३७६

श्रीनारायण उवाच-
शृणु लक्ष्मि! पातिव्रत्यं सीतायाश्चापि कीदृशम् ।
पत्यर्थं जीवनं दत्वा दुःखं त्वाजन्म वै महत् ॥१ ॥ अनुभूय महारण्ये राक्षसादिगृहादिषु ।
अन्ते पृथ्व्यां निमग्नाऽभूल्लक्ष्मीरूपाऽपि सा सती ॥२ ॥ कुशध्वजस्य सा पोष्या कन्या धरणिकुक्षिजा ।
धनुर्भङ्गं तु रामो वै कृत्वा तां परिणीतवान् ॥३ ॥ साकेताख्यनगर्यां वै नृपः शतमखोऽभवत् ।
तस्य पुत्रः शातमखी रामादित्यो बभूव ह ॥४ ॥ नरादित्यस्तु तद्भ्राता द्युवर्णातो बभूव ह ।
ब्रह्मणा प्रार्थितो विष्णुः कृष्णनारायणः स्वयम् ॥५ ॥ वासुदेवोऽभवद् भूमौ रामाऽऽदित्योऽतिधार्मिकः ।
द्यवर्णायां च भगवाँस्त्रेतायां प्रथमेऽभवत् ॥६ ॥ विश्वामित्रप्रेषितस्तु राक्षसानां वधाय सः ।
नरादित्येन सहितः प्रययौ ऋषिणा सह ॥७ ॥ दृष्ट्वा पाषाणरूपां तां गौतमेनाऽप्यधिश्रिताम् ।
पतिव्रतामहल्यां वै स्वमार्गे दिव्यनेत्रकः ॥८ ॥ विश्वामित्रं तु पप्रच्छ कारणं जगदीश्वरः ।
पूर्ववृत्तं तदा श्रुत्वा रामो भुवनपावनः ॥९ ॥ दिव्यरूपेण तां ज्ञात्वा पतिसेवापरायणाम् ।
पस्पर्श पादाङ्गुलिभिः सा बभूव तु पद्मिनी ॥1.376.१ ०॥ सा च रामाशिषं कृत्वा प्रययौ स्वामिना सह ।
विमानेन परं लोकं सत्यं स्वपतिसंश्रिता ॥११ ॥ शुभाशिषं ददौ रामादित्यायाऽपि तु गौतमः ।
अग्रे वामनपादाँऽकपावनं भूस्थलं ततः ॥१ २॥ ददर्श रामस्तत्रैवाऽलुण्ठद् रजोधृतीच्छया ।
पावनं तु रजो देहे तत्र प्रमृद्य भावतः ॥१ ३॥ विश्वामित्राश्रमं गत्वा हत्वा मारीचराक्षसम् ।
गत्वा तु मिथिलां शम्भुधनुर्भङ्गं विधाय च ॥१४॥ चकार पाणिग्रहणं सीताया लक्ष्मि! तत्र च ।
कृत्वा विवाहं भगवानयोध्यां प्रययौ मुदा ॥१५॥ राजा पुत्रं नृपं कर्तुमियेष कृतसादरम् ।
तप्ततीर्थोदकं तूर्णमानीय मुनिपुङ्गवान् ॥१६ ॥ कृताधिवासं रामार्कं सर्वमङ्गलसंयुतम् ।
दृष्ट्वा तु कलहानाम्नी रा्ज्ञी पूर्ववचोबलात् ॥१७॥ वारयामास राजानं पूर्वमङ्गीकृतं वरम् ।
रामस्य वनवासं च राजत्वं स्वसुतस्य वै ॥१८॥ अयोग्यस्यापि तस्यैव कालहेयस्य सर्वथा ।
वरं दातुं महाराजो नेयेष न्यायमार्गगः ॥१ ९॥ रामार्कस्तं नृपं प्राह धर्मसत्यान्वितं सुधीः ।
तडागशतदानेन यत्पुण्यं तु ततोऽधिकम् ॥1.376.२० ॥ वापीदानेन लोकेऽत्र लभ्यते मानवैः पितः! ।
दशवापीप्रदानेन यत्पुण्यं च ततोऽधिकम् ॥२ १ ॥ यज्ञेनैकेन लभ्येत सर्वथा मानवैर्भुवि ।
शतयज्ञप्रपुण्येन यत्सुखं च ततोऽधिकम् ॥२२॥ पुत्राऽऽस्यदर्शनेनाऽत्र लभ्यते कर्मभूमिषु ।
दर्शने शतपुत्राणां यत्पुण्यं च ततोऽधिकम् ॥२३॥ सत्यस्य पालनाद् राजन् लभते पुण्यवाञ्जनः ।
नहि सत्यात् परो धर्मो नाऽनृतात्पातकं परम् ॥२४॥ नास्ति धर्मात्परो बन्धुर्नास्ति धर्मात्परं धनम् ।
सत्यधर्मात्परः को वा स्वधर्मं रक्ष यत्नतः ॥२५॥ स्वधर्मे रक्षिते राजन् शश्वत्सर्वत्र मङ्गलम् ।
यशस्यं सुप्रतिष्ठां च प्रतापः पूजनं परम् ॥२६ ॥ चतुर्दशाब्दं धर्मेण त्यक्त्वा गृहसुखं भ्रमन् ।
वनवासं करिष्यामि सत्यस्य पालनाय ते ॥२७॥ कृत्वा सत्यं तु शपथमिच्छयाऽनिच्छयाऽथवा ।
न कुर्यात्पालनं यस्तु भस्मान्ता तस्य निष्कृतिः ॥२८॥ कुम्भीपाके पच्यते स यावद्वै ब्रह्मणो दिनम् ।
ततो मूको भवेत् कुष्ठी मानवः सप्तजन्मसु ॥२९॥ इत्युक्त्वा पितरौ नत्वा धृत्वा जटां सवल्कलाम् ।
यावद् गच्छत्यरण्यं स रामादित्यो नरार्कयुक् ॥1.376.३ ०॥ सीता पतिव्रता चापि प्रतस्थे स्वामिना सह ।
रामार्कस्तां जगादेदं प्रिये तिष्ठाऽत्र वाऽऽव्रज ॥३ १ ॥ दुःखानि बहुलान्येव वने सन्ति पदे पदे ।
त्वमशक्ताऽसि सोढुं तान्यखिलानि तु जानकि! ॥३ २॥ सीता प्राह कुमाराङ्गी पतिप्राणा पतिप्रिया ।
पतिधर्मपरा साध्वी पातिव्रत्यसुरक्षिणी ॥३३॥ जनकेनाऽर्पिता तुभ्यं नाऽन्यस्मै त्वर्पिताऽस्मि वै ।
पत्याज्ञा पालनीया मे धर्मोऽस्त्येव तथाप्यहम् ॥३४॥ प्रार्थयामि कृपासिन्धो! त्वां विना मरणं ध्रुवम् ।
ममाऽत्र स्याद् गतिर्नैव भवेन्मे मत्पतिं विना ॥३५॥ अरण्ये मरणं श्रेयः पत्युः सान्निध्यमेव मे ।
पतिं विना गतिर्नास्ति पत्नीनां पारलौकिकी ॥३६॥ ऐहिकी च गतिर्नैव विद्यते पतिमन्तरा ।
सुखं सुखे दुःखे दुःखं प्रसन्ने तु प्रसन्नता ॥३७॥ क्षुधिते क्षुधिता साध्वी तृप्ते तृप्ता सती भवेत् ।
स्वार्थानन्दपरा पक्षपातिनी नरकं व्रजेत् ॥३८॥ पतिभाग्येन सौभाग्यवती भवति साध्विका ।
पतिहीना सपतिका सजीवापि मृतैव सा ॥३९ ॥ नारी पार्श्वं स्वामिनोऽस्ति चार्धं साऽहं तवाऽस्मि तु ।
न वियोक्तुं तु योग्याऽहं स्वर्गं मे पतिरेव यत् ॥1.376.४०॥ दुःखिनं स्वामिनं त्यक्त्वा सुखं वाञ्च्छति स्वैरिणी ।
पतिव्रता महासाध्वी दुःखभागान् प्रविन्दति ॥४१ ॥ सर्वस्वस्य प्रदानेन यदि स्वामी सुखी भवेत् ।
प्राणैर्देहेन वा नार्या सुखनीयः पतिः सदा ॥४२॥ रक्षणीयः पतिर्नार्या देहं विक्रीय वाऽऽपदि ।
धनं यौते गतं कृत्वा रक्ष्यः स्वामी सुयोषिता ॥४३॥ स्वामी स्वस्याः परम्ब्रह्म धर्मः स्वामी सुखं विधिः ।
सर्वं स्वामी न चान्यो वै सुखयोगः कथञ्चन ॥४४॥ तस्मान्मया प्रभोः छायारूपया चानुनीतया ।
सहैव सर्वदा स्थेयं नात्र स्थेयं कथञ्चन ॥४५॥ यत्र पतिस्तत्र स्वर्गं वैकुण्ठं मोक्षणं तथा ।
राज्यं सम्पत् परा स्मृद्धिर्धर्मः शृङ्गार इत्यपि ॥४६ ॥ पतिं विना गृहं राज्यभवनं फेरुराड्गृहम् ।
भोग्यान्यपि च सर्वाणि विषतुल्यानि सर्वथा ॥४७॥ न स्वर्गं स्वर्गमेवोक्तं पतिः स्वर्गः सदा स्त्रियाः ।
न व्रतं व्रतमत्रोक्तं पतिरेव व्रतं स्त्रियाः ॥४८॥ न धर्मो धर्म एवोक्तः पतिर्धर्मः सदा स्त्रियाः ।
दानं जपस्तथा पूजा सौभाग्यं शान्तिरेव च ॥४९॥ स्वामिपार्श्वस्थितपत्न्याः सर्वं सिद्ध्यति नान्यथा ।
न फलं लभते स्वामिशून्या प्रोषितभर्तृका ॥1.376.५०॥ पश्य कान्त! स्त्रिया भाग्यं पत्यौ देशान्तरं गते ।
निस्तेजस्त्वं भवत्येवोत्साहशक्तिविवर्जितम् ॥५१ ॥ पतिशून्यं सार्वभौमं राज्यं वै मुण्डिकासमम् ।
पतियुक्ता पर्णकुटी माहेन्द्रपदतोऽधिका ॥५२ ॥ नार्या वनं वनं नैव भवनं भवनं न वै ।
वनं सपतिकं स्वर्गं निःस्वामिभवनं वनम् ॥५३ ॥ देहः सपतिको दिव्यो पतिशून्यः शवात्मकः ।
न भूषा भूषणं प्रोक्तं पतिरेव हि भूषणम् ॥५४॥ अपतिकाऽऽभूषणानि गणिकां ख्यापयन्ति ताम् ।
जलं चान्नं चाऽम्बराणि सौभाग्यद्रव्यमञ्जनम् ॥५५॥ पतियुक्तं सतेजस्कं त्वन्यथा दूषणप्रदम् ।
तस्मात्पत्न्या सदा सार्धं वस्तव्यं स्वामिना प्रभो ॥५६॥ पतिं पार्श्वे विना पत्नी विनाशाय हि कल्प्यते ।
मा मे नाशो भवेत् कान्त! वियुक्ताया गृहेऽत्र वै ॥५७॥ तथा कृपां परां कर्तुं त्वमेवाऽर्हसि केशव! ।
इत्युक्त्वा साश्रुनेत्रा सा धृतवल्कलवस्त्रका ॥५८॥ हार्दं रामस्य विज्ञाय सज्जाऽभूद् गमनाय वै ।
रामः प्राह वने साध्वि! क्षुधाऽसह्या भविष्यति ॥५९॥ सीता प्राह गृहे स्वामिन् क्षुधा मे न शमिष्यति ।
रामः प्राह वने साध्वि तृषा मृत्यु नयिष्यति ॥1.376.६ ० ॥ सीता प्राह गृहे स्वामिँस्त्वत्तृषा मारयिष्यति ।
रामः प्राह वने कान्ते! सिहाद्यैस्त्वं मरिष्यसि ॥६ १ ॥ सीता प्राह गृहे कान्तवियोगो मांसमत्स्यति ।
रामः प्राह वने पत्नि! चातपोऽसून् हरिष्यति ॥६ २ ॥ सीता प्राह गृहे रामविरहाग्निर्ज्वलिष्यति ।
शैत्याग्निर्वनिकः श्रेष्ठो गृहशैत्याग्निमानतः ॥६ ३ ॥ रामः प्राह वने दैत्यः कदाचित्त्वां हरिष्यति ।
सीता प्राह तदा रामो ध्येयकार्यो भविष्यति ॥६४॥ रामः प्राह ततो नाऽयं सकलङ्कां ग्रहीष्यति ।
सीता प्राह तदा सत्याः धर्मः प्रकाशमेष्यति ॥६५॥ रामः प्राह ततः पश्चाद्वियोगं सती चेष्यति ।
सीता प्राह ततः सीता वैकुण्ठे योगमेष्यति ॥६६॥ रामः प्राह शरीरेण सुखं दृष्टं न वै भवेत् ।
सीता प्राह त्वया साकं दुःखं दृष्टं न वै भवेत् ॥६७॥ रामः प्राह वने सीते! दुःखदा त्वं भविष्यसि ।
सीता प्राह गृहे त्यक्त्वाऽत्यतिदुःखो भविष्यसि ॥६८॥ अर्द्यमाना वने सीता क्लिश्यमाना मुहुर्मुहुः ।
पत्याधारा दुःखशब्दं श्वासेऽपि न गदिष्यति ॥६९॥ आनुकूल्यस्य सङ्कल्पं प्रातिकूल्यविवर्जनम् ।
सीता पतिव्रताऽरण्ये सर्वथैवाऽऽचरिष्यति ॥1.376.७०॥ वह्निना रक्षिता चाऽथ रामेणाऽप्यनुमोदिता ।
छायया राक्षसं क्षिप्त्वा पातिव्रत्यमविष्यति ॥७१ ॥ भ्रामयित्वा साक्षरान्वै राक्षसान् छायया सती ।
सीता सितत्वसंयुक्ता पुना रामं मिलिष्यति ॥७२॥ छाया वह्नौ विलीना वै भविष्यति पतीच्छया ।
धर्मरक्षाकरं वाक्यं मत्वा पत्युः पुनः सती ॥७३॥ पत्युः प्रियङ्करी सीता सती संशिक्षयिष्यति ।
गुर्वाश्रमोऽथवाऽरण्यं स्वर्गं मान्यं पतीच्छया ॥७४॥ पत्युर्वाक्यं परो धर्मः पतिः श्रीपरमेश्वरः ।
सीताद्वारा पती रामो हत्वा राक्षसकोटिकान् ॥७५॥ आज्ञापयिष्यति पत्नीं हृदि रक्षितुमिच्छुकः ।
वैकुण्ठे दिव्यरूपा च साकेते हृदयस्थिता ॥७६॥ जनैरदृश्या सीते! त्वं सेवां कुरु सदा मम ।
इत्याज्ञां सा समागृह्य धरण्यां वै प्रवेक्ष्यति ॥७७॥ तामिमां जानकीं बालां साकं नेतुं त्वमर्हसि ।
इत्युक्त्वा वनवासं वै गन्तुं प्रोत्साहसंयुता ॥७८॥ दिव्यरूपाऽभवत् सीता माया मार्गप्रदर्शिका ।
अग्रगा साऽभवत्तत्र रामः पश्यति तां तदा ॥७९॥ मानुष्या दृश्यतन्वा तु रामपृष्ठं ययौ सती ।
एवं सेवकरूपोऽसौ नराऽऽदित्योऽपि संययौ ॥1.376.८०॥ प्रययौ तु वनं रामादित्यः सीतानरार्कयुक् ।
पुत्रशोकाच्छतमखस्तत्याज स्वतनुं प्रिये! ॥८१ ॥ पालनाय पितुः सत्यं रामो बभ्राम कानने ।
कालान्तरे महारण्ये भगिनी रावणस्य च ॥८२॥ ददर्श रामं कामार्त्ता ब्राह्मणी राक्षसी हि तम् ।
प्राह शूर्पणखा राम! रूपधाम! गृहाण माम् ॥८३॥ रामः प्राह सभार्योऽहमभार्यं गच्छ मेऽनुजम् ।
एकपत्नीव्रतश्चाऽहं दुःखमन्यापरिग्रहः ॥८४॥ श्रुत्वा सा तु नरादित्यं मां भजस्वेत्युवाच वै ।
नरादित्यो ब्रह्मचारी तामुवाच हि राक्षसीम् ॥८५॥ न मे दारग्रहः कालो गच्छ सौम्ये! जनान्तरम् ।
क्रुद्धा शूर्पणखा प्राह यदि त्यजथो मां वृथा ॥८६ ॥ युवयोस्तु विपत्तिर्वै भविष्यति न संशयः ।
मम शापादयं रामो हृतभार्यो भविष्यति ॥८७॥ राक्षसीमित्युक्तवतीं मिषं वै रक्षसां वधे ।
कर्तुं शस्त्रेण चिच्छेद नरार्को नासिकां स्त्रियाः ॥८८॥ तन्निमित्तेन वै चतुर्दशसहस्रराक्षसान् ।
नरादित्यो यममार्गे प्रेषयामास सङ्गरे ॥८९॥ शूर्पणखा तपः कृत्वा कुब्जा जाता तपस्विनी ।
कृष्णं प्राप पतिं सा वै वेधोवरमवाप्य यत् ॥1.376.९०॥ अथ शूर्पणखा सिंहलाख्यं द्वीपं जगाम ह ।
तन्नृपं रावणं सा वै जगाद चेष्टितं हरेः ॥९१ ॥ रावणोऽपि शूर्पणखावाक्यात् क्रोधितमानसः ।
ज्ञात्वा सीतां सतीं हर्तुं चक्रे तु मानसं दृढम् ॥९२॥ मन्दोदर्या तस्य पत्न्या निषिद्धो रावणो बहु ।
परनार्यास्तत्र पतिव्रतायास्तु प्रधर्षणम् ॥९३ ॥ सर्वथा नाशफलकं मा याहि सिंहलेश्वर! ।
एवं सम्प्रार्थितश्चापि सीतां जहार मायया ॥९४॥ रामः सुग्रीवसाहाय्यो वरं दत्वा हनूमते ।
दत्वाऽङ्गुलीयकं विश्वासस्थानं वानरेश्वरम् ॥९५॥ हनूमान् प्रययौ व्योम्ना सिंहलद्वीपमेव तु ।
अशोककानने सीताच्छायां ददर्श शोकिताम् ॥९६॥ निराहारामतिकृशां रामनामजपस्थिताम् ।
रूक्षजटाभारयुतां ध्यायमानां पतिं प्रभुम् ॥९७॥ प्रणम्य मातरं रत्नाङ्गुलीयकं ददौ जगौ ।
रामसन्देशमेवाऽथ भस्मीचकार सिंहलम् ॥९८॥ रामदूतं च सोवाच साश्रुनेत्रा पतिव्रता ।
अये! जीवति मे रामो मच्छोकार्णवदारुणात् ॥९९॥ अपि मे कुशली नाथो न शोकेन हतः प्रभुः ।
अपि जाता वने तस्य स्वामिनो दुःखरूपिगी ॥1.376.१०० ॥ मदर्थे कति दुःखं वा सम्प्राप स मदीश्वरः ।
किमाहारश्च किं भुङ्क्ते मम प्राणाऽधिकः प्रियः ॥१०१ ॥ अपि द्रक्ष्यामि तं रामं समुद्रान्तिकमागतम् ।
अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः ॥१ ०२॥ पतिसेवाविहीनाया मूढाया जीवनं वृथा ।
अयि! मे धर्मपुत्रस्तु नरादित्यः प्रजीवति ॥१ ०३॥ मच्छोकसागरे मग्नो देवकल्पस्तु देवरः ।
हनूमाँस्तां सर्वनिरामयं विज्ञाप्य चाम्बरात् ॥१ ०४॥ प्रययौ कथयामास रामादित्यं सतीव्रतम् ।
स च वानरसैन्यैश्च सेतुं बध्वा ययौ हरिः ॥१ ०५॥ सिंहलाधिपतिं हत्वा चक्रे सीताप्रमोक्षणम् ।
ययौ पुष्पकयानेन साकेतं सीतया सह ॥१०६ ॥ विजयस्योत्सवं कृत्वा सीतां कृत्वा तु वक्षसि ।
जहतुर्विरहज्वालां सीता रामार्क इत्युभौ ॥१ ०७॥ बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ ।
वाल्मिकस्याश्रमे जातौ सूर्यवंशकरौ शुभौ ॥१ ०८॥ सीता तु धरणौ मग्ना साकेतपत्तने ततः ।
वर्षद्वादशसाहस्रं रामो राज्यं चकार ह ॥१ ०९॥ ततो यातः स वैकुण्ठं धर्मं संस्थाप्य भूतले ।
इति ते कथितं लक्ष्मि! सीताचरित्रमुत्तमम् ॥1.376.११ ०॥ पातिव्रत्यपरं क्रूरारण्यराक्षसपीडितम् ।
श्रीरामचरितं त्वेतद् भुक्तिमुक्तिप्रदं सदा ॥१११ ॥ न जातो रामसदृशो दयालुर्धार्मिकः शुचिः ।
न च जनिष्यते पश्चात् कृष्णनारायणं विना ॥११ २॥ नापि सीतासमा पत्नी दुःखञ्जीवा पतिव्रता ।
भविष्यति स्वामिजीवा न जातापि श्रुताऽपरा ॥११३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये शतमखद्युवर्णापुत्रवध्वाः सीताया रामादित्येन सह वनवासकष्टादिकं पत्यर्थमेवेति पातिव्रत्यधर्मपरत्वमित्यादिनिरूपणनामा षट्सप्तत्यधिकत्रिशततमोऽध्यायः ॥३७६ ॥