श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो दूतो गत्वा शीघ्रं जलन्धरम् ।
उवाच वृन्दाज्वलनं श्रुत्वा रुरोद वार्धिजः ॥१ ॥
येन यत् क्रियते कर्म तथा तेनैव भुज्यते ।
मया तु वञ्चिता गौरी हरिणा वञ्चिता वधूः ॥२ ॥
स्वसृपतिं गृहे नैव स्थापयेत्सर्वथा जनः ।
धनदारादिकं सर्वं स गृह्णाति शनैः शनैः ॥३ ॥
गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान् ।
नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद् बुधः ॥४ ॥
मायामाश्रित्य मे पत्नी विष्णुना वञ्चिता ध्रुवम् ।
किं प्रयामि हरिं जेतुमथवा हरमुल्बणम् ॥५ ॥
यदि यामि हरिं जेतुं हरः पृष्ठे हनिष्यति ।
उपस्थितं परित्यज्याऽन्याऽनुगो वै विनश्यति ॥६ ॥
उभौ मे सुबलौ शत्रू जयः सन्दिग्धतां गतः ।
अर्धः पराजितश्चाऽहं या पत्नी भस्मतां गता ॥७ ॥
तस्मात् पशुपतिं जित्वा पश्चाद् विष्णुं प्रयामि वै ।
शम्भुं जित्वा भविष्यामि लोके सर्वेश्वरेश्वरः ॥८ ॥
अथवा शिवनाराचैर्मृतो यास्यामि तत्पदम् ।
इति विचार्य तत्रैव ययौ योद्धुं पिनाकिना ॥९ ॥
रणे जालन्धरोऽपश्यत् कबन्धचयभीषणम् ।
शवरुचिरमांसौघमज्जमेदोऽस्थिदुर्गमम् ॥1.330.१० ॥
रणे विलोकयामास वृषस्थं पार्वतीपतिम् ।
बाणाँस्तीक्ष्णानतिस्थूलाल्ँलोहस्तम्भाँस्तथा बहून् ॥११ ॥
मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे ।
ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा ॥१२॥
रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ।
शरीरं कीलितं बाणैः किंशुकवर्णतां गतः ॥१३ ॥
रुधिरं बहु सुस्राव जालन्धरशरीरतः ।
देवास्तु सबला जाता दानवास्तु चकम्पिरे ॥१४॥
हरस्तीक्ष्णशरेणाशु विव्याध हृदि सिन्धुजम् ।
पपात शरभिन्नाङ्गो मूर्छितः सिन्धुजोऽभवत् ॥१५॥
तावद् रुद्रेण नाराचैर्हता जालन्धरी चमूः ।
जलन्धरस्तु मनसा शुक्रं सस्मार चात्यति ॥१६ ॥
स तु कृत्यावशे चाद्रिगह्वरे परतन्त्रकः ।
आगन्तुं नाशकत्तत्र रणो यत्र प्रवर्तते ॥१७॥
जलन्धरः शनैर्मूर्छां परित्यज्योत्थितोऽभवत् ।
शीघ्रं मायामयीं गौरीं विदधे तादृशीं शुभाम् ॥१८॥
रथोपरि गतां बद्धां साऽऽक्रन्दां पार्वतीं शिवः ।
निशुम्भशुम्भदैत्यैश्च वध्यमानां ददर्श ह ॥१ ९॥
गौरीं तथाविधां दृष्ट्वा शिवोऽत्युद्विग्नमानसः ।
शिथिलाङ्गो विषण्णात्मा ह्यवाङ्मुखस्तदाऽभवत् ॥1.330.२० ॥
ततो जंलधरो वेगात् त्रिभिर्विव्याध सायकैः ।
आपुङ्खमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥२ १ ॥
ततः परमसङ्क्रुद्धो रुद्रो रौद्रवपुर्धरः ।
प्रलयानलवद् घोरो बभूव शङ्करस्तदा ॥२२॥
तावच्छुम्भो रथात्तां तु व्योम्नि मायिकपार्वतीम् ।
नीत्वा मुमोच शूलाग्रे शूलोपरि पपात सा ॥२३ ॥
रुदती शङ्करस्याऽग्रे शूलविद्धा ममार सा ।
मायागौरीं मृतां दृष्ट्वा शोकमोहप्लुतो हरः ॥२४॥
शशाप शुम्भप्रमुखान् गौरी युष्मान् हनिष्यति ।
चण्डी भूत्वा च तान् सर्वान् जघान समराङ्गणे ॥२५॥
ब्रह्मा तत्र समागत्योवाच श्रीशङ्करं तदा ।
जालन्धरेण रचिता मायेयं पार्वती हर ॥२६॥
सत्या तु पार्वती मया विष्णुना चापि रक्षिता ।
कमलस्याऽऽन्तरे कोशे तिष्ठति सूक्ष्मतां गता ॥२७॥
युध्यस्य वैरिनिवहं जहि मायां तु पार्वतीम् ।
मत्वेति ब्रह्मणो वाक्यं महाविज्ञो महेश्वरः ॥२८॥
ज्ञात्वा तां दानवीं मायां मुमोच महतीं शिलाम् ।
बभञ्ज कपटां मूर्तिं चूर्णां चकार तत्क्षणम् ॥२९॥
अथ मायापरित्यक्तं शर्वमालोक्य सिन्धुजः ।
अन्यदाविश्चकाराऽऽशु भृशं मायामहाबलम् ॥1.330.३० ॥
जालन्धरोऽयुतभुजो बभूवाश्मद्रुमायुधः ।
रुरोध समरे शम्भुं क्रुद्धोऽस्त्रशस्त्रवान् मुहुः ॥३१ ॥
उवाच बलवद्वाक्यं तिरस्कुर्वन् हरं तदा ।
पश्य शङ्कर कीदृङमे बलं जानासि नैव किम् ॥३२॥
को महेश्वर मद्बाणैरभेद्यो भुवनत्रये ।
बालभावेन विष्णुस्तु विष्णुर्गृहेऽभिरक्षितः ॥३३ ॥
तपसा च स्वयं ब्रह्मा तोषितो वरदानदः ।
इन्द्राग्नियमवित्तेशा वायुवारीश्वरादयः ॥३४॥
मदधीनीकृताः सर्वे वाहान्याहृतवानहम् ।
पर्वता धर्षिताः सर्वे निरुद्धा लीलयाऽऽपगाः ॥३५ ॥
दिवौकसो वै विजिताः सुबद्धं वडवामुखम् ।
ऐरावतादयः क्षिप्ताः क्षिप्तश्चेन्द्रो रथाऽन्वितः ॥३६॥
गरुडोऽपि मया बद्धो देव्यो नीता गृहं मम ।
मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणम् ॥३७॥
इति श्रुत्वा विजहास महादेवः पुनः पुनः ।
जलन्धरो जघानाशु हसन्तं विशिखैः शिवम् ॥३८॥
ततः शूलेन निहतो रुद्रेणोरसि दानवः ।
दानवस्य मुखात्तत्र निःससार ज्वरः परः ॥३९॥
सिंहमुखो नराकारो जम्भोऽभ्यधावदीश्वरम् ।
ईशो हुङ्कारमकरोत् तत्र शरभ आबभौ ॥1.330.४० ॥
शरभेण हतः सिंहो दानवो वृषभं तदा ।
बलात्पुच्छे गृहीत्वा च भ्रामयामास भूतले ॥४१ ॥
ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ।
हस्तेनादाय दैत्यस्तं समधावद्धरं प्रति ॥४२॥
ततोऽयुतभुजो दैत्यो बबन्ध समरे शिवम् ।
शिवः स्वस्य कृपाणेन चिच्छेद करकाननम् ॥४२॥
छिन्नहस्तोऽपि युयुधे तदा तुष्टो महेश्वरः ।
उवाच वरदानार्थं दैत्यो वव्रे हरात्तदा ॥४४॥
शीघ्रं प्रयच्छ मे सिद्धिं मह्यं देह्यात्मनः पदम् ।
तथास्त्विति हरः प्राह जग्राहानलपूरितम् ॥४५॥
चक्रं सुदर्शनं सूर्यकोटितुल्यपराक्रमम् ।
जलन्धरविनाशाय चिक्षेप भगवान् हरः ॥४६॥
जहार तच्छिरो वेगान्महदायतलोचनम् ।
द्विधा पपात तद्देहो ह्यञ्जनाद्रिरिवाचलः ॥४७॥
तस्य कण्ठात् समुद्भूता दैत्याः शतसहस्रशः ।
ते हतास्तेन चक्रेण जालन्धरसमा युधि ॥४८ ॥
जालन्धरकबन्धं तन्ननर्त रुधिरारुणम् ।
मेदसा सिन्धुपुत्रस्य पूरिता सकला मही ॥४९ ॥
तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ।
शोणितं यत्र शुष्कं तज्जातं वै शोणितं पुरम् ॥1.330.५ ० ॥
अथ मांसचयान् ब्राह्मी माहेश्वरी च वैष्णवी ।
वाराही चैव माहेन्द्री कौमारी चेति याश्च याः ॥५ १ ॥
योगिन्यस्ता सर्वदिक्षु नीत्वाऽकुर्वन् विनाशितान् ।
तस्य देहाद्बहिर्यातं तेजो लिल्ये हरे तदा ॥५२॥
योगिनीनां गणा जालन्धरस्याऽदन्ति मांसकम् ।
पिबन्त्यसृक् तेनाद्यापि नोत्तिष्ठति रणे हतः ॥५ ३ ॥
जलन्धरं हतं दृष्ट्वा सुराः प्रसन्नतां गताः ।
अभूवन् साधुवादाँश्च देवसिद्धमुनीश्वराः ॥५४॥
पुष्पवृष्टिं प्रकुर्वाणाः शिवकीर्तिं जगुः शुभाम् ।
देवश्च ननृतुः पर्योऽप्सरोभिश्चाभिपूजिताः ॥५५॥
प्रसेदुश्च दिशः सर्वा विबन्धनाः सुरादयः ।
सूर्यचन्द्रजलेशाद्या निर्मुक्तास्तस्य बन्धनात् ॥५६॥
विष्णुना च हरेणापि ब्रह्मणाऽधिकृताः पुनः ।
तेषां रत्नानि तेभ्यश्च प्रदत्तानि सुरेश्वरैः ॥५७ ॥
कृत्याभिः शुक्र उत्सृष्टो ययौ स्थानं स्वकं पुनः ।
देवराज्यमभूद् दैत्यनाशोर्ध्वं च प्रतिस्थलम् ॥५८ ॥
बुभुजुर्यज्ञभागांश्च देवा लोकेशतां गताः ।
देव्यश्चान्ये सुराश्चापि स्वस्वस्थानं सुखं स्थिताः ॥५९॥
द्रोणाचलं समुद्राश्च बहिरानीय जीवनीम् ।
ओषधिं प्राप्य देवानां गुरुर्बृहस्पतिस्तदा ॥1.330.६० ॥
यत्र वै प्रमथाः शम्भुगणा नष्टा युधि स्थले ।
तत्र प्रयोजयामासाऽस्थिमांसशवप्रभृतौ ॥६१ ॥
सर्वे रुद्रगणा युद्धे हतास्ते जीविताः पुनः ।
निरवशेषतः सर्वे कैलासं प्रययुः सुखम् ॥६ २॥
पर्वतोऽपि यथाऽऽसीत्प्राक् तत्स्थले लोकहेतवे ।
स्थापितो विष्णुवाहेन काले योग्यं प्रजायते ॥६ ३ ॥
सर्वोऽपि भुङ्क्ते स्वं कर्म लक्ष्मि! तद् विद्ध्यसंशयम् ।
यावद् देहोऽस्ति कर्माणि सुखदुःखादि वर्तते ॥६४॥
इतिहासमिमं श्रुत्वा न दुःखैः परिभूयते ।
क्लेशा दूरे भवन्त्यस्य जाता अपि पुनः पुनः ॥६५ ॥
यादृशो यस्य संयोगो बन्धनं चापि तादृशम् ।
वृन्दायां कृतयोगेन विष्णोश्चापि सुबन्धनम् ॥६६॥
लोकरीत्याऽभवत् सर्वं शृणु लक्ष्मि! ततः पुनः ।
वृन्दया मोहितो विष्णुर्वृन्दायाः प्राप्तये पुनः ॥६७ ॥
वृन्दामृतिस्थलं नैवाऽत्यजद्देवादिबोधितः ।
वृन्दापि तं ध्यायमाना सती जाता ह्यतः खलु ॥६८ ॥
विष्णुं वाञ्छति तत्रैव पुनर्वृन्दावने पुनः ।
सूक्ष्मरूपेण विष्णोर्वै शरीरात्तु बहिर्बहिः ॥६ ९ ॥
प्राकट्यं याति विजने पुनर्विष्णौ विलीयते ।
विष्णोः शक्तिस्त्रिविधा या गौरी लक्ष्मीः रमा तथा ॥1.330.७ ० ॥
दृश्याऽदृश्यस्वरूपिण्यो वर्तन्ते या हरौ सदा ।
ताभिर्दृष्टा हरिस्तत्र वृन्दया चाति मोहितः ॥७१ ॥
वृन्दा चापि पतिध्वंसे पत्यन्तरं समिच्छति ।
विष्णुनाङ्गीकृता चेयं विष्णुमादातुमिच्छति ॥७२ ॥
निर्जने सा समूर्ता वै भूत्वा विष्णुं प्रसेवते ।
विष्णुं प्राह त्वया यस्मादङ्गीकृताऽस्मि सर्वथा ॥७३ ॥
तस्माद् गृहाण हस्तं मे विवाहविधिना प्रभो ।
पूर्वं गोलोकधामस्था पश्चाज्जलन्धरप्रिया ॥७४॥
पुनस्त्वया कृता नैजा तस्माद् वह निजां तु माम् ।
विष्णुः प्राह भव केदारस्य पुत्री वहामि ताम् ॥७५. ॥
तद्वै विलोकितं दृष्टं गौर्या लक्ष्म्या रमाख्यया ।
ततस्ताभिश्च शक्तिभिर्दत्तानि तत्र वै तदा ॥७६ ॥
बीजानि देवताभ्यश्च क्षिप्तानि तत्स्थले च तैः ।
क्षिप्तेभ्यस्तत्र बीजेभ्यो वृक्षास्त्रयोऽभवन् शुभाः ॥७७ ॥
धात्री च मालती चैव तुलसी चेति ते त्रयः ।
गौर्यंशा सा स्मृता धात्री लक्ष्म्यंशा मालती स्मृता ॥७८ ॥
रमा वृन्दा तु तुलसी समभूद् वृक्षरूपिणी ।
ताश्च नार्योऽभवँस्तत्र दिव्यरूपधरा अपि ॥७९ ॥
सुस्त्रीरूपिवनस्पती न्दृष्ट्वा विष्णुः प्रहर्षितः ।
विष्णुं दृष्ट्वा च तुलसी वृन्दाऽप्यतिप्रहर्षिता ॥1.330.८ ० ॥
एवं परस्परं सा स रागेणैव व्यलोकयत् ।
तं विष्णुं तुलसी धात्री रागेणैव व्यलोकयत् ॥८ १ ॥
त्वया लक्ष्म्या तदा बीजमीर्ष्ययैव समर्पितम् ।
तस्मात्तदुद्भवा नारी विष्णावीर्ष्यायुताऽभवत् ॥८२॥
अतः बर्बरीत्याख्यामवाप चातिगर्हिताम् ।
धात्रीतुलस्यौ तद्रागाद् विष्णुप्रीतिप्रदे सदा ॥८ ३ ॥
अभवतां च ते नीत्वा विष्णुर्वैकुण्ठमाप्तवान् ।
तत्रैव ते विवाह्यैव विष्णुर्वृन्दायुतोऽभवत् ॥८४॥
केदारस्य सुता भूत्वा वृन्दा विष्णुमवाप ह ।
वृन्दया ग्रथिता तत्र वने माला मनोहरा ॥८५ ॥
मन्दारपारिजातानां पुष्पाणां वरवर्णिनी ।
देव्यो देवाः समायाता शुभे वृन्दावने स्थले ॥८६॥
मण्डपं कारयित्वा च यज्ञकुण्डं विधाय च ।
वह्निं प्रज्वाल्य तत्रैव होमं कृत्वा विधानतः ॥८७॥
देहशुद्धिं तुलस्याश्च कारयित्वा च मण्डनम् ।
वस्त्राभरणभूषादि सुगन्धस्नानमङ्गलम् ॥८८ ॥
कारयित्वा तु तुलसीं भोजयामास भावतः ।
विष्णुं शृङ्गारयित्वा च ब्रह्माद्या देवकोटयः ॥८९ ॥
यानवाहनयुक्ताश्च देवीभिरनुयायिनः ।
सगायकगणयुक्ताः सवादित्रनिनादनाः ॥1.330.९० ॥
सदिव्यवाहनाः सर्वे याता गौर्या गृहं तु ते ।
गौरीलक्ष्मीरमाद्याश्च विष्णुं पुपूजुरादरात् ॥९ १ ॥
लोकाचारं विधायैव मण्डपाऽन्तर्न्यवेशयन् ।
तत्रानीय नवां वृन्दां कन्यकां युवतीं तु ताः ॥९२॥
होमं प्रकारयित्वैव प्रदक्षिणं विधाप्य च ।
अनलं तं नमस्कृत्य बृहस्पतिस्तयोर्द्वयोः ॥९३ ॥
करे करं प्रदत्वैव वरमालां निधाप्य च ।
वृन्दादानं कृतवाँश्च तदा गौर्याद्यनुज्ञया ॥९४॥
जयशब्दाश्च देवानां देवीनां गीतमङ्गलम् ।
पुष्पवृष्टिवृद्धिवाचो जातास्तत्रोभयोः कृते ॥९५॥
यौतकानि भोजनानि प्रदत्तानि ततश्च ते ।
वृन्दावनाद् ययुः सर्वे स्वस्वदेशं सुरादयः ॥९६॥
स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम् ।
आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियम् ॥९७॥
ब्राह्मणो ज्ञानमाप्नोति क्षत्रियो राज्यवान् भवेत् ।
वैश्यस्तु सम्पदा युक्तः श्रुत्वा शूद्रः सुखी भवेत् ॥९८ ॥
हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानकैः ।
सन्तोषयेद् वाचकं तु तस्मिँस्तुष्टे फलं भवेत् ॥९९॥
देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ ।
अन्नदानं प्रदायाऽथ ब्राह्मणादीन् प्रपूजयेत् ॥1.330.१० ०॥
जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान् ।
इति व्याजेन ते लक्ष्मि! तुलस्युत्पत्तिकारणम् ॥१०१ ॥
प्रकथितं च तत्छ्रुत्वा लभते पुण्यमुत्तमम् ।
स्वगृहे रोपिता चापि तुलसी पापनाशिनी ॥१०१ ॥
दर्शनाद् ब्रह्महत्यादि नश्यति नात्र संशयः ।
वैशाखे कार्तिके माघे तुलसीं बहु पूजयेत् ॥१०२ ॥
तुलस्या पूजयेद् विष्णुं सहस्रमञ्जरीस्तथा ।
अर्पयेद् विष्णवे प्रातः कोटियज्ञफलं भवेत्॥१ ०४॥
यत्र वृन्दा च हरिता तुलसी श्यामलप्रभा ।
जाता वृन्दावने तत्र विष्णुश्चातीव मोहितः ॥१०५ ॥
वासं चकार मोहं च नैव तत्याज केशवः ।
तदा तस्याऽऽत्मनस्तिस्रः शक्तयः प्रकटीकृताः ॥१०६ ॥
महाद्भुतैः स्वतेजोभिर्भासयन्ति दिगम्बरम् ।
ताभिर्बीजानि तत्रैव न्यस्तानि स्वांशतस्तदा ॥१०७॥
वृन्दावने तदा धात्री मालती तुलसी तथा ।
अभवन् वृक्षरूपिण्यस्ता दृष्ट्वा तत्र केशवः ॥१०८ ॥
मुमोह तस्मिंस्तुलसी धात्री च रागमापतुः ।
धात्री तुलस्यौ तद्रागात् तस्य प्रीतिपदे सदा ॥१०९ ॥
ततो विष्णुश्च ते नीत्वा वैकुण्ठमगमत् पुनः ।
लक्ष्मीश्चेर्ष्याकरी तत्र बर्बरीति वियोजिता ॥1.330.११० ॥
य इदं हि पठेन्नित्यं पाठयेच्छृणुयात्तथा ।
सद्गतिः स्वर्गवासश्च मोक्षस्तस्य तथा भवेत् ॥१११ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालन्धरवृन्दाख्याने जालन्धरेण मायया कपटगौरीनाशदर्शनं, मायया युद्धं, शङ्करचक्रद्वारा जालन्धरनाशः, वृन्दाया विष्णुतो वरणयाञ्चा, वृन्दायाः केदारराजपुत्रीत्वं, विष्णुना तुलसीविवाहः, वृन्दावने गौरीलक्ष्मीरमांशा
धात्रीमालतीवृन्दावृक्षरूपाः, लक्ष्म्या बर्बरीत्वं चेत्यादिनिरूपणनामा त्रिंशत्यधिकत्रिशततमोऽध्यायः ॥३३० ॥