श्रीलक्ष्मीरुवाच-
तुलसीविवाहं पूर्णं श्रोतुमिच्छामि केशव! ।
कन्यापक्षं वरपक्षं विवाहोत्सवमित्यपि ॥१ ॥
कन्यायाः पितरौ चापि वरस्य पितरौ तथा ।
क्व कथं सोद्वाहिता च कोऽभवत् तत्पुरोहितः ॥२ ॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि स्मरणाच्छ्रवणात्तथा ।
पापनाशकरं मोक्षकरं वृत्तं वदामि ते ॥३ ॥
वृन्दावनं चातिरम्यं यमुनातटशोभितम् ।
तुलसीविष्णुवैवाह्यविधिस्थानं सुशोभनम् ॥४ ॥
गोवर्धनात्समारभ्य पश्चिमकोसलावधिम् ।
कुरुक्षेत्रात्तथाऽऽरभ्य खाण्डकारण्यकावधिम् ॥५ ॥
महाक्षेत्रं विवाहस्य स्थलं चाभूत् तदा कृतम् ।
विष्णुः सस्मार भूस्थल्याः शुद्ध्यर्थं देवकर्षुकान् ॥६ ॥
द्रागेव ते समायाताः संस्कृता भूस्थली तु तैः ।
विष्णुः सस्मार च विश्वकर्माणं स समाययौ ॥७ ॥
चकार मण्डपं मुख्यं वृन्दावनेऽष्टयोजनम् ।
चकार मण्डपाँश्चान्यान् शतयोजनविस्तरान् ॥८ ॥
अथ वृषध्वजो राजा शिवभक्तोऽभवद् यतः ।
तद्वंशजो धर्मध्वजस्तुलसी तस्य कन्यका ॥९ ॥
तस्मात् तुलस्याः पितरौ भवतं पार्वतीहरौ ।
इत्याज्ञप्तौ विष्णुना तौ तद्वैवाहिककर्मणि ॥1.339.१० ॥
कन्यादानविधानार्थं पितरौ तु सतीहरौ ।
सर्वमान्यावभवतां तुलसी हर्षिताऽभवत् ॥११ ॥
अथ विष्णोर्वरस्यात्र जिज्ञासितौ तु पितृकौ ।
राधाकृष्णौ तु पितरौ गोलोकस्थौ सुसम्मतौ ॥१२॥
विष्णुना स्मारितौ तत्राऽऽययतुः सहमण्डलौ ।
वैकुण्ठाधिपतिर्नारायणो विष्णुर्वरोऽत्र वै ॥१ २॥
विष्णुना संस्मृतः कन्याकुटुम्बस्य पुरोहितः ।
देवपुरोहितो वृहस्पतिर्गुरुरुपस्थितः ॥१४॥
विष्णुना च स्मृतः पुरोहितो वरकुटुम्बगः ।
धौम्यः कृष्णपुरोहितो गर्गेण सह चाययौ ॥१५॥
मङ्गलान्यभवन् लोकाचारश्चापि बभूव ह ।
लग्नपत्री कुङ्कुमाप्ता लिखिता प्रेषिताऽपि च ॥१६॥
विवाहमण्डपस्तत्र चतुर्योजनविस्तृतः ।
तुलसीनां वने यमीतीरे त्वष्ट्रा कृतो नवः ॥१७॥
यज्ञकुण्डस्तथा वेदी कलशस्थापनादिकम् ।
गणेशपूजनं मातृकादिस्थापनपूजनम् ॥१८॥
ग्रहाणां पूजनं माणिकाख्यस्तम्भप्ररोपणम् ।
लोकाचारश्च कन्याया हरिद्राद्रवलेपनम् ॥१९॥
सदाशिवेन विधिवत् कारितं सर्वमेव तत् ।
स्वस्वसम्बन्धिपक्षाँश्चाऽऽजुहुवुश्च समन्ततः ॥1.339.२० ॥
वरपक्षशिबीरं तु खाण्डवस्य वने कृतम्।
कन्यापक्षशिबीरं तु तुलसीवनके कृतम् ॥२१ ॥
वृन्दावने महामुख्ये मण्डपे महीमानकाः ।
न्युषुश्च कन्यकापक्षा वरपक्षास्तु खाण्डवे ॥२२ ॥
राधाकृष्णेन च तत्र स्मृतः पत्नीव्रतः सुरः ।
समायातः स विप्रोऽत्र वेदविद्यादिपारगः ॥२३ ॥
कुङ्कुमपत्रिकास्तेन लिखिताः प्रेषितास्तथा ।
जीवसृष्टावीशसृष्टौ ब्रह्मसृष्टावथापि च ॥२४॥
प्रेषितास्तत्तत्प्रविज्ञैर्लग्नसमयसूचिकाः ।
द्वादश्यां मण्डपस्त्रयोदश्यां लोकाऽनुमङ्गलम् ॥२५ ॥
चतुर्दश्यां महीमानाः पूर्णिमायां विवाहनम् ।
कार्तिकशुक्लद्वादश्यां मण्डपारोपणादिकम् ॥२६ ॥
कृतस्तथा लोकाचारस्त्रयोदश्यां सुमङ्गलम् ।
चतुर्दश्यां महीमानाः सर्वशस्तु समाययुः ॥२७॥
कृष्णगृहेऽक्षरधाम्नो मुक्तानीमुक्तसेवितः ।
कृष्णनारायणोऽगच्छद् भगवान्पुरुषोत्तमः ॥२८॥
गोलोकाद् गोपगोपीनां गणाश्च कृष्णयोषिताम् ।
कृष्णस्य पाषर्दाश्चाप्याययुस्ते कृष्णखाण्डवम् ॥२९ ॥
वैकुण्ठाच्च सपत्नीको नारायणः समाययौ ।
पार्षदाः पार्षदान्यश्च समाययुः समन्ततः ॥1.339.३० ॥
वासुदेवादयो व्यूहाः सपत्नीकाः सपार्षदाः ।
समाययुस्तदा सर्वे तुलसीविष्णुलग्नके ॥३१ ॥
अव्याकृतात्तथाधाम्नो भूमपूरुषमण्डलम् ।
समाययौ च वैराजो महाविष्णुः समण्डलः ॥३२॥
सङ्कर्षणास्तथा सर्वे तत्त्वानि प्रकृतिस्तथा ।
प्रधानानि प्राययुश्च तुलसीविष्णुलग्नके ॥३३ ॥
अवताराश्च तत्पत्न्यो माणिकीपार्वतीप्रभाः ।
जयारमाललिताद्या ईश्वराण्यः समाययुः ॥३४॥
श्रीरामश्चापि सीताद्याः सर्वे तत्र समाययुः ।
मुनयः ऋषयो देवाः पितरश्च समाययुः ॥३५ ॥
ब्रह्मपत्न्यश्च सावित्रीगायत्र्याद्याश्च विश्वसृट् ।
ब्रह्मणो मानसाः पुत्राः सप्तर्षयः समाययुः ॥३६॥
दिक्पाला मनवो धर्मवंशोऽर्थमादयो गणाः ।
श्रावणा वत्सरा याम्याः प्रेता वह्नय आययुः ॥३७॥
इन्द्रश्चन्द्रस्तथा सूर्यो मङ्गलो बुध इत्यपि ।
ग्रहास्तारा नक्षत्राणि चाययुस्तुलसीमहे ॥३८ ॥
सिद्धयो वसवो रुद्रा मरुतो निधयस्तथा ।
कृत्तिका मातरश्चान्या सुराः काष्ठाः कलाश्च वै ॥३९ ॥
तिथयश्च त्रयस्त्रिंशद्विधा देवाः समाययुः ।
यक्षाश्च भूतवर्गाश्च शाङ्कराश्च गणास्तथा ॥1.339.४० ॥
योगिनीमण्डलान्यत्र चण्डीप्रभृतिदेविकाः ।
भैरवाश्च पिशाचाश्च वीराभद्रा ज्वरादयः । ४१ ॥
तामसी सृष्टिरितरा शिवपक्षाः समाययुः ।
पत्नीव्रतादिविप्राद्याः पतिव्रतादियोषितः । ४२ ॥
वर्णाश्रमास्तथाऽऽययुर्जलस्था व्योमगास्तथा ।
गृहादिदेवता नद्यः पर्वताश्च वनानि च ॥४३ ॥
खाताः समुद्रा ग्रामाश्च द्वीपा द्रुमाः समाययुः ।
वल्ल्यः स्तम्बास्तृणान्यत्र पशवः पक्षिणस्तथा ४४॥
जन्तवश्चापि सस्यानि नागाः सर्पाः समाययुः ।
बदरीस्थाः श्वेतसंस्थाः क्षीरस्थाश्च समाययुः ॥४५ ॥
सृष्टेः सर्वा योषितश्च तत्र नराश्च भावुकाः ।
शिवविष्णुसमाहूता आययुस्तुलसीमहे ॥४६ ॥
छत्रचामरसंयुक्ता राजाधिराजकीर्तयः ।
विमानावरमारूढा हंसगरुडहस्तिगाः ॥४७ ॥
चम्पकाभा निर्निमेषाः स्वर्णमुकुटकुण्डकुण्डलाः ।
दासदासीसमायुक्ता आययुस्तुलसीमहे ॥४८ ॥
खाद्यानां च प्रभोज्यानां लेह्यानां चोष्यवस्तुनः!
पेयानां दुग्धसाराणाममृतानां च वार्धयः ॥४९ ॥
मिष्टान्नानां व्यञ्जनानां शाकानां सूपवस्तुनः ।
तण्डुलानां शर्कराणां कन्दानां फलवस्तुनः ॥1.339.५० ॥
पर्वतास्तु कृता यत्र नवनीतघृतस्य च ।
सरांसि सम्भृतान्येव शीतपेयसरिद्वराः ॥५ १ ॥
घृतकुल्या दधिकुल्या रसकुल्या मधोर्नदाः ।
माधव्याश्चापि नद्यश्च वारुण्याश्च सरांसि च ॥५२ ॥
लवणं तिक्तमामिष्टं मधुरं चाम्ब्लमित्यपि ।
यथा यादृग् यथेष्टं च समुद्र इव चार्जितम् ॥५३ ॥
पर्यङ्कशय्याः पुष्पाणां दासा दास्यश्च कोटयः ।
नृत्यं च .नर्तकाश्चापि सूतमागधबन्दिनः ॥५४॥
भाटचारणपण्डितगणकाऽसङ्ख्यभिक्षुकाः ।
साध्व्यः सत्यः साङ्ख्ययोगित्यागिसन्यासियोषितः ॥५५ ॥
अप्सरसो गणिकाश्च पर्यश्च तुलसीमहे ।
तीर्थानि देवगन्धर्वा नटाश्च गीतिकास्वराः ॥५६ ॥
वेदाश्च सर्वविद्याश्च प्राययुस्तुलसीमहे ।
शीतोष्णजलपानानि शीतोष्णभोजनानि च ॥५७ ॥
शीतोष्णेन्द्रियभोग्यानि सन्त्यनन्तानि तन्महे ।
समिधः सर्वजातीयास्तिलाद्याश्च कणास्तथा ॥५ ८ ॥
होमोपकरणार्थाश्च यात्राऽसङ्ख्या भवन्ति च ।
चातुर्होत्रा द्विजास्तत्र कोटिशश्च समाययुः ॥५९॥
स्वस्वपक्षे कृतावासा महीमानाः समन्ततः ।
कृतस्वागतभोज्याद्यास्तुतुषुश्च विरेजिरे ॥1.339.६० ॥
पूर्णिमायां कृतस्नानपूजनाद्याः सुरादयः ।
शिवाज्ञया हवनानि यज्ञकार्याणि चक्रिरे ॥६ १॥
अग्निमुखाश्च ये ते वै तृप्यन्त्यतितरां तदा ।
वाद्यानां तुमुला नादा भवन्त्यतितरां तदा ॥६२॥
नारीणां गीतिका रागा भवन्त्यतितरां तदा ।
नाटकानां रञ्जनानां भवन्त्यतितरां क्रियाः ॥६ ३ ॥
ब्राह्मणानां वेदघोषा भवन्त्यतितरां तदा ।
अप्सरसां नर्तनानि भवन्त्यतितरां तदा ॥६४॥
गणिकानां गायनानि भवन्त्यतितरां तदा ।
ऐन्द्रजालिदर्शनानि भवन्त्यतितरां तदा ॥६५॥
मायारचितदृश्यानि दृश्यन्तेऽतितरां तदा ।
सङ्गीतवरकाव्यानि भवन्त्यतितरां तदा ॥६६ ॥
प्रेमोद्वाहप्रवाहाश्च जायन्तेऽतितरां तदा ।
आचार्याणां तत्त्ववादा वर्तन्तेऽतितरां तदा ॥६७॥
कलाकारकलायत्ना लोक्यन्तेऽतितरां तदा ।
सर्वरसाः सर्वगन्धाः सर्वरूपाणि वै तदा ॥६८॥
सर्वशब्दाः सर्वस्पर्शाः प्राप्यन्तेऽतितरां तदा ।
किं न्यूनं भगवान् यत्र विवाहयति तूलसीम् ॥६९॥
प्रातस्तत्र समायाता खाण्डवाद् वरवाहिनी ।
वरौ विष्णुश्चतुर्हस्त ऊनषोडशहायनः ॥1.339.७०॥
शङ्खचक्रगदापद्मवनमालाविराजितः ।
कौस्तुभकुण्डलापीडमुकुटकटकान्वितः ॥७१॥
नवीनपद्महारालिसमावृताननस्तदा ।
दिव्यश्वेताश्वमारुढः खड्गहस्तः समुज्ज्वलः ॥७२॥
सुवर्णतारचञ्चत्सद्वस्त्रविभूतिशोभितः ।
रत्नहीरकमौक्तिकमणिस्वर्णादिभूषणः ॥७३ ॥
पीताम्बरधरो नाथः सोपानत्पत्कजान्वितः ।
पिशङ्गपिष्टपिशङ्गः केसरवर्णराजितः ॥७४॥
केयूरमालिकाऽऽपीडहारशेखरशोभितः ।
कुङ्कुमाऽक्षतचन्द्रकभालतिलकराजितः ॥७५॥
श्रीभूतिह्रीप्रभाकान्तिसिद्धिलक्ष्मीविराजितः ॥
समयायौ स वाहिन्या दशयोजनदीर्घया ॥७६ ॥
छत्रचामरयष्टिधृक्दासदासीप्रसेवितैः ।
राजाधिराजराजेशैः परमेशैः प्रयुक्तया ॥७७॥
लोकाचारविधानार्थं सदाशिवोऽभिस्थितः ।
सकोटीश्वरसम्राड्भिर्भोज्यपानेऽभिगृह्य च ॥७ ८ ॥
सजलश्रीफलपत्रयुक्तकलशमस्तकाः ।
सौभाग्यवत्यो दैव्यश्च कन्याश्चाभिययुर्वरम् ॥७९ ॥
स्वर्णस्थाल्यां धृताः पुष्पकुङ्कुमश्रीफलाऽक्षताः ।
माला लाजाः स्वस्तिकाश्चार्पिताः सत्या वराय वै ॥1.339.८० ॥
वर्धितश्चन्दनैः पुष्पैर्लाजाऽक्षतैस्तदाऽऽलिभिः ।
नमस्कृतः शिवपक्षैराशीर्दत्तश्च भूसुरैः ॥८ १ ॥
वर्धितः सर्वथा स्त्रीभिरीक्षितो महीमानकैः ।
रञ्जितो वाद्यघोषैश्च नीतो विश्राममण्डपम् ॥८२ ॥
भोजिताः पूजिता विश्रामिताश्च सत्कृताश्च ते ।
महीमाना उभपक्षाः सुखं प्रापुः प्रशाश्वतम् ॥८३ ॥
वरेण प्रेषितं वस्त्राभूषणादि तु सर्वथा ।
श्राङ्गारिकं च रत्नादि धारयामास तूलसी ॥८४॥
चन्द्रोदये कोटिचन्द्रसूर्यविद्युत्प्रकाशितम् ।
गृहमानीय सत्कारं वरस्य विदधे हरः ॥८५ ॥
लोकाचारं तदा कृत्वा जलपानं समर्प्य च ।
वर्धयित्वा वस्तुभिश्च विवाहमण्डपं हरः ॥८६ ॥
निनाय वरराजं तं वाद्यान्यवादयंस्तदा ।
वेदघोषा गीतिघोषास्तूर्यघोषास्तदाऽभवन् ॥८७ ॥
पुष्पवृष्टिं तदा चक्रुर्देव्योऽक्षतादिमिश्रिताम् ।
पदा कपालं भङ्क्त्वा श्रीविष्णुर्वेदीमुपाययौ ॥८८ ॥
वरसिंहासने तत्र निषादितो वरस्तदा ।
यज्ञकुण्डसमीपे च पट्टिकायां निषादितः ॥८ ९ ॥
प्रकोष्ठतन्तुना साकं कामफलेन योजितः ।
स्वस्त्यर्थं वाचितस्तत्र गुरुभिर्वेदपारगैः ॥1.339.९० ॥
वर्धितस्तिलकेनाथ शङ्करेण सभाजितः ।
पार्वत्या तिलकं कृत्वा कराभ्यां मङ्गलायितः ॥९१ ॥
वामे ततस्तूलसीं तामानीय सवधूकृतः ।
पुरोहिताभ्यां वर्धितौ तौ तिलकेन बिन्दुना ॥९ २॥
पुष्पाक्षतैर्जलैर्द्रव्यैः प्रोक्षितौ संस्कृतौ तदा ।
आचामितौ हवनाय प्रेरितौ जुहुतः स्म तौ ॥९३ ॥
कन्यया वरमाला च विष्णुकण्ठे समर्पिता ।
पुरोहितेन योजितौ दम्पती वरमालया ॥९४ ॥
अङ्गदेवादिपूजां च कारयित्वा तदुत्तरम् ।
द्वयोर्मुखे कवले च दापयित्वा परस्परम् ॥९ ५॥
जलं सम्पाययित्वा च मन्त्रानुच्चार्य वैदिकान् ।
विष्णोर्दक्षकरे वामकरं वध्वा निधाय च ॥९६ ॥
सहधर्मं चरेतामित्यादिमन्त्रानश्रावयन् ।
द्वयोः स्वेदलवो रोमपुलकश्चाऽभवत्तदा ॥९७॥
तदा वाद्यान्यवाद्यन्त बभूवुर्वेदघोषणाः ।
जयशब्दा बभूवुश्च विष्णुना तुलसीग्रहे ॥९८ ॥
वह्निं प्रदक्षिणं कृत्वा निषीदतुश्च तौ पुनः ।
शेषहोमं विधायैवोर्मिकाक्रीडां प्रचक्रतुः ॥९९ ॥
गोभूहिरण्यमाणिक्यवस्त्रान्तरत्नभूमिकाः ।
कोटिकोट्यर्बुदसङ्ख्या ब्राह्मणेभ्यो ददौ हरः ॥1.339.१०० ॥
रत्नहीरकमहिषी यानवाहनसद्गजान् ।
कृष्णो ददौ ब्राह्मणेभ्यो गृहक्षेत्रर्धिसम्पदः ॥१०१ ॥
तदा वराय वध्वै च ददुर्द्रव्यं प्रतौषिकम् ।
अथ मूशलशूर्पादि वरमूर्ध्नोऽवतारितम् ॥१०२ ॥
वधूवरौ गृहं नीत्वा ह्युभौ भोज्यं प्रकारितौ ।
एकान्तशयनं दत्वा प्रातः स्नानादिकोत्तरम् ॥१०३ ॥
कारयित्वा भोजनादि यौतं दत्वा विधानतः ।
रत्नहीरकस्वर्णादिनिधीनसङ्ख्यकाँस्तथा ॥१ ०४॥
कोट्यश्वहस्तिगोप्राणियानवाहनभूतयः ।
दासदासीपरार्धाद्या गृहोपकरणादयः ॥१० ५॥
प्रदत्ताः पितृभिश्चान्यैर्यथायोग्यं यथाधनम् ।
तत्सर्वं वरसात्कृत्वा लोकाचारं ताम्बूलकम् ॥१ ०६॥
जलपानं प्रदत्वा च क्षमायाचनमित्यथ ।
कृत्वा वरेण युक्तां स्वकन्यां निषाद्य वाहने ॥१ ०७॥
मङ्गलाशीर्वचो दत्वा प्राप्य कन्यानमःक्रियाम् ।
शम्भुः प्रस्थापयामास विश्रान्तिमण्डपं तु तौ ॥१०८ ॥
वरपक्षा जनवाहा विश्रान्तिभवनं ययुः ।
शिवपक्षा विनिवृत्ताः शिवाश्रमं प्रतस्थिरे ॥१० ९॥
प्रतिपद्दिवसे सर्वान् भोजयित्वातिभावतः ।
सत्कृत्य जनवाहाँश्चाऽप्रस्थापयद्धरो वरम् ॥1.339.११० ॥
स्वगृहमहीमानाँश्चाऽप्रस्थापयत्ततो हरः ।
मण्डपादिसंहृतिं च कारयित्वा गणादिभिः ॥१११ ॥
विमानेन ययौ तस्मात्स्थानात् कैलासमीश्वरः ।
तुलसी वृक्षरूपा च वर्तते लग्नभूस्थले ॥११ २॥
वधूरूपेण याता सा खाण्डवं वनमालयम् ।
तत्रापि मण्डपसंहारादिकं संविधाय च ॥११३ ॥
विष्णुः कृष्णादिकं नत्वा नीत्वा नववधूं सह ।
गरुडेन ययौ स्वीयं वैकुण्ठं पार्षदैः सह ॥१ १४॥
नवोढया सह रेमे विष्णुर्विविधकामनाम् ।
एवं तेन स्वकीया सा पत्नी शापाद् विमोचिता ॥१ १५॥
प्रापिता च स्वकं धाम परमानन्दसम्भृतम् ।
तुलस्यपि पतिं कृष्णनारायणमवाप्य च ॥१ १६॥
पूर्णकामाऽभवल्लोके तुलसीति स्थिताऽभवत् ।
शृणु लक्ष्मि! पूजयिष्यत्यनिशं मां तु ये जनाः ॥१ १७॥
तुलसीमञ्जरीपत्रैर्मद्भक्ता मत्समाश्रिताः ।
नरान् नारीस्तुलसीवन्नयिष्ये चरणे मम ॥१ १८॥
भुवि वृक्षस्तुलस्याश्च शालग्रामशिला तथा ।
अहमेव भवाम्यत्र रूपद्वयमुपागतः ॥१ १९॥
जलयोगेन पाषाणैः पत्रैः पुष्पैः कणैर्मृदा ।
यथाकथञ्चित्प्राणिभ्यो मुक्तिं ददामि तन्मिषाम् ॥1.339.१२० ॥
इमां श्रुत्वा तुलस्यास्तु विवाहस्य कथां ततः ।
पूजयेद् विधिनाऽऽचार्यं वाचकं सर्वपूजितम् ॥१२१ ॥
धनेनाऽम्बरभूषाभिर्यानवाहनवस्तुभिः ।
अन्नरजतमण्याद्यैः स्वर्णहीरकव्यञ्जनैः ॥१२२।
पत्रैः पुष्पैः फलैस्तोयैर्दुग्धदधिघृतादिभिः ।
शर्कराधान्यगोधूमैः खारीकखर्जुरादिभिः ॥१२३॥
श्रीफलचन्दनतैलच्छत्रचामरमञ्चकैः ।
गोभूगृहभवनाद्यैर्वाटिकावाहघोटकैः ॥१२४॥
मञ्चखट्वागेन्दुकैश्च शय्यादर्पणपात्रकैः ।
तिलशालिसुमुन्यन्नैर्नवनीतसुपिण्ण्डकैः ॥१२५॥
श्राङ्गारिकैश्च बहुभिर्वस्तुभिः पूजयेद्गुरुम् ।
दद्याच्च बहुदानानि यथाशक्ति यथाधनम् ॥१२६॥
भोजयेद् बहुविप्राँश्च साधून् साध्वीः प्रभोजयेत् ।
बालाँश्च बालिकाश्चैव दीनान्धकृपणाँस्तथा ॥१२७॥
तर्पयेज्जलदानेन पितॄन् श्राद्धं च कारयेत्॥
देवपूजां कारयेच्च महापूजां प्रकारयेत् ॥१२८॥
शिवशिवार्चनं कुर्यात्तुलसीविष्णुपूजनम् ।
राधाकृष्णं पूजयेच्चार्पयेत् कृष्णनरायणम् ॥१२९॥
प्रसादं सम्प्रदायैव सर्वश्रोतृभ्य इत्यथ ।
ततो नीराजनं कारयित्वा स्तुत्वा तु दम्पतीम् ॥1.339.१३० ॥
क्षमापराधं याचित्वा दत्वा तु दक्षिणां शुभाम् ।
विसर्जयेन्नमस्कृत्य स्मरेत् तुलसीमाधवम् ॥१३१ ॥
एवं षोडशवस्तूत्तमोत्तमैः पूजयेत्तु तौ ।
तुलसीमाधवौ भुक्तिं मुक्तिं लभेत पूजकः १३२॥
धनदाराऽपत्यपुत्रक्षेत्रराज्यगृहादिकम् ।
लभते तुलसीकृष्णपूजनेनाऽस्य कर्णनात् ॥१३३॥
वन्ध्या वै लभते पुत्रं निर्धनो धनवान् भवेत् ।
रोगी रोगाद् विमुच्येत ऋणी निर्ऋणतां व्रजेत् ॥१ ३४॥
निगडस्थः प्रमुक्तः स्यात् पापो निष्पापतां व्रजेत् ।
कन्या पतिं लभेत् कृष्णसमं सौभाग्यदं सदा ॥१ ३५॥
यथेष्टं संलभेत् सर्वं सम्पदां पात्रतां लभेत् ।
दुःखिनां दुःखनाशः स्यात् श्रावयेत् शृणुयादिदम् ॥१ ३६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने वृन्दावने यमुनातटे द्वादश्यां विश्राममण्डपादिकरणं, खाण्डववने विष्णुपितृशिबिरं, तुलसीवने तुलसीपितृशिबिरं, कुण्डमण्डपादिविधानं, जामिमहीमानाद्यागमः, वरवाहपक्षानां जनवाहवाहिन्यागमः,
कार्तिकपूर्णिमायां तुलस्या विवाहविधयः, हस्तमेलापः, विदायादिः, तुलसीविवाहकरणश्रवणादिफलं चेत्यादिनिरूपणनामैकोनचत्वारिंशद-
धिकत्रिशततमोऽध्यायः ॥३३९॥