३६९

श्रीनारायण उवाच-
सावित्रीं पृष्ठमायान्तीं दृष्ट्वा यमस्तु विस्मितः ।
पुनर्नत्वा सतीं प्राह किमिच्छसि वदाऽत्र मे ॥१ ॥ इति श्रुत्वा यमवाक्यं सावित्री पुनरेव तम् ।
पप्रच्छ तं शृणु लक्ष्मि! कथयामि निबोध मे ॥२ ॥ प्रयान्ति स्वर्गमन्यं च लोकं येन विशेषतः ।
कर्मणा पुण्यवन्तस्तु तद्वदेति समासतः ॥३ ॥ कृतं सावित्रिकाप्रश्नं यमः प्राह तदुत्तरम् ।
अन्नदानप्रदाताऽन्नवर्षाण्यैन्द्रे महीयते ॥४ ॥ नात्र पात्रपरीक्षा च न कालनियमस्तथा ।
आसनस्य प्रदाता च देवविप्रादये जनः ॥५ ॥ वर्षाणामयुतं वह्निलोके सम्मोदते सुखी ।
यावन्ति तस्य सूत्राणि तावद्वर्षाऽयुतं दिवि ॥६ ॥ देवाय गां च विप्राय दद्यात्पयस्विनीं तु यः ।
वैकुण्ठे गोलोमसङ्ख्यायुगानि स महीयते ॥७ ॥ चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ॥८ ॥ विप्राय हरये गोदो यज्ञकार्यार्थिने तथा ।
वर्षाणामयुतं स्वर्गे चन्द्रलोके प्रमोदते ॥९ ॥ वत्सं प्रसूयमाना गामुभयतोमुखीं ददेत् ।
वैकुण्ठे तल्लोममानसमाः प्रमोदते सुखी ॥1.369.१ ०॥ शालग्रामं सभूषादि दद्यात् तत्पूजकाय वै ।
वैकुण्ठे मोदते दाता यावच्चन्द्रदिवाकरौ ॥११ ॥ छत्रदाताऽयुतसमा मोदते वरुणालये ।
पादुकादोऽयुतसमा वायुलोके महीयते ॥१२॥ शय्यादो मोदते चान्द्रे लोके चन्द्रायुरेव सः ।
विप्राय हरये दीपदाता तैलघृतप्रदः ॥१ ३॥ यावन्मन्वन्तरं सोपि ब्रह्मलोके महीयते ।
दिव्यदृष्टिर्भवेत्तस्य चान्धता नैव जायते ॥१४॥ गजदाता वसेदिन्द्रस्याऽर्धासने निरन्तरम् ।
अश्वदाता वारुणे वै कल्पस्थायी भवेत् सति! ॥१५॥ शिबिकादो विष्णुलोके मन्वन्तरं महीयते ।
चामरव्यजनप्रदो वायुलोके महीयते ॥१६ ॥ वर्षाणामयुतं धान्यप्रदः कणसमा वसेत् ।
विष्णुलोके वसत्येषः श्रीहरेर्नामजापकः ॥१७॥ पलायते महामृत्युश्चिरजीवी स जायते ।
आन्दोलयेद्धरिं यस्तु प्रेङ्खायां मानवो भुवि ॥१८॥ सद्दोला कारयेद्यस्तु व्रतोत्सवमहोत्सवे ।
जीवन्मुक्तः सुखं भुक्त्वा यात्यन्ते विष्णुधाम सः ॥१ ९॥ वैकुण्ठे निवसेत्तत्र शतमन्वन्तरावधिम् ।
फलमुत्तरफाल्गुन्यां ततोपि द्विगुणं भवेत् ॥1.369.२०॥ भवेत् कल्पान्तजीवी सः सर्वस्मृद्धिगुणालयः ।
तिलदस्तिलवर्षाणि मोदते विष्णुमन्दिरे ॥२१ ॥ ताम्रपात्रे तिलदाने लभेद्वै द्विगुणं फलम् ।
कन्यादाता चन्द्रलोके कल्पमेकं वसेद्ध्रुवम् ॥२२॥ दासीदाता तु गान्धर्वेऽयुतवर्षाणि मोदते ।
जन्मसहस्रं सौभाग्ययुक्तां सतीं च विन्दति ॥२३॥ फलिद्रुदः फलसमाः शक्रलोके महीयते ।
पृथ्व्यां च सुतवान् श्रेष्ठी सुन्दरीसहितो भवेत् ॥२४॥ फलदाता चिरं स्वर्गं वसत्येव सुखावहम् ।
द्रव्यसस्यगृहदाता कुबेरभवने वसेत् ॥२५॥ मन्वन्तरावधि पश्चाद्धनवान् जायते भुवि ।
पुण्यक्षेत्रे पुण्यपात्रे ससस्यक्षेत्रदः सति! ॥२६॥ वैकुण्ठे मोदते मन्वन्तरशतं शतं ततः पुनः ।
भुवि भूयान् भवत्येव श्रीपुत्रधनवांस्तथा ॥२७॥ नारीगोमान् सुखी स्याच्च जन्मनां शतकं परम् ।
सप्रज श्रेष्ठभूमिं च ग्रामं दद्यात्तु शार्ङ्गिणे ॥२८॥ लक्षमन्वन्तरं दाता वैकुण्ठे स महीयते ।
पृथ्व्यां लक्षग्रामराजा लक्षजन्मसु जायते ॥२९॥ सप्रजं सुप्रकृष्टं च सस्येक्ष्वादिसमन्वितम् ।
वापीकूपयुतं क्षेत्रं नगरं च ददाति यः ॥1.369.३ ०॥ महीयते स वैकुण्ठे दशलक्षेन्द्रजीवनम् ।
नियुतपत्तनाऽधीशो राजेन्द्रो जायते भुवि ॥३ १ ॥ नगराणां शतकं च देशं ददाति विष्णवे ।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधिम् ॥३२॥ ततो जम्बूद्वीपपतिर्भवत्येव न संशयः ।
मही तं न जहात्येव जन्मनां कोटिमेव वै ॥३३॥ कल्पान्तजीवी च भवेत् राजराजेश्वरो महान् ।
स्वाधिकारप्रदाता च फलं चतुर्गुणं लभेत् ॥३४॥ जम्बूद्वीपप्रदाता च फलं दशगुणं लभेत् ।
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः ॥३५॥ सर्वेषां तपसां कर्तुः सर्वोपवासकारिणः ।
सर्वान्यदानदातुश्च सर्वसिद्धिमतस्तथा ॥३६ ॥ अस्त्येव पुनरावृत्तिर्न भक्तस्य हरेरहो ।
असङ्ख्यब्रह्मणां पातं पश्यन्ति वैष्णवाः सति! ॥३७॥ गोलोकस्थाश्च वैकुण्ठवासिनोऽक्षरधामगाः ।
परधामस्थिताश्चापि पश्यन्त्येतां पुनर्गतिम् ॥३८॥ हरेर्मन्त्रोपासकन्तु विहाय मानुषीं तनुम् ।
हरितुल्यो दिव्यरूपो भूत्वा याति हरेः पदम् ॥३९॥ गोलोकस्थाः कृष्णभक्ता वैकुण्ठस्थाश्च वैष्णवाः ।
लब्ध्वा कृष्णस्य सारूप्यं नारायणस्य चापि ते ॥1.369.४०॥ तयोः सेवां प्रकुर्वन्ति ह्यसख्यं प्राकृतं लयम् ।
देवाश्चेशाश्च नश्यन्ति सिद्धा विश्वानि यानि च ॥४१ ॥ हरेर्भक्ता न नश्यन्ति जन्ममृत्युजराहराः ।
कार्तिके हरये वृन्दातुलसीपत्रदायकः ॥४२॥ युगं पत्रप्रमाणं तु मोदते हरिमन्दिरे ।
हरये घृतदीपं च कार्तिके यो ददाति वै ॥४३॥ पलप्रमाणं वर्षं स मोदति हरिमन्दिरे ।
हरीच्छया यदि याति सृष्टौ भागवतो भवेत् ॥४४॥ महाधनाढ्यश्चक्षुष्मान् दीप्तिमान् भक्तिकारकः ।
आचार्यो वाऽवतारो वा तदंशो मुक्तिदो भवेत् ॥४५॥ माघे प्रातस्तु गङ्गादितीर्थस्नायी हरेर्गृहे ।
युगषष्टिसहस्राणि मोदते स हरीच्छया ॥४६ ॥ ब्रह्माण्डेषु देशिकेन्द्रो भक्तो जितेन्द्रियो भवेत् ।
माघस्नायी तु गङ्गायां प्रयागे प्रातरेव यः ॥४७॥ वैकुण्ठे मोदते सोपि लक्षमन्वन्तरावधिम् ।
नारायणेहया सृष्टौ देशिकेन्द्रो भवेद्धि सः ॥४८॥ मानवीं स तनुं त्यक्त्वा पुनर्धाम प्रयाति सः ।
नास्ति पुनरावृत्तिश्च हरेर्धामगतस्य वै ॥४९॥ करोति स हरेर्दास्यं लब्ध्वा सारूप्यमित्यथ ।
नित्यस्नायी तु गङ्गायां पदे पदेऽश्वमेधजम् ॥1.369.५०॥ फलं याति च पूतः स सूर्यवज्जायते सति! ।
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ॥५१ ॥ मोदते स तु वैकुण्ठे यावच्चन्द्रदिवाकरौ ।
नारायणेहया पृथ्व्यां तपस्वी देशिको भवेत्॥५२॥ ग्रीष्मादौ जलदाता तु वैकुण्ठं याति कल्पकम् ।
वैशाखे हरये यस्तु चन्दनादि ददाति वै ॥५३॥ युगषष्टिसहस्राणि मोदते विष्णुमन्दिरे ।
वैशाखे सक्तुदाता च मोदते विष्णुमन्दिरे ॥५४॥ सक्तुरेणुप्रमाणाब्दं ततो विष्णोस्तु वाञ्छया ।
आचार्यो भवति लोके तपस्व्युद्धारकोत्तमः ॥५५॥ करोति यः कृष्णजन्माष्टमीं भाद्राऽसिते दले ।
शतजन्मकृतपापाच्छुद्धो भवति तत्क्षणात् ॥५६॥ गोलोके मोदते कृष्णेच्छया कार्ष्णो भवेत्तथा ।
कृष्णनारायणजन्माष्टमीं कार्तिककृष्णके ॥५७॥ दले करोति यो भक्त्या हरेर्धाम प्रयाति सः ।
अनन्तसमयं कृष्णनारायणस्य सेवकः ॥५८॥ स चाश्रुते सर्वकामान् कृष्णनारायणाऽर्पितान् ।
शिवरात्रिव्रतकर्ता बिल्वपत्रं ददाति यः ॥५९॥ युग पत्रप्रमाणं च मोदते शिवमन्दिरे ।
विद्यावान्पुत्रवान् श्रीमान् प्रजावान् भूमिमाँस्तथा ॥1.369.६ ०॥ शिवेच्छया भवत्येव सप्तमन्वन्तरावधिम् ।
महासृष्टौ सुखी भूत्वा यायाच्च शिवमन्दिरम् ॥६ १ ॥ चैत्रे माघेऽर्चयेच्छम्भुं पुरः कुर्यात्तु नर्तनम् ।
मासं वाऽप्यर्धमासं वा दश सप्तदिनानि वा ॥६२॥ दिनमानं युगं सोपि शिवलोके महीयते ।
श्रीरामनवमीं भक्तो यः करोति व्रतं व्रती ॥६३॥ सप्तमन्वन्तरं यावन्मोदते रामधामनि ।
पुना रामस्य भक्तो वै भूत्वाऽऽचार्यपदे स्थितः ॥६४॥ रामभक्त्या प्रयात्येव वैकुण्ठं स द्वितीयकम् ।
शरदृतुपूर्णिमायां पूजां हरेर्हरस्य च ॥६५॥ बहूपचारसम्पन्नां यः करोति प्रभक्तराट् ।
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ॥६६॥ नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलैः ।
हरेः शम्भोर्वसेल्लोके सप्तमन्वन्तरावधिम् ॥६७॥ पुनः स निर्मलो भक्तो भूत्वा श्रियमवाप्नुयात् ।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥६ ८॥ राजराजेश्वरः पुत्रपौत्रादिमान्न संशयः ।
भाद्रशुक्लाष्टमीं प्राप्य महालक्ष्मीं समर्चयेत् ॥६ ९ ॥ षोडशवस्तुभिर्भक्त्या वैकुण्ठे याति कल्पकम् ।
पुनः पृथ्व्यां राजराजेश्वरो भवेद्धि सात्त्वतः ॥1.369.७०॥ कार्तिकीपूर्णिमायां यो रासमण्डलमाचरेत् ।
गोपीर्गोपान् शतं द्वेधा शतं कृत्वा सुवर्णजम् ॥७१ ॥ राधाकृष्णं कारयित्वा पूजयेदुपचारकैः ।
यथालब्धैर्बहुविधैर्गोलोकं याति पूजकः ॥७२॥ ब्रह्मणो वयसा तत्र स्थित्वा सृष्टौ प्रयाति सः ।
कृष्णभक्तिं पुनः कृत्वा लब्ध्वा मन्त्रं हरेस्ततः ॥७३ ॥ कृष्णसारूप्यमासाद्य पार्षदो जायते तु सः ।
गोलोके वर्तते नित्यं पुनरावृत्तिवर्जितः ॥७४॥ एकादशीव्रती याति यावद्वै वेधसो वयः ।
वैकुण्ठं च ततः क्ष्मायामागत्य पुनरेव सः ॥७५॥ हरिभक्तः पुनर्याति वैकुण्ठं न पतेत्पुनः ।
भाद्रशुक्ले द्वादश्यां यः शक्रं सम्पूजयेज्जनः ॥७६ ॥ षष्टिवर्षसहस्राणि शक्रलोके महीयते ।
रविवारेऽर्कसङ्क्रान्त्यां सप्तम्यां शुक्लपक्षके ॥७७॥ हविष्यान्नप्रदाताऽर्कलोकं प्रयाति कल्पकम् ।
पुनः पृथ्व्यां समागत्य नीरोगी श्रीयुतो भवेत् ॥७८॥ ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं त्वां प्रपूजयेत् ।
मोदते स ब्रह्मलोके सप्तमन्वन्तरावधिम् ॥७९॥ पुनः पृथ्व्यां श्रीसमेतो ज्ञानसम्पत्तियुग् भवेत् ।
माघशुक्लस्य पञ्चम्यां पूजयेद् यः सरस्वतीम् ॥1.369.८०॥ महीयते स वैकुण्ठे कल्पमेकं पुनः कविः ।
गोसुवर्णप्रदाता गोलोमद्विगुणं हरेः ॥८ १ ॥ वैकुण्ठे मोदते पश्चाद् विष्णुभक्तो भवेत् भुवि ।
राजराजेश्वरो गोमान् विद्याज्ञानसुतादिमान् ॥८२॥ भोजयेद् यः सतः साधून् साध्वीर्विप्राँस्तथाऽतिथीन् ।
भोक्तुलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ॥८३ ॥ अत्रागत्य सुखी श्रीमाँश्चिरजीवी पराक्रमी ।
यो ददाति हरेर्नाम विष्णुलोके महीयते ॥८४॥ नामकोटिं जपन् बोध्यो जीवन्मुक्तो न संशयः ।
बैकुण्ठे विष्णुसायुज्यं प्राप्नोति शाश्वतं हिं सः ॥८५॥ शिवार्चकः शिवं याति बाणरेणुप्रमाणकम् ।
युगाऽयुतं तु कैलासे स्थित्वा सम्राट् क्षितौ भवेत् ॥८६ ॥ शालग्रामार्चको भक्तो प्रसादस्य प्रभक्षकः ।
महीयते स वैकुण्ठे यायाद्वै ब्रह्मणः शतम् ॥८७॥ पुनः पृथ्व्यां नृपो भूत्वा वैकुण्ठं याति नो पतेत्॥ तपोव्रताद्यनुष्ठाता वैकुण्ठं याति कल्पकम् ॥८८ ॥ भूत्वा पृथ्व्यां स राजेन्द्रस्ततो मुक्तो भवेद्धि सः ।
अश्वमेधक्रतुकारी शक्रस्याऽर्धासने वसेत् ॥८९॥ अश्वरोमप्रमाणाब्दं राजसूये चतुर्गुणम् ।
नरमेधेऽश्वमेधार्धं गोमेधे तु तथादृशम् ॥1.369.९०॥ पुत्रेष्टौ तु तदर्धं स्याल्लाङ्गुलेष्टौ गोमेधजम् ।
विप्रेष्टौ वृद्धियागे च फलं गोमेधजं भवेत् ॥९ १ ॥ पद्मेष्टौ तु तदर्धं च विशोकेष्टौ विशोकजम् ।
विजयेष्टौ पद्मसमं प्राजापत्येऽपि तत्समम् ॥९२।
ऋद्धियागे महैश्वर्यं विष्णुयागे तु वैष्णवम् ।
पदं पुण्यं लभेद् भक्तो विष्णुलोकं च शाश्वतम् ॥९३ ॥ विष्णुयज्ञः प्रधानोऽस्ति सर्वयज्ञेषु सुन्दरि! ।
विष्णुयज्ञात्परो यज्ञो नास्ति श्रेष्ठफलप्रदः ॥९४॥ तत्कर्ता बहुकल्पान्तजीवी मुक्तो भवेदिह ।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदपि ॥९५॥ अश्वमेधशतेनैव शक्रत्वं प्राप्यते दिवि ।
सहस्रेण विष्णुपदं सम्प्राप पृथुभूपतिः ॥९६ ॥ तीर्थयज्ञतपोवेदव्रतानां फलतोऽधिकम् ।
मुक्तिदं श्रीकृष्णनारायणपादाब्जसेवनम् ॥९७॥ कृष्णनारायणस्यैव वर्णनं ध्यानमर्चनम् ।
कीर्तनं भजनं स्तोत्रं स्मरणं वन्दनं जपः ॥९८॥ तत्पादामृतनैवेद्यादनं सर्वेप्सितप्रदम् ।
भज त्वं स्वामिनं कृष्णनारायणं परात्परम् ॥९९॥ गृहाण च पतिं वत्से! सुखं गच्छ स्वमन्दिरम् ।
इत्युक्त्वा मौनमास्थाय यमस्तस्थौ हि पद्मजे! ॥1.369.१०० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्रीपृष्ठकर्मफलप्रश्नानां यमकृतानि बहुविधफलोत्तराणि चेत्यादिनिरूपणनामैकोनसप्तत्यधिकत्रिशततमोऽध्यायः ॥३६९॥