३४७

श्रीनारायण उवाच-
अथान्यत्ते प्रवक्ष्यामि महालक्ष्मि! शृणुष्व तत् ।
मथुराया उत्तरस्थे चक्रतीर्थेऽभवत्तु यत् ॥१ ॥ जम्बूद्वीपे महागृहोदयपत्तनवासकृत् ।
ब्राह्मणः स्वस्य कन्यां च पुत्रं चादाय वेदवित् ॥२ ॥ शालग्रामं महाक्षेत्रं ययौ यात्रार्थमेव सः ।
निवासमकरोत् तत्र स्नायी तीर्थसुरार्चकः ॥३ ॥ देवतानां दर्शनेऽस्य सिद्धः कश्चिद् दृशेः पथि ।
समायातः कलापाख्यग्रामवासी नराकृतिः ॥४ ॥ सिद्धो नित्यं दर्शनार्थं समायाति वियाति च ।
विप्रस्य पर्णशालायां विश्रान्तिं लभतेऽपि च ॥५ ॥ वर्णयति स्म कलापग्रामस्यातिविभूतिकाः ।
श्रुत्वा विप्रस्य गमने जाता बुद्धिस्ततो द्विजः ॥६ ॥ प्राह सिद्धं मम मित्रं भवानद्य हि वर्तते ।
कलापं मां नय मित्र! ते पश्यामि विभूतिकाः ॥७ ॥ सिद्धः प्राह तु विप्रेन्द्र! तत्र ते न गतिर्भवेत् ।
शरीरं शीतवातैस्तु नाशं यास्यति ते द्विज! ॥८ ॥ तथापि ब्राह्मणः प्राह तव योगेन मां नय ।
एवमभ्यर्थितः सिद्धः कन्यां पुत्रं च मित्रकम् ॥९ ॥ करे सङ्गृह्योत्पपात व्योम्नि योगबलेन वै ।
कलापे स्वाश्रमे न्यस्तं सिद्धेन ब्राह्मणत्रयम् ॥1.347.१ ०॥ तत्र कालेन यातेन विप्रो रुग्णोऽभवत्तदा ।
मृत्युयोग्यं पितरं च निन्ये गङ्गातटं सुतः ॥१ १॥ सुता चापि स्वपितरं सेवते पथ्यवस्तुभिः ।
एकदा पर्णशालायां पित्रर्थे पाकमाचरत् ॥१२॥ तदा कश्चिद् ब्राह्मणोऽपि भिक्षार्थं गृहमागतः ।
पृष्टोऽसौ भद्रया तया क्व भवाँस्त्वमिहागतः ॥१ ३॥ स प्राह कान्यकुब्जस्य विप्रोऽहं सिद्धतां गतः ।
विचरामि महातीर्थे कलापेऽत्र सुखी सदा ॥१४॥ कन्ययाऽऽवेदितः पित्रे भ्रात्रे स सिद्धदेहवान् ।
पित्रा दत्ता विचार्यैव कन्या सिद्धद्विजाय सा ॥१५॥ सिद्धोऽप्ययं हि जामाता वसति श्वशुरगृहे ।
कालेन क्षणतां प्राप्तं श्वशुरं पर्यपृच्छत ॥१६॥ कथं रोगः कदा त्वस्य विनाशोऽपि भविष्यति ।
यथा रोगविनाशः स्यात्तथा करोमि सेवनम् ॥१७॥ जामातृवचनं श्रुत्वा श्वशुरः शान्तिमाव्रजत् ।
प्राह जामातरं भवान् सिद्ध्या जानाति चेद् वद ॥१८॥ जामाता सिद्धिमान् ध्यात्वा श्वशुरं प्राह भो द्विज ॥ कलापेऽत्र निवसता शूद्रान्नं भक्षितं त्वया ॥१ ९॥ अजानताऽर्पितं तेन भक्षितं चाऽप्यजानता ।
तेन दोषेण रोगोऽयं वर्तते वर्ष्मणि द्विज! ॥1.347.२०॥ पादयोर्विद्यते चान्नं जान्वोरूर्ध्वे न विद्यते ।
शूद्रान्नेन विहीनस्य विप्र! मृत्युर्भविष्यति ॥२१॥ जामातृवचनं श्रुत्वाऽऽत्मानं विप्रोऽत्यगर्हयत् ।
दुःखेन पीडितः क्षीणो मर्तुमैच्छद् द्विजोत्तमः ॥२२॥ अथ प्रभाते जामाता सुता पुत्रश्च ते त्रयः ।
कार्यार्थ तु ययुर्गेहाद् बहिस्तावत् क्षणान्तरे ॥२३॥ निर्जनावसरं लब्ध्वा मरणं प्रविचार्य च ।
गङ्गातीरात् समुत्तिष्ठन् दिशः सर्वा विलोकयन् ॥२४॥ सन्निधावुपलां दृष्ट्वा गृहीत्वा पर्णकृद्गृहे ।
चूर्णयामास तौ पादौ पीडया दुःखितो द्विजः ॥२५॥ ततः प्राणान् परित्यज्य गतोऽसौ स्वर्गमुत्तमम् ।
जामाता च सुता पुत्रः कार्यं कृत्वाऽऽययुर्गृहम् ॥२६॥ तावन्मृतं तु तं वृद्धं दृष्ट्वा रुरुदुरत्यति ।
सर्पशृङ्गिहतानां च दंष्ट्रिप्राणिहतस्य च ॥२७॥ आत्मघातकृतस्यापि नास्ति संस्कारयोग्यता ।
कथमस्य भवेद् दाहो विचार्येति पुनश्च ते ॥२८॥ प्रायश्चित्तं विधीयीत न दद्याच्चोदकक्रियाम्
इति विधिं समाश्रित्य चक्रुर्दाहादिकं ततः ॥२९॥ प्रायश्चित्तं तथा चक्रुर्ययुर्ग्रामं कलापकम् ।
तत्रस्थं मृतविप्रस्य मित्रं सिद्धं प्रणम्य ते ॥1.347.३० ॥ मरणादिकमांवेद्य क्षणं चक्रुः प्रशोचनम् ।
कलापस्थश्च सिद्धोऽयं प्राह जामातरं द्विजम् ॥३ १ ॥ ब्रह्महत्या तु ते जाता प्रायश्चित्तं ततः कुरु ।
वृद्धसिद्धवचः भूत्वा जामाता वाक्यमब्रवीत् ॥३२॥ न मया ब्राह्मणवधः कदाचिदपि वै कृतः ।
केन दोषेण मे पूज्य! ब्रह्महत्या फलं वद ॥३३॥ जामातुर्वचनं श्रुत्वा वृद्धसिद्धस्तमब्रवीत् ।
त्वया तत्पादयोः शूद्रस्यान्नं चास्तीति दर्शितम् ॥३४॥ तदन्नस्य क्षये मृत्युरित्यपि दर्शितं तथा ।
विप्रेण तेन च तद्वच्चूर्णितौ चरणौ स्वकौ ॥३५॥ मृत्युः कृतस्ततस्तत्र दोषभाक् त्वं तथाऽभवः ।
इति त्वया वधोपायो निर्दिष्टश्च द्विजोत्तम! ॥३६॥ तेन दोषेण विप्रर्षे! ब्रह्महत्याफलं तव ।
आसन्नशयनाच्चैव भोजनात् कथनात्तथा ॥३७॥ पापं सङ्क्रमते व्यक्तौ सहसञ्चरणात्तथा ।
ततः शुद्धिः प्रकर्तव्या माऽस्तु वासो मम गृहे ॥३८॥ कल्पग्रामं परित्यज्य मथुरां याहि भूसुर ।
नान्यत्र तव शुद्धिः स्यादित्यवेहि प्रयाहि च ॥३९॥ श्रुत्वा वृद्धस्य तद्वाक्यं मथुरां ते त्रयो ययुः ।
पत्नी च शालकस्तेन जामात्रा सिद्धविद्यया ॥1.347.४० ॥ उत्पतता व्योममार्गे त्वानीतौ मथुरां प्रति ।
ब्राह्मणेभ्यो बहिःस्थाने वसतिं चक्रुरादरात् ॥४१ ॥ मथुरायां तदा राज्ञः सत्रे वै कुशिकस्य च ।
विप्राणां द्वे सहस्रे तु भुञ्जेते मेध्यमन्वहम् ॥४२ ॥ ब्रह्मयज्ञकृतोच्छिष्टं भुञ्जते ते त्रयस्ततः ।
चक्रतीर्थं समासाद्य स्नानं च कुर्वते सदा ॥४३ ॥ पत्नी यज्ञप्रसादं स्वपतिं भिक्षाऽऽगतं निशि ।
भोजयित्वा प्रभुङ्क्ते च वर्षार्धं विगतं तथा ॥४४॥ ततो भिक्षार्थमायातं सिद्धं पप्रच्छुरादरात् ।
विप्रा यज्ञप्रकर्तारः कुत्र सन्तिष्ठसे द्विज! ॥४५॥ भोजनं कुरुषे कुत्र स्थित्वा वद् यथातथम् ।
सिद्धश्च कथयामास वृत्तान्तं स्वात्मनो हितम् ॥४६ ॥ भिक्षां त्वत्र गृहीत्वाऽहं भार्यया शालकेन च ।
सहितश्चक्रतीर्थेऽत्र समाप्लाव्य विभज्य च ॥४७॥ भोजनं वै करोम्यत्र ब्रह्महत्यानिवृत्तये ।
तच्छ्रुत्वा ब्राह्मणाः सर्वे ऊचुः शुद्धोऽसि वै द्विज! ॥४८ ॥ चक्रतीर्थप्रभावेण पापान्मुक्तोऽसि सर्वथा ।
विप्राणां वचनाच्चैव पुनः शुद्धोऽसि वै द्विज! ॥४९ ॥ इति विप्रकृतां शुद्धिं चक्रतीर्थकृतां तथा ।
प्रायश्चित्तकृतां चापि प्रसादस्याऽशनात्तथा ॥1.347.५ ० ॥ प्राप्य सिद्धः प्रमुमोद सभार्याशालकस्तथा ।
चक्रतीर्थं समागत्य भिक्षां भोक्तुं व्यवस्थितः ॥५ १ ॥ पत्नी हृष्टेन मनसा भर्तारं वाक्यमब्रवीत् ।
भोजनं कुरु विप्रेन्द्र! हत्यां लक्ष्यामि ते गताम् ॥५२॥ चक्रतीर्थप्रभावेण हत्या नष्टा द्विजोत्तम! ।
तस्मादत्र मथुरायां नित्यं स्थातव्यमेव ह ॥५ ३ ॥ ते व्यवस्य त्रयस्तत्र मथुरायां सदा स्थिताः ।
कलापं सम्परित्यज्य मथुरा भुक्तिमुक्तिदा ॥५४॥ भद्रेश्वरं तु तत्तीर्थं सिद्धसेवितमित्यथ ।
कलापाद्धि शतगुणं चक्रतीर्थं हि पुण्यदम् ॥५५॥ अहोरात्रोपवासेन ब्रह्महत्या विनश्यति ।
किं तस्य तु कलापेन वारागास्याऽथवापि किम् ॥५६॥ मथुरा यदि संलब्धा चक्रतीर्थं च सेवितम् ।
अपि कीटः पतङ्गो वा जायते स चतुर्भुजः ॥५७॥ कालधर्मं समापन्नास्त्रयस्ते ब्राह्मणाः प्रिये! ।
प्रापुर्मे दिव्यगोलोकं चतुर्भुजा हि शाश्वताः ॥५८ ॥ शृणु चान्यत् प्रवक्ष्यामि बलं वैकुण्ठतीर्थजम् ।
मिथिलावासिनो लोकास्तीर्थार्थं मथुरां गताः ॥५९ ॥ वैकुण्ठतीर्थमासाद्य स्थितास्तेषां तु भूसुरः ।
कश्चिदासीद् ब्रह्महत्यापापेन त्वतिपीडितः ॥1.347.६० ॥ रुधिरस्य तु वै धारा स्रवन्ती तस्य हस्ततः ।
प्रत्यक्षा दृश्यते बहुतीर्थस्नानेऽपि नो गता ॥६१॥ किन्तु वैकुण्ठतीर्थस्य स्नानेन विलयं गता ।
विस्मयो नात्र कर्तव्यो वैकुण्ठस्य फलं हि तत् ॥६२॥ अत्र स्नाता पापशून्यो वैकुण्ठं प्रतिगच्छति ।
पुनरन्यत् प्रवक्ष्यामि लक्ष्मि! गन्धर्वकुण्डजम् ॥६३ ॥ माहात्म्यं स्नानकर्ताऽस्मिन् गन्धर्वैः सह मोदते ।
माथुरं मण्डलं पद्मं योजनानां तु विंशतिः ॥६४॥ कर्णिकायामहं कृष्णो मृतानां मुक्तिदः सदा ।
पश्चिमेऽहं हरिर्गोवर्धनधारी वसामि च ॥६५॥ गोविन्दश्चोत्तरे पूर्वे विश्रान्तौ देवविश्रमः ।
दक्षिणेऽहं वराहोऽस्मि महाकायोऽतिकेशवान् ॥६६॥ कृते युगे नृपतिना मान्धात्रा तोषितोऽस्म्यहम् ।
मया तुष्टेन हि तस्मै प्रतिमा मम चार्पिता ॥६७॥ कपिलेन भगवता तैजसी दिव्यरूपिणी ।
मनसा निर्मिता रम्या वाराही प्रतिमा शुभा ॥६८॥ इन्द्रोऽपि ध्यायति नित्यं कपिलात् प्राप्य सौकरीम् ।
मूर्तिं स्वभवने समर्चयति स्म समादरात् ॥६९॥ रावणोऽपि गतः शक्रं विजेतुं स्वर्गमित्यपि ।
शक्रं जित्वा प्रविष्टस्तद्भवने तत्र सौकरम् ॥1.347.७० ॥ रूपं दिव्यं रावणं वै बबन्ध बहुरश्मिभिः ।
रावणश्च स्तुतिं चक्रे त्रातुमर्हसि माधव! ॥७१॥ मम त्वं भक्तियुक्तस्य प्रसादं कुरु सर्वथा ।
तदा प्रसन्नो भगवान् मुमोच रावणं हरिः ॥७२॥ रावणोऽपि तदा मूर्तिं लङ्कां नेतुमियेष यत् ।
तामुद्धर्तुमशकन्न तदातिविस्मयं गतः ॥७३॥ नेमे तत्पादयोः प्राह लङ्कां नेतुं ममाऽऽशयः ।
वाराहः प्राह रक्षस्त्वमवैष्णवोऽसि तेन वै ॥७४॥ नाऽऽगमिष्ये ततो भूया वैष्णवश्चेन्नयस्व माम् ।
रावणो वैष्णवो भूत्वा नीतवान्नगरीं तु ताम् ॥७५॥ रामेण रावणो नाशं गमितः प्रतिमा तु सा ।
आनीता स्वनगरीं च पूजिता बहुवत्सरान् ॥७६॥ तेन शेषस्वरूपः स्वभ्राता रक्षोविनाशने ।
योजितः स मथुरायां समागत्य तु राक्षसान् ॥७७॥ नाशयामास च तत्र वाराहीं प्रतिमां हि ताम् ।
आनयामास रक्षार्थं स्थापयामास वै विधेः ॥७८ ॥ धन्येयं माथुरी पृथ्वी धन्या लोकाश्च तद्गताः ।
यैः सदा स्नापितो दृष्टः स्पृष्टो ध्यातोऽनुचर्चितः ॥७९॥ पूजितश्च वराहोऽयं मोक्षं दास्यति सर्वथा ।
वराहसन्निधौ पिण्डदानान्मुक्तास्तु पूर्वजाः ॥1.347.८० ॥ भवत्येव गयाश्राद्धफलं पुष्करजं फलम् ।
श्वेतं वाराहमालोक्य विश्रान्तिं लोकयेत्तथा ॥८ १ ॥ गोविन्दं च समालोक्य गोवर्धनधरं ततः ।
विलोकयेदिति लक्ष्मि! कथितो महिमा च ते ॥८२॥ य इद्ं शृणुयाच्चापि पठेद्वा पाठयेत्तथा ।
तस्य वर्णितपुण्यानां प्राप्तिः स्यान्मोक्षणं भवेत् ॥८३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये चक्रतीर्थे कलापग्रामवास्तव्यविप्रस्य ब्रह्महत्यापातकनाशाख्यानं, मुक्तिश्च । वैकुण्ठतीर्थे मिथि-लाया विप्रस्य ब्रह्महत्यापातकनाशाख्यानं, कपिलभगवता मनसोत्पादितवाराहस्य परम्परया मथुरायां प्रति-ष्ठानमित्यादिनिरूपणनामा सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४७ ॥