श्रीलक्ष्मीरुवाच-
नारायण महाराज जलन्धरेण शत्रुणा ।
नारदे तु प्रयाते वै ततोऽनुष्ठितमेव किम् ॥१ ॥
वद विस्तरतो नाथ कृष्णनारायण प्रभो ।
जलन्धरो महादैत्यः पार्वत्यर्थे किमाचरत् ॥२ ॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो दैत्यो नारदोक्तानुसारतः ।
प्रयत्नं कृतवान् सम्यक् कथयामि यथातथम् ॥३ ॥
तामेव चिन्तयन् तन्वीमनङ्गशरपीडितः ।
कालाधीनाऽल्पभाग्यः सः प्रणष्टधीर्विमोहितः ॥४ ॥
सुदूतमाह्वयामास सैंहिकेयं विचक्षणम् ।
आगतं तं महाराहुं प्राह कार्यप्रसाधक! ॥५ ॥
मम कार्यस्य सिद्ध्यर्थं कैलासं गच्छ पर्वतम् ।
तत्र योगी शङ्करोऽस्ति यो न स्पृशति स्त्रीवराम् ॥६ ॥
तस्य हस्तगतं कन्यारत्नं चास्तीति नारदः ।
मामुवाच च तद्रत्नं मया प्राप्तव्यमेव ह ॥७ ॥
पार्वतीत्यभिधानं तन्मया प्राप्तव्यमेव हि ।
तत्र गत्वा तु वक्तव्यं निर्भयेन हृदा त्वया ॥८ ॥
वनवासिन्महायोगिन् जायारत्नेन किं नु ते ।
देहि तन्मे जलन्धरनाम्ने रत्नभुजे हर ॥९ ॥
यानि यानि तु रत्नानि त्रैलोक्ये तानि सर्वशः ।
मम गृहे मया राज्ञा चानीतानि बलात्ततः ॥1.327.१० ॥
ऐरावत उच्चैःश्रवाः कल्पश्च पारिजातकः ।
हंसयुक्तविमानं च वज्र शक्तिश्च चामरम् ॥११ ॥
मौक्तिकानि हीरकाश्च छत्रं प्रख्यातिमच्च यत् ।
तत्सर्वं मम भोग्यं वै मयाऽऽनीतं मम गृहे ॥१ २॥
निधयश्च महामाला पाशो दण्डस्तथाऽमृतम् ।
सर्वं तन्मद्गृहे चास्ति कन्यारत्नं विना हर ॥१३ ॥
योगिनस्ते नवकन्या न स्पृश्या दीयतां हि मे ।
इत्याज्ञां प्राप्य राहुश्च ययौ यत्र स शङ्करः ॥१४॥
नन्दिनाऽऽदिष्टदूतत्वात् सभामध्ये प्रवेशितः ।
शङ्करं दिव्यसर्वाङ्गं दिव्यभूषणभूषितम् ॥१५॥
प्रणनाम हरं तत्र गतवान् निकटं तथा ।
उवाच शङ्करं चास्मि दूतो जलन्धरस्य वै ॥१ ६॥
त्रैलोक्यपतिना मुक्तस्त्वत्सकाशमिहाऽऽगतः ।
योगिनं त्वां समुदिश्य स यदाह शृणुष्व तत् ॥१७॥
कन्यारत्नं स्वर्णकान्तं चन्द्रपिण्डसमं तव ।
योगिनो नोपयुक्तं स्याद् देहि मे त्वं दिगम्बर ॥१८ ॥
अहं रत्नप्रभोक्ताऽस्मि तत् स्त्रीरत्नं न ते भवेत् ।
भिक्षाशिनः कुतो रत्नं भार्यारत्नं तु भूभृतः ॥१ ९॥
त्रैलोक्ये यानि रत्नानि तान्याहृतानि सर्वशः ।
मया चेयं शुभा कन्या चेष्यते दीयतां नु मे ॥1.327.२० ॥
स्वस्त्रीरत्नं देहि मह्यं राज्ञः सुखकराः प्रजाः ।
त्रैलोक्यान्तर्गतत्वात् त्वं प्रजा भवसि मे हर ॥२१ ॥
पश्य लक्ष्मि! हतबुद्धिः पितरं प्राह मातरम् ।
पार्वतीं मे देहि चेति माया वै कीदृशी हरेः ॥२२॥
हतधियोऽत्र लोके वै मातृकामाऽभिचिन्तकाः ।
सर्वे जलन्धरा बोध्या विष्णुमायाविमोहिताः ॥२३ ॥
सतीष्वपि च दासीषु पराङ्गनां समीहते ।
सोऽपि जलन्धरो बोध्यो विनाशमुखमन्त्रितः ॥२४॥
शृणु पश्चात्तु यज्जातं राहौ वदति तत्क्षणम् ।
समुत्पन्नो महारौद्रो गणस्तीव्राशनिस्वनः ॥२-५ ॥
भ्रूमध्यादीशरोषाद्वा सज्वालनयनो महान् ।
सिंहाऽऽस्यप्रचलज्जिह्वश्चोर्ध्वकेशो भयङ्करः ॥२६॥
तालजङ्घोऽभिदुद्राव क्षुधया राहुमातुरः ।
खादितुं तु समायान्तं दृष्ट्वाऽधावच्च राहुकः ॥२७॥
तथापि तं सः प्रसह्य राहुं दधार खादितुम् ।
आक्रुश्य शङ्करं प्राह राहुः पाहि प्रपन्नकम् ॥२८॥
त्राहि त्राहि प्रभो पाहि रक्ष रक्ष कृपानिधे ।
खादत्ययं सेवकस्ते दूतं मां शरणागतम् ॥२९ ॥
न खादेत्तु यथायं मां तथा रक्षय शङ्कर ।
ब्राह्मणं मां न खादेद्वै नमस्तेऽस्तु कृपां कुरु ॥1.327.३० ॥
ब्राह्मणेति वचःश्रुत्वा शङ्करः स्वगणं तदा ।
अब्रवीद् दूत मा खाद ब्राह्मणं राहुनामकम् ॥३१ ॥
इति श्रुत्वा दूतवचो मुमोच तं सुभोजनम् ।
शम्भुं प्राह क्षुधितोऽस्मि त्याजितं मम भक्ष्यकम् ॥३२ ॥
क्षुधा मां बाधते शम्भो देहि भक्ष्यं महेश्वर ।
शिवः प्राह बुभुक्षा ते यद्यतीव प्रवर्तते ॥३३ ॥
क्षुधा त्वां बाधतेऽत्यर्थं स्वमांसं भक्षयाऽत्र वै ।
हस्तपादादिकं स्वस्य भक्षयाऽत्रेति चाज्ञया ॥३४ ॥
चखाद स गणः सर्वं स्वमांसं स्वकबन्धजम् ।
यदाऽभवच्छिरः शिष्टं प्रसन्नः शङ्करस्तदा ॥३५ ॥
उवाच हे महाभक्त मदाज्ञाप्रतिपालक! ।
सन्तुष्टोऽस्मि वद तुभ्यं किं ददामि भयङ्कर! ॥३६ ॥
मया सह प्रपूज्यत्वं कीर्तिमुखाभिधानकम् ।
ददामि ते महावीर! वस द्वारि मम गृहे ॥३७ ॥
तदाप्रभृति शम्भोश्चालयद्वारि स तिष्ठति ।
पूजनीयो विशेषेण शम्भोः सन्तोषहेतवे ॥३८ ॥
अथ राहुर्गतो यत्र जलन्धरः प्रतिष्ठति ।
स्वस्व मृत्युं निवेदयामास यथा च जीवनम् ॥३९ ॥
जलन्धरस्तु सङ्क्रुद्धः श्रुत्वा शङ्करचेष्टितम् ।
दूताऽवमानं गणयन् स्वावमानं महत् कृतम् ॥1.327.४ ० ॥
उवाच दैत्यमूर्धन्यान् सज्जा भवन्तु वै क्षणात् ।
निर्गच्छन्त्वखिला दैत्याः कालनेम्यादयस्तथा ॥४१ ॥
शुम्भनिशुम्भमुख्याश्च कोटयो वीरवंशजाः ।
कम्बुवंश्या दौर्हृदाश्च कालकेयाश्च कालकाः ॥४२ ॥
मौर्या धौम्रास्तथा चान्ये दानवाश्चासुरास्तथा ।
सज्जाः समागताः सर्वे तानादाय जलन्धरः ॥४३ ॥
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ।
अग्रे राहुश्छिन्नशिरोऽमङ्गलाय कृतोऽभवत् ॥४४॥
शुक्रः काणोऽमङ्गलाय द्वितीयोऽप्यग्रगोऽभवत् ।
शुम्भस्य तु खड्गो हस्तात्पतितोऽमङ्गलाय सः ॥४५ ॥
निशुम्भादेः क्षुवनं च गतौ स्खलनमित्यपि ।
जलन्धरस्य शिरसो मुकुटोऽपतदित्यपि ॥४६ ॥
अमङ्गलाय तत्सर्वं प्रस्थानेऽभवदार्तिकृत् ।
महानिद्रासूचकाश्चाऽशकुनान्यभवन्नपि ॥४७॥
तदा त्रस्ताः सुरा गुप्ता अगच्छन् शङ्करं प्रति ।
तुष्टुवुर्दुष्टनाशाय देवानां सुखलब्धये ॥४८ ॥
ध्यानमग्न महादेव! समाधिस्थ! नमोऽस्तुते ।
जलन्धरस्तव पुत्रो विनाशाय समर्पितः ॥४९ ॥
सुराणां कदनं कृत्वा पार्वत्या धर्षणं तथा ।
तवाऽवमानं कृत्वा च ततो नाशाय कल्पितः ॥1.327.५० ॥
किं वा पूर्वं कृपानाथ दैत्यो नाशाय कल्पितः ।
किं वै त्वया तथा लक्ष्मीपतिनाऽस्ति प्रणिश्चितम् ॥५ १ ॥
विषप्राशोत्तरात् पूर्व वरं विषविनाशनम् ।
दुष्टकृद्धर्षणात् पूर्वं वरं दुष्टे प्रदण्डनम् ॥५२ ॥
विष्णुस्तस्य गृहे शेते वृन्दया परिसेवितः ।
शङ्करः स्वगृहे शेते ब्रह्मणि स्वसमाधिना ॥५३ ॥
पार्वत्याश्चात्र किं भावि विचारय प्रभोलक ।
देवानां दुर्दशां चापि विलोकय प्रशङ्कर ॥५४॥
ब्रह्मा ब्रह्माण्डरचने निवृत्तिं नैव याति च ।
दिक्पाला लोकपालाश्च जलन्धरवशङ्गताः ॥५५ ॥
रक्षको विद्यते नैव लक्ष्मीस्तस्य सहायिनी ।
त्वं भव रक्षकोऽस्माकं स्थानभ्रष्टाऽकृतात्मनाम् ॥५६ ॥
जहि नो रक्षणार्थाय पुत्र ते सागरात्मजम् ।
स चायाति त्वया कर्तुं रणं बलेन गर्वितः ॥५७ ॥
हन्तुमर्हस्यविलम्बात् तं विरुद्धार्थगामिनम् ।
दुःखितश्च सुरान् सर्वान् पाहि नः शरणागतान् ॥५८॥
इति देववचः श्रुत्वा विष्णुं सस्मार शङ्करः ।
विष्णुः शीघ्रं समायातो न जानीयाद् यथाऽसुरः ॥५९॥
शम्भुः प्राह हरिं विष्णो! जलन्धरः कथं त्वया ।
निषूदितो न चाद्यापि कथं वससि तद्गृहे ॥1.327.६० ॥
विष्णुः प्राह महादेव श्रीभ्राता च तवात्मजः ।
इतिहेतोर्हतो नैव त्वमेनं जहि शङ्कर! ॥६१ ॥
मया कृतो रणस्तेन प्राणग्राहेण सर्वथा ।
लक्ष्म्या निवारितश्चाहं मारयामास नैव तम् ॥६२ ॥
न स वै मारितः शम्भो तव गौरवकारणात् ।
वरेण स्वालये चाहं वासितोऽस्मि न पक्षगः ॥६ ३ ॥
तस्य पत्नी महाभागा कृष्णगोलोकवासिनी ।
वृन्दा भवति धर्माढ्या सती पतिव्रता सदा ॥६४॥
तस्या बलेन दैत्योऽसौ म्रियते नेति वै मया ।
हेतुजिज्ञासया चापि वसतिस्तद्गृहे कृता ॥६५॥
तज्ज्ञातं सर्वथा शम्भो कारणं प्रबलं यतः ।
युद्धं कुरु महादेव साहाय्ये विचराम्यहम् । ६६ ॥
वृन्दायां तत्र कापट्यं किञ्चित् कर्तुं भविष्यति ।
न्यायेनैव करिष्यामि नाऽन्यायेन कदाचन ॥६७॥
स च दैत्यस्तव पत्नीं कामेनादातुमिच्छति ।
तत्र छिद्रे मया किञ्चित् कर्तव्यमुपतिष्ठति ॥६८ ॥
अवश्यं तस्य नाशः स्यान्मातृदुष्टार्थगामिनः ।
नाऽयं पुत्रः किन्तु शत्रुरिन्द्रं दृष्ट्वा त्वया कृतः ॥६९ ॥
स एवाऽन्यायगो नाश्यो नात्र कार्या विचारणा ।
एतस्मिन्नन्तरे दैत्यो महासेनासमन्वितः ॥1.327.७० ॥
कैलासप्रान्तमायातोऽवरुध्याऽद्रिं जगर्ज ह ।
सैन्यकोलाहलं श्रुत्वा चुक्रोध शङ्करस्तदा ॥७१ ॥
समादिदेश युद्धार्थं नन्द्यादिगणपुङ्गवान् ।
नन्दीभमुखसेनानीमुखा युद्धविशारदाः ॥७ २ ॥
अवतेरुर्गणाः सर्वे कैलासात् क्रोधसम्भृताः ।
कोटिशस्ते गणाश्चैव कोटिशो दैत्यपुङ्गवाः ॥७ ३ ॥
कुर्वन्तो रणशब्दाँश्च कैलासोपत्यकासु वै ।
गर्जन्तो भैरवं वीराः प्रमथेशाश्च दानवाः ॥७४॥
शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ।
व्यराजन्त त्रिशूलास्त्रवज्रमुद्गरशस्त्रकैः ॥७५ ॥
भेरीमृदङ्गशङ्खोघैर्निःस्वानैर्वीरहर्षणैः ।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत ॥७६ ॥
सेनयोरुभयोस्तत्राऽभवन् शब्दा भयङ्कराः ।
गर्जनया समं परस्परं हननमुल्बणम् ॥७७॥
प्रावर्तत तदा लक्ष्मि! नाशनं चातिदारुणम् ।
हता नागा हताश्चाश्वा हता वीराः सहस्रशः ॥७८ ॥
प्रमथाहतदैत्यौघा दैत्याहतगणास्तथा ।
महानिद्राङ्गतास्तैश्च भूर्व्यराजत संवृता ॥७९ ॥
वसाऽसृङ्मांसपङ्काढ्या भूरगम्याऽभवत्तदा ।
दैत्यानजीवयच्छुक्रो मृतसञ्जीवनीबलात् ॥1.327.८० ॥
गणा मृता नोत्तिष्ठन्ति भयङ्करमिदं महत् ।
शशंसुश्च गणास्तस्मै शङ्कराय विनाशनम् ॥८ १ ॥
शुक्रस्य चेष्टितं सर्वं ज्ञात्वा तु चुक्रधे हरः ।
तन्मुखात् क्रोधताम्राक्षो कृत्या बभूव भीषणा ॥८ २॥
तालजङ्घा दरीवक्त्रा ताडाङ्गुली गिरिस्तनी ।
आससाद रणभूमिं विचचाराऽसुरेषु सा ॥८३ ॥
भक्षयमाणा तान्दैत्यान् जगाम भार्गवो यतः ।
शुक्राचार्यं गले धृत्वा योनिमध्येऽक्षिपद्धि सा ॥८४॥
स्वभगे धृत्वा जगामाऽन्तर्हिता नभः ।
दैत्याः प्रम्लानवदना दृष्ट्वैतच्छुक्रनाशनम्॥
विनिर्जग्मुर्युद्धभूमेः प्राणरक्षापरायणाः ।
अभज्यत महासैन्यं गणैः सन्ताडितं तदा ॥८६॥
शुम्भो निशुम्भनामा च कालनेमिश्च ते त्रयः ।
युद्धं चरन्तः प्रमथपृतनां जघ्नुरैश्वरीम् ॥८७॥
मुञ्चन्तः शरवर्षाणि गणसेनामकम्पयन् ।
रुरुधुश्च गणाश्चापि दैत्यान् मार्गणवृष्टिभिः ॥८८॥
वसन्तकिंशुकाभासा जाता गणाश्च दानवाः ।
अथ दानवसैन्यं तद् व्योमाश्रयं समाचरत् ॥८९॥
रुरोध गणसैन्यं तद् व्योमवृष्ट्याऽतिघोरया ।
तदा प्रमथसैन्यं सम्भग्नं दुद्राव गह्वरम् ॥1.327.९० ॥
दृष्ट्वा चैतद् वैपरीत्यं नन्दीभमुखषण्मुखाः ।
अन्येगणाश्चातिबला आकाशमवलम्ब्य च ॥९ १ ॥
सैन्यान्याकाशमालम्ब्य नीत्वा पाषाणपुङ्गवान् ।
आमर्षादभ्यधावन्त संहर्तुं दैत्यपुङ्गवान् ॥९२॥
उत्प्लुत्य चोत्प्लुत्य विजघ्नुरैश्वरा,
जालन्धराऽऽरक्षितदैत्यपुङ्गवान् ।
पाषाणशस्त्रेरतिभग्नमस्तका,
निपेतुरुर्व्यामपरे तु दुद्रुवुः ॥९३॥
एवमासुरसैन्यं तद्भग्नं व्योम विहाय च ।
कैलासारण्यमाश्रित्य प्रच्छन्नं समभूत् क्षणम् ॥९४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालन्धरवृन्दाख्याने जालन्धरेण राहुर्दूतः शङ्करं प्रति प्रेषितः, स कीर्तिमुखेन विद्रावितः, ततो जलन्धर-सैन्यमागतम्, शुक्राचार्यः कृत्यया योनौ निक्षिप्तः, घोरं युद्धमभूच्चेत्यादिनिरूपणनामा सप्तविंशत्यधिकत्रिशततमोऽध्यायः ॥३२७ ॥