३७०

श्रीनारायण उवाच-
हरेर्भक्तेर्महिमानं श्रुत्वा सती यमं पुनः ।
पप्रच्छ केन विधिना भजनीयो हरिः स्वयम् ॥१ ॥ यमः श्रुत्वा तु सावित्रीं प्राह रीतिं सुमोक्षदाम् ।
शृणु लक्ष्मि! कथयामि यथा प्राह सतीं यमः ॥२ ॥ प्रातरुत्थाय तु कृष्णनारायणं हृदि स्मरेत् ।
मूर्तिं ध्यायेत् सौम्यरूपां चिन्तयेत्तु पुनः पुनः ॥३ ॥ स्नाने शौचे क्रियायां च बाह्ये चान्तरकर्मणि ।
भोज्ये विहारे शयने गृहकार्ये हरिं स्मरेत् ॥४ ॥ श्रद्धया परया तत्र हरौ सर्वेन्द्रियाणि वै ।
तथाऽन्तःकरणान्येवं योजयेच्छ्रीहरौ मुदा ॥५ ॥ पाने निषदने स्वप्ने निद्रायां जाग्रति क्रमे ।
शुभेऽशुभे तथा कार्ये स्मरणीयो हरिः सदा ॥६ ॥ जिह्वा तत्कीर्तनं कुर्यात्कर्णस्तच्छ्रवणं चरेत् ।
नेत्रं तद्दर्शनं कुर्याद् घ्राणं तद्गन्धमाप्नुयात् ॥७ ॥ चर्म तत्स्पर्शनं कुर्यात्करस्तत्पादसेवनम् ।
पादस्तन्मन्दिरं गच्छेद् वाणी तद्भजनं चरेत् ॥८ ॥ मलमूत्रेन्द्रियं विघ्ननाशार्थं गुणतां व्रजेत् ।
आनन्दं श्रीहरेर्लब्ध्वा श्रीहरेर्मननं चरेत् ॥९ ॥ निर्णयं माननं चापि चिन्तनं श्रीहरेश्च तु ।
एवं सर्वं हरेरेव कुर्यान्नान्यस्य कस्यचित् ॥1.370.१ ०॥ न स्वार्थं न परार्थं च कुर्याद्धर्यर्थमेव वै ।
तथा कृत्वा नचिरेण हरेर्धामगतिर्भवेत् ॥११ ॥ इत्युक्ता सा तु सावित्री यमं भक्तवरं परम् ।
ज्ञात्वा यमाष्टकं प्राह शृणु लक्ष्मि! वदामि ते ॥१२।
*सूर्यन्नारायणस्तीर्थे पुष्करे तपसा पुरा ।

  • धर्माशं यं सुतं प्राप धर्मराजं नमाम्यहम् ॥१ ३॥ सर्वेषां प्राणिनां कर्मभोगान्तं संविधाय यः ।
    शान्तिं करोति यो देवः शमनाय तु ते नमः ॥१४॥ कृतानां कर्मणां त्वन्तं न्यायरीत्या करोति यः ।
    सर्वेषां देहिनां सोऽयं तं कृतान्तं नमाम्यहम् ॥१५॥ पापिनां दण्डकर्ता यो दण्डं बिभर्ति शुद्धिदम् ।
    शास्त्रे तस्मै नीतियुजे दण्डिने ते नमो नमः ॥१६ ॥ सर्वेषां वस्तुकार्याणां परिच्छेदं करोति यः ।
    सर्वायुःकलनं देवं कालरूपं नमाम्यहम् ॥१७॥ जीवान् दण्डप्रदानैर्यो यमयत्येव सर्वथा ।
    कर्मानुरूपफलदस्तं यमं प्रणमामि वै ॥१८॥ यथा कर्म तथा दाता न रागान्न च रोषतः ।
    तस्माच्छुद्धिकरं मित्रं सर्वमित्रं नमामि च ॥१ ९॥ कृष्णनारायणमूर्तेः समुत्पन्नस्तु यः पुरा ।
    ब्रह्मणोंशस्ततो जातस्तं ब्राह्मं प्रणमामि च *॥1.370.२०॥
  • इत्युक्त्वा तं प्रणनाम यमस्तुष्टो बभूव ह ।
    यमाष्टकं पठतस्तु भवेन्नैव यमाद्भयम् ॥२ १ ॥ कायव्यूहेन च शुद्धिः कर्मणां तस्य जायते ।
    मुच्यते यमपाशाच्च सतीं प्राहेति धर्मराट् ॥२२॥ यमस्तस्यै कृष्णनारायणमन्त्र प्रदाय च ।
    ‘ओं श्रीकृष्णनारायणं प्रणमामि’ त्रिवारकम् ॥२३ ॥ कर्माऽशुभविपाकं च तामुवाच यमः स्वयम् ।
    कुकर्मणा जनो याति नरकान् बहुदारुणान् ॥२४॥ नरकाणां तु कुण्डानि सन्ति नानाविधानि च ।
    विस्तृतानि गभीराणि भयक्लेशकराणि हि ॥२५॥ षडशीतिश्च कुण्डानि घोराणि कुत्सितानि च ।
    संयमन्यां प्रविद्यन्ते तानि निबोध नामतः ॥२६॥ वह्निकुण्डं तप्तकुण्डं क्षयकुण्डं भयानकम् ।
    विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं तु दुःसहम् ॥२७॥ गरकुण्डं दाहकुण्डं वसाकुण्डं तथा महत् ।
    शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥२८॥ मलकुण्डं वीर्यकुण्डं रजःकुण्डं विगन्धकृत् ।
    कर्णविट्कुण्डमुग्रं च नखकुण्डं च दुःखरम् ॥२०३॥ मज्जाकुण्डं मांसकुण्डमस्थिकुण्डं च दुःखदम् ।
    लोमकुण्डं क्लेशकुण्डं ताम्रलोहप्रकुण्डकम् ॥1.370.३ ० ॥ तीक्ष्णकण्टककुण्डं च विषकुण्डं च दाहकम् ।
    घर्मकुण्डं तप्तसुराकुण्डं वृश्चिककुण्डकम् ॥३ १ ॥ तप्ततैलप्रकुण्डं च दन्तकुण्डं च विघ्नदम् ।
    कृमिकुण्डं पूयकुण्डं सर्पकुण्डं भयावहम् ॥३ २॥ दंशमशककुण्डं च वज्रदंष्ट्राप्रकुण्डकम् ।
    शरकुण्डं शूलकुण्डं खड्गकुण्डं तु वैशसम् ॥३३ ॥ गोधाकुण्डं नक्रकुण्डं काककुण्डं महाभयम् ।
    घृष्टिकुण्डं चूर्णकुण्डं बन्धकुण्डं निराश्रयम् ॥३४॥ तप्तपाषाणकुण्डं च तीक्ष्णग्रावाग्रकुण्डकम् ।
    लालाकुण्डमसिकुण्डं चूर्णकुण्डं च मर्दनम् ॥३५॥ चक्रकुण्डं वज्रकुण्डं कूर्मकुण्डं महोल्बणम् ।
    ज्वालाकुण्डं भस्मकुण्डं पूतिकुण्डं भयावहम् ॥३६ ॥ तप्तसूर्मीमसिपत्रं क्षुरधारं सुचीमुखम् ।
    कृकलासप्रकुण्डं च जगदंशं चिपीटकम् ॥३७॥ कुम्भीपाकं कालसूत्रमधःकन्धरमुग्रकम् ।
    पांशुभोज्यं पाशकण्ठं शूलप्रोतं सुकीलकम् ॥३८॥ उल्कामुखं त्वन्धकूपं वेधनं दण्डताडनम् ।
    जालबन्धं देहचूर्णं दलनं शोषणङ्करम् ॥३९॥ सर्पज्वालामयं क्ष्वेडधूम्रान्धं नागपाशनम् ।
    द्वैधीभावप्रकुण्डं च लावणं कुण्डमित्यपि ॥1.370.४०॥ भगुप्रपातनं चापि वैतरणीप्रपातनम् ।
    चर्मोत्कर्तनकुण्डं च भ्राष्ट्रकटाहमित्यपि ॥४१ ॥ कुण्डान्येतानि सावित्रि! पापानां शोधकानि वै ।
    पापिनां दुःखदान्येव रक्षितानि यमानुगैः ॥४२॥ दण्डहस्तैः शूलपाशशक्तितोमरहस्तकैः ।
    मदोन्मत्तैस्तामसैश्च निर्दयैस्ताम्रपिङ्गलैः ॥४३ ॥ नानारूपधरैः सर्वाऽधृष्यैर्दृश्यैस्तु पापिनाम् ।
    पुण्यकृतामदृश्यैश्च धार्मिकाणां च योगिनाम् ॥४४॥ शृणु केषां कुत्र वासो दण्डरूपोऽस्ति कुण्डके ।
    कटुवाण्या खलत्वेन दग्धान् करोति बान्धवान् ॥४५ ॥ गात्रलोमप्रमाणाब्दं वह्निकुण्डं प्रयाति सः ।
    दग्ध्वा वह्नौ पातकानि लभेज्जन्मत्रयं पशोः ॥४६ ॥ गृहाऽऽगतातिथिं यो न भोजयेत् स्वाश्रितं तथा ।
    लोममानसमास्तप्तकुण्डे स्थित्वा ततः स वै ॥४७॥ उष्णभूमौ मरौ देशे पक्षी स्यात्सप्तजन्मसु ।
    रविवाराऽर्कसङ्क्रान्त्याममायां श्राद्धवासरे ॥४८॥ व्रते क्षारेण वस्त्रस्थकीटानां नाशकस्तु यः ।
    क्षारकुण्डं स वै याति सूत्रमानाब्दमेव ह ॥४९॥ व्रजेच्च राजकीं योनिं सप्तजन्मसु सुन्दरि! ।
    स्वदत्तां परदत्तां च जीविकां तु हरेद्धि यः ॥1.370.५० ॥ षष्टिवर्षसहस्राणि विट्कुण्डं तु प्रयाति सः ।
    षष्टिवर्षसहस्राणि विड्भोजी विट्कृमिस्ततः ॥५१ ॥ तडागं नाशयेद् यस्तु मूत्रकुण्डं प्रयाति सः ।
    तद्रेणुमानवर्षं च मूत्रपायी ततो भुवि ॥५२॥ सप्तजन्मसु गोधा स्याद् भित्तिवासकरी गृहे ।
    एकाकी मिष्टभुग् याति श्लेष्मकुण्डं समाशतम् ॥५३ ॥ श्लेष्माभोजी भवेत् प्रेतो मूत्रपूयादिपानकृत् ।
    पितरं मातरं पत्नीं गुरुं पुत्रीं सुतं सखीन् ॥५४॥ अनाथं च न पुष्णाति क्ष्वेणकुण्डं प्रयाति सः ।
    अब्दसहस्रं तद्भोजी ततः प्रेतः शतं समाः ॥५५॥ अतिथिं क्रूरभावेन द्रष्टुर्जलं च पिण्डकान् ।
    पितृदेवा न गृह्णन्ति कुलनाशस्ततो भवेत् ॥५६॥ तेषां तु घातकानां च मलकुण्डे प्रपातनम् ।
    शतं समा मलभोजी ततः स सप्तजन्मसु ॥५७॥ दरिद्रो जायते दुःखी पतितश्च पदे पदे ।
    दत्वा दानं तु चैकस्मै त्वन्यस्मै दीयते तु तत् ॥५८॥ वसाकुण्डं प्रयात्येव शतवर्षं वसादनः ।
    जन्मत्रयं स चाण्डालः कृकलासश्च सप्तकृत् ॥५९॥ दरिद्रश्च भवेदल्पजीवी च पापकृत्ततः ।
    नरो नारी स्वकं शुक्रं रजो वापि परस्परम् ॥1.370.६०॥ पाययत्येव कामाद्वा शुक्रकुण्डं प्रयाति सः ।
    शतवर्षं च तद्भोजी योनिकीटः शतं समाः ॥६ १ ॥ अथ पूज्यं ताडयित्वा गुरुं च पितरौ तथा ।
    रक्तं प्रवाहयेद् यः स यात्यसृककुण्डमुल्बणम् ॥६२॥ शतवर्षं रक्तभोजी ततो व्याधः प्रजायते ।
    सप्तजन्मसु पापानि कृत्वा पुनस्तथा व्रजेत् ॥६३ ॥ अश्रु स्रवन्तं गायन्तं नृत्यन्तं भक्तमेव यः ।
    कृष्णाग्रे तु हसन् चाश्रुकुण्डं प्रयाति नर्मकृत् ॥६४॥ शतवर्षं त्वश्रुभोजी चाण्डालः स्यात् त्रिजन्मसु ।
    खलो याति गात्रमलकुण्डं दशाब्दकं ततः ॥६५॥ त्रिजन्मसु खरो जम्बूकस्त्रिजन्मसु कष्टवान् ।
    बधिरं यो हसत्येव निन्दत्यपि च नर्मकृत् ॥६६ ॥ स याति कर्णविट्कुण्डे तद्भोजी शतवत्सरान् ।
    ततो बधिरः सप्तजन्मस्वङ्गहीनश्च सप्तसु ॥६७॥ जीविकादं तु यो हन्ति मज्जाकुण्डे स गच्छति ।
    लक्षवर्षाणि तद्भोजी शशकः सप्तजन्मसु ॥६८॥ मीना एणाः सप्त सप्त ततः शुद्धः प्रजायते ।
    कन्याविक्रयिणो यान्ति मांसकुण्डेऽतिदारुणे ॥६९॥ कन्यालोमप्रमाणाब्दं मांसादना हता यमैः ।
    स्वमांसं रुधिरं मूर्ध्नस्ते खादन्ति क्षुधार्दिताः ॥1.370.७०॥ षष्टिवर्षसहस्राणि कन्याविट्सु कृमिस्ततः ।
    सप्तजन्मसु व्याधः स वराहः कुक्कुरस्ततः ॥७१ ॥ सप्तजन्मसु मण्डूको जलौकाः काक इत्यपि ।
    क्षौरं यत्र विधिनाऽऽप्तं न कारयेत्तु यो जनः ॥७२ ॥ नखकुण्डं प्रयात्येव नखभोजी नखाब्दकम् ।
    रोमकुण्डे तथा याति रोमभोजी प्रताडितः ॥७३ ॥ सकेशं पार्थिवं लिङ्गं पूजयेद् यो जनस्तु सः ।
    केशकुण्डे प्रयात्येव मृद्रेणुमानवर्षकम् ॥७४॥ ततो वै यवनो वर्षशतं प्रजायते भुवि ।
    पितृपिण्डाऽप्रदाताऽस्थिकुण्डे पतति चोल्बणे ॥७५ ॥ ततः खञ्जः सप्तजन्मस्वतिनिर्धन एव च ।
    यः सेवते पूर्णमासां गर्भिणीं प्रसवोन्मुखाम् ॥७६ ॥ प्रतप्तताम्रकुण्डे स शतवर्षाणि तिष्ठति ।
    रजस्वलान्नं यो भुङ्क्ते शताब्दं लौहकुण्डके ॥७७॥ पतित्वा राजकीं योनिं चर्मकारी च सप्तसु ।
    महाव्रणी दरिद्रश्च जायते तत्परं शुचिः ॥७८॥ यश्च घर्मस्वेदहस्तं देवद्रव्ये सुयोजयेत् ।
    शतवर्षप्रमाणं स घर्मकुण्डे हि तिष्ठति ॥७९॥ सुरापश्च सुराकुण्डे चोष्णं याति शतं समाः ।
    ततः शूद्रः सप्तजन्मस्वतिनिर्धन एव च ॥1.370.८०॥ कटुवाण्या पतिं वक्ति सा कुण्डे तीक्ष्णकण्टके ।
    पतिता ताड्यते दूतैश्चतुर्युगं च तिष्ठति ॥८ १ ॥ अश्विनी जायते पश्चात् पृथिव्यां सप्तजन्मसु ।
    विषदाता विषकुण्डे सहस्राब्दं हि तिष्ठति ॥८२॥ विषभोजी नृघाती च वृणी स्यात् सप्तजन्मसु ।
    सप्तजन्मसु कुष्ठी च ततः शुद्धः प्रजायते ॥८३ ॥ वृषं भृत्यं ताडयेद् यो दण्डेन तन्नियामकः ।
    प्रतप्ततैलकुण्डे स तिष्ठत्येव चतुर्युगम् ॥८४॥ ततो गोरोममानाब्दं वृषो भवति भूतले ।
    बडिशेन च कुन्तेन दन्तेन कीलकेन च ॥८५॥ लौहेन हन्ति वृषभं देहिनं प्राणिनं च वा ।
    कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं खलु ॥८६॥ ततो जलोदररोगी त्वेकजन्मनि जायते ।
    अभक्ष्यभक्षी मनुजो कृमिकुण्डं प्रयाति वै ॥८७॥ स्वलोममानवर्षान्ते भुवि म्लेच्छस्त्रिजन्मसु ।
    पापान्नभोजी व्रजति पूयकुण्डं शत समाः ॥८८॥ ततः शूद्रः सप्तजन्मस्वतिशूलधरो भवेत् ।
    सर्पहा सर्पकुण्डं तु याति सर्पेण भक्षितः ॥८९॥ सर्पविड्भक्षणः पश्चात्सर्पो वै जायते भुवि ।
    ततः स्वल्पाऽऽयुरेवाऽयं दद्रुरोगी भवेत्तथा ॥1.370.९०॥ सर्पेण तस्य मृत्युश्च सर्पेण भक्षणं मतम् ।
    जीवान् हन्ति स दंशाख्ये कुण्डे पतति पापकृत् ॥९१ ॥ आयुर्दिनाब्दकं स्थित्वा क्षुद्रजन्तुसहस्रके ।
    जायते च मुहुः पश्चादङ्गहीनो भवेद् ध्रुवम् ॥९२॥ मधुहा मक्षिकाघाती सगरे कुण्डके पतेत् ।
    स्वायुर्दिनात्मकं स्थित्वा मक्षिकायोनिमाप्नुयात् ॥९३॥ अदण्ड्यदण्डकृत् कुण्डे वज्रकीटे पतेद्ध्रुवम् ।
    तल्लोममानवर्षं च स्थित्वा कीटो भवेद् भुवि ॥९४॥ अन्यायधनलो राजा वृश्चिके कुण्डके पतेत् ।
    रोमाब्दं दुःखमासाद्य वृश्चिकः सप्तजन्मसु ॥९५॥ ततोऽङ्गविकलो व्याधिग्रस्तो भुवि भवेज्जनः ।
    विप्रो धर्मविहीनो वै शरकुण्डे पतत्यथ ॥९६॥ शरविद्धः स्वलोमाब्दं स्थित्वा शुद्धो भवेत्ततः ।
    कारागारे बन्धयति जीवान्निर्दोषकान् जनः ॥९७॥ तप्ततोये गोलकुण्डे पतति रोमवत्सरान् ।
    कीटैर्विद्धस्ततो नीचभृत्यो वै जायते भुवि ॥९८॥ नक्रमीनप्रहन्ता च नक्रकुण्डे पतत्यथ ।
    नक्रकण्टकमानाब्दं स्थित्वा नक्रस्ततो जले ॥९९॥ अन्यच्छिद्रान्वेषकस्तु काककुण्डे पतत्यथ ।
    काकप्रक्षुण्णनेत्रश्च रोमाब्दं तत्र वर्तते ॥1.370.१० ०॥ सप्तजन्मदरिद्रः स त्रिजन्माऽन्धश्च जायते ।
    स्वर्णताम्रलौहचौरो वज्रकुण्डं प्रयाति वै ॥१०१ ॥ देवद्रव्यप्रहर्ताऽपि रोमाब्दं वज्रकुण्डगः ।
    वज्रैर्हतो भवेत्तत्र वज्रभुग् देहदाववान् ॥१०२ ॥ गवां शुकानां मूर्तीनां चौरस्तप्तोपलाभिधे ।
    कुण्डे पतति स्वलोमाब्दं ततो बकस्त्रिजन्मसु ॥१०३ ॥ हंसस्ततः शङ्खचिल्लस्ततो रक्तादिरोगवान् ।
    सप्तजन्मसु चाल्पायुः कूप्यचौरोऽपि तादृशः ॥१ ०४॥ रीतिकांस्यादिचौरश्च तीक्ष्णग्रावाग्रकुण्डके ।
    स्वलोमाब्दं वसेत्पश्चादश्वः स्यात् सप्तजन्मसु ॥१ ०५॥ ततोऽधिकाङ्गकः कुब्जः पादे रुग्णश्च जायते ।
    पुंश्चल्यन्नादतज्जीवी लालाकुण्डे पतेद् ध्रुवम् ॥१०६ ॥ तल्लोमाब्दं लालभोजी चक्षूरोगी च शूलवान् ।
    म्लेच्छसेवी मषीसेवी मषीकुण्डेऽतितप्तके ॥१ ०७॥ स्वलोमाब्दं वसेत् पश्चात् कृष्णपशुस्त्रिजन्मसु ।
    छागः सर्पस्तालवृक्षस्त्रिषु त्रिषु च जन्मसु ॥१ ०८॥ धान्यताम्बूलतल्पाऽर्घ्याऽऽसनसस्यादिचौरकः ।
    शताब्दं चूर्णकुण्डे वै ततो मेषश्च कुक्कुटः ॥१ ०९॥ त्रिजन्मसु ततः कासव्याधिग्रस्तश्च मानवः ।
    वंशहीनो दरिद्रश्चाप्यल्पायुर्दुःखवान् भवेत् ॥1.370.११ ०॥ चक्रशस्त्रादिकर्ता तु शताब्दं चक्रकुण्डके ।
    त्रिजन्मसु तैलकारो रोगी वंशहीनस्ततः ॥१११ ॥ प्रतिस्पर्धी मत्सरी च वज्रकुण्डे युगं पतेत् ।
    सप्तजन्मसु वक्राङ्गो भार्यावंशविहीनकः ॥११२॥ कूर्मादिमांसभुक् कूर्मकुण्डे पतेच्छतं समाः ।
    स त्रिजन्मसु कूर्मश्च सूकरोऽपि मयूरकः ॥११ ३॥ मार्जारश्चापि प्रत्येकं त्रिजन्मसु जायते ।
    घृततैलादिचौरस्तु ज्वालाकुण्डे च भस्मनि ॥११४॥ कुण्डे शताब्दं पतति तैलपः सप्तजन्मसु ।
    मत्स्यश्च मूषकः सप्तजन्मस्वथ ततः शुचिः ॥१ १५॥ सुगन्धितैलधात्र्यादिद्रव्यचौरस्तु कुण्डके ।
    दुर्गन्धे लोममानाब्दं दुर्गन्धी जायते ततः ॥१ १६॥ दुर्गन्धिकः सप्तजनौ मृगनाभिस्त्रिजन्मसु ।
    सप्तजन्मसुगन्धश्च ततः शुद्धो हि मानवः ॥१ १७॥ भूमिहर्ता तप्तशूले तप्ततैले पतेत् ततः ।
    सप्तमन्वन्तरं पश्चाद् विट्कृमिरयुतं तु षट् ॥१ १८॥ भूमिहीनो दरिद्रश्च ततो वै शुद्ध एव सः ।
    नरघाती चासिपत्रे वसेत्कल्पं ततः पुनः ॥११ ९॥ ब्रह्महा चेच्छतमन्वन्तरं खड्गवने वसेत् ।
    छिन्नाङ्गः खङ्गधारैश्च चाण्डालः शतजन्मसु ॥1.370.१ २०॥ सूकरः कुक्कुरो गोमायूश्च व्याघ्रो वृकस्ततः ।
    गण्डी महिषः प्रत्येकं सप्तजन्मसु जायते ॥१२१ ॥ ग्रामादिदाहकः क्षुरधारे युगत्रयं पतेत् ।
    ततः प्रेतो वह्निमुखोऽमेध्यभोजी ततः पुनः ॥१ २२॥ खद्योतश्च सप्तजनौ महाशूली च तावता ।
    सप्तजन्मगलत्कुष्ठी ततः शुद्ध्यति वह्निदः ॥१ २३॥ कलङ्कदो निन्दकश्च सूचिमुखे युगत्रयम् ।
    ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु ॥१२४॥ वज्रकीटः सप्तजनो भस्मकीटस्ततो नरः ।
    गृहभेदी स्तेनकर्ता गोगोधामेषछागकान् ॥१२५॥ प्रत्येकं सप्तजन्मानि ततो रोगी नरोऽधुरः ।
    द्रव्यचौरो नक्रमुखो युगं पश्चाच्च रोगवान् ॥१ २६॥ गोगजाश्वनरहन्ता गजदंशे युगत्रयम् ।
    ततस्तत्तज्जातिजन्मत्रयं म्लेच्छस्ततो भवेत् ॥१ २७॥ गोजातिदुःखदो याति गोमुखे नरके ध्रुवम् ।
    कृमितप्तोदके मन्वन्तरं स्थित्वा च गोवृषः ॥१ २८॥ सप्तजनौ ततो रोगी दरिद्रोऽन्त्यजजातिकः ।
    गोब्रह्मसाधुहत्याकृत् स्त्रीमित्रभ्रूणहा तथा ॥१ २९॥ कुम्भीपाके पतेत् कल्पं चूर्ण्यते यमदूतकैः ।
    वह्नौ क्षणं कुण्डके च तप्ते तैले जले तथा ॥1.370.१३० ॥ पाषाणे तप्तलौहे च दुःखानि पश्यति ध्रुवम् ।
    गृध्रकोटिसहस्राणि शतजन्मानि सूकरः ॥१३१ ॥ काकश्च सप्तजन्मानि सर्पः स्यात्सप्तजन्मसु ।
    विट्कृमिश्च वृषलश्च गलत्कुष्ठी ततो भवेत् ॥१ ३२॥ यक्ष्मग्रस्तो वंशहीनो भार्याहीनस्ततः शुचिः ।
    श्रीहरौ च श्रीकृष्णे च नारायणे च भूमनि ॥१ ३३॥ वासुदेवे शिवे विष्णौ ब्रह्मणि भेदबुद्धिकृत् ।
    ब्रह्महत्याकरो बोध्यो भेदो हत्यासमो मतः ॥१ ३४॥ अक्षरे राधिकायां च लक्ष्म्यां श्रियां रमातनौ ।
    पार्वत्यां च प्रभायां च माणिक्यायां च भेदकृत् ॥१ ३५॥ ब्रह्महत्यासमदोषी ललिताजययोरपि ।
    भेदकृत् स्वे गुरौ स्वेष्टदेवे पितरि मातरि ॥१३६ ॥ हर्यर्चायां भेदबुद्धिर्ब्रह्महत्यामदूषणम् ।
    विष्णोर्नैवेद्यसलिलवर्जितोऽपि तथा मतः ॥१ ३७॥ पितृदेवगुरुपूजानिन्दकोऽपि तथा मतः ।
    शिवं विष्णुं शिवां लक्ष्मीं निन्दन्ति ब्रह्मघातिनः ॥१३८ ॥ हरेर्जन्मतिथीन् शैवीं तिथिं चैकादशीं तथा ।
    व्रताहानि च निन्दन्ति ब्रह्महत्याकरा हि ते ॥१३९॥ गुरुं च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।
    आश्रितान् यो न पुष्णाति ब्रह्महत्याकरो हि सः ॥1.370.१४० ॥ अपूजकश्च देवानां गोवृषादेश्च ताडकः ।
    गोचरादिप्रहर्ता च ब्रह्महत्याकरो हि सः ॥१४१ ॥ गवां दुःखकरः पापं गोहत्याजं लभेत्तथा ।
    गवां वृत्तिहरो गाश्च पदा सन्ताडयेत्तु यः ॥१४२॥ योनिजीवी त्रिसन्ध्यादिविहीनो धर्मनाशकः ।
    देवपित्रतिथिसेवाहीनो गोघातको मतः ॥१४३ ॥ स्वभर्तरि च कृष्णे च भेदबुद्धिकरी तु या ।
    कटूक्त्या ताडयेत् कान्तं सा गोहत्याकरी मता ॥१४४॥ गवां वृत्तिं जीविकां च जलं गृहं तथाऽऽश्रयम् ।
    हन्याद् यः स भवेच्चापि गोहत्यापातकी ध्रुवम् ॥१४५॥ देवपूजाकृते यानि जलान्नकुसुमानि तु ।
    तानि यो लङ्घयेत्पादैर्गोहत्यापापकृद्धि सः ॥१४६ ॥ मिथ्यावादी गुरुद्वेषी देवद्वेषी च पितृद्विट् ।
    गोहत्यापापवान् सोपि विज्ञेयो नात्र संशयः ॥१४७॥ पितुः शतगुणा माता मातुः शतगुणो गुरुः ।
    विद्यामन्त्रप्रदाता च गुरुः पूज्यः सदा मतः ॥१४८॥ गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।
    यथेष्टदेवपत्नी च पूज्या चाभीष्टदेवता ॥१४९॥ ब्राह्मणस्तु सुरापाणी विड्भोजी वृषलीपतिः ।
    हरिवासरभोजी च कुभीपाकं व्रजेत् सति! ॥1.370.१५० ॥ गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ।
    सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं प्रियाम् ॥१५१ ॥ सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ।
    मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥१५२॥ शिष्यां च शिष्यपत्नीं च भागिनेयस्य कामिनीम् ।
    भ्रातुः पुत्रप्रियां चैवाऽप्यगम्यामाह पद्मजः ॥१५३ ॥ एतासु गमकः कामी ब्रह्महत्याशतं लभेत् ।
    स याति कुम्भीपाकं तु महापापी सुदुस्तरम् ॥१५४॥ हरेः सेवां विना साध्वि! न लभेत् कर्मखण्डनम् ।
    सर्वान्नभोगी संयाति कालसूत्रं शतं समाः ॥१५५॥ ततः शूद्रोऽतिरुग्णः स्याद् दरिद्रो निर्धनस्तथा ।
    प्रकोपवदना कोपात् स्वामिनं या तु पश्यति ॥१५६ ॥ कटूक्तिं तं च वदति याति चोल्कामुखं हि सा ।
    उल्कां ददाति वक्त्रे च सततं यमकिङ्करः ॥१५७॥ दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।
    ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥१५८॥ या ब्राह्मणी सर्वभोग्या साऽन्धकूपं प्रयाति वै ।
    तप्तशौचोदके तप्त्वा कल्पमानं ततः परम् ॥१५९॥ काकी सूकरी कुक्कुटी शृगाली च पारावती ।
    वानरी सप्तजन्मानि चाण्डाली च ततो भवेत् ॥1.370.१६० ॥ रजकी तैलकारी च ततः शुद्ध्यति सा सति! ।
    वेश्या वसेद् वेधकुण्डे गणिका दण्डताडने ॥१६१ ॥ जालबन्धे पुंश्चली च कुलटा देहचूर्णके ।
    स्वैरिणी दलने कुण्डे यावन्मन्वन्तरं वसेत् ॥१६२॥ करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ।
    मिथ्या वा शपथं कुर्यात् स तु ज्वालामुखे पतेत् ॥१६३॥ दत्वा तु दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ।
    स्पृष्ट्वा गां ब्राह्मणं देवं वह्निं साधुं सतीं जलम् ॥१६४॥ न पालयेत्प्रतिज्ञां तु स वै ज्वालामुखे पतेत् ।
    मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः ॥१६५॥ मिथ्यासाक्ष्यप्रदश्चापि स वै ज्वालामुखं व्रजेत् ।
    कल्पे वसेत् ततो मूको बधिरश्च त्रिजन्मसु ॥१६६॥ मित्रद्रोही नकुलः स्यात् कृतघ्नश्चापि षण्ढकः ।
    विश्वासघाती व्याघ्रश्च मिथ्यासाक्षी तु भल्लुकः ॥१६७॥ व्रतोपवासहीनश्च सद्वाक्यपरिनिन्दकः ।
    जिह्मो वसेत्तु हैमे वै नरके तु शतं समाः ॥१६८॥ जलजन्तुः शतजन्मक्रमेण मत्स्यको भवेत् ।
    देवादिद्रव्यहारी च धूम्रान्धे पतितो भवेत् ॥१६९॥ चतुर्युगं वसेत्तत्र मूषकः सप्तजन्मसु ।
    पशौ पतत्रिणि कृमौ वृक्षजातिषु जायते ॥1.370.१७०॥ ततो भार्यावंशहीनः शबरो व्याधिमान् भवेत् ।
    स्वर्णकारो वणिग् वैद्यो व्यापारी रसविक्रयी ॥१७१ ॥ कूटमानो नागवेष्टं कुण्डं यात्येव दारुणम् ।
    ततो गोपो भवेच्चेति ततः शुद्ध्यति वै सति! ॥१७२॥ प्रसिद्धानि तु कुण्डानि कथितानि पतिव्रते! ।
    अन्यान्यप्यप्रसिद्धानि यथाकर्म भवन्ति वे ॥१७३ ॥ सन्ति पापप्रकर्तारः कुण्डेषु फलभोगिनः ।
    ततो भ्रमन्ति संसारे किञ्चित्तुभ्यं निवेदितम् ॥१७४॥ सर्वेष्टं सारभूतं तु मङ्गलं कृष्णसेवनम् ।
    जन्ममृत्युजरारोगशोकसन्तापतारणम् ॥१७५॥ भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम् ।
    सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे! ॥१७६॥ कुण्डानि यमदूतं च यमं च यमकिङ्करान् ।
    स्वप्नेऽपि नहि पश्यन्ति सति! श्रीकृष्णसेवकाः ॥१७७॥ हरिव्रतप्रकर्तारो गृहिणस्त्यागिनस्त्रियः ।
    ये स्नान्ति हरितीर्थे च नाश्नन्ति हरिवासरे ॥१७८॥ संस्मरन्ति कृष्णनारायणं सम्पूजयन्ति च ।
    न यान्ति ते मम घोरां दुःखां संयमनीं पुरीम् ॥१७९॥ आम्नायन्यायमार्गस्थास्त्यागिनो गृहिणश्च ते ।
    शुद्धा धर्मपरा यान्ति कृष्णमन्दिरमक्षरम् ॥1.370.१८०॥ स्वदूतान्पाशहस्ताँश्च गच्छतस्तान् वदाम्यहम् ।
    यास्यथेति तु सर्वत्र हरिभक्ताश्रमं विना ॥१८१ ॥ हरेर्भक्तांश्चित्रगुप्तः पुष्पाञ्जलिं करोति हि ।
    मधुपर्कादिकं ब्रह्मा तेषां तु कुरुते सदा ॥१८२॥ मम लोकं सत्यलोकं विलङ्घ्य गच्छतां सताम् ।
    स्पर्शमात्रेण पापानि नश्यन्ति याम्यदेहिनाम् ॥१८३॥ पावनास्ते भागवताः पञ्चभूततनुं विना ।
    सूक्ष्मेणैव शरीरेण प्रयान्ति चोर्ध्ववेगिनः ॥१८४॥ ब्रह्मधामसमीपे तु स्नात्वा ब्रह्महृदे च ते ।
    सूक्ष्मं विमुच्य मायायां ब्राह्म्या तन्वा तु धामनि ॥१८५॥ आत्माऽऽत्मिकया मोदन्ते बहुशक्तिन्द्रियेन्द्रकाः ।
    यमलोकं गता ये तु कर्मफलाय देहिनः ॥१८६॥ बिभ्रति सूक्ष्मदेहं ते नाशो यस्य न जायते ।
    स देहो न भवेद् भस्म ज्वलदग्नौ यमालये ॥१८७॥ जले नष्टोभवेन्नैव प्रहारे नापि नश्यति ।
    शस्त्रे शास्त्रे कण्टके च शूले तप्तद्रवे तथा ॥१८८॥ तप्ते लोहे च पाषाणे प्रतिकृतौ न नश्यति ।
    कर्मफलं तथा भुङ्क्ते सुखमात्रा न विद्यते ॥१८९॥ कृष्णनारायणधाम्नि दुःखमात्रा न विद्यते ।
    तमेव भज सावित्रि! गच्छ कान्तेन मन्दिरम् ॥1.370.१९०॥ इत्युक्त्वा सा यमेनापि न ययौ मन्दिरं स्वकम् ।
    सत्यवन्तं सूक्ष्मदेहं स्वायत्तीकृत्य स्वे हृदि ॥१९१ ॥ जिज्ञासमाना पप्रच्छ कुण्डमानादिकं तदा ।
    शृणु लक्ष्मि! कथयिष्ये यमेन यत्तु भाषितम् ॥१९२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्रीकृतयमाष्टकस्तोत्रं, षडशीतिनिरयकुण्डानि, यथाकर्म तत्पातः, ब्रह्महत्यागोहत्याप्रख्यपापानि, भक्तानां यमपराभवो चेत्यादिनिरूपणनामा सप्तत्यधिकत्रिशततमोऽध्यायः ॥३७० ॥