श्रीलक्ष्मीरुवाच-
नारायण हरे विष्णो मम भ्रात्रा तदुत्तरम् ।
विष्णुं दृष्ट्वाऽऽचरितं किं विष्णुना किं च मे वद ॥१ ॥
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पिता पुत्री सुतस्तथा ।
सर्वेऽपि चञ्चला लोलास्तत्र किं किं न जायते ॥२ ॥
विष्णुं दृष्ट्वाऽतिसङ्क्रुद्धो बलगर्वसमन्वितः ।
युद्धोद्यतं देवसैन्यं विलोक्याऽतिरुषा ज्वलन् ॥३ ॥
दैत्यानाज्ञापयामास समरार्थे जलन्धरः ।
भो भो दैत्यवराः सर्वे युद्धार्थममरैः सह ॥४ ॥
निर्गच्छन्तु महाशस्त्रा युद्धं कुर्वन्तु दुस्तरम् ।
यथा पुनर्नाऽऽगच्छेयुर्देवास्तथाऽन्तकृन्महत् ॥५ ॥
तदा मौर्या लक्षसङ्ख्या धौम्राश्च शतसङ्ख्यकाः ।
असुराः कोटिसङ्ख्याकाः कालकेयाश्च कोटयः ॥६ ॥
कङ्का लक्षास्तथा शुम्भनिशुम्भपरिरक्षिताः ।
तालजङ्घा महादैत्याः कोटिशस्तत्र निर्ययुः ॥७ ॥
राक्षसा दानवाश्चापि कोट्यर्बुदपदातयः ।
सन्धीभूय तदाऽऽयाताः सुरनाशार्थनिश्चयाः ॥८ ॥
रणध्वजास्तदा व्योम्नि व्यदृश्यन्त तु नेत्रवत् ।
भेर्यश्च रणशृङ्गाणि चक्रुशुर्भयदानि हि ॥९ ॥
जलन्धराज्ञया दैत्या युयुधिरे सुरैः सह ।
अस्त्रैर्बाणैश्च भूशुण्डीशतघ्नीभिश्च दूरतः ॥1.326.१० ॥
धावन्तोऽत्रित आगम्य गदाभिः शूलतोमरैः ।
पट्टिशैः परशुभिश्च खड्गैश्च मूशलादिभिः ॥११ ॥
वृक्षैश्च पर्वतैश्चापि वज्रैश्च शक्तिभिस्तथा ।
नाराचैश्चार्धचन्द्रैश्च सीताभिश्च परस्परम् ॥१२ ॥
निजघ्नुर्दैत्यसङ्घास्ते चक्रैश्च देवता अपि ।
युयुधुस्ते महावीराः कुर्वन्तः सिंहवद् रवान् ॥१३ ॥
केचिद् बाणैर्हताश्चान्ये हताः क्षताश्च तोमरैः ।
केचित्परशुशूलैश्च हता रणवनान्तरे ॥१४॥
दैत्यानां कदनं जातं महद् दृष्ट्वा जलन्धरः ।
नादयित्वा रणशृङ्गं स्वयं चाक्रुश्य वै बलात् ॥१५ ॥
सबलान्दानवान् कृत्वाऽवातरद् रणमूर्धनि ।
अतो दैत्या महावीर्याः समुत्साहास्तदाऽभवन् ॥१६ ॥
समापेतुश्च सङ्ग्रामे त्वन्धा भूत्वाऽतिदारुणाः ।
मारयन्तु च्छेदयन्तु द्वैधीकुर्वन्तु देवताः ॥१७॥
मर्दयन्तु कूर्चयन्तु चूर्णयन्तु तिलांशवत् ।
माऽपसर्पन्तु सङ्ग्रामाद् होमं कुर्वन्तु चात्मनाम् ॥१८ ॥
शूराणां रणयज्ञो वै पुनर्नायाति नाऽऽप्यते ।
रक्तं पिबन्तु देवानां भुञ्जन्तु तत्प्रियास्ततः ॥१९ ॥
इत्याक्रोशो महानासीत्तदानीं दैत्यमण्डले ।
प्रहारा सबला ह्यासन् दैत्यानां सुरनाशकाः ॥1.326.२०॥
न प्रहारस्तदा कश्चित् सुराऽनाशी प्रवर्तते ।
यत्र वै दृश्यते तत्र दृश्यन्ते देवता हताः ॥२१ ॥
अरराटी तदा त्वासीद्विष्णोर्हृदन्तरे क्षणम् ।
वासवोऽपि विदुद्राव सुराः शेषा विदुद्रुवुः ॥२२।
पलायनपरान् दृष्ट्वा विष्णुस्तेषु विवेश ह ।
सबलान् सर्वथा कृत्वा हतशेषान् सुरान् हरिः ॥२३॥
युद्धार्थमाह्वयाञ्चक्रे गरुडस्थः पुनः पुनः ।
जीवयिष्ये सुरान्सर्वान्नाशयिष्ये तु दानवान् ॥२४॥
मा पलायन्तु सङ्ग्रामादहं योत्स्येऽग्रगो भवन् ।
इत्युक्त्वा भगवान् विष्णुः स्वस्य सुदर्शनात्तदा ॥२५॥
सुदर्शनानां लक्षाणि रचयामास तत्क्षणम् ।
प्रेरयामास तान्येव हन्तुं सेनां तु दानवीम् ॥२६॥
अग्नींश्च लक्षशः कृत्वा प्रेरयामास चासुरीम् ।
सेनां हन्तुं हरिश्चापि सुदर्शनं समैरयत् ॥२७॥
अग्निचक्राण्यसुरान् सम्प्रदेहुर्भस्मसाद्यथा ।
एतद्विलोक्य देवाश्च निजघ्नुर्वै पलायितान् ॥२८॥
आह्वयन्तोऽतिधृष्टाश्च जयेच्छवोऽतिदारुणाः ।
विष्णुर्जलेन सम्प्रोक्ष्य मृतानुत्थापयत्तथा ॥२९॥
तेऽपि जघ्नुर्वेगिशस्त्रैरस्त्रैश्च दानवाँस्तदा ।
विष्णुः पश्यति सर्वत्र दानवा त्रस्ततां गताः ॥1.326.३० ॥
छिन्ना नष्टाः कर्तिताश्च दृश्यन्तेऽरण्यवत्तदा ।
शेषा विदुद्रुवुः स्वर्गात् परित्यज्य रणाङ्गणम् ॥३१॥
एवं पराजयस्तत्राऽसुराणामभवन्महान् ।
असोढा तस्य सामुद्रो देववृन्दभयङ्करः ॥३२॥
योद्धुमभ्याययौ शुक्रं निर्दिश्याऽऽसुरजीवनम् ।
शुक्रश्च विद्यया दैत्यान्दग्धानजीवयद् द्रुतम् ॥३३॥
जलन्धरो महानादं चकार कर्णदीर्णकम् ।
भयङ्करेण नादेन तदा चाऽऽपूरितं जगत् ॥३४॥
विष्णोश्चापि प्रणादेन चकम्पे सकलं जगत् ।
धनुष्युभौ समादाय टङ्काररवकारिणौ ॥३५॥
युयुधाते स्वसृपतिशालाकौ हि विपक्षगौ ।
आकाशं कुर्वतो बाणैस्तदा निरवकाशवत् ॥३६॥
विष्णुर्बाणैरसुरस्य ध्वजं छत्रं धनुश्शरान् ।
चिच्छेद च हृदये तं बाणेनाऽताडयद् दृढम् ॥३७॥
तावदुत्प्लुत्य दैत्येन्द्रो गदापाणिर्हरिं प्रति ।
पद्भ्यां धावन् बलान्मूर्ध्नि गरुडं हतवान् रुषा ॥३८॥
विष्णुं जघान शूलेन हृदयेऽतिप्रसह्य वै ।
विष्णुः खड्गेन तीक्ष्णेन गदां चिच्छेद शूलकम् ॥३९ ॥
तावद् दैत्यः पुनश्चान्यद् धनुः कृत्वा शरान्वितम् ।
विष्णुं जघान हृद्ये खड्गं चिच्छेद् चापि वै ॥1.326.४० ॥
विष्णुश्चार्धेन खड्गेन छित्वा तं बाणमागतम् ।
शार्ङ्गे शीघ्रं समादाय प्रैरयद् बाणमुल्बणम् ॥४ १ ॥
दैत्यस्तं सीतया प्रच्याव्य रुट्छिन्नाधरो बली ।
शरान्तरेण ३ शार्ङ्गं धनुश्चिच्छेद वैष्णवम् ॥४२ ॥
पुनर्बाणैश्चातितीक्ष्णैर्विष्णुं जघान वक्षसि ।
छिन्नधन्वा हरिः कौमुदकीं चिक्षेप वै गदाम् ॥४३ ॥
सा विद्युद्वदप्रधृष्या सामुद्रोऽपि तथाबलः ।
गदया ताड्यमानोऽपि न चचाल हि किञ्चन ॥४४॥
दैत्यस्त्रिशूलमनलावर्षिं वै हरयेऽक्षिपत् ।
हरिर्नन्दकखड्गेन चिच्छेद तत् त्रिशूलकम् ॥४५॥
दैत्यः शक्तिं वज्रजन्यां लम्बां योजनमात्रकाम् ।
अष्टधारां च सहस्रघण्टां शैलादिनाशिनीम् ॥४ ६॥
समादाय प्राहिणोद्वै विनाशाय हरेस्तदा ।
हाहाकारो महानासीत् सुरेषु वै भयङ्करः ॥४७॥
दैत्यस्य चान्तिमं वज्रं तदभूच्छक्तिरूपकम् ।
नाशयामि यदि चेद्वै नायं युद्धं करिष्यति ॥४८॥
तस्माद् गरुडचञ्च्वा तं गृहीत्वा स्ववशे ततः ।
दास्ये प्राप्य विजयं च येन युद्धं भवेत्पुनः ॥४९ ॥
इति विचार्य हरिणा पक्षिचञ्च्वा धृता हि सा ।
आयान्ती रक्षिता स्वस्य पक्षिपक्षैकपिच्छके ॥1.326.५० ॥
दृष्ट्वाऽऽश्चर्यं महत्प्राप्तोऽसुर आगत्य चाम्बरात् ।
निपत्य हृद्ये विष्णुं जघान दृढमुष्टिना ॥५ १ ॥
गरुडस्य गले तद्वज्जघान पादलत्तया ।
तदा तु विष्णुना दैत्यो धृतो शिरसि वै दृढम् ॥५२ ॥
गरुडेन तु दैत्यः स धृतश्चञ्च्वा तु पादयोः ।
उत्तोल्य क्षिप्तः पतितो दूरे वै शतयोजनम् ॥५३ ॥
पुनरुत्थाय चायातो व्योममार्गेण चाब्धिजः ।
तावद्विष्णुश्चातिरुष्टो जघान हृदि तं पुनः ॥५ ४॥
स च विष्णुं जघानैव हृदि मुष्ट्या पुनः पुनः ।
गरुडोपरि तत्रैव युयुधाते महाबलौ ॥५५॥
बाहुभिर्मुष्टिभिश्चैव जानुभिर्मरणोन्मुखैः ।
गणयित्वा न मरणं दैत्यस्तु युयुधे बली ॥५६॥
मर्तव्यं वा विजेतव्यं लाभो द्वयेऽपि मेऽस्ति हि ।
क्व वै विष्णोः करान्मृत्युः क्व वा विष्णुविजेतृता ॥५७॥
द्वयोर्लाभो महानस्ति यद्भावि भवतु ध्रुवम् ।
इत्यालोच्य मतिं तस्य मृत्युं शम्भुकृतं तथा ॥५८ ॥
प्रहस्य भगवान्प्राह धन्यस्त्वं रणदुर्मदः ।
ममाऽग्रेऽप्यविनाशिनो विनाशाय पतङ्गवत् ॥५९ ॥
यस्त्वं जीवं तथा प्राणान्समर्प्य रणमूर्धनि ।
समायातः क्षात्रधर्मं पालयन् शङ्करात्मजः ॥1.326.६० ॥
ममाऽस्त्रैस्त्वं न वै भीतो यैर्वीरा बहवो हताः ।
न दृष्टस्त्वत्समो वीरो गलग्राहप्रयुद्धकृत् ॥६१ ॥
वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ।
अदेयमपि देयं ते त्वादृशाय रणाङ्गणे ॥६२ ॥
वरस्य समयं ज्ञात्वा जलन्धरोऽपि बुद्धिमान् ।
प्रत्युवाच हरिं लक्ष्मि! स्ववशं गमयन् प्रभुम् ॥६३ ॥
यदि तुष्टोऽसि भगवन्! वरं ददासि चेद् यदि ।
मद्भगिन्या मया सार्धं मद्गेहे सगणो वस ॥६४॥
तच्छ्रुत्वा च तथास्त्विति जगाद् भगवान् हि तम् ।
ततो लक्ष्म्या तथा परिवारेण सहितः प्रभुः ॥६५ ॥
जलन्धरगृहं गत्वा जलन्धरेण पूजितः ।
उवास वचनाद् बद्धः प्रतीक्षन् पुनरर्दनम् ॥६ १॥
जलन्धरेण मेदिन्यां पुरं जालन्धरं कृतम् ।
राज्यं च बहुलं पृथ्व्यामासमुद्रान्तमास्थितम् ॥६७॥
स्वर्गादौ दानवाः सर्वे नियुक्ता अधिकारिणः ।
पातालादौ कृता दैत्या अधिकारपराः स्वयम् ॥६८ ॥
पृथ्व्यां पश्चिमवार्धेश्च मध्ये द्वीपे ह्युवास सः ।
देवगन्धर्वसिद्धेषु यत्किञ्चिद्रत्नमाचितम् ॥६ ९॥
स्वायत्तीकृत्य तत्सर्वं बुभुजेऽकण्टकं तलम् ।
देवगन्धर्वसिद्धेशान् सर्परक्षोनरेश्वरान् ॥1.326.७ ० ॥
स्वद्वीपे नागरान् कृत्वा शशास भुवनत्रयम् ।
देवा युद्धे मृता ये ये तान्पर्यजीवयद्धरिः ॥७ १ ॥
दैत्या ये ये हतास्ताँश्च शुक्रः सम्पर्यजीवयत् ।
देवाः पुनर्गता मेर्वाद्यरण्यादौ यथा पुरा ॥७२ ॥
फलं लब्धं न वै किञ्चित्तुषावघातवद्ध्यभूत् ।
सर्वत्र भुवनेष्वासीद् वार्ता विष्णुः पराजितः ॥७३ ॥
भक्त्याधीनो भवत्येव वशी नान्येन केनचित् ।
लक्ष्म्या च शालकेनापि स्नेहेन स वशीकृतः ॥७४॥
देवकार्यं विहायैव शालकगृहमाश्रितः ।
देवा निराश्रया जाता दुःखिताः शरणं विना ॥७५॥
देव्योऽपि दुःखमापन्ना असुरैर्भूरि चार्दिताः ।
किं कर्तव्यं क्व गन्तव्यं विष्णुर्वृन्दालतां श्रितः ॥७६ ॥
अथ दैत्यविनाशो वै शीघ्रं स्यादित्यचिन्तयत् ।
अन्तरात्मगताद् देवात् कृष्गानारायणात्प्रभोः ॥७७॥
देवा देव्यश्च ये जालन्धरद्वीपे तु नागराः ।
अभवँस्ते तथा चान्ये यथा ज्ञायेत् नाऽसुरः ॥७८ ॥
तथा विचार्य श्रेष्ठास्ते जग्मुः शङ्करसन्निधौ ।
तुष्टुवुः शङ्करं स्वेषां दुःखस्य विनिवृत्तये ॥७ ९॥
अथाऽऽहूय महादेवो नारदं कुशलक्रियम् ।
प्रेषयामास तत्पूर्यां देवकार्यचिकीर्षया ॥1.326.८० ॥
नारदोऽपि ययौ शीघ्रं जालन्धरपुरे तदा ।
देवान्पूर्वं मिलित्वा च ज्ञात्वा दुःखं ततः पुनः ॥८ १ ॥
देवकृतं पूजनं च गृहीत्वाऽतिथिसत्क्रियाम् ।
श्रुत्वा सूर्यशशिधर्मवह्निनिःसारणादिकम् ॥८२॥
विष्णोः पराजयं श्रुत्वा जलन्धरस्य चानयम् ।
सुरानाश्वासयित्वा ज्ञापयित्वा कार्यसिद्धये ॥८ ३ ॥
यथाबुद्धि देवकार्यं करिष्ये ह्यभिधाय च ।
नत्वा देवान् ययौ जलन्धरसभामृषिः स्वयम् ॥८४॥
आगतं मुनिं जलन्धरो नत्वाऽऽसनं ददौ ।
सम्पूज्य विधिवद् दैत्यः प्रहस्याऽऽह तु नारदम् ॥८५॥
कुशलं ते मुनिश्रेष्ठ! कुत आगम्यते इतः ।
यदर्थमिह चायातो विज्ञापय करोमि तत् ॥८६ ॥
प्रसन्नात्मा नारदस्तच्छ्रुत्वा प्रोवाच चासुरम् ।
धन्यस्त्वं बलवान् राजा राजेन्द्रो वर्तसेऽधुना ॥८७॥
सर्वरत्नप्रभोक्ताऽसि तथाऽहं श्रुतवान् दिवि ।
पश्चाच्च श्रुतवान् भोगान् शङ्करस्योत्तमोत्तमान् ॥८८ ॥
योजनाऽयुतविस्तीर्णे कल्पद्रुममहावने ।
कामधेनुशताऽऽकीर्णे चिन्तामणिसुदीपिते ८९॥
सर्वरुक्ममये दिव्ये सर्वत्राऽद्भुतशोभिते ।
यानवाहनदासैश्च दासीभिः परिचारिते ॥1.326.९० ॥
कैलाशशिखरे तत्र दृष्टवान् शङ्करं ह्यहम् ।
सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ॥९ १ ॥
ऊनषोडशवर्षाभिर्युवतीभिः सुसेवितम् ।
चन्द्रपिण्डकृताभिर्वा सूर्यस्वर्णनिःसृताभिः ॥९२॥
नैकसुन्दरीभिः शिवो मोदते तत्र पर्वते ।
अथाऽविचारयं पश्चाच्छ्रुतं जालन्धरं सुखम् ॥९३ ॥
कीदृग् भवेत्तथा स्मृर्द्धिरेतादृशी भवेन्न वा? ।
इति वितर्क्य साश्चर्यं समागतोऽस्मि ते गृहम् ॥९४॥
तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ।
द्वीपस्ते सुभगश्चास्ति ह्युद्यानवनमण्डितः ॥९५॥
परीतो जलखातेन शोभितोऽस्तीति सुन्दरम् ।
इत्युक्तवन्तं दैत्यः स दर्शयामास सर्वथा ॥९६॥
स्मृद्धिमन्तर्गृहा बाह्यगृहा गह्वरसंस्थिताम् ।
दृष्ट्वा शशंस मुनिराड् वितर्क्य देवलाभकृत् ॥९७॥
विष्णुप्रेरणया प्राह दैत्यं मोहं यथाऽऽविशेत् ।
अहो तव समृद्धेस्तु पारं नास्ति जलन्धर ॥९८॥
त्रैलोक्याधिपतिगृहे भवेदेव न चित्रकम् ।
भवनानि विचित्राणि यानानि वाहनानि च ॥९९॥
उपकरणानि रत्नपूजाश्च मणिशेवधिः ।
मौक्तिकानि हीरकाश्च सुवर्णशतभूमयः ॥1.326.१० ०॥
गजाद्या वाजिनश्चापि नाऽन्यत्र सन्ति ते यथा ।
शक्तस्यैरावतश्चात्र सूर्यस्योच्चैःश्रवा हयः ॥१० १॥
कल्पमन्दारवृक्षाश्च निधयो धनदस्य च ।
ब्रह्मणो हंसयानं च विष्णोः गरुड इत्यपि ॥१०२॥
यमस्य महिषश्चापि विष्णोः सुदर्शनं तथा ।
शेषराजमणिश्चापि चन्द्रस्य चामृतं तथा ॥१ ०३॥
मन्वन्तराणां छत्राणि सुवर्णयष्टयस्तथा ।
चामराणि दिगीशानां देवीनां कङ्कणानि च ॥१ ०४॥
एवं सर्वाणि रत्नानि भान्ति तानि गृहे तव ।
प्रमदानां च दासीनां श्रेष्ठत्वं चापि तेऽस्ति वै ॥१०५ ॥
किन्तु नैकमपि जायारत्नं तै भाति तादृशम् ।
यादृशं शङ्कराऽग्रेऽस्ति तावान् न्यूनोऽस्ति वै भवान् ॥१०६ ॥
श्रेष्ठेन जायारत्नेन सूर्यचन्द्रनिभेन वै ।
भवनानि प्रशोभन्ते राज्ञो न स्मृद्धिभिस्तथा ॥१ ०७॥
किरातीभिस्तु लक्षाभिः शोभते न नृपगृहम् ।
यथा त्वं दिग्यशा भासि न त्वत्पत्नी तथाऽस्ति वै ॥१ ०८॥
यद्वा किं शुभ्रदासीभिर्यशश्चेन्न विवाहिता ।
शुक्लां जायां विना सर्वं फेरुराजगृहोपमम् ॥१ ०९॥
न वै विवाहितां विना शोभा राज्ञो भवेत्क्वचित् ।
राज्यमाता भवेद् देवी दिव्या वंशविवर्धिनी ॥1.326.११० ॥
नहि दासीप्रलक्षासु कुमारो नृपतेर्मतः ।
दासीजाः शतशश्चापि नाभिषेकाऽर्हणा मताः ॥१११ ॥
तदानेतुं कुमारीं त्वं स्त्रीरत्नं चार्हसि ध्रुवम् ।
अहं गच्छामि लोकेषु रत्नानां यत्र सङ्ग्रहः ॥११ २॥
श्रुत्वैवं चाह देवर्षिं जलन्धरोऽतिमानवान् ।
देवर्षे च यथासर्वरत्नानां श्रैष्ठ्यमस्ति मे ॥११३ ॥
चतुर्दशसु लोकेषु तादृक् श्रेष्ठोत्तमोत्तमम् ।
भविता यदि विज्ञातं भवेद् दर्शय मे मतम् ॥१ १४॥
भवता सर्वतो दृष्टा नार्यो राज्ञ्यश्च कन्यकाः ।
वेधसां शङ्कराणां च विष्णूनां चापि कन्यकाः ॥११५ ॥
ऋषीणां चापि पितॄणां देवानां चापि कन्यकाः ।
मानवानां च नागानां दैत्यदानवरक्षसाम् ॥११६ ॥
सर्वाश्च कन्यका मुने त्वया दृष्टाः समन्ततः ।
सर्वातिशयसौन्दर्यरूपयौवनसद्गुणाः ॥११७ ॥
यत्र वसन्ति तद्रत्नं प्रदर्शय नयामि तत् ।
चतुर्दशभुवनानां राज्ञीनां संसदि मम ॥११८ ॥
पत्नीरूपं प्रकाश्येत सूर्य इव महोज्ज्वलम् ।
यत्समं न भवेदन्यदधिकं तु कथं भवेत् ॥११९ ॥
तादृशं दर्शय विद्वन् नयामि विवहामि च ।
यदग्रे सर्वराज्ञ्यश्च पतङ्ग्य इव सर्वथा ॥1.326.१२० ॥
भवेयुस्तादृशं कुमारिकारत्नं वहाम्यहम् ।
श्रुत्वैवं नारदः प्राह वर्तते तादृशं खलु ॥१२१ ॥
एकमेवात्र ब्रह्माण्डे कुमारीरत्नमुत्तमम् ।
यदग्रे सर्वनारीणां सौन्दर्यं भस्मितेन्धनम् ॥१२२ ॥
मयाऽपि यद्दिनाद्दृष्टं तद्दिनात् तदवाप्तये ।
प्रयत्यते पुनर्गत्वा निद्रां लभे न शर्मदाम् ॥१२३ ॥
हृदये चक्षुषोर्वृत्तौ स्वप्ने तथा च जागरे ।
मस्तकेऽपि च सा कन्या रमते स्मृतिमागता ॥१२४ ॥
किं सौन्दर्यं च किं रूपं कीदृशं यौवनं तथा ।
यन्नखाग्रेऽपि तेजोऽस्ति यत्र कृष्णायते शशी ॥१२५ ॥
यन्मुखे गण्डयोर्भागौ तथा चापि कपोलयोः ।
क्लृप्ताश्चत्वार एवात्र सूर्याः किं स्तश्च तादृशौ ॥१२६ ॥
कियन्मध्यकटिस्तस्याः कियत्कामस्थलं तथा ।
कियत्प्रोद्भिन्नभावाढ्यस्तनद्वयं कियत् कियत् ॥१२७ ॥
विद्युल्लता यथा तत्र तत्र वसन्ति वै किमु ।
मया न प्राप्यते राजँस्त्वया कथं स चाप्यते ॥१२८ ॥
तथापि कुरु यत्नं त्वं प्राप्स्यते तज्जयस्तव ।
प्राप्तव्यं वापि मर्तव्यमिति कृत्वा प्रयत्यताम् ॥१२९ ॥
नाऽन्यथा तद्भवेत्कार्यं शूराणां किमसाध्यकम् ।
कैलासे तद्वर्ततेऽद्य शम्भोर्हस्ततले स्थितम् ॥1.326.१३० ॥
शम्भोः पत्नीस्वरूपेण चाऽक्षत तेन योगिना ।
शम्भुस्तु वर्तते योगी समाधौ तिष्ठति ध्रुवम् ॥१३१ ॥
न स्पृशति तां नारीं कन्यारूपां विचिन्त्य सः ।
अत्यद्भुतां रक्षति स्म सर्वथा योगसिद्धिभिः ॥१३२ ॥
जायारत्नेन सदृशस्त्रिलोक्यां शम्भुना खलु ।
नास्ति कश्चिदिति मन्ये प्रत्यक्षं दृष्टवान् यतः ॥१३३ ॥
यस्याः पादावलोकेन ब्रह्मा रेतो ह्यवासृजत् ।
कामोऽपि तां विलोक्यैव मुमोह भस्मतां गतः ॥१ ३४॥
तद्रत्नं त्वक्षतं प्राप्य कृतकृत्यो भवात्र वै ।
नो चेत् प्राणान् विहायैव परलोकं समाश्रय ॥१ ३५॥
इत्युक्त्वा नारदो देवपूज्यो देवहितार्थकृत् ।
ययौ देवाँश्च विज्ञाप्य कलां दैत्यविनाशिनीम् ॥१३६ ॥
देवा अपि सुतुष्टाश्च विष्णुं गत्वा स नारदः ।
सर्वं तदब्रवीन्नत्वा ययौ सत्यं स्वकं स्थलम् ॥१ ३७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जलन्धरवृन्दाख्यानेऽसुरसुरसैन्ययुद्धं, मृताऽसुरसुराणामुज्जीवनं, जलन्धरविष्ण्वोश्च युद्धं, प्रसन्नेन विष्णुना जलन्धरगृहे वासात्मकवरप्रदानं, पुनर्देवानां दुःखं, शङ्कराय निवेदनं, नारदस्य जलन्धरगृहं प्रतिगमनं, सुरूपाया भार्याया पार्वत्या आनयनाय जलन्धरस्य मोहनमित्यादिनिरूपणनामा षडविंशत्यधिकत्रिशततमोऽध्यायः ॥३२६ ॥