श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि चतुर्दशीव्रतानि ते ।
कृत्वा यानि व्रती चात्र परत्रेष्टमवाप्नुयात् ॥१ ॥
चैत्रकृष्णचतुर्दश्यां । पुरा युगे महोत्सवः ।
नारायणेन वै श्रिया विवाहस्य कृतोऽभवत् ॥२ ॥
व्रतिनैकाशनेनात्र कार्यः कदलीमण्डपः ।
मण्डले सर्वतोभद्रे स्थापनीयो घटस्तथा ॥३ ॥
तन्मुखे तिलपात्रं च वह्निकुण्डसमीपतः ।
स्थापनीयं पूजनं च कृष्णलक्ष्म्योस्तदन्तरे ॥४ ॥
उपचारैः षोडशभिः कर्तव्यं च निवेदनम् ।
ततो बहूनि वाद्यानि वादयेद् वै व्रती निशि ॥५ ॥
कृष्णनारायणलक्ष्म्योः शोभां प्रकारयेत्तथा ।
श्राङ्गारिकद्रववस्त्रविभूषाः परिधापयेत् ॥६ ॥
लोकाचारं कारयित्वा वरमालां समर्प्य च ।
देवानां पूजनं सर्वं विनिर्वर्त्याऽभिवन्दनम् ॥७ ॥
वस्त्रान्तरं ततः कृत्वा कारयेद्धस्तसङ्ग्रहम् ।
वह्नौ होमं कारयित्वा गापयित्वा च मङ्गलम् ॥८ ॥
प्रदक्षिणं कारयित्वा दत्त्वा च यौतकं तदा ।
लोकाचारेण सम्पूज्य वस्तून्युत्तार्य मस्तकात् ॥९ ॥
पूर्णं होमं समाप्यैव गृहमध्ये निवेशयेत् ।
कृष्णलक्ष्म्योर्भोजनं कारयित्वा स्वापयेद् गृहे ॥1.279.१० ॥
प्रातर्जाते ग्रन्थिबन्धं गङ्गायां वै वियोजयेत् ।
दद्याद् दानानि बहूनि गोभूहिरण्यकानि वै ॥११ ॥
भोजयेद् ब्राह्मणान् देवान् मुनीन् साधून् सतीस्तथा ।
बालकान् बालिकादीनान् कृपणान्धान् निराश्रितान् ॥१२॥
भृत्याँश्च भिक्षुकाँश्चाप्यनाथान् गुरून् महत्तमान् ।
ब्रह्मधामसुगोलोकवैकुण्ठामृतधामगान् ॥१३ ॥
श्वेतद्वीपाऽव्याकृतस्थान् वैराजान् सत्यनाकगान् ।
ब्रद्रीगानागतान्मुक्तान् विष्णुपत्नीश्च देविकाः ॥१४॥
मातॄश्च मानुषीर्नारीर्भोजयेत्स त्वताँस्तथा ।
शष्कुलीः खाजकान् रम्यान् शतच्छिद्राणि फेणिकाः ॥१५ ॥
घृतपूराँश्च रेवालीः पीतसाराणि पर्पिकाः ।
पिण्डकान् शर्क रैलाश्च शार्कराँश्चणकाँस्तथा ॥१ ६॥
मेशुभं शाटकाँश्चापि मोहनस्थालकाँस्तथा ।
भर्जिकान् ग्रन्थकाँश्चैव प्रफुल्लवटिकास्तथा ॥१७ ॥
दुग्धसारं पायसान्नं दधिश्रीखण्डमित्यपि ।
शाकानि विविधान्येव मौक्तिकाँश्चूर्णमोदकान् ॥१८ ॥
द्विदलाश्च क्वथिकाश्च राजिकाराद्धकाँस्तथा ।
श्रेष्ठानि त्वारनालानि पेयानि तक्रकाणि च ॥१ ९॥
भोजयेज्जलपानानि कारयेन्मुखशुद्धिकाम् ।
ताम्बूलानि दापयेच्च दानानि दापयेत्तथा ॥1.279.२० ॥
कृष्णनारायणलक्ष्म्य१ प्रपूज्य च विसर्जयेत् ।
अमायां तु व्रती पश्चात् कुर्याद्वै भोजनं शुभम् ॥२१ ॥
एवं कृत्वा व्रतं कृष्णलक्ष्म्योर्विवाहसम्भृतम् ।
तयोरनुग्रहादत्र दाम्पत्यं शाश्वतं भवेत् ॥२२ ॥
धाम्नि चापि व्रतिनो वै दाम्पत्यं दिव्यमुत्तमम् ।
शाश्वतं स्यात्तु गोलोके श्रीकृष्णस्य प्रसादतः ॥२३ ॥
चैत्रशुक्लचतुर्दश्यां महालक्ष्मीव्रतं मतम् ।
कार्या त्वत्र महालक्ष्मीयात्रा पूज्या विधानतः ॥२४॥
जानक्याः शिवराजस्य पूजनं चात्र वै सह ।
कारणीयं प्रभक्ताया भक्तस्यापि विशेषतः ॥२५॥
नक्तं कार्यं व्रतिनात्र जागरं नृत्यगीतिभिः ।
भोज्याः पूज्याः पुनः प्रातर्विसर्जनीयाऽतिभावतः ॥२६ ॥
एवं समर्चनं कृत्वा महालक्ष्म्या नरो व्रती ।
नारी। चापि धनधान्यप्रजासौख्यं लभेत वै ॥२७॥
अत्रापि च चतुर्दश्यां कुङ्कुमागुरुचन्दनैः ।
गन्धाद्यैर्वस्त्रमणिभिः कार्यं शिवस्य पूजनम् ॥२८ ॥
वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः ।
अश्वमेधादिसत्पुण्यं लभते मानवो व्रती ॥२ ९॥
अत्रैव दमनार्चां च कारयेद् गन्धपुष्पकैः ।
दमनं तु शिवायैवाऽर्पयेत् पूजोत्तरं व्रती ॥1.279.३० ॥
सुवर्णस्य महालिङ्गं पातालात् हाटकाह्वयम् ।
समायातं पृथिव्यां वै हाटकेश्वर ईश्वरः ॥३१ ॥
स एवात्र पूजनीयः षोडशादिसुवस्तुभिः ।
स्नानशृङ्गारनैवेद्यपूजानीराजनादिभिः ॥३२ ।
हाटकेशस्तोषणीयो हाटकं वितरेद्धि सः ।
व्रती भोगप्रसम्पूर्णो यायात् कैलासमुत्तमम् ॥३३ ।
वैशाखस्य तु कृष्णस्य चतुर्दश्यां निशागमे ।
लिङ्गमभ्यर्चयेद् गन्धाद्युपचारैश्च बिल्वकैः ॥३४।
भोजयेत्पूजयेच्चापि प्रार्थयेच्च विसर्ज्जयेत् ।
एवं शिवव्रतं कार्यं धनसन्तानमिच्छता ॥३५ ।
वैशाखशुक्लपक्षे तु नरसिंहचतुर्दशी ।
नृसिंहजन्मनश्चात्रोत्सवं सायं प्रकारयेत् ॥३६ ।.
एकभोजी चोपवासी नरसिंहं सुवर्णजम् ।
षोडशाद्यैरुपचारैः स्नानैः पञ्चामृतादिभिः ॥३७।
धूपदीपसुपुष्पैश्च भोजनैः पानचर्वणैः ।
आरार्त्रिकादिभिश्चैव प्रदक्षिणास्तवादिभिः ॥३८ ॥
पूजयित्वा नृहरिं च स्थापयेद्वै व्रती निशि ।
दानानि विविधान्यत्र तदा दद्याद् यथाधनम् ॥३९ ॥
तप्तहाटककेशान्तं ज्वलत्पावकलोचनम् ।
वज्राधिकनखस्पर्शे दिव्यसिंहं भयङ्करम् ॥1.279.४० ॥
पीनस्कन्धकटिग्रीवं कृशमध्यं कृशोदरम् ।
सिंहाननं नृदेहं च सर्वाभरणभूषितम् ॥४१ ॥
ज्वालामालाकुलाऽऽस्य च ललज्जिह्वाग्रदंष्ट्रकम् ।
हिरण्यकशिपोर्वक्षः पाटयन्तं नखाग्रकैः ॥४२ ॥
प्रह्लादं च कयाधूं च पुनः प्रातः प्रपूजयेत् ।
भोजयेद् विविधान्नानि नीराजयेद् विसर्जयेत् ॥४३ ॥
स्वयं च पारणां कुर्याद् व्रती नृहरितोषणात् ।
नखदंष्ट्रिभयान्मुक्तो याति विष्णोः परं पदम् ॥४४ ॥
ओङ्कारेश्वरयात्रा च कर्तव्यात्र व्रतार्थिना ।
पञ्चामृतैश्च संस्नप्य लिङ्गमालिप्य. कुङ्कुमैः ॥४५ ॥
नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः ।
आरार्त्रिकादिभिर्लिङ्गं पैष्टं सम्पूजयेद् व्रती ॥४६ ॥
भुक्तिं मुक्तिं स लभते महादेवप्रसादतः ।
यत्कुर्यात् तद्भवेत् सर्वं ज्ञानमोक्षप्रदं नृणाम् ॥४७ ॥
ज्येष्ठशुक्लचतुर्दश्यां स्नानयात्रार्थमुत्तमम् ।
जलमाहारयेत् तस्याधिवासादिसमाचरेत् ॥४८ ॥
पूर्णिमायां तज्जलेन स्नापयेच्छ्रीहरिं प्रगे ।
पूजयेद् विविधैर्द्रव्यैः कारयेदुत्सवं व्रती ॥४९ ॥
चतुर्दश्यां दिवा पञ्चतपा रात्रिमुखेऽर्पयेत् ।
होमधेनुं रुद्रव्रतमेतत्कुर्यात्प्रयत्नतः ॥1.279.५० ॥
अषाढे तु चतुर्दश्यां रुद्रं सम्पूज्य वै व्रती ।
देशकालार्ज्यवस्त्वाद्यैः सर्वसम्पदमाप्नुयात् ॥५१ ॥
श्रावणे शुक्लपक्षे तु चतुर्दश्यां तु शार्ङ्गिणे ।
पवित्रारोपणं कुर्याल्लक्ष्म्यै चाथाऽर्पयेत्तथा ॥५२ ॥
नरो नारी हरिं लक्ष्मीं सम्पूज्यापि विधानतः ।
तयोः प्रसन्नतालभ्यां भुक्तिं मुक्तिमवाप्नुयात् ॥५३ ॥
भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम् ।
अनन्ताख्यं तदा शेषं तथा नारायणं हरिम् ॥५४ ॥
सौवर्णं कारयेत्पश्चात्पूजयेद् विधिना व्रती ।
कार्पासं पट्टजं सूत्रं चतुर्दशसुग्रन्थिकम् ॥५५ ॥
कृत्वाऽभ्यर्च्य कुङ्कुमाद्यैर्बध्नीयात् स्वे भुजे व्रती ।
नारी वामे पुमान् दक्षे पुराणं तु क्षिपेज्जले ॥५६ ॥
ततो गोधूमपिष्टस्य प्रस्थं शर्करया युतम् ।
सम्पच्य सघृतं स्वादु त्वनन्ताय निवेदयेत् ॥५७॥
भोजयित्वाऽर्भकाँश्चापि ततस्त्वद्याद् व्रती स्वयम् ।
द्विसप्तवर्षपर्यन्तं व्रतं तद्दक्षिणायुतम् ॥५८ ॥
प्रकुर्यादाविदायं वै तत उद्यापयेद् व्रती ।
मण्डलं सर्वतोभद्रं सप्तधान्यैः प्रकल्पयेत्॥५ ९ ॥
ताम्रजे कलशे स्थाल्यामनन्तप्रतिमां न्यसेत् ।
पूजयेद् विधिना तां च नीराजयेच्च भोजयेत् ॥1.279.६० ॥
गणेशं मातृकाः खेटान् लोकपालान् यजेत् पृथक् ।
होमं घृतहविष्यैश्च कृत्वा पूर्णाहुतिं चरेत्॥६१ ॥
शय्यां प्रतिमां धेनुं च दद्याच्छ्रीमुखे व्रती ।
भोजयित्वाऽर्भकान् साधून् दक्षिणाभिः प्रतोषयेत्॥६२ ॥
ददेद् दानानि बहूनि साधून् साध्वीः प्रभोजयेत् ।
एवमनन्तव्रतकृज्जायते भुक्तिमुक्तिभाग् ॥६३ ॥
कदलीव्रतमप्यत्र कर्तव्यं भूतिमिच्छता ।
नरो नान्यतरन्नारी रम्भां वनान्तरस्थिताम् ॥६४॥
स्नात्वा सम्पूजयेद् गन्धपुष्पधान्याङ्कुरादिभिः ।
दधिदूर्वाऽक्षतैर्दीपैर्वस्त्रपक्वान्नसञ्चयैः ॥६५ ॥
नत्वा प्रदक्षिणीकृत्य ततः सम्प्रार्थयेच्च ताम् ।
अप्सरोऽमरकन्याभिर्नागकन्याभिरर्चिते ॥६६ ॥
शरीरारोग्यलावण्यभूतीन् देहि नमोऽस्तु ते ।
ततः कन्याश्चतस्रश्च सुवासिनीः सतीश्च वा ॥६७ ॥
भोजयित्वांऽशुकसिन्दूरकैरलक्तकज्जलैः ।
पूजयित्वा समाप्यैव व्रती स्वस्य गृहं व्रजेत् ॥६८ ॥
एवं कृते व्रते लक्ष्मि! लब्ध्वा सौभाग्यमुत्तमम् ।
लसेत् स्वर्गं विमानेन परं लोकं ततो यजेत् ॥६९ ॥
परीभिः सेवितः सत्ये महानन्दान् प्रभुज्य च ।
यात्यन्तेऽक्षरधामाख्यं दिव्यलोकं हरेः पदम् ॥1.279.७०॥
इषकृष्णचतुर्दश्यां विषशस्त्राम्बुवह्निभिः ।
सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम् ॥७१ ॥
श्राद्धं कुर्याद् यथायोग्यमेकोद्दिष्टविधानतः ।
बालान् सम्भोजयेन्मिष्टैः साधून् साध्वीश्च भूसुरान् ॥७२॥
तर्पणं च गवां ग्रासान् बलिर्दानं श्वकाकयोः ।
कृत्वाऽऽचम्य व्रती स्वीयैर्भुञ्जीयाद् बन्धुभिः सह ॥७३॥
एवं कृत्वा महच्छ्राद्धं पितॄनुद्धृत्य पूर्वजान् ।
गच्छेत्सनातनं स्वर्गं त्वन्ते ब्रह्मपदं हरेः ॥७४॥
इषशुक्लचतुर्दश्यां धर्मराजं तु कानकम् ।
गन्धाद्यैः सम्यगभ्यर्च्य भोजयेन्मिष्टमुत्तमम् ॥७५॥
नीराजयेद् विसर्जयेद्दानं श्रीगुरवेऽर्पयेत् ।
व्रतिनं त्रायते धर्मराजः स्वर्गं नयेत्तथा ॥७६॥
ऊर्जकृष्णचतुर्दश्यां तैलाभ्यङ्गं विधूदये ।
कृत्वा स्नात्वाऽर्चयेद् धर्मराजं प्रतर्पयेद् यमम् ॥७७॥
प्रदोषे तैलदीपाँश्च दीपयेद् यमतुष्टये ।
चतुष्पथे गृहाद् बाह्यप्रदेशे स्थापयेद् व्रती ॥७८॥
भोजयेन्नमनं कुर्याद् विसर्जयेत् यमाधिपम् ।
एवं कृत्वा व्रतं स्वर्गं नरकादभयं व्रजेत् ॥७९॥
अथात्रैव चतुर्दश्यां कुर्यात् हनुमदर्चनम् ।
तैलसिन्दूरार्कपुष्पस्रङ्माषवटकादिभिः ॥1.279.८ ०॥
अर्चकानां पुत्रपौत्रा वृद्धिमेष्यन्ति पुष्कलाम् ।
अन्ते वैराजलोकाँश्च प्राप्स्यन्ति नैष्ठिकाञ्चितान् ॥८ १॥
भूतप्रेतपिशाचादितामसानां प्रसाधनम् ।
राजसानां च देवानां मन्त्राणामपि साधनम् ॥८२॥
लौकिकानां सात्त्विकानां विषाग्निजडकारिणाम् ।
आवेशानां डाकिनीयोगिनीनां च प्रसाधनम् ॥८३॥
श्मशानवासिनां चापि साधनं भैरवार्थिनाम् ।
प्रकुर्याच्चात्र रात्रौ च यथादेशं विधानतः ॥८४॥
तत्तद्व्रतं बलिं पूजां जपं नाम विसर्जनम् ।
होमं क्रियां यथातन्त्रं कुर्याद्वै क्रमतो व्रती ॥८५॥
ऊर्जशुक्लचतुर्दश्यां काश्यां श्रीशङ्करः स्वयम् ।
चकार विधिना स्नात्वा श्रेष्ठं पाशुपतं व्रतम् ॥८६॥
ततश्चात्र महापूजां लिङ्गे गन्धादिभिश्चरेत् ।
द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः ॥८७॥
पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि ।
एकभुक्तो व्रती शम्भोस्तोषात् कैलासमाप्नुयात् ॥८८ ॥
ब्रह्मकूर्चव्रतं चात्र कर्तव्यं भूतिमिच्छता ।
पञ्चगव्यं पिबेद् रात्रौ प्रातर्देवाँश्च तर्पयेत् ॥८ ९॥
ब्राह्मणाँस्तोषयित्वा च भुञ्जीतापि व्रती स्वयम् ।
सर्वपापानि नश्यन्ति ब्रह्मकूर्चव्रताद् ध्रुवम् ॥1.279.९० ॥
कपिलायास्तु मूत्रं वै कृष्णायास्तु शकृत्तथा ।
श्वेतायास्तु पयो ग्राह्यं रक्तायास्तु शुभं दधि ॥९१ ॥
कर्बुराया घृतं ग्राह्यं कुशाद्भिस्तानि मेलयेत् ।
तत्पानेन तु पापानि नश्यन्त्यार्द्राणि मूलतः ॥९२ ॥
पाषाणव्रतमप्यत्र नक्तं कृत्वा कृतं भवेत् ।
गौरीं गन्धादिभिः प्राऽर्च्याऽर्पयेद् घृतेन पाचितम् ॥९३ ॥
पिष्टं पाषाणसदृशं पिण्डकाकारमित्यथ ।
ऐश्वर्यसुखसौभाग्यस्वरूपाण्याप्नुयाद् व्रती ॥९४॥
मार्गशुक्लचतुर्दश्यां वृषं स्वर्णं प्रपूज्य च ।
एकभुक्तं व्रतं कुर्यादथ रात्रौ महेश्वरम् ॥९५ ॥
पूजयेत् कमलैः पुष्पैर्गन्धमाल्यानुलेपनैः ।
भोजयेद्बहुपक्वान्नैस्ततो देवं विसर्जयेत् ॥९६ ॥
दद्याद् दानानि गुरवे भोजयेत्तु सतः सतीः ।
एवं शिवव्रतं कृत्वा भुक्तिं मुक्तिमवाप्नुयात् ॥९७॥
अत्रैव च हरिर्ब्रह्मा शिवो दत्तोऽत्रिसम्भवः ।
एकीभूय त्रयो देवा बभूवुर्दत्रनामिनः ॥९८ ॥
अनसूयां तथाऽत्रिं च दत्तात्रेयं च कानकान् ।
कृत्वा तु मण्डपे भद्रमण्डले च घटोपरि ॥९ ९॥
स्थाल्यां सम्पूजयेत् सम्यग् भोजयेच्च विसर्जयेत् ।
दद्याद् दानानि सर्वाणि व्रती वैकुण्ठमाप्नुयात् ॥1.279.१०० ॥
पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं चरेत् ।
स्नात्वा शिवं विरूपाक्षं पूजयेत् सर्ववस्तुभिः ॥१०१ ॥
भोजयेत्तर्पयेच्छम्भुं विधितः सं सर्जयेत् ।
दानं द्विजातये दत्वा कैलासे मोदते व्रती ॥१० २॥
माघकृष्णचतुर्दश्यां यमतर्पणमीरितम् ।
सूर्योदयात्पूर्वकाले स्नात्वा सन्तर्पयेद् यमम् ॥१०३ ॥
तिलदर्भाम्बुभिः पश्चाद् भोजयेदन्नमुत्तमम ।
विसर्जयेद् द्विजान् साधून् भोजयेद् भक्षयेद् व्रती ॥१ ०४॥
फाल्गुनस्य कृष्णचतुर्दशी शम्भुनिशाव्रतम् ।
निर्जला शिवरात्रिस्तु तदोपोष्या सुभावतः ॥१०५ ॥
ज्योतिर्लिङ्गं पार्थिवं वा मूर्तिमन्तौ शिवाशिवौ ।
गन्धाद्यैर्बिल्वपत्राद्यैर्नैवेद्यै_ पानसद्रसैः ॥१०६ ॥
पूजयेद्भोजयेन्नीराजयेद्विसर्जयेन्नमेत् व्रती ।
व्रती व्रतप्रभावेण कैलासं समवाप्नुयात् ॥१० ७॥
फाल्गुनस्य शुक्लचतुर्दशी दुर्गाव्रतं मतम् ।
एकभुक्तो व्रती दुर्गां पूजयेद्भोजयेत्तथा ॥१०८ ॥
नीराजयेन्नमेद्विसर्जयेत् कैलासभाग्भवेत् ।
उद्यापनं व्रतानां तु कर्तव्यं फलमिच्छता ॥१०९ ॥
कुम्भाश्चतुर्दशैवात्र सपूगाऽक्षतमोदकाः ।
सदक्षिणांऽशुकास्ताम्रा मृन्मयाश्चाऽव्रणा नवाः ॥1.279.११० ॥
तावन्तो वंशदण्डाश्च पवित्राण्यासनानि च ।
पात्राणि यज्ञसूत्राणि तावन्त्येव हि कल्पिताः ॥१११ ॥
मण्डपे सर्वतोभद्रमण्डले सफला घटाः ।
स्थापनीयाः पूजनीया भोजनीयाश्च देवताः ॥११२ ॥
विसर्जनीया दातव्या गुरवे दानरूपतः ।
भोजनीयाः सुसन्तश्च साध्व्यो विप्राश्च बालिकाः ॥११३ ॥
सोत्साहं सर्वथा कार्यमुद्यापनं सहोमकम् ।
सजपं साङ्गमेवाऽस्य फलं स्वर्गं च मोक्षणम् ॥११ ४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिङ्कचतुर्दशीव्रतेषु श्रीकृष्णनारायणलक्ष्मीविवाहमहालक्ष्मी-
यात्राशिवार्चनदमनार्चनश्रीहाटकेश्वरजयन्तीनरसिंहजयन्त्योङ्कारेश्वरयात्रास्नानयात्राजलाहरणरुद्रव्रतपवित्रारोपणानन्त-
चतुर्दशीकदलीव्रतहतादिश्राद्धधर्मराजपूजननरकचतुर्दशी-यमतर्पणाभ्यङ्गस्नानहनुमदर्चनभूतार्चनमन्त्रसाधना-
पाशुपतव्रतब्रह्मकूर्चव्रतदत्तात्रेयजयन्तीशिवरात्रि प्रभृतिव्रतनिरूपणनामैकोनाशीत्यधिक द्विशततमोऽध्याय ॥२७९ ॥