२८४

श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि वारग्रहार्चनव्रतम् ।
यत्कृत्वा तु ग्रहाः सर्वे तुष्टा ददति सम्पदः ॥१ ॥ सूर्यवारे व्रतं कार्यं नक्तं च वैकभोजनम् ।
प्रातः स्नात्वा रविं नत्वा पूजयेत् सर्ववस्तुभिः ॥२ ॥ कृत्वा तु कानकं सूर्यं सारुणाश्वरथस्थितम् ।
सञ्ज्ञाछायायुतं दिव्यमालामणिविभूषितम् ॥३ ॥ आवाहनादिकं कृत्वा पञ्चामृताऽभिषेचनम् ।
स्नपनं वस्त्रभूषादिधारणं गन्धलेपनम् ॥४ ॥ धूपदीपसुनैवेद्यफलताम्बूलकाऽर्पणम् ।
ध्यानप्रदक्षिणास्तोत्रनमनादिविसर्जनम् ॥५ ॥ कारयेच्च ततो मध्याह्नेऽपि रात्रौ तथैव ह ।
पूजनं कारयेत् सर्वं सनीराजनभोजनम् ॥६ ॥ रात्रौ तु स्नापयेद् देवं प्रातः स्नात्वा प्रबोधयेत् ।
पूजयेत् कमलैश्चार्ककरवीरादिपुष्पकैः ॥७ ॥ जलं पुनः पुनर्दद्यादुपस्थापनमाचरेत् ।
दानाऽभयाऽब्जयुगलं धारयन्तं करे रविम् ॥८ ॥ कुण्डलाङ्गदकेयूरयुतं ध्यायेत् त्रयीतनुम् ।
रक्ताम्भोजैस्तिलैर्वापि जुहुयाद् विधिवद्वसौ ॥९ ॥ उच्चारयेत्तु सूर्याय स्वाहेत्यष्टोत्तरं शतम् ।
भूर्भुवः स्वस्तत्सवितुर्वरेण्यम् ॥1.284.१ ०॥ भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।
इति गायत्रिकामन्त्रेणाऽष्टोत्तरशतं तथा ॥१ १॥ जुहुयात् स्वाहासञ्ज्ञायैछायायै चापि संवदेत् ।
भोजयेत्पूजयेदर्घ्यं दद्याद् भास्करमूर्तये ॥१२॥ प्राणानायम्य चाचम्य हस्तौ प्रक्षाल्य पूजकः ।
पात्रं ताम्रमयं प्रस्थतोयग्राहि समाददेत् ॥१ ३॥ कुङ्कुमं रोचनां राजीं चन्दनं रक्तचन्दनम् ।
करवीरं जपाशालिकुशश्यामाकतण्डुलान् ॥१४॥ तिलवेणुयवाँश्चैव निक्षिपेत् सलिले शुभे ।
हस्ताभ्यां कलशं वृत्वा जानुभ्यामवनीं गतः ॥१५॥ आमूर्ध्नि पात्रमुद्धृत्याऽम्बरेण वरणे रवेः ।
दृष्टिं चाधाय मनसा दद्यार्घ्यं जलाञ्जलिम् ॥१६॥ दत्वा पुष्पाञ्जलिं चापि नत्वा स्तुत्वा विसर्जयेत् ।
नित्यं वा तद्दिनेऽप्येवमर्घ्यं दद्याद्विवस्वते ॥१७॥ तेन तुष्टो दिनशोऽस्मै दद्याद् वित्तं यशः सुखम् ।
पुत्रान् पौत्रानभीष्टं च यद्यत् सर्वं प्रयच्छति ॥१८॥ सूर्यार्चनव्रतं त्वेतदायुरारोग्यवर्धनम् ।
धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् ॥१९॥ तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ।
प्रकुर्याद् विधिना सूर्यमण्डलाप्तिकरं परम् ॥1.284.२०॥ सूर्यमूर्तिं प्रदद्यात्तु गुरवे दक्षिणायुताम् ।
भोजयेद् ब्राह्मणान् दुग्धसारं तथा सुपोलिकाः ॥२१ ॥ स्वयं भुञ्जीत च व्रती व्रतमेव समापयेत् ।
अथ चन्द्रदिने चन्द्रव्रतं कुर्याद् विधानतः ॥२२॥ प्रातरुत्थाय संस्नात्वा दुग्धपुष्पादि चाहरेत् ।
सौवर्णं समृगं सोमं सपत्नीकं प्रपूजयेत् ॥२३॥ सप्तविंशतिपत्नीभिः सहितं चन्द्रकं व्रती ।
आवाहनात् समारभ्य षोडशोपसुवस्तुभिः ॥२४॥ पूजयेत् कुमुदैश्चापि भोजयेद् दुग्धशर्कराः ।
रात्रौ नीराजयेत् पूर्णातिथौ चन्द्रस्य दर्शने ॥२५॥ प्रकान्त्यास्यं स्फटिकाभं नीलालकं सकुण्डलम् ।
बिभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ॥२६॥ स्वाहा चन्द्राय रोहिण्यैनक्षत्रेभ्यश्च संवदेत् ।
जुहुयात्पायसेनाऽष्टोत्तरशतं ससर्पिषा ॥२७॥ स्थापयेद् राजतं पात्रं पूरयेत् सौरभं पयः ।
दद्यान्निशाकरायाऽर्घ्यं सर्वाभिष्ठार्थसिद्धये ॥२८॥ नित्यं वा तद्दिनेऽत्येवमर्घ्यं दद्याच्च पूजयेत् ।
तुष्टः कुमुदिनीनाथो दद्यादौषधिभोजनम् ॥२९॥ धनं धान्यं सुताः पुत्रान् सौभाग्यं च ददाति वै ।
एकभुक्तं व्रतं कुर्याद् गुरवे मूर्तिमर्पयेत् ॥1.284.३ ०॥ बालान् सम्भोजयेत् क्षीरं पूरिकाश्च सतो जनान् ।
स्वयं व्रतं समाप्यैव प्रभुञ्जीत तु पारणाम् ॥३ १॥ अथ मङ्गलदेवस्य व्रतं रक्ष्यं सुखार्थिना ।
एकभुक्तेन कर्तव्यं सर्वकार्यस्य सिद्धये ॥३२॥ प्रातः स्नात्वा धरापुत्रदिने ध्यायेच्च मङ्गलम् ।
मेषस्थं रक्तवस्त्राङ्गं शूलशक्तिगदावरान् ॥३३॥ करैर्बिभ्राणमीशानस्वेदतं भूसुतं स्मरेत् ।
मार्गशीर्षेऽथ वैशाखे व्रतारम्भः कुजेः दिने ॥३४॥ अरुणोदयवेलायां भौमव्रतमुपाचरेत् ।
सुतकामा धनकामा स्मृद्धिकामा व्रतं चरेत् ॥३५॥ उत्थाय च रदान् धावेदपामार्गेण वाग्यता ।
स्नात्वा रक्ताम्बरधरा रक्तमालविलेपना ॥३६॥ नैवेद्यादिकसम्भारान् रक्तान्सर्वान्प्रकल्पयेत् ।
आचम्य देशकालौ च सङ्कीर्त्याथ व्रतार्थिनी ॥३७॥ षोडशाद्यैरुपचारैः सम्पूज्याऽर्घ्यं निधापयेत्।
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ॥३८॥ ताम्रपात्रे शुद्धतोयपूरिते रक्तचन्दनम् ।
रक्तपुष्पाक्षतफलान्याक्षिप्याऽर्घ्यं समर्पयेत् ॥३९॥ भूमिपुत्र सुतार्थं त्वां प्रपन्नाऽर्घ्यं गृहाण मे ।
देहि पुत्रं महीपुत्र गृहाणाऽर्घ्यं नमोऽस्तु ते ॥1.284.४० ॥ ततो रेखात्रयं पृथ्व्यां खादिराङ्गारकेण वै ।
कुर्याच्च मार्जयेद् वामपादेन च वदेत्तदा ॥४१ ॥ दुःखदौर्भाग्यनाशाय पुत्रसन्तानहेतवे ।
कृतरेखात्रयं वामपादेन मार्जयाम्यहम् ॥४२॥ ऋणदुःखविनाशाय मनोऽभीष्टार्थसिद्धये ।
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ॥४३॥ ध्यात्वा च मङ्गलं पुष्पाञ्जलिहस्ता स्तुवीत तम् ।
ऋणहर्त्रे नमस्तुभ्यं नित्यं सौभाग्यदो भव ॥४४॥ यो वक्रगतिमापन्नो नॄणां दुःखं प्रयच्छति ।
पूजितः सुखसौभाग्यप्रदो भवति ते नमः ॥४५॥ मेषवाहनं रुद्रात्मन् देहि पुत्रान् धनं यशः ।
स्तुत्वा नत्वा तथा नीराजयित्वा पुष्पमर्पयेत् ॥४६॥ यथाशक्ति प्रदाय स्वं गृह्णीयाद् ब्राह्मणाशिषः ।
गुरवे दक्षिणां दद्यात् प्रभुञ्ज्यात् तन्निवेदितम् ॥४७॥ एवमावत्सरं कुर्यात् प्रतिमङ्गलवासरम् ।
तिलैर्होमं प्रकुर्याच्च स्वाहा मङ्गलमूर्तये ॥४८॥ भौममूर्तिं स्वर्णमयीं मण्डलस्थे घटे स्थिताम् ।
समभ्यर्च्य जपेन्मन्त्रं सुतसौभाग्यसिद्धये ॥४९॥ ओमङ्गारकाय विद्महे शक्तिहस्ताय धीमहि ।
तन्नो भौमः प्रचोदयादित्यष्टोत्तरकं शतम् ॥1.284.५० ॥ जपेन्नमेत्पुनः पूजां कृत्वा दुग्धादि भोजयेत् ।
शर्करां च सुमिष्टान्नं गोधूमान्नं समर्पयेत् ॥५१॥ जलपानं च ताम्बूलं पुष्पाञ्जलिं समर्पयेत् ।
विसर्जयेत्तु विधिना रात्रौ व्योम्नि च तं पुनः ॥५२॥ नत्वा ध्यात्वा जलं दत्वाऽक्षतान् पुष्पाणि चार्पयेत् ।
व्रतपूर्तिं फलं प्रार्थ्य भुञ्ज्यात् स्वप्यात् स्मरेत् ग्रहम् ॥५३॥ एवं व्रतार्थिनी वाथ व्रती भौमस्य तोषणात् ।
लभते सुतधान्यादि निर्विघ्नं सुखमुत्तमम् ॥५४॥ अथ बुधे दिने वुधव्रतं कुर्यात्समाहितः ।
स्नात्वा मूर्तिं तु सौवर्णी पूजयेत्तु यथाक्रमम् ॥५५॥ आवाहनात्समारभ्य पुष्पाञ्जल्यन्तमेव तु ।
कृत्वा पीताम्बरं चन्द्रपुत्रं साऽभयपाणिकम् ॥५६॥ जानुस्थवामहस्तं च ध्यात्वाऽर्घ्यं च समर्पयेत् ।
बुध चान्द्र महाप्राज्ञ दुःखं हर सुखं कुरु ॥५७॥ अथाग्नौ जुहुयात्स्वाहा बुधायाष्टोत्तरं शतम् ।
प्रपूज्य भोजयित्वा च क्षमां प्रार्थ्याऽञ्जलिं ददेत् ॥५८ ॥ पुष्पाक्षतैर्वर्धयित्वा ततस्तं तु विसर्जयेत् ।
ब्राह्मणान् भोजयेद् व्योम्नि रात्रौ पश्येद् बुधं व्रती ॥५९॥ अर्घ्यं कमलपुष्पैश्च दत्वा समापयेद् व्रतम् ।
भोजयेत् साधुसाध्वीश्च स्वयं भुञ्जीत सादरम् ॥1.284.६० ॥ एवं व्रतकृतो ग्रहपीडा सर्वा निवर्तते ।
पुत्रपशुधनारोग्यसम्पदां वर्धनं भवेत् ॥६१ ॥ अथ गुरौ प्रकुर्याच्च गुरोर्व्रतं समाहितः ।
स्नात्वा सुवर्णजां मूर्तिं गुरोः समर्चयेद् व्रती ॥६२॥ आवाहनात्समारभ्य षोडशाऽभिसुवस्तुभिः ।
पुष्पाञ्जलिप्रपर्यन्तं पूजयित्वा बृहस्पतिम् ॥६३ ॥ ध्यायेन्यस्तवामहस्तं रत्नराशौ च दक्षिणात् ।
किरन्तं सर्वरत्नानि स्वर्णकान्तिं शुभाननम् ॥६४॥ पीतपुष्पाद्यलङ्कारालेपांशुकादिपूजितम् ।
सर्वविद्यानिधिं देवगुरुं शान्तिकरं स्मरेत् ॥६५॥ भोजयेत्पायसान्नं च नमेत् क्षमापयेत्तथा ।
स्वाहा बृहस्पतये चेत्यष्टोत्तरशताऽऽहुतीन् ॥६६ ॥ ददेद् घृतान्नपक्वान्नदुग्धसारकलादिभिः ।
विषरोगादिपीडासु कलहे स्वजनोद्भवे ॥६७॥ पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ।
जुहुयात् त्रिदिनं चापि निशापुष्पैर्घृतप्लुतैः ॥६८॥ शीघ्रं तूपद्रवशान्तिर्भवेदिति पुनस्ततः ।
पूजयेच्च नमेद् रात्रौ व्योम्नि तद्दर्शनं चरेत् ॥६९ ॥ दद्यादर्घ्यं जलं नत्वा विद्यां च प्रार्थयेद् व्रती ।
नीराजयेत् ततः पुष्पाञ्जलिं दद्याद् विसर्जयेत् ॥1.284.७० ॥ दानं श्रीगुरवे दद्यात् समूर्तिकं सभोजनम् ।
एवं कृत्वा व्रतं पश्चाद् भुञ्जीतेति सुखी भवेत् ॥७ १ ॥ अथ शुक्रदिने शुक्रव्रतं कुर्याद् विधानतः ।
स्नात्वा सुवर्णजं शुक्रं ध्यायेच्छुक्लाम्बरं ग्रहम् ॥७२॥ शुक्ललेपविभूषं च करेण धनदायकम् ।
व्याख्यानमुद्रा वामेन दर्शयन्तं स्मरेद् व्रती ॥७३ ॥ आवाहनात्समारभ्य पुष्पाञ्जल्यन्तमर्चयेत् ।
भोजयेत्पूजयेत्क्षमापयेन्नमेत्ततः परम् ॥७४॥ श्वेतपुष्पैः सुगन्धैश्च जुहुयाद् भृगुवासरे ।
अष्टोत्तरं शतं होमं घृतादिभिश्च सञ्चरेत् ॥७५॥ नीराजयेद् गुरवे तु दद्यादर्घ्यं जलं शुभम् ।
रात्रौ व्योम्नि प्रपश्येच्च नत्वा स्तुत्वा विसर्जयेत् ॥७६॥ दानं श्रीगुरवे दद्याद् व्रतं तस्य समापयेत् ।
रत्नमण्यादि लभते व्रतकृच्च सुखी भवेत् ॥७७॥ एकभुक्तं च वा नक्तं तूपवासं व्रते च वा ।
प्रकुर्याद्वा यथाशक्ति पयःपानं फलाशनम् ॥७८॥ अथ शनैश्चरे वारे व्रतं शनेः समाचरेत् ।
स्नात्वा प्रातर्हरिं नत्वा हनूमन्तं च पन्नतिम् ॥७९॥ प्रणमेच्च शनेर्मूर्तिं त्वायसीं परिपूजयेत् ।
कृष्णमाषान्सप्तसङ्ख्यान्पूजायामर्पयेद् व्रती ॥1.284.८० ॥ आवाहनात् समारभ्य पुष्पाञ्जल्यन्तमादरात् ।
सर्वं कुर्यात्प्रदद्याच्च कृष्णपुष्पं सुकज्जलम् ॥८ १ ॥ कृष्णाम्बरविभूषाश्च कृष्णान्नस्य निवेदनम् ।
कृष्णतिलादिहोमं च स्वाहा शनैश्चराय वै ॥८२॥ अष्टोत्तरं शतं कुर्याज्जपेन्मन्त्रं यथाबलम् ।
ध्यायेत् कृपाणहस्तं तं कृष्णाम्बरोत्तरीयकम् ॥८३॥ रथस्थं त्वायसवर्णं क्रूरदृष्टिप्रवक्त्रकम् ।
वक्रगतिं प्रपश्यन्तं नमेद्दद्याजलार्घ्यकम् ॥८४॥ कृष्णपुष्पकृष्णमाषान्वितं शान्तिप्रदो भव ।
शुभां दृष्टिं कुरु सौर्य सम्पत्सुखानि वर्धय ॥८५॥ अनिष्टं मा कुरु त्वर्किन् सञ्ज्ञापुत्र नमोऽस्तु ते ।
यमभ्रातर्गृहाणेदं कृशरान्नं जलादिकम् ॥८६॥ इति कृत्वाऽर्चनं तस्य कृष्णदानानि दापयेत् ।
नीराजयेन्नमेच्चापि विधिना च विसर्जयेत् ॥८७॥ एकभुक्तं च वा प्रायो नक्तं त्वत्राचरेद् व्रती ।
द्वितीये वासरे प्रातः प्रपूज्यैव शनिं हृदा ॥८८॥ भोजयेद्बालकान् कन्या विप्रान् कुर्याच्च पारणाम् ।
एवं सम्वत्सरं कृत्वा शनेर्दुःखानि सञ्जयेत् ॥८९॥ प्राप्नुयात् सुखसम्पत्तिं सुखं स्वर्गसमं लभेत् ।
इति व्रतानि प्रोक्तानि किमन्यच्छ्रोतुमिच्छसि ॥1.284.९० ॥ इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने
सूर्यसोममङ्गलबुधगुरुशुक्रशनिव्रतानां साङ्गनिरूपणनामा
चतुरशीत्यधिकद्विशततमोऽध्यायः ॥२८४॥