३३७

श्रीनारायण उवाच -
शङ्खचूडस्ततो लक्ष्मि! शङ्करं प्राह नैतिकम् ।
साभिमानं युद्धमूलं विनाशकृद्धि तामसम् ॥१ ॥ त्वया कथितं यन्नाथ! सर्वं तथ्यं न चाऽनृतम् ।
ज्ञातिद्रोहे महत्पापं यदि भवति शङ्कर ॥२ ॥ कथं गृहीत्वा सर्वस्वं तलं प्रस्थापितो बलिः ।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥३ ॥ कथं समुद्रमथने पीयूषं भक्षितं सुरैः ।
कथं त्वं दानवान् हंसि न देवान् न गणान् स्वकान् ॥४ ॥ कथं सतीनिमित्ते तत्पिता विहिंसितस्तदा ।
कथं सुदर्शनं विष्णोरसुरेष्वेव सार्थकम् ॥५ ॥ सम्बन्धिन्योः काश्यपेयप्रजयोर्यद्विरोधनम् ।
जायते महतीर्लज्जा स्पर्द्धाऽस्माभिः कथं हर ॥६ ॥ पितृवंशसमुन्नेता स्वर्गं याति तु मानवः ।
परवंशानुसंयाता भवत्यधोगतिं गतः ॥७ ॥ कालेन यद्भवेत् तद्वै भवत्वत्र ममाऽऽलये ।
पराजयो जयो वापि कालकृन्मान्य एव मे ॥८ ॥ अधुना त्वं महाकालो ममाऽसि पार्वतीपते! ।
कालेन यद्भवेत् तत्र सन्तुष्टोऽस्मि रणं कुरु ॥९ ॥ मृतो यास्ये तु गोलोके जये भोक्ष्ये तु वैधसम् ।
रणे हानिर्न मे चास्ति न ते लाभो मनागपि॥1.337.१० ॥ इति विचार्य भगवन्! निवृत्तो भव शङ्कर! ।
अल्पेन सह महतां हानिरेव न वर्धनम् ॥११ ॥ नमस्करोमि ते शम्भो! उत्तिष्ठामि रणाय च ।
इति कृत्वा ययौ यानमारुह्य निजवाहिनीम् ॥१२ ॥ तत्रैते येऽसुरपक्षा दैत्याश्च दानवादयः ।
सुराणां प्रतिपक्षा ये ते तु युद्धेऽसुरानुगाः ॥१३ ॥ ये तु देवसमा दिवपक्षगास्ते हरानुगाः ।
सैन्येषु चागताः सर्वे शङ्खचूडपिनाकिनोः ॥१४ ॥ कोट्यर्बुदाब्जयोद्धॄणां सेने वार्धिसमे तदा ।
सुशोभे ते स्म लक्ष्मि! द्राग् रणवाद्याऽधिते जिते ॥१५ ॥ नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ।
स्कन्दः सेनापतिश्चात्र तत्रराहुश्च भूपतिः ॥१६ ॥ द्वयोर्युद्धमभूद् व्योम्नि शतघ्नीबाणशक्तिभिः ।
परशुपरिघाभूशुण्डीभिस्तोमरचक्रकैः ॥१७ ॥ बाणैः शिलीमुखैश्चापि धूष्कृतैर्गोलकैस्तथा ।
प्रस्तरैश्च सहस्रघ्नैर्युद्धमद्भुतमुल्बणम् ॥१८ ॥ द्वयोश्च सेनयोर्मध्ये महाप्रलयसन्निभम् ।
मर्दनं कूर्चनं निकृन्तनं द्वैधीविभेदनम् ॥१९॥ छेदनं चूर्णनं प्राणिकर्चनं दलनं ह्यभूत्॥ शरवृष्टिश्चार्धचन्द्रशूलभल्लत्रिधारकैः ॥1.337.२० ॥ हननं सर्वतोव्याप्तमासीदुभयसैन्ययोः ।
हस्तीनां च तथाऽश्वानां खच्चराणां भयङ्करः ॥२१॥ विनाशोऽभूद् रथिनां च पत्तीनां गणना न वै ।
रथा भग्नाश्च यानानि चूर्णितानि सहस्रशः ॥२२॥ वाहाश्छिन्ना लक्षशश्च भटेश्वरास्तु कोटिशः ।
नष्टाश्छिन्ना व्यसवश्चाऽभवन् शश्वद्भूशायिनः ॥२३॥ दिवानिशं महाघोरं सततं प्रलयात्मकम् ।
युद्धं प्रवर्तितं तत्र क्षुत्तृषागणनापि न ॥२४॥ धनुष्मतां तदा बाणाः शस्त्राणि शस्त्रिणां तथा ।
कवचानि वर्मवतां क्षयमाप्तानि सर्वथा ॥२५॥ दानवानां गणानां च लयः प्राकृतिको यथा ।
यदा जातस्तदा त्रस्ता विदुद्रुवू रणाङ्गणम् ॥२६॥ कार्तिकः शरवृष्ट्या वै चकार कदनं महत् ।
राहुश्चापि शरवृष्ट्या चकार कर्तनं परम् ॥२७॥ पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।
शश्वद् वृष्टिं चक्रतुस्तौ दुर्वाह्यां च भयङ्करीम् ॥२८॥ राहोमार्गणवृष्ट्या तु प्रच्छन्नः शिवनन्दनः ।
धनुः स्कन्दस्य छिच्छेद रथं चिच्छेद वाजिनोः ॥२९॥ मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।
शक्तिं चिक्षेप सूर्याभां राहुर्वक्षोविभेदिनीम् ॥1.337.३०॥ गदया तां पोथयित्वा धनुर्दिव्यमुपाददे ।
स्कन्दो ववर्ष शस्त्राणि राहोर्नाशाय सर्वथा ॥३ १॥ सर्पांश्च पर्वताँश्चापि वृक्षांश्च प्रस्तराँस्तथा ।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रैः शङ्करात्मजः ॥३२॥ आग्नेयं वारुणास्त्रेण वारयामास वै गुहः ।
रथं धनुश्च चिच्छेद सैंहिकेयस्य लीलया ॥३३॥ सवाहं सारथिं चैव हत्वा चिक्षेप शक्तिकाम् ।
दानवो वक्षसि हतो मूर्छामवाप वै तदा ॥३४॥ शङ्खचूडः समायातो रथमारुह्य सत्वरम् ।
चकार शरजालानि मायया मायिनां वरः ॥३५॥ गूहं त्वाच्छाद्य समरे शरजालेन शक्तिकाम् ।
जग्राह शतसूर्याख्यां विष्णुतेजोऽन्वितां तदा ॥३६॥ चिक्षेप कार्तिके लग्ना पपात मूर्छितस्तदा ।
काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ॥३७॥ शिवः स्वसैन्यं देवाँश्च प्रेरयामास सत्वरः ।
दानवेन्द्रैः ससैन्यैश्च पुनर्युद्धं भयङ्करम् ॥३८॥ समभूत् तत्र युयुधे महेन्द्रो वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना प्रलयाग्निवत् ॥३९॥ दम्भेन सह चन्द्रश्च कालः कालेश्वरेण च ।
गोकर्णेन कृशानुश्च कालकेयेन यक्षराट् ॥1.337.४०॥ मयेन विश्वकर्मा च मृत्युर्भयङ्करेण च ।
संहारेण यमः कलविङ्केन वरुणस्तथा ॥४१ ॥ चञ्चलेन पवनश्च घृतपृष्ठेन वै बुधः ।
रक्ताक्षेण शनिश्चैव वसवो वर्चसाङ्गणैः ॥४२॥ जयन्तो रत्नसारेणाऽश्विनौ दीप्तिमता सह ।
नलकूबरो धूम्रेण धर्मो धनुर्धरेण च ॥४३॥ शोभाकरेणैवेशानो मण्डुकाक्षेण मङ्गलः ।
मन्मथः पिठरेणापि युयुधेऽस्त्रप्रहेतिभिः ॥४४॥ उल्कामुखेन धूम्रेण खङ्गेनापि ध्वजेन च ।
काञ्चीमुखेन पिण्डेन घनेन सह नन्दिना ॥४५॥ विश्वेन च पलाशेन चादित्या युयुधुर्भृशम् ।
एकादश महारुद्रा युयुधिरे भयाह्वयैः ॥४६॥ महामारी युयुधे च प्रोग्रदण्ड्यादिभिस्तदा ।
नन्दीश्वरादयः सर्वे सह दण्ड्यादिदानवैः ॥४७॥ एवं ते युयुधुः सैन्येश्वराः सैन्यानि सर्वशः ।
शङ्खचूडो विशश्राम क्षणं तद्वच्च कार्तिकः ॥४८॥ दानवाश्चासुरा दैत्या युयुधिरे समन्ततः ।
देवाश्चकम्पिरे भीता दुद्रुवुर्वै दिशो दश ॥४९॥ चकार कोपं स्कन्दश्च देवेभ्यस्त्वभयं ददौ ।
युयुधेऽयं दानवानां गणैः सार्धं प्ररोषतः ॥1.337.५०॥ अक्षौहिणीनां शतकं समरे स जघान ह ।
काली रक्तं पपौ क्रुद्धा ननर्त समरे तदा ॥५१॥ दशलक्षं गजेन्द्राणां शतलक्षं च वाजिनाम् ।
समादाय समादाय मुखे चिक्षेप लीलया ॥५२॥ स्कन्दस्य शरजालैश्च दानवाद्या विदुद्रुवः ।
काली समरमासाद्याऽट्टाट्टहासानि चाकरोत् ॥५३॥ उग्रदंष्ट्रा चोग्रदण्डा कोटरा योगिनीगणाः ।
डाकिन्यश्चासुरान् खादयामासुश्च पपुर्मधु ॥५४॥ दृष्ट्वा कालीं शङ्खचूडो युद्धार्थमाद्रवत् तदा ।
काली चिक्षेप चाग्नेयं प्रलयाग्निसमं ततः ॥५५॥ शङ्खचूडोऽहरत्तद्वै वारुणास्त्रेण लीलया ।
चिक्षेप वारुणं काली गान्धर्वेण तु दानवः ॥५६॥ चिच्छेदाथ प्रचिक्षेप काली माहेश्वरास्त्रकम् ।
जघान दानवो वैष्णवास्त्रेण लीलया तदा ॥५७॥ नारायणास्त्रं चिक्षेप काली ततस्तु दानवः ।
ननाम दण्डवत् भूमौ भक्त्यस्त्रेण शशाम तत् ॥५८॥ ब्रह्मास्त्रं सा च चिक्षेप ब्रह्मास्त्रेणाऽग्रसद्धि सः ।
पाशुपतं सा चिक्षेप पाशुपतेन सोऽहनत् ॥५९॥ देवी चिक्षेप शक्तिं तां सोऽपि शक्त्याऽविनाशयत् ।
महाकाली तदा क्रुद्धा महाकालास्त्रमेव सा ॥1.337.६० ॥ मन्त्रपूर्वं निक्षिपति तावदाकाशवागभूत् ।
मृत्युर्न दानवस्याऽस्ति कण्ठेऽस्य कवचं हरेः ॥६ १॥ तुलस्याश्च सतीत्वं वै यावदस्ति तु तावता ।
जरामृत्यू न चाऽस्य स्तो विना सतीत्वनाशनम् ॥६२॥ श्रुत्वा काली विनिवृत्ता सोऽकरोज्जयगर्जनाम् ।
तावद्वटे समायातो विष्णुर्ब्राह्मणरूपधृक् ॥६ ३॥ शम्भो! मयाऽर्पितां शक्तिं समादाय रणस्थलीम् ।
याहि दैत्यविनाशाय विष्णुरस्मि जगद्गुरुः ॥६४॥ गच्छाम्यहं भिक्षुकः सन्नर्थयामि तु दानवम् ।
कवचं प्रति भूतेश! पश्चाद् गच्छामि तुलसीम् ॥६५॥ शङ्खचूडस्वरूपेण वीर्याधानार्थमीश्वर! ।
ततो दानवमृत्युर्वै भविष्यति न संशयः ॥६६॥ इत्युक्त्वा भगवान् विष्णुर्वृद्धब्राह्मणरूपधृक् ।
दानवेन्द्रं प्रति गत्वा भिक्षां देहीति चाऽब्रवीत् ॥६७॥ गृहाण किं तवेच्छास्ति प्रोवाच दानवस्तदा ।
ब्राह्मण प्राह कवचं देहि मे दानवद् भव ॥६८॥ तच्छ्रुत्वा दानवच्छ्रेष्ठो ददौ कवचमुत्तमम् ।
गृहीत्वा कवचं कृष्णो जगाम तुलसीं प्रति ॥६९॥ शङ्खचूडस्वरूपेण जगाम तुलसीगृहम् ।
दुन्दुभिं वादयामास चकार जयसद्रवम् ॥1.337.७० ॥ तच्छ्रुत्वा परमानन्दा समुत्थाय ससम्भ्रमा ।
राजमार्गगवाक्षेण ददर्श तुलसी पतिम् ॥७१॥ ब्राह्मणेभ्यो वाचकेभ्यो भिक्षुभ्यः सा धनं ददौ ।
मङ्गलं वाचयामास बन्दिभ्योऽपि धनं ददौ ॥७२॥ अवरुह्य रथात् कृष्णस्तुलस्या भवनं ययौ ।
कान्तमासाद्य तुलसी क्षालयामास तत्पदम् ॥७३॥ ननामाऽतिमुदा स्वर्णासनस्थं जयकारिणम् ।
समाश्लिषत् तदङ्गानि मर्दयामास शान्तये ॥७४॥ ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ।
अद्य मे सफलं जन्म पश्यामि विजयं तव ॥७५॥ कथं विश्वस्य संहर्त्रा सार्धमाजौ जयोऽभवत् ।
तन्मे ब्रूहि प्राणनायेत्युवाच तुलसी सती ॥७६॥ विष्णुरुवाच देवानां दानवानां महाक्षये ।
ब्रह्मा तत्र समागत्य कारयामास मेलनम् ॥७७॥ देवानामधिकारेषु देवा भवन्तु निर्भयाः ।
शङ्खचूड! तव राज्ये सपत्नीकः सुखी भव ॥७८॥ इति सन्धिः कारितो वै ब्रह्मणा चावयोस्ततः ।
आगतोऽहं स्वभवनं शिवलोकं शिवो गतः ॥७९॥ इत्युक्त्वा तुलसीं कृष्णः शयनं प्रचकार वै ।
रेमे रमापतिस्तत्र तुलस्याः शयने रतिम् ॥1.337.८० ॥ सापि सुखातिरेकाच्चाऽऽकर्षणादिविलक्षणम् ।
अप्रस्खलितभावाच्च तर्कयामास चेतरम् ॥८ १ ॥ कस्त्वं वद महाराजस्वरूपोऽस्यत्र मायया ।
दूरीकृतं सतीत्वं मे भुक्ताऽहं मायया त्वया ॥८२॥ शपामि वद शीघ्रं मे श्रुत्वेति शापभीतितः ।
दधार लीलया स्वीयमूर्ति नारायणात्मिकाम् ॥८३ ॥ नवीननीरदश्यामां शरत्पङ्कजलोचनाम् ।
कोटिकन्दर्पलावण्यां रत्नभूषणभूषिताम् ॥८४॥ ईषद्धास्यप्रसन्नास्यां शोभितां पीतवाससा ।
नारायणं तथा दृष्ट्वा कामिनीं काममूर्छितां ॥८५॥ पुनश्च मोहमापन्ना श्रीकृष्णं परिषस्वजे ।
तदा तुलस्यां श्रीकृष्णो वीर्याधानं चकार ह ॥८६ ॥ शम्भुस्तदा त्रिशूलेन शङ्खचूडं जघान वै ।
मृतस्यात्मा चतुर्बाहुः सुदामा धाम संययौ ॥८७॥ पुनश्च मोहमापन्ना पुनश्च प्राप्य चेतनाम् ।
उवाच कृष्णं हे नाथ! पाषाणहृदयो भवान् ॥८८ ॥ दया नास्ति मनास्ताश्च! सतीबलप्रजीवनः ।
छलेन धर्मभगेन मम स्वामी त्वया हतः ॥८९॥ तस्मात्पाषाणरूपस्त्वं भुवि देवो भवाऽधुना ।
अतस्त्वमेकजनुषि ज्ञानहीनो भविष्यसि ॥1.337.९० ॥ इत्युक्त्वा सा च तुलसी निपत्य चरणे हरेः ।
रुरोद विललापैनामुवाच भगवाँस्तदा ॥९ १॥ शङ्खचूडं च मे भक्तं सुदामानं पुनर्मम ।
वैकुण्ठं प्रापयितुं वै मया त्वयि छलं कृतम् ॥९२॥ तन्नाशाय मया दत्तं त्रिशूलं शङ्कराय वै ।
ग्रीष्ममध्याह्नमार्तण्डशतकप्रभमुज्ज्वलम् ॥९३ ॥ नारायणाऽधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ।
शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम् ॥९४॥ दुर्निवार्यं तथाऽव्यर्थं सर्वशस्त्रविघातकम् ।
शङ्करकेशवाऽन्यैर्दुर्वहं ब्रह्माण्डनाशकम् ॥९९॥ धनुःसहस्र दैर्घ्येण विस्तृत्या शतहस्तकम् ।
सजीवं ब्रह्मरूपं च शम्भुश्चिक्षेप दानवे ॥९६॥ मया त्वयि कृतं वीर्याधानं दैत्या ममार यत् ।
बभूव भस्मसाच्छङ्खचूडो रथयुतस्तदा ॥९७॥ बभूव च पुनर्दिव्यो द्विभुजो मुरलीधरः ।
नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम् ॥९८॥ गोलोकादागतं यानमारुह्य तत्पुरं ययौ ।
अथ शूलश्च वेगेन प्रययौ शूलिनः करम् ॥९९॥ शङ्करस्तेन शूलेन दानवस्याऽस्थिजालकम् ।
प्रेम्णा न्यक्षेपयच्छीघ्रं लवणोदे तु सागरे ॥1.337.१० ०॥ शङ्खजातिर्जायते सा श्रेष्ठा पूता सुरार्चने ।
प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं भवेत् ॥१० १॥ यत्र शङ्खस्तत्र लक्ष्मीस्तुलसी तीर्थमत्र च ।
शङ्खतोयं तीर्थतोयं यत्र शङ्खस्ततो हरिः ॥१ ०२॥ शोकं त्यज मम पद्मे! भव जातिस्मरा प्रिये! ।
तपस्त्वया कृतं साध्वि! मदर्थे बदरीवने ॥१ ०३॥ त्वदर्थे शङ्खचूडश्च चकार पुष्करे तपः ।
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ॥१ ०४॥ गतः स शरणं राधाकृष्णयोः रासमण्डले ।
गोलोके वर्तत भक्तो मम त्वं याहि सुन्दरि! ॥१ ०५॥ इदं शरीरं त्यक्त्वेह दिव्यं देहं विधाय च ।
रासे मे रमया सार्धं त्वं रमासदृशी भव ॥१०६॥ तव शापेन पाषाणः शालग्रामो भवामि वै ।
त्वद्वियोगाऽसहमानः शपामि त्वां नदी भव ॥१ ०७॥ इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता मोक्षप्रदा नॄणां भवतु पुण्यदाऽऽप्लवात् ॥१ ०८॥ तव रोमसमूहाश्च पुण्यवृक्षा भवन्तु वै ।
तुलसीरोमजा वृक्षास्तुलस्यः प्रभवन्तु वै ॥१ ०९॥ नद्यामहं शालग्रामो वहामि जलतुलसीम् ।
त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने ॥1.337.११ ०॥ प्रधानरूपा तुलसी सदा भवतु मत्प्रिया ।
राधाशापकृतस्ते मद्वियोगः सान्ततां गतः ॥१११ ॥ कृपया मे भव पद्मे धाम्नि रमाऽत्र तुलसी ।
विवाहविधिना वृन्दावनेऽहं त्वां सुकन्यकाम् ॥१ १२॥ ग्रहीष्यामि गमिष्यामि नीत्वा त्वां मत्सहायिनीम् ।
इत्युक्त्वा प्रययौ विष्णुर्यत्र शम्भुर्मृधे स्थितः ॥११ ३॥ ववन्दाते शशंसतुः परस्परं हरो हरिः ।
देवारुत्थापिताः सर्वे शिवसेना प्रजीविता ॥११ ४॥ विष्णुना शङ्करेणापि मृता उज्जीवितास्तदा ।
शुक्रेण दानवसेना सञ्जीविन्या च जीविता ॥११५ ॥ चक्रुर्मोत्सवं तत्रोपदार्पणं कृतं ततः ।
सर्वे ययुर्हरेः शालग्रामता यत्र भाविनी ॥११६ ॥ गण्डकीरूपता यत्र तुलस्याश्चापि भाविनी!
ततस्तद्रूपतां प्राप्तौ पूजयित्वा सुरादयः ॥११ ७॥ ययुर्वृन्द्रावनं रम्यं भाविनी यत्र तुलसी
यमुनायां कृतस्नानाश्चक्रुस्तत्र महोत्सवम् ॥११ ८॥ तुलसीवृक्षरूपा च जाता तत्र हरीच्छया ।
कन्यारूपा तथा दिव्या वरारोहाऽप्यभूत्तदा ॥११९ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने शङ्करं प्रति दानववचनं, स्कन्दराहुतत्सेनयोर्युद्धं, काल्यास्त्रकृतयुद्धं, विप्ररूपविष्णुकृतदानवकवचभिक्षा, शङ्खचूडरूपविष्णुकृततुलसीवीर्याधानं, शङ्खचूडमरणं, तुलस्याः पाषाणशालग्रामो भवेति विष्णोस्तुगण्डकीनदी तुलसीवृक्षिका च भवेति शापौ, युद्धे मृतानामुज्जीवनं, वृन्दावनागमनं चेत्यादिनिरूपणनामा सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ॥३ ३७॥