३७७

श्रीनारायण उवाच-
शृणु लक्ष्मि! स्वयं राधा गोलोकस्था हरिप्रिया ।
पुत्रीं लक्ष्मीं तथा गङ्गां सरस्वतीं च पद्मिकाम् ॥१ ॥ प्राह धर्मान् पातिव्रत्यपरान् प्रभां शिवां तथा ।
शृण्वन्तु च सुताः सर्वा धर्मान् वदामि शाश्वतान् ॥२ ॥ स्त्रीणां धर्माः पातिव्रत्यं नाऽस्मात्परोऽस्ति कश्चन ।
तत्र भुक्तिर्महामुक्तिरात्मानन्दश्च शाश्वतः ॥३ ॥ वर्णानामाश्रमाणां च त्यागिनां गृहिणामपि ।
विधवानां वैष्णवानां सतां स्त्रीणां च सर्वथा ॥४ ॥ पुत्राणां चापि कन्यानां शिष्याणां भृत्यशालिनाम् ।
पातिव्रत्यं परो धर्मः प्रजानां सर्वथा सुताः! ॥५ ॥ ध्यानपूता सदा नारी कुरुते पतिसेवनम् ।
नित्यं भुङ्क्ते तत्प्रसादं कृष्णे निवेद्य सर्वथा ॥६ ॥ विष्णुप्रसादभोक्त्री च जीवन्मुक्ता सती भवेत् ।
नित्यं तपस्यानिरता शुद्धा शान्ता धिया युता ॥७ ॥ व्रततीर्थाश्रिता नारी सर्वदाऽस्ति पतिव्रता ।
विष्णुमन्त्रं गृहीत्वा च कृत्वा सद्गुरुसेवनम् ॥८ ॥ प्राप्याऽऽशिषो गुरोः शिष्या सम्पद्यते पतिव्रता ।
गुर्वाज्ञा तु सदा पाल्या सर्वं तस्मै निवेदयेत् ॥९ ॥ सर्वेषामपि वन्द्यानां पिता चास्ति महान् गुरुः ।
पितुः शतगुणा माता मातुः शतगुणः सुरः ॥1.377.१० ॥ मन्त्रदः सद्गुरुस्तत्र सुराणां वै चतुर्गुणः ।
नारायणश्च भगवान् गुरुः प्रत्यक्ष ईश्वरः ॥११ ॥ पतिरेव गुरुर्देवः कृष्णनारायणात्मकः ।
प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः ॥१ २॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः ।
गुरौ पत्यौ सर्वदेवास्तिष्ठन्ति सततं मुदा ॥१३ ॥ गुरौ तुष्टे हरिस्तुष्टस्तस्मिँस्तुष्टे च देवताः ।
गुरोः पादोदकं पीत्वा तीर्थस्नाता भवेत् सती ॥१४॥ मुच्यते सर्वपापेभ्यो विष्णुलोकाय कल्पते ।
सा स्नाता सर्वतीर्थेषु सर्वयज्ञेषु दीक्षिता ॥१५॥ पतिपादोदकैर्या स्त्री ह्यभिषेकं स्वयं चरेत् ।
गङ्गाजलाद् दशगुणं शालग्रामजलं शुभम् ॥१६॥ ततोऽपि दशधा श्रेष्ठं पतिपादोदकं मतम् ।
नित्यं या सेवते पत्नी जीवन्मुक्ता सुरोपमा ॥१७॥ साध्वीनां नित्यकृत्यं तु स्वामिप्रसादभोजनम् ।
यत्नेन पूजनं तस्य तत्पादोदकसेवनम् ॥१८॥ पृथिव्यां यानि तीर्थानि पतिपादोदके प्रिये! ।
तिष्ठन्ति पत्निकासेवाफलसिद्ध्यै हि सर्वदा ॥१ ९॥ पतिपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी ।
तावत्पत्नी महालक्ष्मीस्वरूपा पूज्यते सुरैः ॥1.377.२० ॥ स्वामिप्रसादभोक्त्री वै पवित्रां कुरुते महीम् ।
तीर्थानि च प्रजाश्चापि जीवन्मुक्ता यतो हि सा ॥२१ ॥ पतिं प्रति पदा गच्छेद् व्रतानां फलभागिनी ।
पदे पदेऽश्वमेधस्य लभते सा फलं सती ॥२२॥ वह्निवायुसमा पूता तेजसा भास्करोपमा ।
वैकुण्ठे मोदते पश्चात्पत्या च हरिणा समम् ॥२३ ॥ विष्णुमन्त्रोपासिका या वैष्णवी पतिसेविना ।
न हि तस्याः परा देवी पावनी विद्यते भुवि ॥२४॥ हरेर्भक्ता महासाध्वी स्वामिसेवापरायणा ।
वैष्णवी या भवेत्तस्या मुखान्नारायणेति वै ॥२५ ॥ निर्गलितं हरेर्नाम मन्त्ररूपं प्रजायते ।
यस्य कर्णं विशेत् सोऽपि महापूतः प्रजायते ॥२६ ॥ भित्त्वा ब्रह्माण्डमखिलं सोपि यायाद्धरेः पदम् ।
पूर्वान्सप्त परान्सप्त सप्त मातामहादिकान् ॥२७॥ सोदरानुद्धरेद्भक्ता तत्प्रसूँ तत्प्रसूप्रसूम् ।
ऐकान्तिकी वैष्णवी तु पुंसां लक्षं समुद्धरेत् ॥२८॥ वयोहीना ज्ञानहीना विद्याहीनाऽपि सर्वथा ।
जातिहीना क्रियाहीना पातिव्रत्यपरा यदि ॥२९॥ सर्वश्रेष्ठा रमातुल्या कोटिधर्मान्विता हि सा ।
उद्धारयति लोकाँश्च पातिव्रत्यबलात्सती ॥1.377.३ ०॥ वयोहिनस्तथाऽल्पायुर्ज्ञानहीनोऽप्यपण्डितः ।
विद्याहीनो जातिहीनो मूर्खान्मूर्खोऽतिपातकी ॥३ १ ॥ अनाश्रमी यशोहीनो रोगी व्याधिसमन्वितः ।
निर्वंशो वंशहीनश्च भार्याहीनो दरिद्रकः ॥३२॥ विष्णुभक्तिविहीनश्च धर्मकर्मादिवर्जितः ।
उदासीनो दुराचारो धनहीनोऽपि मानवः ॥३३ ॥ सत्याः पतिव्रतायाश्च साध्व्या आशीर्वयोबलैः ।
स्वर्गं स्वेष्टं सुखस्मृद्धिं भुक्तिं मुक्तिं प्रपद्यते ॥३४॥ सन्न्यासार्जनमात्रेण नरो नारायणो भवेत् ।
पतिसेवाप्रलाभेन नारी नारायणी भवेत् ॥३५॥ पूर्वकर्माणि दग्ध्वा च परकर्मनिकृन्तनम् ।
कुरुते सधवा साध्वी गच्छति हरिमन्दिरम् ॥३६॥ सन्न्यासिनां पदस्पर्शात् सद्यः पूता धरा यथा ।
सतीनां तु पदस्पर्शात्तथा पूता वसुन्धरा ॥३७॥ सद्यः पुनन्ति तीर्थानि वैष्णवी वै पतिव्रता ।
पतिव्रतानां वचनान्निष्पापा जायते प्रजा ॥३८॥ पतिव्रतां भोजयित्वा त्वश्वमेधफलं लभेत् ।
नत्वा तां भावतो दृष्ट्वा राजसूयफलं लभेत् ॥३९॥ फलं सन्न्यासिनां तुल्यं यतीनां ब्रह्मचारिणाम् ।
पतिव्रतानां साध्वीनां वैष्णवीनां सदा सुताः ॥1.377.४०॥ ब्राह्मणी पतिहीनापि भवेन्निष्कामिनी सदा ।
एकभुक्ता दिनान्ते सा हविष्यान्नरता भवेत् ॥४१ ॥ न धत्ते दिव्यवस्त्रं च गन्धिद्रव्यं सुतैलकम् ।
स्रजं च चन्दनं चापि शङ्खसिन्दूरभूषणम् ॥४२॥ सदाऽराजसवस्त्रा स्यान्नित्यं नारायणं भजेत् ।
कृष्णनारायणसेवां कुर्यात्तु नित्यमेव सा ॥४३ ॥ तन्नामोच्चारणं पुत्र्यः! कुर्याच्च भक्तितः सदा ।
पुत्रतुल्यं च पुरुषं पश्येद् वैधव्यधर्मतः ॥४४॥ न तथाऽद्याच्च मिष्टान्नं कामवृद्धिकरं तु यत् ।
वैभवान्नोपयुञ्ज्याच्च पतिं नारायणमृते ॥४५॥ सापि पतिव्रतातुल्या पतिकृष्णपरायणा ।
शृणुयात्तु सतां धर्मान् गुरोः सेवां समाचरेत् ॥४६॥ पातिव्रत्यपरा साध्वी मुच्येत भवबन्धनात् ।
पुत्र्यः शृणुत साध्वीनां कर्तव्यं प्रवदामि वै ॥४७॥ नित्यं तु भर्तर्यौत्सुक्यात् हृदा स्थेयं तु योषिता ।
तस्य पादोदकं भक्त्या भोक्तव्यं तदनुज्ञया ॥४८॥ व्रतं तपस्यां देवार्चां कुर्यात्पतिकृताऽऽज्ञया ।
कुर्याच्चरणसेवां च स्तवनं परितोषणम् ॥४९॥ पत्याज्ञारहितं कार्यं कुर्यान्नैव पतिव्रता ।
नारायणादधिकं वै कान्तं ध्यायेत्तु वै सती ॥1.377.५०॥ परपुंसां रजोभावप्रसङ्गं नाऽऽचरेत् सती ।
यात्रोत्सवं नर्तनं च गायनं क्रीडनं तथा ॥५१ ॥ पत्यर्थमाचरेत् साध्वी नान्यार्थं वै कदाचन ।
यद्भक्ष्यं स्वामिनो नित्यं साध्वीनां तु तदेव वै ॥५२॥ न त्यजेत्पतिसङ्गं सा साध्वी सेवापरायणा ।
उत्तरे नोत्तरं दद्यात्स्वामिनस्तु पतिव्रता ॥५३॥ न कोपः कुरुते शुद्धा ताडिता चापि कोपतः ।
क्षुधितं भोजयेत्कान्तं दद्यात्पानं च भोजनम् ॥५४॥ निद्रास्थं तं बोधयेन्न प्रेरयेन्नैव कर्मसु ।
पुत्रस्नेहाच्छतगुणं स्नेहं कुर्यात् प्रिये सती ॥५५॥ पतिर्बन्धुर्गतिर्भर्ता दैवतं कुलयोषितः ।
सुधाधावल्यवदनं कान्तं साध्वी स्मितानना ॥५६॥ पश्येद्वै भक्तिभावेन सर्वसम्पत्करी भवेत् ।
पुरुषाणां सहस्रं च सती स्त्री वै समुद्धरेत् ॥५७॥ पतिः पतिव्रतानां च मुच्यते सर्वपातकात् ।
नास्ति तेषां कर्मभोगः पातिव्रत्यबलात् खलु ॥५८॥ तया सार्धं कर्मशून्या मोदन्ते हरिमन्दिरे ।
पृथ्व्यां यानि तु तीर्थानि सतीपादेषु तान्यपि ॥५९॥ देवानां च मुनीनां च तेजः सतीषु विद्यते ।
तपस्विनां तपः सर्वं व्रतिनां विद्यते व्रतम् ॥1.377.६०॥ दातॄणां च फलं दाने तत्फलं तासु विद्यते ।
स्वयं नारायणः शम्भुर्विधाता देवतादयः ॥६१ ॥ ऋषयो मुनयश्चापि साध्वीतो बिभ्यति ध्रुवम् ।
पतिव्रतां नमस्कृत्य मुच्यते पापबन्धनात् ॥६२॥ त्रैलोक्यं भस्मसात् कर्तुं क्षणेनैव पतिव्रता ।
स्वतेजसा समर्था वै महापुण्यवती सती ॥६३॥ सतीनां च पतिः साधुः पुत्रश्चापि शुचिः सदा ।
नहि तस्य भयं किञ्चिद् देवेभ्यश्च यमादपि ॥६४॥ शतजन्मपुण्यवतां गेहे जाता पतिव्रता ।
पतिव्रताप्रसूः पूता जीवन्मुक्तः पिता तथा ॥६९॥ सती स्त्री प्रातरुत्थाय सन्त्यक्त्वा रात्रिवाससम् ।
भर्तारं च नमस्कृत्य करोति स्तवनं मुदा ॥६६॥ गृहकार्यं ततः कृत्वा स्नात्वा धौते च वाससी ।
गृहीत्वा शुक्लपुष्पं च भक्तितः पूजयेत् पतिम् ॥६७॥ स्नापयित्वा सुगन्धाढ्यजलेन निर्मलेन वै ।
तस्मै दत्वा धौतवस्त्रे तत्पादौ क्षालयेन्मुदा ॥६८॥ आसने वासयित्वा च दत्त्वा भालेऽस्य चन्दनम् ।
सर्वाङ्गगन्धलेपं च दत्वा मालां गलेऽपि च ॥६९॥ उपचारैः पतिं स्तुत्वा प्रपूज्य प्रणमेत् सती ।
धूपं दीपं जलं भोज्यं दत्वा ताम्बूलीमित्यथ ॥1.377.७०॥ नीराजयेत्पतिं प्रीत्या कृष्णनारायणात्मकम् ।
प्रदक्षिणं नमस्कारं कृत्वा च स्तवनं चरेत् ॥७१ ॥ नमः कान्ताय सद्भर्त्रे शिरश्छत्रस्वरूपिणे ।
नमो यावत्सौख्यदाय सर्वदेवमयाय च ॥७२॥ नमो ब्रह्मस्वरूपाय सतीसत्योद्भवाय इव ।
नमस्याय प्रपूज्याय हृदाधाराय ते नमः ॥७३॥ सतीप्राणस्वरूपाय सौभाग्यश्रीप्रदाय च ।
पत्नीनां परमानन्दस्वरूपिणे च ते नमः ॥७४॥ पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।
पतिर्वंशधरो देवो ब्रह्मात्मने च ते नमः ॥७५॥ क्षमस्व भगवन् दोषान् ज्ञानाऽज्ञानविधापितान् ।
पत्नीबन्धो दयासिन्धो दासीदोषान् क्षमस्व वै ॥७६॥ राधा प्राह ततः पुत्रीः स्वस्वपतिं प्रति ध्रुवम् ।
स्तवनं चेदृशं कार्यं सर्वेप्सितप्रदं तु वः ॥७७॥ ततः स्तोत्रमिदं पुण्यं सृष्ट्यादौ पद्मया कृतम् ।
सरस्वत्या च धरया गङ्गया रमया कृतम् ॥७८॥ सावित्र्याऽथ च पार्वत्या मुनिपत्नीभिरित्यपि ।
गीतं स्वस्वपतिं प्राप्य सर्वसामर्थ्यदं ततः ॥७९॥ पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ।
प्रसादरूपं चैतद्वै कम्भरया कृते युगे ॥1.377.८०॥ महालक्ष्म्या तथा गीतं प्रभया जयया तथा ।
माणिक्यया ललितया मोहिन्या कीर्तितं पुरा ॥८१ ॥ नरो नारीं शृणुयाच्चेल्लभते सर्ववाञ्च्छितम् ।
अपुत्रा लभते पुत्रं निर्धना लभते धनम् ॥८२॥ रोगिणी रोगमुक्ता स्यात् पतिहीना पतिं लभेत् ।
पतिव्रता पतिं स्तुत्वा तीर्थस्नानफलं लभेत् ॥८३॥ फलं च सर्वतपसां व्रतानां च फलं लभेत् ।
स्वर्गं मोक्षं च लभते पतिसन्तोषणात् सती ॥८४॥ यस्य माता गृहे नास्ति नास्ति भार्या पतिव्रता ।
अरण्यो तेन गन्तव्यं नरकान्मुक्तिरेव सा ॥८५॥ पतिं द्वेष्टि सदा दुष्टा विषतुल्यं च पश्यति ।
ददाति तस्मै नाऽऽहारं भर्त्सनं कुरुते सदा ॥८६॥ पूजनीयं मुनितुल्यं पापीयसी तु मानिनी ।
सततं तृणवन्मत्वा न्यक्कारं कुरुते पतिम् ॥८७॥ दुर्वाक्यवह्निना दग्धो मृततुल्यस्तु जीवति ।
यावज्जीवनपर्यन्तं सम्प्राप्य कुलटां स्त्रियम् ॥८८॥ तादृशी न गृहिण्युक्ता निरया कथिता तु सा ।
गृहिणी तु पतिभक्ता देवदैवतपूजिता ॥८९॥ सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरान् ।
प्राङ्गणे मङ्गलं दद्याद् गोमयेन जलेन च ॥1.377.९० ॥ गृहकृत्ये च निर्वर्त्य स्नात्वाऽऽगत्य गृहं सती ।
सुरं गुरुं पतिं नत्वा पूजयेद् गृहदेवताम् ॥९१ ॥ पतिं सम्भोजयित्वा साऽतिथिं सत्कृत्य भावतः ।
पुत्रपौत्रादिसहिता स्वयं भुङ्क्ते सुखं सती ॥९२॥ गुरौ पितरि पत्यौ च मातरि श्वशुरेऽपि च ।
श्वश्र्वा कुर्यान्नरबुद्धिं न कदापि पतिव्रता ॥९३॥ पिता माता गुरुर्भार्या शिष्यः पुत्रः सदाऽऽश्रितः ।
अनाथा भगिनी कन्या श्वश्रूः श्वशुर इत्यपि ॥९४॥ पतिस्तद्भ्रातरश्चैते सेव्याः पत्याज्ञया सदा ।
स्त्रीजातिर्वास्तवी शुद्धा ताश्च सर्वाः पतिव्रताः ॥९५॥ सर्वा जातिस्त्वेकरूपा त्वादौ सृष्टा स्वयम्भुवा ।
ताः सर्वाः प्रकृतेरंशाः पवित्राः सुखदाः सदा ॥९६॥ उत्तमा पतिभक्ता सा पतिधर्मसमन्विता ।
मध्यमा पतिभक्ता सा स्वार्थसंसाधिकाऽपि या ॥९७॥ कनिष्ठा पतिभक्ताऽपि पत्नी भक्तं पतिं श्रिता ।
तदन्या तु काममात्रपरा परेऽपि सङ्गता ॥९८॥ तिस्रस्तत्र तु धर्माय चतुर्थी धर्महानये ।
बोद्धव्या देहिना शश्वज्ज्ञात्वा योग्यां समुद्वहेत् ॥९९॥ इति ते कथितं लक्ष्मि! यद् राधोक्तं सुताः प्रति ।
ताश्च धर्मान्पातिव्रत्यपरान् श्रुत्वा मुदं ययुः ॥1.377.१०० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये गोलोके राधिकया स्वपुत्रीभ्यः कथितपतिव्रताचारधर्मपालनमाहात्म्यादिनिरूपणनामा सप्तसप्तत्यधिकत्रिशततमोऽध्यायः ॥३७७॥