२८१

श्रीनारायण उवाच-
अथ द्वादशमासेषु यान्यन्यानि व्रतानि च ।
कर्तव्यान्यपि ते वक्ष्ये शृणु पुण्यानि पद्मजे! ॥१ ॥ चैत्रमासस्य शुक्लायामेकादश्यां तु वैष्णवैः ।
आन्दोलनीयो भगवान् लक्ष्मीयुक्तो महोत्सवैः ॥२ ॥ सुगन्धिपुष्पमय्यां तु तस्यां त घटिकाद्वयम् ।
आन्दोलयित्वा नीराजयित्वा चोत्तारयेत्प्रभुम् ॥३ ॥ भोजयेच्च व्रती नत्वा तं क्षमाप्य विसर्जयेत् ।
आषाढे शुक्लके पुष्ये रथयात्रां समाचरेत् ॥४ ॥ साश्वं रथं स्थापयेच्च कृष्णनारायणाग्रतः ।
वासांसि राजयोग्यानि धारयेद् भूषणानि च ॥५ ॥ श्रेष्ठान् हैमान् शस्त्रवर्यान् खड्गादीन् धारयेत्प्रभुम् ।
दधि भक्तं लड्डुकाँश्च भोजयित्वा रथेऽर्चयेत् ॥६ ॥ हरिं नीराजयित्वा च चतुर्वारं पुनः पुनः ।
उत्तारयेद् रथात् तत्र गापयेत् कीर्तनानि वै ॥७ ॥ ततश्च भोजनं कुर्याद् व्रती मोक्षप्रदं व्रतम् ।
आषाढकृष्णद्वितीयादिनादारभ्य मासिकः ॥८ ॥ श्रावणकृष्णतृतीयावधिं दोलोत्सवो मतः ।
वृषराशेश्चन्द्रबले कुर्याद् दोलां स्वलङ्कृताम् ॥९ ॥ नित्यं नवीनवस्त्वाद्यैर्नवीनां श्रीहरेः प्रियाम् ।
सायाह्ने प्रत्यहं कृष्णनारायणं निधारयेत् ॥1.281.१० ॥ नीराजयित्वा नैवेद्यं समर्प्याऽऽन्दोलयेद् व्रती ।
दोलापद्यानि रम्याणि गापयेन्नृत्यमाचरेत् ॥१ १॥ नभःकृष्णतृतीयायां प्रपूज्योत्तारयेद्धरिम् ।
श्रावणः सर्वथा मासो व्रतैश्च नियमैर्यमैः ॥१ २॥ यापनीयो विशेषेण भुक्तिं मुक्तिं समिच्छता ।
कार्तिकोऽपि तथा नेयो व्रतदानजपादिभिः ॥१ ३॥ मार्गशीर्षे धनूराशौ धनुर्लग्ने रवौ गते ।
विधायाऽभ्यङ्गमुष्णेन स्नपयेद्वारिणा हरिम् ॥१४॥ धारयित्वा सुवासांसि तदग्रेऽग्निष्टिकामपि ।
निधाय नैत्यकं कुर्याच्छृङ्गारं सश्रियः प्रभोः ॥१५॥ नैवेद्ये मोदकान् दद्यान्नवनीतं घृतं दधि ।
रोटकं तरलां भर्जितं वृन्ताकं समर्पयेत् ॥१६ ॥ क्वथिकां पाययेत् कृष्णमध्ययनाय योजयेत् ।
एवं वै मासपर्यन्तं शिक्षार्थं तूत्सवं चरेत् ॥१७॥ पौषमासे मकरे च यदा सूर्यायनं भवेत् ।
चत्वारिंशद्धटिका वै पुण्यकालो विशेषतः ॥१८॥ दानस्नानार्चनाद्यं तु कर्तव्यं तिललड्डुकाः ।
मिष्टान्नानि च देयानि ह्यनाथेभ्यो विशेषतः ॥१९॥ गवां ग्रासादि देयं च श्राद्धं पुण्यप्रदं तथा ।
माघमासे तु पञ्चम्यां वसन्तोत्सवमुत्तमम् ॥1.281.२०॥ तत आरभ्य नित्यं च होलिकावधिकं सदा ।
कुङ्कुमरङ्गगुलालार्पणपूजनभोजनैः ॥२ १॥ प्रकुर्यात् श्वेतवासांसि हरिं नवानि धारयेत् ।
रङ्गान् लक्ष्मीहरिकृष्णवासस्सु प्रक्षिपेद् व्रती ॥२२॥ गुलालं स्थलपद्माम्बु निक्षिपेच्च पुनः पुनः ।
शेखरं त्वाम्रपुष्पाणां धारयेद् भोजयेद्धरिम् ॥२३॥ कैसराण्यंशुकानि श्रीकृष्णं लक्ष्मीं च धारयेत्
होलिकान्तां च वासन्तीं क्रीडां गायेत्तु फाल्गुनीम् ॥२४॥ अथाऽऽविर्भावदिवसाद् यावत्षट्दिवसावधिम् ।
पालने रोहयेत् कृष्णनारायणमपि व्रती ॥२५॥ पाययेत् तं तु दुग्धादि ह्यान्दोलयेत्सगीतिकम् ।
सेवयेद् बालभावेन मुहुर्नाथं प्रसादयेत् ॥२६॥ वैशाखशुक्लतृतीयादिनाच्छ्रीकृष्णमूर्तये ।
केसराक्तैश्चन्दनाद्यैर्लेपनं मासिकं चरेत् ॥२७॥ सूर्यचन्द्रग्रहाहस्सु कुर्यात्स्नानजपादिकम् ।
आषाढशुक्लषष्ठ्यां तु कौसुम्भाम्बरमर्पयेत् ॥२८॥ हरये सूक्ष्मसुस्निग्धतन्तुजं कोमलं शुभम् ।
आश्विनकृष्णपक्षे तु श्राद्धैः सन्तर्पयेत् पितॄन् ॥२९॥ आश्विने शुक्लपक्षे तु मूलेनाऽऽवाहयेत् तथा ।
पूजयेद्भोजयेद्दुग्धपाकाद्यं तु सरस्वतीम् ॥1.281.३ ०॥ विसर्जयेच्छ्रवणेन विद्वान् भवति वै व्रती ।
स्वजन्मदिवसः सर्वैर्वर्धनीयः समुत्सवैः ॥३ १॥ दानभोजनवृद्धाभिवन्दनैर्देवदर्शनैः ।
एकादशीतो द्वादश्यो मोक्षदा हरिवासराः ॥३२॥ कर्तव्या भोजनैदानैः पूजनोत्सवतर्पणैः ।
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं पदम् ॥३३॥ येन केनाप्युपायेन प्रसन्नो यस्य वै हरिः ।
इहामुत्र सुखं तस्य पुण्यवृद्धिर्व्रतं भवेत् ॥३४॥ द्वादश्यां मार्गशुक्लस्य पूजयेज्जलशायिनम् ।
उपचारैः षोडशकैः पौण्डरीकफलं लभेत् ॥३५॥ द्वादश्यां पौषशुक्लस्य पूजयेत् प्रयतो हरिम् ।
उपचारैः षोडशकैरग्निष्टोमफलं लसेत् ॥३६॥ माघधवलद्वादश्यां पूजयेन्माधवं प्रभुम् ।
षोडशाद्यैरुपचारैर्वाजपेयफलं व्रजेत् ॥३७॥ फाल्गुनशुक्लद्वादश्यां गोविन्दं पूजयेज्जनः ।
वस्तुषोडशकैः श्रेष्ठैर्गोमेधस्य फलं जयेत् ॥३८॥ चैत्रधवलद्वादश्यां विष्णुं कृष्णं समर्चयेत् ।
षोडशाद्युपचारैर्वै स्यादग्निष्टोमपुण्यभाग् ॥३९॥ वैशाखशुक्लद्वादश्यां पूजयेन्मधुमूदनम् ।
षोडशोत्तमसामग्र्या त्वश्वमेधफलं भवेत् ॥1.281.४० ॥ ज्येष्ठधवलद्वादश्यां पूजयेद्वै त्रिविक्रमम् ।
षट्दशभिस्तूपचारैर्नरमेधफलं भवेत् ॥४१ ॥ आषाढशुक्लद्वादश्यां वामनं पूजयेद् व्रती ।
षोडशाख्योपचारैश्च शताग्निष्टोमपुण्यभाग् ॥४२॥ श्रावणशुक्लद्वादश्यां श्रीधरं पूजयेद् व्रती ।
षोडशाऽऽमितवस्त्वाद्यैर्वाजिमेधसहस्रभाक् ॥४३॥ भाद्रधवलद्वादश्यां हृषीकेशं प्रपूजयेत् ।
षोडशाऽभ्युपचारैश्च ब्रह्ममेधफलं लभेत् ॥४४॥ आश्विनशुक्लद्वादश्यां पद्मनाभं प्रपूजयेत् ।
षोडशाभ्युपचाराद्यैरीशमेधसहस्रभाक् ॥४५॥ कार्तिकशुक्लद्वादश्यां दामोदरं प्रपूजयेत् ।
षोडशाभ्युपचाराद्यैर्द्व्यश्वमेधसहस्रभाक् ॥४६॥ होमो जपस्तपो दानं साधुविप्रादिभोजनम् ।
दक्षिणाप्रार्थनाजागरणानीत्याचरेद् व्रते ॥४७॥ अल्पपरिकरस्याऽल्पं विशालस्य महत् फलम् ।
भक्तियुक्ते व्रते जाते फलं प्राप्येत मोक्षणम् ॥४८॥ व्रतं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ।
प्रातः स्नात्वाऽम्बरे शुद्धे धृत्वा भाले सुपुण्ड्रवान् ॥४९॥ मण्डपं कारयेद् भव्यं विशालं चतुरस्रकम् ।
घण्टाचामरकलशाऽऽदर्शकिङ्किणिकायुतम् ॥1.281.५०॥ पुष्पमाल्यध्वजतोरणवितानाम्बराऽञ्चितम् ।
दीपमालाचतुर्द्वारकोमलास्तरणान्वितम् ॥५१॥ तन्मध्ये सर्वतोभद्रं कुर्याद्धान्याद्यलङ्कृतम् ।
तस्योपरि न्यसेत् कुम्भान् द्वादशाऽम्बुप्रपूरितान् ॥५२॥ शुक्लाम्बरैश्छादिताँश्च पञ्चरत्नसमन्वितान् ।
तत्र संस्थापयेत् हैमीं राजतीं ताम्रजां च वा ॥५३॥ लक्ष्मीनारायणमूर्तिं तिलपात्रे घटोपरि ।
अथावाहनमारभ्य पूजाङ्गानि समारभेत् ॥५४॥ पञ्चामृतैः स्नापयेच्च भूषावस्त्राणि दापयेत् ।
सुगन्धचन्दनादीनि प्रापयेत् धूपदीपकान् ॥५५॥ श्राङ्गारिकद्रवान् दद्यान्नीराजयेच्च भोजयेत् ।
पानं ताम्बूलकं दद्यात् प्रस्वापयेत् क्षमापयेत् ॥५६॥ रात्रौ जागरणं कुर्यात् प्रातर्होमं समाचरेत् ।
पूजनं भोजनं वैसर्जनं देवस्य चार्पणम् ॥५७॥ पारणां च स्वयं कुर्याद् व्रतं समापयेद् व्रती ।
प्रतिमां दक्षिणायुक्तामाचार्याय समर्पयेत् ॥५८॥ एवमुद्यापनकर्ता व्रतकर्ताऽत्र भोगवान् ।
त्रिसप्तकुलसंयुक्तो याति विष्णोः परं पदम् ॥५९॥ य इदं शृणुयाल्लक्ष्मि! व्रताख्यानं च वाचयेत् ।
सर्वव्रतफलं लब्ध्वा त्वन्ते यायाद्धरेः पदम् ॥1.281.६०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकप्रकीर्णकव्रतेषु दोलाव्रतरथयात्रादोलोत्सव-
श्रावणकार्तिकधनुर्मासमकरसङ्क्रान्तिवसन्तोत्सव-पालनारोहणहोलिकापुष्पदोलकैसरचन्दनाम्बर-श्राद्धसरस्वत्युत्सवद्वादशीव्रतफलोद्यापन-
प्रभृतिनिरूपणनामैकाशीत्यधिकद्विशततमोऽध्यायः ॥२८ १ ॥