३२५

श्रीनारायण उवाच-
शृणु लक्ष्म्येकदा जालन्धरो वृन्दापतिः स्वयम् ।
असुरैः सह शुक्रस्य पूजनार्थं समाययौ ॥१ ॥ तत्राऽऽययुः पूजनार्थमाषाढपूर्णिमातिथौ ।
दैत्याश्च दानवाः सर्वे राहुकेत्वादयोऽपि च ॥२ ॥ शुक्राचार्यः पूजितस्तैर्नमस्कृतश्च भावुकैः ।
दत्वाशीर्वचनं तेभ्यः पप्रच्छ कुशलादिकम् ॥३ ॥ दत्तासनेषु सर्वे ते निषेदुः संसदीष्टकृत् ।
जलन्धरोऽतिसंहृष्टोऽपश्यद्राहुं शिरो विना ॥४ ॥ पप्रच्छाऽब्धिसुतस्तत्राश्चर्यपूर्वं तु भार्गवम् ।
केनेदं कर्तितं राहोश्छिरो ब्रूहि कथं कदा ॥५ ॥ इत्याकर्ण्य शिवं स्मृत्वा शुक्राचार्यः उवाच तम् ।
हिरण्यकशिपोः पुत्रः प्रह्लादस्तस्य पुत्रकः ॥६ ॥ विरोचनस्तस्य पुत्रो बलिराजो महाबलः ।
वर्तते च रसातलराज्यं कुर्वन् प्रभक्तराट् ॥७ ॥ असुराणां तु सैन्यानि प्रबलान्यस्य संवशे ।
वर्तन्ते इति जानन्ति सुराः सर्वे सवासवाः ॥८ ॥ अथैकदा तु दुर्वासा वैकुण्ठात् समवातरत् ।
भुवं नारायणदत्तपुष्पमालां करे दधन् ॥९ ॥ ददर्शेन्द्रं विहरन्तं हस्तिना व्योममार्गके ।
ऋषिर्देवपतिं ज्ञात्वेन्द्राय मालां ददौ तदा ॥1.325.१० ॥ विगणयन्निव मालां करे धृत्वा तु वासवः ।
स्थापितवान् करिकुम्भे शुण्डादण्डेन तां करी ॥११ ॥ धृत्वा पत्तलके कृत्वा मर्दयामास तत्क्षणम् ।
दुर्वासाः क्रोधमापन्नः शशाप गर्वहारकः ॥१२ ॥ लक्ष्मीनाशो भवत्विन्द्र! मालानाशफलं तव ।
इत्युक्ते स पपातेन्द्रो हस्तिपृष्ठाद् भुवस्तले ॥१३ ॥ लक्ष्मीः सर्वा विनष्टाऽभूत् प्रविवेश समुद्रके ।
सहस्रवर्षपर्यन्तमश्रीका देवतादयः ॥१ ४॥ दुःखिनस्ते सुराः सर्वे रमेशं शरणं ययुः ।
विना लक्ष्मीं दुःखिताः स्म इति स्वार्थपरायणाः ॥१५ ॥ विष्णुदर्शितमार्गेण सन्धिं चक्रुस्तदाऽसुरैः ।
स्वकार्यसिद्धये शूराश्छलधर्मपरायणाः ॥३६ ॥ विष्णुसहायका देवा मिलिता ह्यसुरैः सह ।
लक्ष्म्यर्थं चामृताद्यर्थं चक्रुः सिन्धोः प्रमन्थनम् ॥१७॥ रत्नानि ते पितुर्यानि तानि सर्वाणि ते सुराः ।
जगृहुर्यत्नतो दृप्ताः पपुरप्यमृतं छलात् ॥१८॥ अमृताश्च सुरा जाता गर्विष्ठा विष्णुपोषिताः ।
अमृतपानसंलब्धाऽमृतभावबलान्विताः ॥१९ ॥ तत आरभ्य दैत्यादीन् दुःखयन्ति सुराः सदा ।
पराभवश्चासुराणां सदा भवति सर्वथा ॥1.325.२० ॥ राहुरयं तदमृतपानार्थं देवरूपधृक् ।
सूर्यचन्द्रान्तरे विष्टोऽमृतं सम्परिवेषितम् ॥२१ ॥ विष्णुना पिबति यावत् तावत्ताभ्यां निवेदितः ।
द्रागेव विष्णुना चक्रधारयाऽयं निषूदितः ॥२२ ॥ अमृत गण्डूषमात्रं गलेऽस्य लग्नतां गतम् ।
तेन नाऽयं मृतो राहुर्द्वेधा छिन्नोऽपि कण्ठतः ॥२३ ॥ द्वौ जातौ राहुरित्यत्र कबन्धोऽयं हि जीवति ।
केतुरिति शिरस्त्वस्य सशिखं चापि जीवति ॥२४॥ एवं तेन पराभूता विष्णुना दैत्यदानवाः ।
पिता ते च कृतो रिक्तो रत्नान्याहृत्य सर्वथा ॥२५॥ एवं शुक्रोदितं राहोः शिरश्छेदं च मन्थनम् ।
रत्नोपहरणं दैत्यपराभवादिकं सुरैः ॥२६ ॥ तदाकर्ण्य महाशक्तो जलन्धरः प्रतापवान् ।
चुक्रोध रोषरक्ताक्षः श्रुत्वा च पितृधर्षणाम् ॥२७ ॥ दूतं तदैव चाहूय घस्मराख्यं शशंस तत् ।
सम्मान्याऽभयमादत्वा प्रेषयामास शिक्षयन् ॥२८ ॥ घस्मर गच्छ देवेन्द्रं निवेदय मदीरितम् ।
गृहाण शरणं यद्वा युद्धार्थं सुस्थिरो भव ॥२९ ॥ अन्यदपि च प्राग्जातं पितुर्मे धर्षणादिकम् ।
जलन्धरो न सहते वैरमार्जनमिच्छति ॥1.325.३० ॥ इत्याद्यादाय वाक्यानि जगाम घस्मरो द्रुतम् ।
वर्गाच्च घस्मरः सर्वं देवेन्द्रं वाक्यमब्रवीत् ॥३१ ॥ जलन्धरो महावीरो दैत्येश्वरोऽब्धिपुत्रकः ।
तस्य वीरस्य दूतोऽहं घस्मरस्तन्निदेशकृत् ॥३२ ॥ प्रेषितस्तेन वीरेण चागतस्तव सन्निधौ ।
यदाह शत्रुजिद्राजाऽव्याहताज्ञः शृणुष्व तत् ॥३३ ॥ कस्मात् त्वं मम पितरं समुद्रं मन्दराद्रिणा ।
मथितवान् नीतवाँश्च सर्वरत्नानि मत्पितुः ॥३४॥ शरणं मे गृहाण त्वं रत्नानि मे प्रयच्छ च ।
अन्यथा ते भयं प्राप्तं राज्यनाशो भविष्यति ॥३५ ॥ इति दूतवचः श्रुत्वा प्रोवाच द्युसदां पतिः ।
यन्मया विहता शैलास्त्वत्पित्रा कुक्षिरक्षिताः ॥३६ ॥ अन्येऽपि मद्द्विषस्तेन रक्ष्यन्तेऽन्तः कथं वद ।
न मे शत्रुवरो भूत्वा द्रोही स्थास्यति कश्चन ॥३७ ॥ पूर्वं हृतानि रत्नानि हरिष्ये प्राणतोऽधुना।
शङ्खासुरं मम शत्रुं ररक्ष त्वत्पिता कथम् ॥३८ ॥ यं शङ्खं चाऽनुजो मे वै हतवान् विष्णुरव्ययः ।
गच्छ दूत वद जालन्धरं मन्थनकारणम् ॥३९ ॥ निर्दोषं न महेन्द्रो वै दण्ड्यं करोति कञ्चन ।
निर्दोषस्त्वं यदिद्वेषं करोषि मम नूतनम् ॥1.325.४० ॥ फलं शीघ्रं प्रदास्येऽहं सज्जो भवाऽसुरेश्वर! ।
इत्युक्तो घस्मरो वै सः शीघ्रं तत्र जगाम हि ॥४१ ॥ जलन्धरोऽस्ति यत्राऽब्धौ तत्रावेदितवानिदम् ।
इन्द्रोक्तं वचनं श्रुत्वा रोषताम्राक्ष एव सः ॥४२ ॥ दृष्ट्वाऽधरोऽकरोद् देवान् जेनुमुद्योगमासुरैः ।
सर्वदिग्भ्यः समाजग्मुरासुरा दैत्यदानवाः ॥४३ ॥ कोट्यब्जाऽर्बुदसङ्ख्याका दिवं जग्मुर्जिगीषया ।
शुम्भनिशुम्भनामानौ कृत्वा सेनाधिनायकौ ॥४४॥ निर्जगाम स्वयं वीरो जलन्धरोऽपि वार्धिजः ।
प्राप नाकं नन्दनस्थो दध्मौ शङ्खं रणाय सः ॥४५ ॥ वीरदैत्याः प्रणेदुश्चाऽऽवृत्याऽमरावतीपुरीम् ।
विज्ञायेन्द्रोऽपि युद्धाय दंशितैश्च सुरोत्तमैः ॥४६॥ सह पुर्या निर्ययौ वै कोटिकोट्यब्जयोधिभिः ।
तयोः समभवद् युद्धं सुराऽसुरप्रसेनयोः ॥४७॥ बाणैरस्त्रैस्तथा मन्त्रैर्मायाभिश्चैन्द्रजालिकैः ।
पाषाणैः पर्वतैर्वृक्षैरुल्काभिश्च शतच्छदैः ॥४८ ॥ वज्रैश्चक्रैः शतघ्नीभिर्नाराचैस्तोमरैर्द्रुमैः ।
मुशलैः परिघैः खण्डैः खड्गैः कुन्तैश्च शक्तिभिः ॥४९॥ गदाभिः परशुभिश्च हस्तिभिश्च रथैः करैः ।
पल्लताभिर्मुष्टिभिर्बाहुभिः कफोणिकादिभिः ॥1.325.५ ० ॥ तेऽन्योन्यं जघ्नतुः सेने सम्मर्दोऽभूदसङ्ख्यकः ।
रक्तनद्योऽभवन् भूमौ कृतवार्धिगमोर्मयः ॥५ १ ॥ पतितैः पात्यमानैश्च गजवाजिप्रपत्तिभिः ।
व्यराजत रणे भूमिः सन्ध्याभ्रपटलं यथा ॥५२॥ मृतान् मृतान् रणे दैत्यान्दानवान् गजवाजिनः ।
सञ्जीविन्याऽजीवयद्वै शुक्रो मन्त्रितवारिभिः ॥५३ ॥ सुरानपि मृताँस्तत्राऽजीवयच्च बृहस्पतिः ।
दिव्यौषधैर्द्रोणगिरेरानीतैर्विविधैर्मुहुः ॥५४॥ मृतोत्थितान् सुरान् दृष्ट्वा जालन्धरोऽतिरोषवान् ।
शुक्रं प्राह कथं चैता मृता जीवन्ति देवताः ॥५५ ॥ मन्ये सञ्जीविनीविद्या सुरेष्वपि गता तव ।
श्रुत्वा शुक्रश्च तं जलन्धरं प्राह सुनिश्चितम् ॥५६ ॥ विद्या सञ्जिविनी नैव सुरेष्वद्यापि सङ्गता ।
किन्त्वौषधीः समानीय द्रोणशैलाद् बृहस्पतिः ॥५७॥ सुरान् जीवयति द्राक्च तस्माद् द्रोणाद्रिमानय ।
स्वाधीनं तं कुरु यद्वा समुद्रान्तः प्रवेशय ॥५८॥ यदलाभे सुरा नष्टा जीविष्यन्ति न वै पुनः ।
तथा कृते विजयस्ते भविष्यत्यन्यथा नहि ॥५९॥ श्रुत्वा जलन्धरो गत्वा द्रुतं चोत्पाट्य पर्वतम् ।
द्रोणाचलं समानीय प्राक्षिपत्सागरान्तरे ॥1.325.६० ॥ ततो देवान् जघानाऽस्त्रैर्जलन्धरो मुदान्वितः ।
हतान्देवाज्जीवयितुमोषध्यर्थं बृहस्पतिः ॥६ १॥ जगाम द्रोणभूमिं च तत्राद्रिं न ददर्श सः ।
निराशः स गुरुर्बुद्ध्या ज्ञात्वाऽद्रिं दैत्यसंहृतम् ॥६२॥ देवान्प्राह समागत्य पलायध्वं सुरा इतः ।
द्रोणाद्रिर्नाशितो जलन्धरेण वाऽन्यतो हृतः ॥६३ ॥ रुद्रजन्यो ह्ययं दैत्यो जेतुं क्षमो न साम्प्रतम् ।
पलायध्वं पलायध्वं ये मृतास्ते गता यतः ॥६४॥ कथञ्चिच्छेषपत्रैस्तान् जीवयिष्ये मृतानहम् ।
इत्युक्ताश्च सुराः सर्वे रणं त्यक्त्वा पलायिताः ॥६५॥ देवान्पलायितान् दृष्ट्वा दैत्या जलन्धरान्विताः ।
शङ्खभेरीजयघोषैर्विविशुस्त्वमरावतीम् ॥६६॥ स्वर्गं त्यक्त्वा भयाद् देवा देव्यश्च मेरुपर्वते ।
गह्वराणि समाश्रित्य न्यवसन् स्वरिरक्षया ॥६७॥ अथ दैत्यो महादुष्टो जलन्धरोऽतिमत्सरात् ।
देवस्थानेषु रिक्तेषु दैत्यान् समभिषेचयत् ॥६८॥ स्वर्गराज्यं वशे कृत्वा ययौ मेरुवनानि सः ।
देवानां नाशनार्थाय दैत्यसैन्यसमन्वितः ॥६९॥ त्रस्तास्ततः सुराः सर्वे विहाय गह्वराण्यपि ।
अनाहूता अपि जग्मुर्ब्रह्माणं प्रति दुःखिताः ॥1.325.७०॥ तावत् तत्रापि तत्स्थानं रिक्तं दृष्टं सुरैस्तदा ।
सत्यलोकेऽपि दैत्यानां राज्यं दृष्ट्वा प्रदुद्रुवुः ॥७१ ॥ वैकुण्ठं जलतेजोन्तरावरणे स्थितं स्थलम् ।
जग्मुर्देवाश्च देव्यश्च ब्रह्मापि तत्र दृश्यते ॥७२॥ तुष्टुवुस्ते हरिं लक्ष्मीनारायणं प्रजेश्वराः ।
सुररक्षक शान्तात्मन् दैत्यनाशक ते नमः ॥७३ ॥ मत्स्यात्मने च ते विष्णो वेदान्नीतवते नमः ।
अमृतमन्थनेऽद्रिं बिभ्रते कूर्माय ते नमः ॥७४॥ पृथ्वीं दन्ते बिभ्रते ते वराहाय नमो नमः ।
बलिं छलायते विप्रवामनाय च ते नमः ॥७५॥ नमः परशुरामाय कापथक्षत्रनाशिने ।
रावणान्तकरायाऽऽशु रामचन्द्राय ते नमः ॥७६॥ कृष्णनारायणराधारमाश्रीपतये नमः ।
नमो बुद्धस्वरूपाय दैत्यमोहकराय ते ॥७७॥ नमः कपिलरूपाय तत्त्वज्ञानप्रदाय ते ।
नमो हंसस्वरूपाय विधात्रे ज्ञानदाय ते ॥७८॥ वेदव्यासस्वरूपाय विद्याश्रवाय ते नमः ।
कलिदोषविनाशकृत्कल्किरूपाय ते नमः ॥७९॥ पार्वत्याश्च प्रभायाश्च माणिक्याः पतये नमः ।
कम्भरायाः सुपुत्राय गोपालसूनवे नमः ॥1.325.८०॥ शरण्याय सुररक्षाकर्त्रे विद्यावते नमः ।
साधुरूपाय कृष्णाय वल्लभाय च ते नमः ॥८ १ ॥ ज्ञानाचार्याय दैवाय दासत्रात्रे च ते नमः ।
दैत्यदुःखितभक्तादिरक्षकाय नमो नमः ॥८२॥ सर्वनेत्राय हृत्स्थाय रमानाथाय ते नमः ।
ध्वजपद्माङ्कुशवज्रयवचिह्नवते नमः ॥८३॥ स्वस्तिकजाम्ब्वष्टकोणोर्ध्वरेखाधारिणे नमः ।
धनुस्त्रिकोणकलशाऽर्धचन्द्रधारिणे नमः ॥८४॥ गोष्पदव्योममत्स्यादिधारिणे पत्तले नमः ।
दक्षपाणौ ध्वजचक्रधनुस्त्रिशूलस्वस्तिकाः ॥८५१॥ मीनदण्डयवरेखा यस्य तस्मै नमो नमः ।
बाहू नेत्रे जानुनी च नासिका च स्तनान्तरम् ॥८६॥ दीर्घाणि सन्ति ते पञ्च तस्मै कृष्णाय ते नमः ।
सुहृस्वजघनपृष्ठग्रीवाजङ्घावते नमः ॥८७॥ सूक्ष्मकेशाऽङ्गुलिपर्वरदाऽस्थिधारिणे नमः ।
कक्षा कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटकम् ॥८८॥ यस्योन्नतानि षट् सन्ति तस्मै श्रीहरये नमः ।
नेत्रप्रान्तौ नखास्तालु जिह्वोष्ठौ पादयोस्तले ॥८९॥ पाणितले च रक्तानि यस्य सन्ति च ते नमः ।
उरः शिरो ललाटं च यस्य ततानि ते नमः ॥1.325.९० ॥ स्वर सत्त्वं च नाभिश्च गम्भीरं यस्य ते नमः ।
वामसक्थ्नि रमाचिह्नं यस्यास्ति ते नमो नमः ॥९ १॥ हृदये दक्षिणावर्तवते कृष्णाय ते नमः ।
सत्रिवलयशोभाढ्यनाभियुक्ताय ते नमः ॥९२॥ शीतभास्वररूपायाऽमृतप्रदाय ते नमः ।
अक्षरायाऽव्याकृतनाम्ने गोलोकाय ते नमः ॥९३॥ वैकुण्ठाय बद्रीशाय श्वेतद्वीपाय ते नमः ।
क्षीरस्थानाय जीवाय जीवातवे च ते नमः ॥९४॥ आत्मने च तदात्मने सर्वात्मने नमो नमः ।
वह्निस्थाय रविस्थाय हिरण्यस्थाय ते नमः ॥९५॥ सुराऽसुरनिवासाय भक्तार्तिहारिणे नमः ।
अपक्षाय विपक्षाय भक्तपक्षाय ते नमः ॥९६ ॥ भगवँस्ते कथाधाम्ने वार्ताधाम्ने च ते नमः ।
सर्वविद्यानिवासाय ब्रह्मणे ते नमो नमः ॥९७॥ भगवन् देवदेवेश पाहि नः शरणागतान् ।
जलन्धरेण वै स्वर्गं निराकृत्य सुराँस्ततः ॥९८ ॥ स्वायत्तीकृतमेवेति कथं त्वं सहसे प्रभो ।
सूर्यश्चन्द्रश्च वह्निश्च शेषो धर्मो निराकृताः ॥९९॥ शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ।
वयं क्षुद्रा इव नाथ विचरामोऽटवीस्थलम् ॥1.325.१०० ॥ इति स्तुत्वा विरेमुस्ते देवा इन्द्रादयस्ततः ।
करुणासागरः कृष्णो जगाद निर्भयं वचः ॥१०१ ॥ भयं त्यजत वो देवास्तं गच्छामि जलन्धरम् ।
नाशयाम्यद्य तं शत्रुं देवानां दुःखदं परम् ॥१०२॥ इत्युच्चार्य समुत्थाय गरुडारूढ एव सः ।
यावद्गन्तुं प्रैरयत् स्ववाहनं तावदेव ह ॥१०३ ॥ लक्ष्मीर्भ्रातुर्निधनं वै भविष्यतीति दुःखिता ।
बाष्पनेत्रा प्राञ्जलिश्च प्रोवाच वल्लभं हरिम् ॥१०४ ॥ मम भ्राता शालकस्ते कथं वध्यः कृपानिधे ।
यद्यहं ते वल्लभास्मि मा तन्नाशं कुरु प्रभो ॥१ ०५॥ विष्णुः प्राह सुरेशानां रक्षणाय मया ननु ।
गन्तव्यं सर्वथा तत्र मारयिष्ये न तेऽनुजम् ॥१०६ ॥ रुद्रांशत्वाद् ब्रह्मवाक्यात् ते वाक्यान्न मम प्रिये ।
मारणीयोऽस्ति ते भ्राता मा विषादं कुरु प्रिये ॥१० ७॥ इत्युक्त्वा सान्त्वयित्वा तां ययौ यत्र जलन्धरः ।
देवादीन् सह नीत्वैव कृष्णनारायणः प्रभुः ॥१०८ ॥ इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने जलन्धरवृन्दाख्याने आषाढपूर्णिमायां शुक्राचार्यपूजकाऽसुरसङ्घेषु राहुं विशिरसं दृष्ट्वा तत्कारणं समुद्रमथनामृतपाने पक्षपातादि विज्ञाय सुरविष्णुप्रभृतिनाशार्थं जलन्धरकृतसुरासुरयुद्धोत्तरं सुरपराजये वैकुण्ठविष्णुस्तवनादिनिरूपणनामा पञ्चविंशत्यधिकत्रिशततमोऽध्यायः ॥३२५ ॥