२९०

श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा क्रुद्धा स्वेष्टसिद्ध्यै तु मोहिनी ।
अत्याग्रहं चकाराऽस्य राज्ञो वाग्दानपूरणे ॥१ ॥ कोपसंरक्तनयना भर्तारं प्रत्यभाषत ।
करोषि चेन्न मे वाक्यं धर्मबाह्यो भविष्यसि ॥२ ॥ त्वया ममाऽर्पितः पाणिर्वरदानाय भूपते ।
चेन्न दास्यसि कृतकृत्या यास्ये सर्वं मयाऽर्जितम् ॥३ ॥ न चाहं ते प्रिया पत्नी न च त्वं मे पतिः प्रियः ।
धिक् त्वां द्विभाषिणं धर्मवचोलोपकरं नरम् ॥४ ॥ सत्याच्चलितमद्य त्वां त्यक्ष्ये स्वार्थपरायणम् ।
इत्युक्त्वा सत्वरं तन्वी प्रस्थिताऽधोमुखी रुषा ॥५ ॥ तदानीं पितृभक्तोऽत्र रुक्माङ्गदसुतः स्वयम् ।
धर्माङ्गदो जनन्या वै सम्मुखोऽभून्ननाम ताम् ॥६ ॥ नम्रः प्रोवाच तां देवि! कथं रुष्टा पितुः प्रिये ।
प्रस्थानं तु न ते योग्यं मातर्योग्यं वदाम्यहम् ॥७ ॥ धर्माङ्गदवचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ।
पिता तवाऽनृती पुत्र हस्तो येनाऽन्यथाकृतः ॥८ ॥ येन कृतं सुकृतं वै ध्वजाङ्कुशांऽकितेन तु ।
तद्धस्तं च मम हस्ते विन्यस्य यद्वचोऽर्पितम् ॥९ ॥ न करोत्येष ते जन्मपिता किं प्रवदाम्यहम् ।
न मया त्वत्र वस्तव्यं ह्यनृतार्थप्रतारिषु ॥1.290.१० ॥ न याचे काञ्चनं धान्यं हस्त्यश्वं ग्रामवाससी ।
येन तस्य भवेद्धानिस्तादृग् याचे न वै सुत ॥११ ॥ येनाऽसौ प्रीणयेद् देहं पत्नीं मां नवयौवनाम् ।
तन्मया प्रार्थितं पुत्र सोऽयं मोहान्न यच्छति ॥१२॥ तस्य ममोपकाराय याचितो नृपसत्तमः ।
सुखहेतोः पुष्टिहेतोस्तच्चापि नो करोत्ययम् ॥१३॥ सुखच्युतं च्युतं सत्यात् त्यक्त्वा यामि सुखालयम् ।
तच्छ्रुत्वा मोहिनीं नत्वा ततो धर्माङ्गदोऽब्रवीत् ॥१४॥ दिव्यमातर्निवर्तस्व करिष्येऽहं तवेप्सितम् ।
यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः ॥१५॥ वैवस्वतगृहं येन कृतं शून्यं हरेर्बलात् ।
कीर्तिः प्रकाशते यस्य व्याप्य ब्रह्माण्डकोटिषु ॥१६॥ मत्पिता स कथं मयि जीवति ह्यनृती भवेत् ।
ममोपरि दयां कृत्वा निवर्तस्व शुभं भवेत् ॥१७॥ एतद्धर्माङ्गदवाक्यमाकर्ण्य स्वेष्टलालसा ।
न्यवर्तत ततः प्राह तातं धर्माङ्गदः सुतः ॥१८॥ तातैषा जननी मेऽद्य त्वां वदत्यनृती त्विति ।
कस्मात्त्वमनृती भूप भविष्यसि मयि स्थिते ॥१९॥ प्रदेहि सकलं त्वस्यै यत् त्वया समयीकृतम् ।
अहं दासस्तव राजन् विक्रीयतां तृणाय माम् ॥1.290.२०॥ देव्यै ददस्व चेदिच्छेज्जीवितं मे ऋती भव ।
कीर्तिनाशो महान्नाशो न नाशः सुतयोषितोः ॥२ १ ॥ कीर्तिलाभो महान् लाभो न लाभः सुतयोषितोः ।
धर्माङ्गदवचः श्रुत्वा रुक्माङ्गद उवाच तम् ॥२२॥ कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् ।
यामि वा निरयं त्वन्धं कथं भोक्ष्ये हरेर्दिने ॥२ ३ ॥ यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसञ्ज्ञिताम् ।
तथापि नैव कर्ता स्यां भोजनं तु हरेर्दिने ॥२४॥ व्रतार्थं दुन्दुभिर्वक्ति वितथो न स मे भवेत् ।
अभक्ष्यभक्षणं कृत्वा किं जीवेच्छरदां शतम् ॥२५ ॥ असत्यं भवतु प्रोक्तं न भोक्ष्ये हरिवासरे ।
धिक्कृतोऽपि जनैस्त्वत्र मोहिन्या रहितोऽपि वा ॥२६ ॥ यदि चेन्मरणं मेऽस्ति न भोक्ष्ये हरिवासरे ।
कथं हर्षमहं कुर्यां दृष्ट्वा याम्यपुरं गतान् ॥२७॥ यास्तु शून्याः कृताः पुत्र मया नरकपङ्क्तयः ।
जनैः पूर्णा भवेयुस्ता भुक्ते मयि हरेर्दिने ॥२८ ॥ भोजनं वासरे विष्णोः कारयित्वापि ते प्रसूः ।
याचते यमराजस्य क्षेत्रं पूरयितुं खला ॥२९ ॥ तन्न दास्यामि मोहिन्यै देवैः शाठ्यमिदं कृतम् ।
शठा चेयं शठा देवाः शठे शाठ्यं प्रकल्पयेत् ॥1.290.३० ॥ पिबेद्विषं विशेद्वह्निं निपतेत् पर्वताग्रतः ।
स्वस्याः छिन्द्याच्छिरश्चापि न भोक्ष्येऽहं हरेर्दिने ॥३१ ॥ मोहिनी मरणं यातु यथेष्टं वा प्रगच्छतु ।
नाहं भोक्ष्ये हरेरह्नि जन्ममृत्युहरे व्रते ॥३ २॥ एकादश्युपवासेन यन्मया पुण्यमर्जितम् ।
सञ्चितं च यशस्तद्वै भुक्त्वा विनाशये कथम् ॥३३ ॥ स्वपितुर्वचनं श्रुत्वा धर्माङ्गदोऽतिधार्मिकः ।
सन्ध्यावलीं तदा प्राह मोहिनीं परिसान्त्वय ॥३४॥ यथा न च्यवते सत्याद् यथा भुङ्क्ते न मे पिता ।
तथा विधीयतां यत्र कुशलं तूभयोर्भवेत् ॥३५ ॥ पुत्रवचस्तु सा श्रुत्वा मोहिनीं प्राह पूर्वजा ।
अनुवर्तस्व राजानं माऽऽग्रहं कुरु पापके ॥३६ ॥ नाऽऽस्वादयति राजाऽन्नं सम्प्राप्ते हरिवासरे ।
कामं वरय सत्यस्थे वरमन्यं सुदुर्लभम् ॥३७॥ कनिष्ठाया वरिष्ठाऽहं करिष्ये पादवन्दनम् ।
पत्युरर्थे परिणीता करोमि मस्तकार्पणम् ॥३८ ॥ परिणीता तु नासि त्वं कुतोऽन्यथेदृशाग्रहः ।
वाचा शपथदोषैश्च सन्निरुध्यं प्रतार्य या ॥३९ ॥ कारयेत् पतिमकृत्यं सा पापा नरकं व्रजेत् ।
च्युता च नरकात्सप्त पञ्च जन्मानि शूकरी ॥1.290.४० ॥ ततो भवति चाण्डाली ततश्च काष्ठिला भवेत् ।
ततश्छुछुन्दरी स्याच्च ततः काकी शृगालिका ॥४ १ ॥ गोधा भूत्वा ततः सा वै गोत्वे नैव प्रशुद्ध्यति ।
विपक्षस्यापि भगिनि! सद्बुद्धिदानमुत्तमम् ॥४२॥ येन श्रेयः परं स्याद्वै सुखं सुखयितुः सदा ।
सन्ध्यावलीवचः श्रुत्वा मोहिनी प्राह मानवः ॥४३ ॥ माननीयाऽसि मे ज्येष्ठे करोमि वचनं तव ।
यदि चेन्नाचरेद् राजा भोजनं हरिवासरे ॥४४॥ कुरुष्व त्वपरं देवि मरणादधिकं तव ।
ममापि दुःखदं त्वेतद् राष्ट्रस्यापि प्रशोककृत् ॥४५॥ कस्येष्टं मरणं देवि! कस्याऽनिष्टं च जीवनम् ।
दैवाऽऽविष्टो जनः सर्वोऽनिष्टं चापि करोति वै ॥४६॥ चतुर्वर्गच्युतं घोरं यशोभाग्यविनाशकम् ।
कर्मरेखाप्रभग्नो वै करोत्यशुभकर्म तत् ॥४७॥ साऽहं पापदुराचारा व्रतकामा सनिर्घृणम् ।
यादृग्भावान्वितं बीजं तादृशी जायते क्रिया ॥४८ ॥ यादृशेन तु भावेन योनौ शुक्रं समुत्सृजेत् ।
तादृशेन तु भावेन सन्तानं सम्भवेदिति ॥४९॥ साऽहं रुक्माङ्गदनाशभावेन ब्रह्मणा कृता ।
दुष्टभावा तथा जाता दुष्टकर्त्री नृपस्य यत् ॥1.290.५ ०॥ न लग्नं न ग्रहा देवि! न होरा पुण्यदर्शिनी ।
किन्तु निषेकभावेन भावितं बालकः भवेत् ॥५ १ ॥ न तत्र प्रबलं क्वापि दाक्षिण्यं मित्रता तथा ।
न च व्रीडा न च स्नेहो न धर्मो न दयादिकम् ॥५२॥ वक्ष्ये प्राणहरं तेऽद्य नृपस्य च सुतस्य च ।
प्रजानां च वधूनां च यदकार्यं हि सर्वथा ॥५३ ॥ कर्तुं शक्यं न मनसा श्रोतुं कर्णेन नापि यत् ।
तत् कथं वै शरीरेण कर्तुं शक्येत मानवि! ॥५४॥ करोषि चेद् भवेत् कीर्तिस्तव राज्ञश्च सद्यशः ।
स्वर्गतिस्तव पुत्रस्य प्रशंसा मम धिक्कृतिः ॥५५॥ मोहिनीवचनं श्रुत्वा देवी सन्ध्यावली प्रिये! ।
धैर्यमालम्ब्य तां तन्वीं ब्रूहि ब्रूहित्यचोदयत् ॥५६॥ मा वदैवं नववधु! भर्त्रर्थे सकलं भवेत् ।
आत्मनो निधने वापि पुत्रस्य निधनेऽपि वा ॥५७॥ भर्तुरर्थे प्रकुर्वन्त्या राज्यनाशे न मे व्यथा ।
यस्या भर्ता भवेद् दुःखी तस्याः प्रोक्ता ह्यधोगतिः ॥५८॥ चण्डिके सा तवैवास्तु न मे भर्तुर्ममापि न ।
मत्पुत्रस्यापि सा माऽस्तु या त्वदीया भविष्यति ॥५९॥ सञ्जाते सुखदाम्पत्ये भार्या मोक्षविरोधिनी ।
भूत्वा दुःखप्रदा स्याच्चेन्न भार्या सा तु राक्षसी ॥1.290.६० ॥ भार्या समुद्धरेत्पापात्पतन्तं निरये पतिम् ।
सा भार्याऽन्या कर्मवल्लीरूपा संसारवर्धिनी ॥६१ ॥ जीवितेनापि वचसा भर्तारं वञ्चयेत्तु या ।
कृमियोनिशतं प्राप्य पुष्कसी जायते तु सा ॥६२॥ पतिर्हि दैवतं लोके वञ्चनीयो न भार्यया ।
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ॥६३ ॥ वित्तं देहं तथा पुत्रं यत्त्वन्यद्वा सुदुर्लभम् ।
किमन्यद् दैवतं लोके स्त्रीणामेकं पतिं विना ॥६४॥ तस्यार्थे वा त्यजेत् सर्वं जीवनं किं ततोऽधिकम् ।
श्रुत्वेति मोहिनी प्राह स्वार्थमोहकरण्डिका ॥६५॥ यद्येवं त्वं विजानासि भर्त्रर्थं धनजीवनम् ।
तदाहं याचये वित्तं जीवितादधिकं शुभे ॥६६॥ देहि पुत्रशिरो मह्यं यदिष्टं हृदयाधिकम् ।
यदि नो भोजनं कुर्याद् राजा वै हरिवासरे ॥६७॥ तदा स्वहस्ते सङ्गृह्य खड्गं राजा पतिस्तव ।
धर्माङ्गदशिरश्छित्वा ममोत्सङ्गे ददातु वै ॥६८॥ एतद्वा कुरु तद्भद्रे यदाऽन्नं न भुनक्ति सः ।
तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम् ॥६९॥ प्रचकम्पे क्षणं सन्ध्यावली मत्वा तु राक्षसीम् ।
शनैर्धैर्यं समालम्ब्य धर्मवाक्यान्युवाच ह ॥1.290.७० ॥ धनं त्यजेत् त्यजेद् दारान् जीवितं च गृहं त्यजेत् ।
त्यजेद् देशं त्यजेद्भूपं स्वर्गं मित्रं गुरुं त्यजेत् ॥७१॥ त्यजेत्तीर्थं त्यजेद्धर्म त्यजेत्पुत्रं बहुप्रियम् ।
त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रियां त्यजेत् ॥७२॥ तपस्त्यजेत् त्यजेद्विश्वां सिद्धिं मोक्षं त्यजेत् परम् ।
पक्षयोरुभयोश्चापि न त्यजेद्धरिवासरम् ॥७३॥ एकादश्या व्रतेनैव तत्सर्वं प्राप्यते मुहुः ।
तत्रापि भर्तृतुष्ट्यर्थे सर्वं जह्यात् पतिव्रता ॥७४॥ दापये तव तुष्ट्यर्थं पत्युर्व्रतप्रपूतये ।
धर्माङ्गदशिरश्चण्डे राक्षसी त्वं न देवजा ॥७५॥ न सत्याच्चालये चण्डे पत्यर्थं च व्रतार्थकम् ।
इत्युक्त्वा विनयात्पादौ भर्तुः सङ्गृह्य पद्मजे! ॥७६॥ उवाच वचनं राज्ञी धर्माङ्गदशिरःकृते ।
मोहिन्या मोहरूपाया नान्यत् सङ्कोचते खलु ॥७७॥ भोजनं वासरे विष्णोर्बधं वा तनयस्य वै ।
धर्मत्यागाद् वरं नाथ पुत्रमूर्धनिकृन्तनम् ॥७८॥ व्यापाद्य सुतं राजन् स्नेहं त्यक्त्वा सुदूरतः ।
मा सत्यलङ्घनं कार्षीरधर्मो मा स्पृशेत् त्वयि ॥७९॥ मातृस्नेहोऽत्र भर्त्रर्थे पुत्रे भवति सार्थकः ।
धर्मस्नेहस्वरूपोऽयं गृहीतो न तु लौकिकः ॥1.290.८०॥ प्राणान् दत्वा प्रियां दत्वा पुत्रं सर्वस्वमेव वा ।
सत्यं हरेर्व्रतं रक्ष्यं हृषीकेशार्थमत्र हि ॥८ १ ॥ तदलं परितापेन सत्यं पालय भूपते ।
सत्यस्य पालनाद् राजन् विष्णुदेहेन युज्यते ॥८२॥ मन्ये भूपाल! देवैः सा त्वद्व्रतपरिपन्थिभिः ।
शिक्षिता प्रेषिता सत्यविनाशाय हरेर्व्रते ॥८३॥ पुत्रव्यापादनाद् देवा भविष्यन्ति त्वधोमुखाः ।
तेषां मूर्ध्नि पदं दत्वा यास्यसे परमं पदम् ॥८४॥ विरुद्धा विबुधा भूप सेश्वरास्तव सद्व्रतैः ।
मोक्षमार्गप्रभेत्तारस्तव निश्चयलोपकाः ॥८५॥ रीतिर्वै देवताः परिपन्थिनो भक्तिमार्गिणाम् ।
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम् ॥८६॥ मोहिन्याः कुरु वाक्यं वै ह्यात्मनः सत्यपालनात् ।
पालनाय व्रतं विष्णोः कुरु पुत्रसमर्पणम् ॥८७॥ भार्याया वचनं श्रुत्वा राजा रुक्माङ्गदस्तदा ।
सन्ध्यावलीमुवाचेदं मोहिन्याः सन्निधौ प्रिये ॥८८॥ पुत्रहत्या महाहत्या ब्रह्महत्याऽधिका भवेत् ।
घातयित्वा सुतं त्वत्र का परत्र गतिर्भवेत् ॥८९॥ अप्रजं तु सुतं हत्वा का गतिर्मे भविष्यति ।
अन्यार्थे किं सुतं हन्मि किं हन्मि हरिवासरम् ॥1.290.९० ॥ न भोक्ष्ये वासरे विष्णोर्न हन्मि तनयं प्रिये ।
आत्मानं दारयिष्यामि मोहिनी म्रियतां च वा ॥९ १॥ अथवा मोहिनीं सम्यगनुनयामि वै पुनः ।
यदि शान्तं मनस्तस्याः साम्ना स्याच्छ्रेयसे यतः ॥९२॥ इति विचार्य नृपतिः सन्ध्यावल्याः समीपतः ।
रुक्माङ्गदः सान्त्वनार्थं मोहिनीमिदमब्रवीत् ॥९३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धर्माङ्गदकृतो मोहिनी प्रत्यनुनयो रुक्माङ्गदस्य व्रतदार्ढ्ये सन्ध्यावल्यापत्यर्थे कृतोपदेशेऽपि मोहिन्या पुत्रशिरसोऽभ्यर्थनं सन्ध्यावल्याः शिरोदानानुमतिश्चेत्यादिनिरूपणनामा नवत्यधिकद्विशततमोऽध्यायः ॥२९० ॥