३५६

श्रीलक्ष्मीरुवाच-
श्रुतं श्राद्धं प्रेतभोज्यं कृपया तव केशव! ।
ननु विप्राः प्रेतभागं दानं गृह्णन्ति भोजनम् ॥१ ॥ अनिष्टं गर्हितं चापि प्रेताऽऽवेशेन भोजनम् ।
भुक्त्वा प्रेतस्य विप्रस्तु मुच्यते केन कर्मणा ॥२ ॥ कथं स तारयेद् गर्ह्यो दातारं पुरुषोत्तम! ।
इति मे संशयं छिन्धि कृष्णनारायण प्रभो! ॥३ ॥ श्रीनारायण उवाच-
सम्यक् पृष्टं त्वया लक्ष्मि! संशयं नाशयामि ते ।
यस्तु यतिर्भवेद् विप्रो महाभागवतस्तु यः ॥४ ॥ महायोगी महाज्ञानी सिद्ध्यैश्वर्यादिभूषितः ।
महत्तपोधनो यश्च वेदशास्त्रविशारदः ॥५ ॥ ध्यानं च धारणा यस्य समाधिश्चापि विद्यते ।
त्रिकालज्ञो यमनियमादिसद्गुणमण्डितः ॥६ ॥ षट्कर्मनिरतो नित्यं हर्याराधनतत्परः ।
प्रेतो यत्पद्रजःस्पर्शाद् दिवि देवोऽभिजायते ॥७ ॥ साधुशीलः सदा शुद्धो वह्निवच्छोधको भवेत् ।
स वै प्रेतान्नमाभुक्त्वा गृहीत्वा दानमित्यपि ॥८ ॥ कृत्वा कर्माणि प्रेतस्य न तद्दोषेण लिप्यते ।
पुम्प्रकृत्योर्विवेकज्ञो ब्रह्मात्मैक्यपरायणः ॥९ ॥ पापक्षालनसामर्थ्यो न तद्दोषेण लिप्यते ।
न शर्वरीकृतं ध्वान्तं सूर्यं क्वचिद् विलुम्पति ॥1.356.१० ॥ ध्वान्तं प्रकाशतां याति सूर्यकिरणसन्निधौ ।
प्रेतस्य प्रेतता तादृग्योगेन देवता भवेत् ॥१ १ ॥ प्रेतत्वं ब्रह्मयोगेन देवत्वे परिवर्तते ।
पापं पुण्यतमं स्याच्च समर्थे नास्ति दूषणम् ॥१२॥ यस्तु नात्मबलाढ्यो वा नापि ब्रह्मपरायणः ।
नापि ब्रह्मव्रतं पुष्टो न षट्कर्मादियोगवान् ॥१ ३॥ नाऽऽत्मज्ञो न विवेकज्ञः स विप्रो लिप्यते ह्यघैः ।
प्रेतभोजी प्रेत एव मलिनो जायते भुजेः ॥१४॥ स स्वदेहस्य शुद्ध्यर्थं कुर्यादेकमुपोषणम् ।
सन्ध्यां प्रातः स निर्वर्त्य कृत्वा चैवाग्नितर्पणम् ॥१५॥ तिलहोमं प्रकुर्वीत शान्तिमन्त्रान् पठन् द्विजः ।
प्राक्स्रोतसं नदं गत्वा स्नात्वा च पञ्चगव्यकम् ॥१६॥ मधुपर्कयुतं पीत्वा गृहं सम्मार्ज्य प्रोक्षयेत् ।
अग्निमुखान् सुराँस्तर्पयित्वा भूतबलिं चरेत् ॥१७॥ विप्रेभ्यो भोजनं दद्याद् गोदानं प्रसमाचरेत् ।
एवं यः कुरुते विप्रः स शुद्धो जायते ध्रुवम् ॥१८॥ एवं कृते ततो मृत्यौ स याति परमां गतिम् ।
अन्यथा कालधर्मं तु याते प्रेतान्नकोदरे ॥१ ९॥ प्रेत एव भवेत् सोऽपि निरये वासमाप्नुयात् ।
प्राप्नुयाद्राक्षसभावं ततो मुच्येत किल्बिषात् ॥1.356.२०॥ प्रायश्चित्तमनः कार्यं दातृभोक्तृसुखावहम् ।
गोहस्त्यश्वधनरत्नक्षेत्रदासीविभूषणम् ॥२१ ॥ प्रतिगृह्णन् समन्त्रं च प्रायश्चित्तं चरेत्तु यः ।
स शुद्धोत्तारयेच्चापि दातारं नात्र संशयः ॥२२॥ दैवे च जन्मनक्षत्रे श्राद्धकाले प्रपर्वसु ।
प्रेतकार्येषु सर्वत्र विप्रं षट्कर्मशालिनम् ॥२३ ॥ वेदविद्याव्रतस्नातं धर्मिष्ठं च तपस्विनम् ।
शीलसन्तोषसत्यादिगुणयुक्तं क्षमायुतम् ॥२४॥ अहिंसादियमयुक्तं भगवत्सुपरायणम् ।
पात्रं प्राप्य प्रकुर्याद्वै श्राद्धं दानं प्रपूजनम् ॥२५॥ स शुद्धस्तारयेत् सर्वानात्मानं चापि तारयेत् ।
न हि शिला शिला क्वापि तारयेत् तारकं विना ॥२६ ॥ न ह्यशुद्धः क्वचित्त्वन्यान् तारयेत्पापसम्भृतः ।
शुद्धो वै तारयेच्चान्याँस्तस्मात् पात्रे प्रयोजयेत् ॥२७॥ शृणु लक्ष्मि! नृपः पूर्वं मेधातिथिरभून्महान् ।
अवन्त्यां त्वभवच्चन्द्रशर्मा तस्य पुरोहितः ॥२८॥ राजा गवां शतं दानं दत्वा भुङ्क्ते दिने दिने ।
राज्ञः पितुर्दिनं प्राप्तं वैशाखे श्राद्धकर्मणः ॥२९॥ आहूतान् ब्राह्मणान्नत्वा श्राद्धं कृत्वा विधानतः ।
पिण्डान्निर्वाप्य च श्राद्धे कल्पितान्नं ददौ बहु ॥1.356.३ ०॥ दानं वस्त्रविभूषाणां ब्राह्मणेभ्यो ददौ तथा ।
तन्मध्ये ब्राह्मणः कश्चिद्बलहीनोऽतिपापवान् ॥३ १ ॥ व्यभिचारसमुत्पन्नः शूद्रबीजादिमिश्रितः ।
श्राद्धान्नं जगृहे तत्र तेन दोषेण भूभृतः ॥३२॥ पितरः पतिताः स्वर्गाद् भ्रष्टा वने सकण्टके ।
क्षुत्पिपासार्दिता नित्यं क्रन्दन्ति वै पुनः पुनः ॥३३॥ मेधातिथिर्दैवयोगाद् भ्रमणार्थं वनं गतः ।
तान्भ्रमतः स पप्रच्छ के भवन्तः सुदुःखिताः ॥३४॥ पितरस्तं तदा प्राहुरस्मद्वंशे हि विद्यते ।
नृपो मेधातिथिस्तस्य वयं स्मः पितरो वने ॥३५॥ पतिताः स्म दिवो भ्रष्टाः श्राद्धदोषेण भूभृतः ।
श्राद्धान्नं त्वर्थितं तेन पापिष्ठब्रह्मबन्धवे ॥३६॥ कर्मभ्रष्टव्यवायोत्थनाममात्रद्विजाय वै ।
तेनैव कर्मदोषेण नरकं गन्तुमिप्सवः ॥३७ ॥ तत्र दुःखं महद्भुक्त्ता पुनर्गच्छामहे दिवम् ।
विप्रेभ्यस्तु गवां दानात् तत्पुण्येन पुनर्दिवम् ॥३८ ॥ गमिष्यामः किन्तु तत्र नास्त्यन्न तृप्तिदायकम् ।
इति श्रुत्वा नृपः प्राह मेधातिथिरहं हि सः ॥३९ ॥ भवतां तारणार्थं किं पुनः कार्यं वदन्तु मे ।
पितरः प्राहुरेनं ते यथा तृप्तिर्भवेद्धि नः ॥1.356.४० ॥ तथा श्राद्धं पुनः कार्यं भोजनीया द्विजोत्तमाः ।
तेषां तद्वचनं श्रुत्वा मेधातिथिरगाद् गृहम् ॥४१ ॥ आहूतवान् द्विजान् साधून् वेदपाठकृतश्रमान् ।
पुण्यान् धर्मपरान् क्षान्तान् सुशीलान् सुतपस्विनः ॥४२ ॥ यमैश्च नियमैर्युक्तान्महाभागवतान्सतः ।
राजा श्राद्धं चकाराथ पिण्डान्निर्वाप्य सर्वथा ॥४३ ॥ ब्राह्मणान् भोजयामास दक्षिणाभिः प्रपूज्य च ।
नत्वा विसर्जयामास ततः स बुभुजे नृपः ॥४४ ॥ ततो वनं स्वयं यातो दृष्टवाँश्च स्वकान् पितॄन् ।
हृष्टान्पुष्टान् बलैर्युक्तान् दिवं गन्तुं समुद्यतान् ॥४५ ॥ दृष्ट्वाऽतिमुमुदे भूभृत् प्राहुश्च पितरो नृपम् ।
स्वस्ति तेऽस्तु गमिष्यामः स्वर्गलोकं प्रति नृप! ॥४६ ॥ कदापि नैव प्रदातव्यं कुपात्रायाऽतिपापिने ।
दैवं पित्र्यं च वा तत्र दत्तं निष्फलमेव यत् ॥४७ ॥ दैवे पित्र्ये सुपात्रं चेद् ब्राह्मणो नैव लभ्यते ।
सङ्कल्पितं तदन्नं तु गोभ्यो देयं यथाविधि ॥४८ ॥ गवामभावे नद्यां वा क्षिपेदन्न प्रयत्नतः ।
अपात्राय न दातव्यं नास्तिकाय गुरुद्रुहे ॥४९ ॥ गोलकाय न दातव्यं कुण्डाय सङ्कराय च ।
इत्युक्त्वा पितरः सर्वे गताः स्वर्गं विमानकैः ॥1.356.५ ० ॥ मेधातिथिर्गृहं प्रायाद् ज्ञात्वा पात्रबलाबले ।
तस्माल्लक्ष्मि! धर्मनिष्ठे! एकोऽपि ब्राह्मणोत्तमः ॥५ १ ॥ सन्तारयति दुर्गेभ्यो विषयेभ्यो न संशयः ।
तस्माच्छ्राद्धे भोजनीयाः सन्तो भागवता द्विजाः ॥५ २ ॥ मासे मासेऽथवा पितृपक्षे पात्रतपोधनाः ।
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥५३ ॥ तारका भोजनीया वै ब्रह्मबोधपरा जनाः ।
साध्व्यः सत्यो भोजनीया ब्रह्मचर्यपरास्तथा ॥५४॥ इति ते कथितं लक्ष्मि! सत्पात्रं तारयेत् पितॄन् ।
असत्पात्र भ्रंशयेद्वै प्रायश्चित्तं ततश्चरेत् ॥५५ ॥ श्रीलक्ष्मीः प्राह तच्छ्रुत्वा कृष्णनारायणं हरिम् ।
प्रेताः स्वकर्मभिर्यान्ति योन्यन्तरं शरीरिणः ॥५६॥ पशुपक्षिमनुष्याद्याः कथमागत्य भुञ्जते ।
क एते पितरः कृष्ण! श्राद्धं भोक्ष्यन्त्युपस्थिताः ॥५७॥ मृताः केचित्तु नरके यमपाशवशङ्गताः ।
केचित्तु देववर्गे वै कुटुम्बिसुवशङ्गताः ॥५८॥ केचित् कर्मवशाल्लोके चतुरशीतियोनिषु ।
देहिनो वशगास्तत्र बन्धने पतिताः सदाः ॥५९॥ श्राद्धे शक्ता न चाऽऽगन्तुं कथं श्राद्धं प्रभुञ्जते ।
इति मे संशयं नाथ! सम्मार्जय विरोधिनम् ॥1.356.६ ० ॥ वंशपरम्परां श्राद्धं कर्तव्यं येन रक्ष्यते ।
युगे युगान्तरे चापि कर्तव्यं येन रक्ष्यते ॥६ १ ॥ इति श्रुत्वा महालक्ष्मीवाक्यं कृष्णनरायणः ।
संशयं मार्जयन् लक्ष्म्याः प्रोवाच परमेश्वरः ॥६२॥ शृणु लक्ष्मि! प्रभोक्तारः पितृयज्ञेषु सर्वदा ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥६३ ॥ त्रय एते भवन्त्येव श्राद्धभोक्तार ईश्वराः ।
पिता तु ब्रह्मदैवत्यो वेधोगात्राद्विनिर्मितः ॥६४॥ पितामहो विष्णुदेवो विष्णुगात्राद्विनिर्मितः ।
प्रपितामहो रुद्रेशो रुद्रगात्राद्विनिर्मितः ॥६५॥ श्राद्धे नियोजितास्तेऽत्र ब्रह्मविष्णुमहेश्वराः ।
प्रथमं ब्रह्मणोंऽशाय दद्याच्छ्राद्धं सपिण्डकम् ॥६६॥ द्वितीयं विष्णोरंशाय दद्याच्छ्राद्धं सपिण्डकम् ।
तृतीयं रुद्रस्यांशाय ददेच्छ्राद्धं सपिण्डकम् ॥६७॥ पित्रे पितामहायाऽथ हि प्रपितामहाय च ।
त्रिदेवरूपतापन्नः स्वयं नारायणो विभुः ॥६८॥ यत्र मृता जनुं प्राप्तास्तत्रान्तर्यामिभावतः ।
व्यापकः संस्थितः कृष्णस्तृप्तिं तान्प्रापयत्यपि ॥६९॥ एवं विप्रेषु स कृष्णोऽन्तर्यामी सत्सु वर्तते ।
श्राद्धकाले यदुद्देशस्तद्रूपो भवति प्रभुः ॥1.356.७० ॥ श्राद्धं पिण्डं गृहीत्वा च प्रेतो यत्र गतो भवेत् ।
तत्र प्रापयति तस्मै कृष्णनारायणो हरिः ॥७१ ॥ इति विद्धि महालक्ष्मि! योन्यन्तरगतार्थदः ।
अहमेव भवाम्यत्र श्राद्धे पित्रादिरूपकः ॥७२॥ अथान्यच्च शृणु लक्ष्मि! विस्तरात्प्रवदामि ते ।
केचिद् यजन्ति वै ब्रह्मयज्ञं मूर्तौ सतां मुखे ॥७३ ॥ केचिद् यजन्ति वै देवयज्ञं कुण्डे हुताशने ।
केचिद् यजन्ति वै भूतयज्ञं पशौ गवां मुखे ॥७४॥ केचिद् यजन्ति मनुजक्रतु नरे द्विजानने ।
केचिद् यजन्ति वै पितॄन् जलेऽग्नौ भ्वां द्विजानने ॥७५॥ सर्वे ते मयि वर्तन्ते सत्यमेतद् ब्रवीमि ते ।
किञ्च सर्वविधे यागे वह्निर्मुख्यो मुखात्मकः ॥७६॥ वह्निमुखेन चाश्नन्ति प्रेतपितॄषिदेवताः ।
अहं च भगवान् कृष्णश्चाद्मि वह्निमुखेन वै ॥७७॥ कुण्डस्थाऽग्निरहं चास्मि दक्षिणाग्निरहं तथा ।
अहं चाहवनीयाग्निः पावनः पावकस्तथा ॥७८॥ वैश्वदेवाग्निरहं वै गार्हपत्योऽप्यहं तथा ।
बार्हस्पत्योऽप्यहं चैवाऽऽवसथ्योऽप्यहमेव च ॥७९॥ तन्मुखोऽहं त्रिदेवात्मा भुजे सर्वक्रतुष्वपि ।
पितृयज्ञे ब्रह्ममुखे भुञ्जेऽहं तत्त्रयात्मकः ॥1.356.८०॥ श्रोत्रियं धर्मशीलं च महाभागवतं द्विजम् ।
श्राद्धे सम्भोजयेज्जीतेन्द्रियं सन्तुष्टमेव च ॥८१ ॥ दत्वा हुताशनायाऽऽदौ देवतीर्थस्वरूपिणे ।
पश्चाद् विप्रमुखे दद्यात् पित्रे पितामहाय च ॥८२॥ वै प्रपितामहायापि स्मृत्वा दद्यात्पुनः पुनः ।
प्रच्छन्नं भोजयेद् विप्रं तत्र पितॄन् समाह्वयेत् ॥८३॥ पिण्डास्त्रयः प्रदातव्याः सह व्यञ्जनसंयुताः ।
अपसव्येन दातव्यं मासि मासि तिलोदकम् ॥८४॥ परमात्मा शरीरस्थो देवतानां वहाम्यहम् ।
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ॥८५॥ त्रयो देवास्त्रय एव पितरो हरिनिःसृताः ।
पितृदेवा भविष्यन्ति भोक्तारश्च युगे युगे ॥८६ ॥ आयुः कीर्तिं बल तेजो धनं पुत्रान् पशून् स्त्रियः ।
ददते पितरस्तस्य त्वारोग्यं पिण्डदायिनः ॥८७॥ विप्रे सम्भोजिते तृप्ते तिर्यङ्नारकमानुषाः ।
यत्र क्वापि स्थिताश्चान्ये तृप्यन्ति श्राद्धतर्पिताः ॥८८॥ ते सात्त्विकं शुक्लमार्गं तृप्ता यान्ति दिवं परम् ।
पुनरन्यत् प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥८९॥ अज्ञानतमसा व्याप्ताः पापा भ्रष्टा मृता जनाः ।
स्नेहपाशशतैर्बद्धाः पच्यन्ते नरकेऽशुचौ ॥1.356.९० ॥ तेषां पुत्राश्च पौत्राश्च कदाचिदपि वंशजाः ।
मुञ्चन्ति जलबिन्दूँश्च अमां प्राप्य जलाशये ॥९१ ॥ तेनैव भाविता तृप्तिस्तेषां निरयगामिनाम् ।
तर्पणं श्राद्धमेवापि पिण्डान् तिलोदकं तथा ॥९२॥ समर्प्यं तारयेत् पितॄन् द्विजातिर्भक्तिभावतः ।
देयो नीलो वृषश्चापि नरकार्तिविनाशनः ॥९३॥ नीलषण्डस्य लाङ्गूले तोयमप्युद्धरेद् यदि ।
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ॥९४॥ उद्धृतो यदि पङ्कस्य पिण्डः शृङ्गेण तेन वै ।
उद्धृताः पितरस्तेन सोमलोकं समापिताः ॥९५॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
सोमलोकेषु मोदन्ते क्षुत्तृड्भ्यां तु विवर्जिताः ॥९६॥ एवं गृहस्थधर्मोऽयं पुत्रपौत्रादिभिः कृतः ।
श्राद्धात्मकः सतृष्णानामुद्धाराय विनिर्मितः ॥९७॥ पिपीलिकादिभूतानि जङ्गमाश्च विहङ्गमाः ।
स्थावराश्चोपजीवन्ति गृहस्थेषु न संशयः ॥९८॥ मासि मासि तु ये श्राद्धं प्रकुर्वन्ति गृहाश्रमे ।
तिथौ पर्वणि सद्वारे स्वपितॄँस्तारयन्ति ते ॥९९॥ पितरो निर्गतास्ते वै ब्रह्मविष्णुशरीरगाः ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥1.356.१०० ॥ एवं क्रमेण ते पश्चात् काश्यपा देवता इति ।
समभवँस्ततस्ते वै श्राद्धेषु विनियोजिताः ॥१०१ ॥ पितृयज्ञे विप्रमुखे दत्तं वै केवलं तदा ।
तदा त्वजीर्णतां प्राप्ताः पितरोऽजीर्णपीडिताः ॥१ ०२॥ सोमेन सहिता जग्मुः प्रणम्य च पितामहम् ।
प्रोचुर्वयं ह्यजीर्णेन पीडिता वारणं कुरु ॥१ ०३॥ येन नश्यत्यजीर्णं च पितॄणां च सुखं भवेत् ।
ब्रह्मा प्राह तदा योऽस्ति शाण्डिल्यस्य सुपुत्रकः ॥१ ०४॥ धूम्रकेतुर्विभावसुस्तेजस्वी जीर्णताकरः ।
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा ॥१ ०५॥ सह तेनैव भोक्तव्यं पितृपिण्डविसर्जितम् ।
तावत्स्मृतो हव्यवाहः सर्वभक्षो हुताशनः ॥१ ०६॥ योजितः पञ्चयज्ञेषु ब्रह्मणा सर्वकर्मसु ।
भोक्तव्यं प्रथमं वह्ने! पितृपिण्डविसर्जितम् ॥१ ०७॥ त्वया भुङ्क्ते प्रभोक्ष्यन्ति देवताः पितरस्त्विमे ।
श्राद्धं द्वितीयं भोक्तव्यं सहैव वह्निपितृभिः ॥१ ०८॥ तृतीयं पिण्डदानं तु सोमपितृहुताशनैः ।
मिलित्वैव प्रभोक्तव्यं ह्यजीर्णं न भविष्यति ॥१ ०९॥ इत्युक्ताः पितृयज्ञे ते भुञ्जते सहिता सदा ।
वह्निः पिता पितामहः प्रपितामह एव च ॥1.356.११ ०॥ सोमश्चेति भुञ्जते वै पितृदेवहुताशनाः ।
अपाङ्क्तेयास्तदा विप्रा भोजनीया न वै क्वचित् ॥१११ ॥ अपाङ्क्तेयान् प्रवक्ष्यामि कर्मतो हीनतां गतान् ।
नपुंसकाश्चित्रकाराः पशुपाला विनिन्दकाः ॥११२॥ स्वर्णचौरास्तथा काणाः कुष्ठिनो नास्तिकास्तथा ।
नर्तका गायकाश्चापि तथा नाटकजीविनः ॥११३ ॥ वेदविक्रयिणश्चापि सर्वयाजकयाजकाः ।
भृत्यकर्मकरा राज्यकिङ्कराः सकरास्तथा ॥१ १४॥ संस्कारहीनाः पतिता शूद्रकर्मोपजीविनः ।
गणका ग्राम्ययाजिनो लेखका दाम्भिकास्तथा ॥११५॥ सर्वकर्मकरा भ्रष्टा मद्यमांसव्यवायिनः ।
अन्ये ये दूषितास्ते वै द्विजरूपैस्तु राक्षसाः ॥११६ ॥ तान् भुञ्जतः प्रपश्यन्तः पितरो दुःखमाप्नुयुः ।
प्रायश्चित्तं ततः शीघ्रं कुर्याच्छ्राद्धं पुनश्चरेत् ॥११७ ॥ घृतं तु जुहुयादग्नावादित्यं त्ववलोकयेत् ।
पुनरावपनं कृत्वा पितरं च पितामहान् ॥११८ ॥ दद्याद् गन्धं तथा धूपं दीपमर्घ्यं तिलोदकम् ।
विप्राय भोजयेच्चापि तेन पितृप्रतोषणम् ॥११९ ॥ यस्तु विप्रो मृतान्नं न भुनक्ति शुद्धिमान् सदा ।
तस्मै दानं प्रदातव्यं वैश्वदेवेषु तण्डुलाः ॥1.356.१२० ॥ गोधूमा घृतमित्यादि शर्करा शाकमित्यपि ।
दुग्धं दधि तथा वस्त्रं श्राद्धेषु तं न योजयेत् ॥१२१ ॥ प्रेतान्नं भुञ्जमानानां प्रायश्चित्तं विधीयते ।
माघमासे द्वादश्यां तु सर्पियुक्तं सुपायसम् ॥१ २२॥ लिहेद्वै मधुना सार्धं देहशुद्ध्यर्थमित्यथ ।
सवत्सां कपिलां दद्यादात्मनः शुद्धये तथा ॥१२३ ॥ तीर्थे स्नायाच्च गायत्रीसहस्रं प्रजपेत्तथा ।
यद्वा देहात्मनोः शुद्धिकामः स श्राद्धमाचरेत् ॥१ २४॥ स्नात्वा भूमिं प्रविलिप्य मन्त्रयेद् ब्राह्मणोत्तमम् ।
अमायां वै महालक्ष्मि! दन्तकाष्ठं न घर्षयेत् ॥१२५॥ हिंसितो यद्भवेत् सोमो देवताः पितरस्तथा ।
प्रभाते तेन विप्रेण श्मश्रुनखादिछेदनम् ॥१२६ ॥ कारणीयं स्नानमभ्यञ्जनं पक्वान्नमित्यपि ।
मध्याह्ने समये प्राप्ते विप्राय पाद्यमर्पयेत् ॥१ २७॥ गृहान्तरं नयेद् दद्यादासनं चार्घ्यमुत्तमम् ।
गन्धमाल्यैर्धूपदीपैः सम्पूज्य सलिलं तिलान् ॥१२८ ॥ दत्वा पात्रं भोजनार्थं विप्राग्रे स्थापयेच्छुभम् ।
भस्मना मण्डलं कुर्यात् पङ्क्तिदोषनिवारकम् ॥१ २९॥ अग्नौ हुत्वा ब्राह्मणाय मिष्टान्नं परिवेषयेत् ।
यथासुखेन भोक्तव्यमिति ब्रूयाद् द्विजं प्रति ॥1.356.१३० ॥ तृप्तं ब्राह्मणं कृत्वा दद्याद्वै विकिरं ततः ।
उत्तरीयासनं दत्वा पिण्डप्रश्नं तु कारयेत् ॥१३१ ॥ टक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य भूतले ।
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा ॥१३ २॥ पिण्डानां पूजनं कुर्यात् तन्तुवृद्ध्यै यथाविधि ।
ब्राह्मणस्य च हस्ते तु दद्यादक्षयमात्मवान् ॥१३३ ॥ दक्षिणाभिः प्रतुष्यापि स्वस्तिवाच्यं विसर्जयेत् ।
पिण्डास्त्रयस्तु तत्रैव यावत्तिष्ठन्ति भूतले ॥१३४॥ आप्यायमानाः पितरस्तावत् तिष्ठन्ति वै गृहे ।
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च ॥१३५ ॥ प्रणम्य वैष्णवीं भूमिं काश्यपीमक्षयां ततः ।
भक्षयेत्प्रथमं पिण्डं पत्न्यै देयं तु मध्यमम् ॥१३६॥ तृतीयमुदके दद्याद् विसृजेत् पितृदेवताः ।
प्रणमेदेवं विधिना तुष्यन्ति पितृदेवताः ॥१३ ७॥ दीर्घायुष्यं प्रयच्छन्ति पुत्रपौत्रधनानि च ।
शृणु लक्ष्मि! मधुपर्कं दद्यात्प्राणप्रयाणके ॥१३८ ॥ मधुपर्कः पुरुषो वै मे दक्षाङ्गाद् विनिःसृतः ।
मया स सर्वकार्येषु भवमोक्षाय योजितः ॥१३९ ॥ मधुपर्को भवेद्यत्र यस्य वा तत्र मोक्षणम् ।
यत्र नास्ति मधुपर्कस्तत्र मुक्तिर्न विद्यते ॥1.356.१४० ॥ मध्वेवं दधि सर्पिश्च कुर्यात्त्वेवं समं त्रिकम् ।
दद्याद् विप्राय पुण्यार्थं शवाय मोक्षणाय च ॥१४१ ॥ श्राद्धादेः कर्मणश्चान्ते शान्तिपाठं प्रकारयेत् ।
राधेशाय रमेशाय लक्ष्मीशाय च ते नमः ॥१ ४२॥ माणिकीशाय पार्वतीश्वराय व्यापिने नमः ।
प्रभेशायाऽनादिकृष्णनारायणाय ते नमः ॥१४३ ॥ दिशः पश्य त्वधः पश्य व्याधिभ्यो रक्ष नित्यशः ।
प्रसीद स्वस्य राष्ट्रस्य राज्ञः सर्वबलस्य च ॥१ ४४॥ गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा ।
ब्राह्मणानां च साधूनां शान्तिं कुरु शुभं कुरु ॥१४१॥ अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं कुरु ।
विभो! प्रवर्धतां राष्ट्रं शान्तिर्भवतु नित्यशः ॥१४६ ॥ देवानां मनुजानां च भक्तानां कन्यकासु च ।
पशूनां सर्वभूतानां शान्तिर्भवतु नित्यशः ॥१४७॥ एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत् ।
सर्पिर्मधुदधीन्येव समे पात्रे ह्युदुम्बरे ॥१४८ ॥ अलाभे मधुनश्चात्र गुडेन सह मिश्रयेत् ।
घृताऽलाभे महालक्ष्मि! लाजैः सह विमिश्रयेत् ॥१४९॥ अलाभे चापि दध्नस्तु क्षीरेण सह मिश्रयेत् ।
दधिं क्षौद्रं घृतं चैव कारयेत् तत्समं च वा ॥1.356.१५० ॥ समर्पयामि देवेश कृष्ण! सर्पिर्घृतं मधु ।
सर्वेषामप्यलाभे तु जलमेव ददेन्मुखे ॥१५१ ॥ यो वै प्राणान्प्रमुञ्चेत्तु मधुपर्कं ददेन्मुखे ।
अयं पवित्रो विमलः सर्वकामप्रपूरकः ॥१५२॥ शृणोति मधुपर्कादेराख्यानमेतदुत्तमम् ।
याति दिव्यां परां मुक्तिं ममानुग्रहकारणात् ॥१५३॥ राजद्वारे श्मशाने वा भये च व्यसने तथा ।
ये पठन्ति त्विमां शान्तिं शीघ्रं स्वेष्टं भविष्यति ॥१५४॥ अपुत्रो लभते पुत्रमभार्यस्तु प्रियां लभेत् ।
लभेताऽपतिका कान्तं बद्धो निर्बन्धनो भवेत् ॥१५५॥ अस्य संस्मरणाच्चापि श्राद्धादिफलभाग् भवेत् ।
इति ते कथितं लक्ष्मि! श्राद्धादिहार्दमुत्तमम् ॥१५६॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुरातीर्थमाहात्म्ये श्राद्धभोक्तुः प्रायश्चित्तेन पावित्र्यम्, अवन्तीनगर्या मेधातिथिराज्ञः कुपात्रब्राह्मणभोजने पितॄणां पातित्यं सुपात्रे श्राद्धकरणे पुनः पितॄणां स्वर्गामित्वम्, पितुः पितामहस्य प्रपितामहस्य ब्रह्मविष्णुमहेशगात्रोत्पन्नता, सोमपितृहुताशनाः साधौ विप्रे च सहभोजिनः, नीलवृषदानम्, मधुपर्कदानम्, शान्तिपाठश्चेत्यादिनिरूपणनामा षट्पञ्चाशदधिकत्रिशततमोऽध्यायः ॥३५६॥