षकैः ।
    पञ्चशिखश्च गोपालो वोढुश्च लक्षशिष्यकैः ॥१७३ ॥ स्वयम्प्रकाशस्तथाऽहं नरो नारायणः प्रभुः ।
    विश्वामित्रः कोटिभिश्च विवाहः पद्मयोरिति ॥१७४।
    जरत्कारुश्च लक्षेणाऽस्तीकश्चाऽयुतशिष्यकैः ।
    पर्शुरामः सहस्रेण विवाहः पद्मयोरिति ॥१७५।
    वत्सः शतेन दक्षस्त्रिशतेन कपिलोऽयुतैः ।
    सवर्तोऽयुतशिष्याद्यैर्विवाहः पद्मयोरिति ॥१७६ ॥ उतथ्यः शतशिष्यैश्च शतैश्चापि च भागु रिः ।
    समाययुस्त्वसङ्ख्याता विवाहः पद्मयोरिति ॥१ ७७॥ भृगोः ख्यात्यां समुत्पन्नां लक्ष्मीं नारायणप्रियाम् ।
    कृष्णं लग्नयितुं यामो विवाहः पद्मयोरिति ॥१७८॥ देवौ धाताविधातारौ मेरोर्जामातरावुभौ ।
    लक्ष्म्याश्च भ्रातरौ तेषां सम्मानं वै प्रचक्रतुः ॥१७९॥ आयतिर्नियतिश्चापि मेरोः कन्ये पतिव्रते ।
    तयोर्धातृविधातृभ्यां प्राणो मृकण्डुरौरसौ ॥1.382.१८०॥ मार्कण्डेयो मृकण्डोश्च प्राणोद् वेदशिरा सुतः ।
    मरीचेरपि सम्भूतौ पूर्णमासः सुतस्तथा ॥१८१ ॥ कन्याचतुष्टयं तुष्टिर्वृष्टिः कृष्टिश्चापचितिः ।
    विरजाः पर्वतश्चोभौ पूर्णमासस्य वै सुतौ ॥१८२॥ पुलहस्य क्षमा पत्नी पुत्राः कर्दम इत्यथ ।
    वरीयाँश्च सहिष्णुश्च कनीयाँश्चेति वै ययुः ॥१८३ ॥ अत्रेः पत्नी ह्यनसूया पुत्राः सोमश्च दत्तकः ।
    दुर्वासाश्चाथाङ्गिरसः पुत्री नाम्ना स्मृतिस्तथा ॥१८४॥ वासिष्ठाः शक्तिमुख्याश्च वाह्नेया क्रतुपुत्रकाः ।
    अग्निष्वात्ता बार्हिषदा आज्यपाः सोमपास्तथा ॥१८५॥ वालखिल्याश्च ऋषयो धरणी मेरुभामिनी ।
    पर्वताः सरितश्चापि सरांस्युपवनानि च ॥१८६॥ एवमृषीणां विस्तारा वंशास्तत्र महोत्सवे ।
    भृगोर्गृहं समायाता विवाहः पद्मयोरिति ॥१८७॥ मत्स्यः कूर्मो वराहश्च नृसिंहः ऋषभस्तथा ।
    कपिलो वासुदेवाश्च पृथुर्दत्तो मुनीश्वरः ॥१८८॥ हंसो हरिर्वामनश्च पर्शुरामः कुमारकाः ।
    यज्ञो रामो ह्यग्रीवो नारदो राजराजकः ॥१८९॥ व्यासः कृष्णश्च बुद्धश्च कल्किर्नारायणः स्वयम् ।
    पलीव्रतस्तथा चान्ये शिष्याः योगिप्रयोगिणः ॥1.382.१ ९०॥ सौराष्ट्रीया रैवताद्रेर्योगसिद्धाः समाययुः ।
    पत्नीयुक्ताः समायाता विवाहः पद्मयोरिति ॥१९१ ॥ कन्यापक्षस्य माण्डप्या ह्यासन् कोट्यब्जकाऽधिकाः ।
    वरपक्षस्य वाहिन्या ह्यासँस्ततोऽप्यसङ्ख्यकाः ॥१ ९२॥ द्वादश्यां भोज्यपानाद्यैः सत्कृता महीमानकाः ।
    विशश्रमुश्च ते रात्रौ गीतनृत्यादिरञ्जिताः ॥१ ९३॥ मङ्गलानि विविधानि लोकाचाराः कृताः पराः ।
    हृष्टसद्ध्रदयाः सर्वे ह्यासन् प्रसन्नतोषिताः ॥१९४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भृगोः पुत्र्या भार्गव्या लक्ष्म्या कृततपसा तुष्टः श्रीकृष्णनारायणो भृगुकच्छनिकटे शुक्लतीर्थे वैकुण्ठं कारयित्वा विवाहार्थं समागतस्तद्वाहिनीभृगुमहीमानादिवर्णननामा द्व्यशीत्यधिकत्रिशततमोऽध्यायः ॥३८२॥