३७५

श्रीनारायण उवाच-
शृणु लक्ष्मि! पतिव्रताऽहल्यासामर्थ्यमद्भुतम् ।
गौतमस्य ऋषेः पत्नी त्वहल्याऽभूत् पतिव्रता ॥१ ॥ कुमारे शरीरे यस्यास्तेजोराशिः समन्ततः ।
अभूच्चन्द्रस्य परिधिर्यथा तथाऽत्र सर्वदा ॥२ ॥ गङ्गातीरेऽवसत्काश्यां गौतमो ज्ञानवानृषिः ।
ब्रह्मपुर्यां पर्णकुट्यां समुच्छ्राये स्थले सदा ॥३ ॥ एकदा हिमशैलेऽभून्मुशलधारवर्षणम् ।
जलपूराणि तटयोर्मर्यादा सरितो जहुः ॥४ ॥ विपथेषु प्रवाहाश्च दद्रुवुर्वै भयङ्कराः ।
ग्रामान् खेटान् खर्वटाँश्च नीत्वा पूराणि चावहन् ॥५ ॥ काशीमभितः सलिलं पर्यवर्तत चोच्छ्रयम् ।
ऋषयो मुनयश्चान्ये प्रजाश्च निम्नभूमिगाः ॥६ ॥ जले मग्ना मृताः सर्वे हाहाकारो बभूव ह ।
लक्षशः कोटिशस्तत्र मग्ना जानपदस्थिताः ॥७ ॥ मानवाः पशवः पक्षसहाया वनिनस्तथा ।
गौतमो ध्यानमग्नश्च दृष्टवान् विप्लवं लयम् ॥८ ॥ ध्यानाद् बहिः समागम्य प्राह पत्नीमहल्यिकाम् ।
अरे! पश्य लयं वारिकृतं सर्वस्वनाशकम् ॥९ ॥ जलान्येतानि गङ्गाया गृहं तेऽभिद्रवन्त्यपि ।
उच्छ्रयेऽपि प्रदेशे वै समागच्छन्ति वेगतः ॥1.375.१० ॥ पर्णशाला तथाऽहं त्वं बहिष्यामश्च धेनवः ।
बहुधा प्रलयो जातो नाऽद्याऽपि स निवर्तते ॥११ ॥ किं कार्यं वद कल्याणि! जलं सोपानमागतम् ।
पश्य वत्सा वत्सतर्यः क्रोशन्ति जलदर्शनात् ॥१ २॥ कुरु शीघ्रं तथा यत्नं जीवामस्तु यथा वयम् ।
नाऽस्मद्गृहादपरोऽत्रोच्छ्रयदेशो गृहं विना ॥१३ ॥ मनुष्या द्रुममालम्ब्य जीविष्यन्ति यथाकथम् ।
गवां का वा दृशा साध्वि! महाकष्टमुपस्थितम् ॥१४॥ इत्युक्त्वा गौतमो देवः शुशोचाऽश्रुभृदीक्षणाः ।
अहल्या प्राह तं स्वामिन्! यद्भावि तद्भविष्यति ॥१५॥ परं पतिमुपस्पृश्य चलो प्रयतामि वै ।
इत्युक्त्वा प्रययौ साध्वी शीघ्रं पर्णगृहान्तरम् ॥१६ ॥ अग्निं प्रज्वालयामास घृतेन होममाचरत् ।
सस्मार गङ्गां चाहल्या पातिव्रत्यबलेन वै ॥१७॥ एहि गङ्गे! भगिनि! मे कथं नाशं करोषि वै ।
यदि नाऽऽयासि कल्याणि! करोमि त्वां हि भस्मसात् ॥१८॥ गङ्गा भीता समायाता मूर्तिरूपा सुकन्यका ।
ववन्दे किङ्करी भूत्वाऽहल्यां गौतमयोषितम् ॥१ ९॥ अहल्या प्राह तां तूर्णं का गङ्गे दुर्दशा कृता ।
प्रलयं ते जलान्यद्य कुर्वन्ति प्राणिनामति ॥1.375.२०॥.
शीघ्रं वार्युपसंहारं कुरु गङ्गेऽन्यथा क्षणात्॥ हवनं ते करिष्यामि मृता यास्यसि वै लयम् ॥२१ ॥ चकम्पे तत्समाश्रुत्य प्राह दीना सतीं प्रति ।
किं करोमि महासाध्वि! न मे दोषोऽत्र विद्यते ॥२२।
हिमालयो विशालाद्रिर्जलानि न रुणद्धि हि ।
रक्षत्येव नहि स्वस्मिंस्तेनाऽयं विप्लवोऽस्ति वै ॥२३॥ श्रुत्वाऽहस्यऽऽह तां गङ्गां तिष्ठ सुन्दरि मद्गृहे ।
आह्वयामि हिमाद्रिं च तदुपायं करोम्यपि ॥२४ ॥ इत्युक्त्वा गौतमपत्नी सस्मार वह्निसन्निधौ ।
हिमालय! समायाहि त्वन्यथा हवनं तव ॥२५ ॥ करिष्ये मा चिरं पश्य प्राणिनां कदनं महत् ॥ तावच्चकम्पे गिरिराट् मूर्तिमान् समुपागतः ॥२६ ॥ काश्यामहल्या यत्राऽस्ति नत्वा प्रोवाच तां सतीम् ।
वद देवि! कथं चाऽहं स्मृतश्चात्र द्रुतं दिश ॥२७ ॥ पश्य वारिप्रलयं त्वं कथं वारि न रक्षसि ।
निरोधं कुरु चाऽरण्ये वारीणां पर्वतेषु च ॥२८ ॥ हिमालयस्तदा प्राह मातः शक्तोऽस्मि तत्र न ।
नास्ति तत्र मम दोषो मया रक्ष्यं जलं सदा ॥२९ ॥ शिखरेषु जलं मेऽस्ति द्रोणीषु च गुहासु च ॥ उदरे चोच्छ्रये चाऽधित्यकोपत्यकिकास्वपि ॥1.375.३० ॥ अरण्येषु वनेषूर्ध्वं नदीष्वपि स्थलीष्वपि ।
यावच्छक्यं जलान्येव धारयामि समन्ततः ॥३१ ॥ किन्तु वृष्टिरतिवृष्टिः सततं सप्तवासरात् ।
दिवानिशं पतत्येव मुशलधारसदृशी ॥३२ ॥ अहं जले निमग्नोऽस्मि किं करोमि न शक्तिमान् ।
मत्प्रमाणाजलान्यद्य वर्धन्तेऽतिपतन्ति च ॥३३ ॥ न संहरन्ति मेघा वै वृष्टिं प्रलयकारिणीम् ।
यदि मेघाः संहरेयुर्जलानि संययुः क्षयम् ॥३४ ॥ श्रुत्वाऽहल्या तमुवाच तिष्ठाऽऽहृयामि वार्धरम् ।
आहुत्या जलदं तत्र सस्मार द्रुतमानसा । ३५ ॥ मेघा मृत्युभयोद्विग्नास्तूर्णं तत्र समाययुः ।
प्रकम्पन्तः प्रतस्थुश्च तानाह गौतमप्रिया ॥३६ ॥ रे रे मेघा घातकाः स्थ किं प्रालयो विचारितः ।
जलानामुपसंहारं कुर्वन्तु द्राङ् न चेन्मृताः ॥३७॥ भयङ्करं तु तच्छ्रुत्वा कम्पमानास्तु तां सतीम् ।
प्राहुर्मातर्न नो दोषो दोषस्त्विन्द्रस्य विद्यते ॥३८ ॥ वयं तु किङ्करास्तस्य वर्षामो वै तदाज्ञया ।
त्रस्ताः शान्ताः परिश्रान्ता जलहीनाः क्रुधाऽपि नु ॥३९॥ वज्रेण निहताः सर्वे वर्षामोऽत्र क्षमस्व नः ।
सदाऽकिञ्चित्कराश्चेन्द्रनिदेशकृतजीवनाः ॥1.375.४० ॥ न तदाज्ञां विना किञ्चित् कर्तुं शक्ताः स्म साध्विके ।
इति श्रुत्वा च मेघानां वचनानि महासती ॥४१ ॥ इन्द्रं सस्मार मन्त्रेण वह्निमध्ये जुहाव च ।
तावदिन्द्रासनादिन्द्रः पतितो मन्त्रकर्षितः ॥४२॥ व्योममार्गेण तु शीघ्रं पर्णकुट्यां समापतत् ।
मृतोऽहं नाशितोऽहं च रक्षन्तु देवतागणाः ॥४३ ॥ इति ब्रुवन् पर्णकुट्यां तस्थौ साध्वीप्रतापतः ।
नत्वोवाच महासाध्वी महेन्द्रं देवभूभृतम् ॥४४॥ अरे चेन्द्र! पृथिव्यां वै प्राणिनां कदनं महत् ।
जातं वृष्ट्याऽनया कस्मात्। संहारं न करोषि वै ॥४५ ॥ जलसंहारमेवाऽद्य शीघ्रं वै रोधनं कुरु ।
अन्यथा ते वह्निमध्ये करिष्ये हवनं सुर! ॥४६ ॥ इत्युक्तः स महाक्रुद्धः किन्तु दृष्ट्वा पतिव्रताम् ।
विनाशं क्षणमध्ये च समुपस्थितमीक्ष्य च ॥४७ ॥ समयं तं प्रविज्ञाय नम्रतायाः पुरन्दरः ।
प्रोवाच वै तदा मेघान् शीघ्रं कुर्वन्तु रोधनम् ॥४८ ॥ मेघाः सङ्कुचितास्तत्र हिमाद्रौ च तथापि वै ।
जलानां निम्नता नासीत् तदा प्राह पतिव्रता ॥४९ ॥ इन्द्र! मेघाः! गिरे! गङ्गे! कथं नावतरन्ति वै ।
निम्नगानि न दृश्यन्ते जलानि प्रवदन्तु माम् ॥1.375.५०॥ इन्द्रः प्राह महासाध्वि! वरुणो वारिषु स्थितः ।
स सङ्कोचं जले कुर्यात् स्युर्निम्म्नगानि वै तदा ॥५ १ ॥ सस्मार तु तदा साध्वी वरुणं यादसां पतिम् ।
जलाधिदेवरूपं च तावत्सोऽपि समागतः ॥५ २॥ प्राहाऽहल्या जलेशं तं नैव पश्यसि मर्दनम् ।
कीदृशोऽयं लयो जातः सङ्कोचय जलानि वै ॥५ ३ ॥ अन्यथा ते भवेन्मृत्युर्वह्नौ नात्र विचारणा ।
तावत्सोऽपि द्रुतं नत्वा प्राणायामाँश्चकार ह ॥५४॥ तावज्जलानि संवेगाज्जातानि घट्टकानि हि ।
निम्नगानि बभूवुश्च सङ्कुचितानि सर्वतः ॥५५॥ अथ दृष्ट्वा दुःखितान् वै मृतान् सम्बन्धिबान्धवान् ।
दयावती तदाऽहल्या वह्निं पप्रच्छ जीवनम् ॥५६॥ मृतानां वै पुनश्चात्र भवेदुपाय उच्यताम् ।
वह्निश्चेन्द्रो वरुणश्च गङ्गा मेघाश्च पर्वतः ॥५७॥ सर्वे प्राहुर्यमराजो जीवाऽजीवप्रदो मतः ।
अहल्या तं प्रसस्मार समायातो यमस्तदा ॥५८॥ समुवाच प्राञ्जलिस्तां किं कार्यं मेऽत्र साध्विके! ।
तमुवाच सती शीघ्रं जलेऽत्र प्रलयेऽतिगे ॥५९॥ मृतान् मनुष्यान् वनिनो गृहिणोऽरण्यवासिनः ।
पशूंश्च प्राणिनः पक्षिजातीश्चान्यान् सरीसृपान् ॥1.375.६ ०॥ सर्वानकालानिधनान् समुज्जीवय मद्बलात् ।
यदि नोज्जीवयेश्चाद्य तव मृत्युरुपस्थितः ॥६१ ॥ होष्यामि त्वां तृणमात्रं शीघ्रं जीवय वै मृतान् ।
सोऽपि चकम्पे यमराट् प्रोवाच दीनमानसः ॥६२॥ अहं रुद्राधीनसत्त्वः सङ्कर्षणानुगः सदा ।
मरणं वै तदधीनं यथाकर्म च देहिनाम् ॥६३ ॥ सती सस्मार रुद्रं तं सङ्कर्षणं च तत्क्षणात् ।
कालकालौ समायातौ सतीं नत्वा ह्युपस्थितौ ॥६४॥ सती प्राह मृतान्सर्वानुज्जीवयतां चेश्वरौ ।
अन्यथा पातिव्रत्येन हरिष्ये वां प्रजीवनम् ॥६५॥ रुद्रः सङ्कर्षणश्चाह सृष्टिः पुष्टिर्विनाशनम् ।
भवत्येव क्रमात्त्वत्र नारायणविनिर्मितम् ॥६६॥ वयं कर्तुं तथाऽकर्तुमन्यथाकर्तुमित्यपि ।
न समर्था भवामोऽत्र समर्थः श्रीहरिः परः ॥६७॥ सती सस्मार च तदा कृष्णनारायणं हरिम् ।
पातिव्रत्यप्रतापेन हरिस्तत्राऽऽययौ क्षणात् ॥६८॥ हरिं प्राह सती नत्वा महाविनयमानसा ।
अहो नारायण! स्वामिन्! कृष्णनारायण! प्रभो! ॥६९॥ महावृष्टिलये चात्र कोटिशः प्राणिनो मृताः ।
मानवाः पशवः पक्षिजातयो जन्तवस्तथा ॥1.375.७० ॥ जीवयैतान् हरे कृष्ण त्वकालमृत्युमास्थितान् ।
भगवाँस्तां तदा प्राह कुरु सङ्कल्पमेव ह ॥७१ ॥ यदि धर्मः पातिव्रत्यात्मकः सम्पालितो मया ।
तदा वृष्टिप्रवेगेन मृता जीवन्तु जन्तवः ॥७२॥ इत्याज्ञया हरेस्तत्र तयाऽहल्याख्यया कृतः ।
सङ्कल्पस्तावदेवैते जीविता देहिनोऽखिलाः ॥७३ ॥ तेषां यत्र शवान्यासँस्तत्र तत्र समुत्थिताः ।
आसमुद्रप्रपर्यन्तं यावन्तो जीवितास्तदा ॥७४॥ ताँस्तु हर्याज्ञया गङ्गा मेघाश्चेन्द्रादयः सुराः ।
हिमाद्रिः सलिलेशश्च रुद्रः सङ्कर्षणस्तथा ॥७५॥ नारायणो यमः कालो मृत्युश्च पार्षदा हरेः ।
सर्वान्नीत्वा यथापूर्वस्थानं तेषां गृहाणि च ॥७६॥ प्रापयामासुरेवेशाः पातिव्रत्यप्रभावतः ।
सुरूपां सुसमर्थां तां नवयौवनसुन्दरीम् ॥७७॥ नत्वा सर्वे ययुर्देवास्ततो नैजालयाँस्तदा ।
जनुषा जीविता ये जाताः सुखिन एव ते ॥७८॥ इन्द्रो दृष्ट्वा मुमोहाऽत्र गौतमस्य तु योषिति ।
पतिव्रतायां देवेन्द्रो दूरं गत्वाऽऽजगाम ह ॥७९॥ तदा दृष्ट्वाऽपि पश्चात्तां नाऽपश्यद् देवराड् यतः ।
ययौ निराशः स्वर्गं वै पुनः कालान्तरेऽगमत् ॥1.375.८० ॥ तदापि पर्णकुट्यां तां स्थितां नैव ददर्श सः ।
यतो मलिनहृदयो न ददर्श पतिव्रताम् ॥८१ ॥ पुनर्गत्वा ततः स्वर्गं कालान्तरे स आययौ ।
तदापि तां पर्णकुट्यां नैवाऽपश्यत् स्थितामपि ॥८२॥ पापानां चाऽप्यशुद्धानां मलिनाऽगुणशालिनाम् ।
नार्यः पतिव्रताः क्वापि नाऽऽयान्ति दृष्टिगोचरम् ॥८३ ॥ एवमिन्द्रो बहुवारं समागतो गतोऽपि च ।
धर्षणार्थमहल्यायाः कम्पमानोऽपि मूर्छितः ॥८४॥ कामान्धो न विजानाति मृत्युं स्वस्य परस्य च ।
ततः कालान्तरे रात्रौ समायातो भुवस्तलम् ॥८५॥ यत्राऽऽस्ते सा धर्ममयी साध्व्यहल्या पतिव्रता ।
तत्र रात्रौ त्वन्धकारे परितः प्रासरन्महत् ॥८६ ॥ तेजो दृष्टं महेन्द्रेण गौतमस्याऽऽश्रमाऽभितः ।
सोऽवातरत्पृथिव्यां वै तेजः पश्यति केवलम् ॥८७॥ यथा वै पूर्णिमाचन्द्रकौमुदीमण्डलं न्विदम् ।
तत्राऽहल्यां न चाऽपश्यत् पुनर्नाकं ययौ तदा ॥८८ ॥ चन्द्राय कथयामास मानसीं विकृतिं तथा ।
तेजोमयं दिव्यरूपं भोग्याहं चिरवाञ्छितम् ॥८९ ॥ चन्द्रेणाऽऽवेदितं तस्मै भवान् गौतमरूपधृक् ।
अहं भवामि ब्राह्मस्य सूचकः कुक्कुटः खलु ॥1.375.९० ॥ गच्छावो यत्र सा चास्ते कुर्वंश्छद्मं फलं भवेत् ।
न भवेच्चेद्भवेन्मृत्युर्नात्र कार्या विचारणा ॥९१ ॥ इति सम्मन्त्र्य तावास्तां तदा बिडालकुक्कुटौ ।
अर्धरात्रोत्तरं गत्वा गौतमस्य गृहान्तिकम् ॥९२॥ जगौ तु कुक्कुटश्चन्द्रो ब्राह्ममुहूर्तकूजनम् ।
गौतमस्तत्तदा श्रुत्वा ययौ स्नानाय स्वर्णदीम् ॥९३ ॥ बिडालस्तु महेन्द्रो वै प्रविवेश गृहे नलात् ।
धृत्वा गौतमरूपं स जगाम शयने प्रियाः ॥९४॥ अहल्या तु पतिं दृष्ट्वा कामभावेन चागतम् ।
चूम्बनं त्वर्पितवती कामभोगेहयाऽऽदृता ॥९५॥ तावत्तु गौतमाय द्युनद्या द्राक् सम्प्रभाषितम् ।
न ब्राह्मोऽयं ऋषे! कालो गृहे ते कपटं भवेत् ॥९६॥ याहि शीघ्रं सतीं पश्य श्रुत्वैतत् गोतमो द्रुतम् ।
समायात् स्वगृहं यावत्तावद्भोक्तुं स्थितं हरिम् ॥१७॥ इन्द्रं स्वरूपमापन्नं ददर्श कपटान्वितम् ।
गौतमस्तं तुराषाहं भगलुब्धं विभाव्य वै ॥९८॥ मुनिः शशाप शक्रं च भगाङ्गस्त्वं भवेति हि ।
अहल्याऽपि ज्ञातवती पत्यन्यं तं तथापि सा ॥९९ ॥ पतिप्रतिमारूपं तं न शशाप पतिव्रता ॥ नाऽऽलिङ्गनं ददौ यावद् गौतमाऽन्यं विवेद सा ॥1.375.१०० ॥ गौतमाय स्वरूपाय दण्डयोग्याय चापि सा ।
समर्थापि महादण्डं न ददौ पतिरूपिणे ॥१०१ ।
पतिरेव समायाति जानाति गौतमः स्वयम् ।
यावन्नाऽऽलिङ्गनं कुर्वे तावद् दण्डं प्रदास्यति ॥१०२ ॥ इति कृत्वा तदाऽहल्या पतिरूपाऽतिमानिनी ।
न ददौ शापमिन्द्राय प्रतिर्दण्डं ददौ स्वयम् ॥१०३ ॥ इन्द्रो योनिसहस्राढ्यो ययौ स्वर्गं मलान्वितः ।
चन्द्रो गुप्ततया तस्माद् दुद्राव भयविह्वलः ॥१०४ ॥ गौतमः स्वां तदा पत्नीं प्राह सौम्ये! किमिच्छसि ।
नातिरूपं सुखदा तु नारीमत्त्वं च दुःखदम् ॥१०५ ॥ त्वं प्रिये! धर्ममूर्धन्यं पालयस्येव सर्वथा ।
अहं तप्तुमनाः शश्वत् द्वयोः साह्यं न सौख्यदम् ॥१०६ ॥ यदि त्यजामि वैराग्याद् दुःखिता त्वं भविष्यसि ।
यदि रक्षामि मत्पार्श्वे चिन्तेदृशी हि जायते ॥१०७ ॥ तस्माद् वद प्रिये! त्वां वै किं करोमि यथा पुनः ।
मम चिन्ता न ते धर्मविघ्नो मा च भवेत्पुनः ॥१०८ ॥ इति पत्युः सती श्रुत्वा पतिं प्राह पतिव्रता ।
निवसामि सदा स्वामिन्! स्थाल्यामत्राऽऽत्मपार्वती ॥१०९ ॥ तथा तवाऽऽसनरूपा ह्युपला संवसाम्यहम् ।
नित्यं तवाऽऽश्रिता स्वामिन्! त्वयाऽधिष्ठितभूमिका ॥1.375.११ ० ॥ भवामि तेन ते चिन्ता न स्यान्न धर्मविघ्नता ।
पातिव्रत्यं सदा मे च रक्षितं सम्भविष्यति ॥१११ ॥ समुद्धारश्च वै स्वामिंस्तव योगाद्भविष्यति ।
इत्युक्त्वा सा पतिं नत्वाऽभिषिक्ता स्वामिना द्रुतम् ॥११२ ॥ बभूव ह्युपला तत्र पतिपादाश्रया सदा ।
पतिः प्राह दयिता स्वां रामः श्रीभगवान् स्वयम् ॥११३ ॥ आगमिष्यति चात्रैव विश्रान्तिं यास्यति त्वयि ।
तदा मया सह पत्नि! वैकुण्ठं यास्यसि ध्रुवम् ॥११४ ।
तावत्तत्र मनोऽभीष्टं तपः करोम्यहं सदा ।
निराशिनो महाशान्तिर्मम ते च सदाऽत्र वै ॥११५ ॥ आशावन्तः सदा दुःखसागराब्धौ निमज्जिताः ।
पारं यान्ति न संसारिवासनानां कदाचन ॥११६ ॥ मुक्तिः पाषाणकल्पा च प्रिये! विघ्नादिवर्जिता ।
त्वया लब्धा पतिसेवा शिलासनमयी सदा ॥११७ ॥ अहं स्थास्ये शिलामूर्ध्नि करिष्येऽत्र तपश्चिरम् ।
त्रेतायां रामयोगेन यास्यावः परमं पदम् ॥१ १८॥ दिव्यरूपेण तु साध्वि! द्वितीयेन सदा मम ।
सेवाया सुस्थिरा भूत्वा वर्तस्वेदं ममेप्सितम् ॥११ ९॥ इत्युक्तो साऽभवत्तत्रोपलाऽहल्या पतिव्रता ।
स्वामी तस्या उपलायां तेपे तु गौतमस्तपः ॥1.375.१२० ॥ त्रेतायां रामयोगेन मतौ तौ परमं पदम् ।
इति ते कथितं लक्ष्मि! त्वहल्यैश्वर्यमद्भुतम् ।
पठनाच्छ्रवणाच्चास्य पातिव्रत्यं दृढं भवेत् ॥१२१ ॥ इति श्रीलक्ष्मीनारायाणीय संहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽहल्यायाः पातिव्रत्यप्रतापेनाऽतिवृष्टौ काशीसम्प्लवे गङ्गाहिमाद्रिमेघेन्द्रवरुणरुद्रसङ्कर्षणयम-नारायणाद्यागमोऽतिवृष्टिशमनं मृतानां जीवन-मिन्द्रस्याऽहल्यास्पर्शमात्रे भगाङ्गताऽहल्याया
उपलात्वं मोक्षणं चेत्यादिनिरूपणनामा पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥३७५॥