२७५

श्रीनारायण उवाच-
अथान्यानि दशम्यास्ते व्रतानि कथयानि वै ।
यानि कृत्वा महालक्ष्मि! जनः स्वर्गं शमाप्नुयात् ॥१ ॥ चैत्रशुक्लदशम्यां वै धर्मराजव्रतं चरेत् ।
स्नानपुष्पफलगन्धाऽम्बरभूषाभिरर्चयेत् ॥२ ॥ एकभक्तो व्रती चतुर्दशविप्रान् समर्चयेत् ।
भोजयेद् दक्षिणां दद्यात् कृत्वैवं स्वर्गमाप्नुयात्॥३ ॥ वैशाखशुक्लदशमीतिथौ विष्णुं प्रपूजयेत्॥ षोडशभिस्तूपचारैः शतं कुर्यात् प्रदक्षिणाः ॥४ ॥ साधून् विप्रान् भोजयित्वा वैकुण्ठं लभते ध्रुवम् ।
ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमी तिथिः ॥५ ॥ गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः ।
दशयोगो महापुण्यो दशपापहरो हि सः ॥६ ॥ गङ्गादशहरा बोध्या गङ्गा स्वर्गात् समागता ।
गङ्गायां विधिना स्नात्वा प्रयाति हरिमन्दिरम् ॥७ ॥ अषाढशुक्लदशमी मन्वाद्यातिथिरस्ति यत् ।
अस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः ॥८ ॥ श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा ।
शिवार्चनं प्रकुर्याद्वै दानहोमादिपूर्वकम् ॥९ ॥ भाद्रशुक्लदशम्यां च दशाविर्भावसद्व्रतम् ।
तीर्थे स्नानं तथा कुर्याद् देवर्षिपितृतर्पणम् ॥1.275.१० ॥ दशावतारपूजां च कुर्यात् पृथग् व्रती स्वयम् ।
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ॥११ ॥ रामं कृष्णं जामदग्निं बौद्धं कल्किं प्रपूजयेत् ।
दशमूर्तीस्तु सौवर्णीः पूजयित्वाऽर्पयेद् व्रती ॥१२।
द्विजाय चैकभक्तं च कृत्वा साधून् सुभोजयेत् ।
एवं कृत्वा व्रतं भुक्त्वा स्वर्गं वैकुण्ठमाप्नुयात् ॥१३॥ आश्विनशुक्लदशमी विजयादशमी मता ।
चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहाङ्गणे ॥१४॥ चक्ररूपेषु मध्येऽत्र वासुदेवसुकर्षणौ ।
प्रद्युम्नमनिरुद्धं च पूजयेच्चतुरोऽपि हि ॥१५ ॥ सपिधानासु पात्रीषु गोमयीषु चतुसृषु ।
क्लिन्नं धान्यं सरौप्यं च धृत्वा शुक्लाम्बराऽऽवृतम् ॥१६॥ सम्पूज्याऽक्षतपुष्पाद्यैर्नमस्कुर्वीत वै ततः ।
मध्याह्ने भोजयेद्बालान् मिष्टमद्यात्तथा व्रती ॥१७॥ अथाऽपराह्णे पूर्वस्यां शमीमूलस्थमृत्तिकाम् ।
गृहीत्वा स्वगृहं नीत्वा सम्पूज्यापि विधानतः ॥१८॥ क्षत्रियश्चेत् स्वकं सैन्यं सज्जीकृत्य च सर्वथा ।
निर्गत्य पूर्वद्वारेण ग्रामाद्बहिरनाकुलः ॥१ ९॥ शत्रुप्रतिकृतिं तत्र निर्मितां पत्रकादिभिः ।
मनसा कल्पितां तां च स्वर्णपुङ्खशरेण सः ॥1.275.२० ॥ विध्येदिति भृशं प्रीतः प्राप्नुयात् स्वगृहं ततः ।
पश्चाद् युद्धं प्रकुर्याच्चेद् विजयी स्यान्न संशयः ॥२१ ॥ धनं जयं महाराज्यं सुतगोगजवाजिनः ।
अजाविकमिह दद्यादन्ते स्वर्गगतिं तथा ।
श्रीरामः प्रस्थितश्चाद्य विजयायोत्सवं चरेत् ॥२२ ॥ दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत् ।
एकभुक्तो व्रती तत्र निशीथेऽपूपकादिभिः ॥२३॥ दश दिक्षु बलिं दद्याद् गृहाद्वापि पुराद् बहिः ।
गोशकृल्लिप्तभूभागे मण्डलेऽष्टदले व्रती ॥२४॥ बलिदानं प्रकुर्वीत वदन्नैतादृशं तदा ।
यन्मे पूर्वगतं पापमिन्द्रो धुनोतु चेष्टदः ॥२५ ॥ यन्मे वह्निगतं पापं वह्निर्धुनोतु चेष्टदः ।
यन्मे दक्षगतं पापं यमो धुनोतु चेष्टदः ॥२६ ॥ यन्मे नैर्ऋतिगं पापं रक्षो धुनोतु चेष्टकृत् ।
यन्मे पश्चिमगे पापं यादो धुनोतु चेष्टकृत् ॥२७॥ यन्मे वायुगतं पापं वायुर्धुनोतु चेष्टदः ।
यन्मे सौम्यगतं पापं यक्षो धुनोतु चेष्टदः ॥२८॥ यन्मे त्वीशगतं पापं चेशो धुनोतु चेष्टदः ।
यन्मे ऊर्ध्वगतं पापं ब्रह्मा धुनोतु चेष्टदः ॥२९॥ यन्मेऽधःसङ्गतं पापं नागो धुनोतु चेष्टदः ।
एवं दत्वा बलिं दिक्षु विदिक्षु च व्रती ततः ॥1.275.३ ० ॥ क्षेत्रपालाय तद्बाह्ये क्षिपेद् बलिमतन्द्रितः ।
शेषरात्रौ जागरणं कुर्याद् गृहं समागतः ॥३१ ॥ प्रातः स्नात्वा समभ्यर्च्य लोकपालाँस्ततो द्विजान् ।
द्वादशाऽभ्यर्च्य सम्भोजयित्वा दद्याच्च दक्षिणाम् ॥३२ ॥ इत्थं कृत्वा व्रतं लक्ष्मि! भोगान् भुक्त्वैहिकान् शुभान् ।
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत् । ३३ ॥ मार्गशुक्लदशम्यां त्वश्विनीकुमारमर्चयेत् ।
धन्वन्तरिं पूजयेच्चारोग्यं भवति सर्वदा ॥३४ ॥ पौषशुक्लदशम्यां तु विश्वेदेवान् समर्चयेत् ।
क्रतुं दक्षं वसून् सत्यं कालं कामं मुनिं गुरुम् ॥३५ ॥ विप्रं रामं कृष्णनारायणरूपान् समर्चयेत् ।
दर्भासनेषु सन्न्यस्य धूपदीपनिवेदनैः ॥३६ ॥ षोडशवस्तुभिः सम्पूजयित्वा तान् विसर्जयेत् ।
व्रती लोकद्वयसौख्यभोक्ता भवति सर्वथा ॥३७॥ माघशुक्लदशम्यां वै त्वाङ्गिरसान्समर्चयेत् ।
आत्मा ह्यायुर्मनो दक्षो मदः प्राणो गविष्ठकः ॥३८ ॥ दत्तः सत्यश्च वर्हिष्मान् दशाऽर्चयेत् सुवस्तुभिः ।
उपचारैः षोडशाद्यैर्मूर्तीर्दद्याद् द्विजातये ॥३९ ॥ आङ्गिरसान्परान् लोकानाप्नोत्येवं व्रती व्रते ।
फाल्गुनशुक्लदशमीतिथौ यमान् प्रपूजयेत् ॥1.275.४० ॥ यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तथा ।
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा ॥४ १ ॥ औदुम्बरश्च दध्नश्च नीलश्चैव वृकोदरः ।
परमेष्ठी तथा चित्रश्चित्रगुप्तश्चतुर्दश ॥४२ ॥ पूजयेत्तान् भोजयेच्च तर्पयेच्च तिलाम्बुभिः ।
ततः सूर्याय चार्घ्यं च दद्याद्वै ताम्रपात्रतः ॥४३ ॥ रक्तचन्दनसम्मिश्रतिलाऽक्षतयवाम्बुभिः ।
भोजयेद् वाडवान् पश्चाद् व्रती भुञ्जीत वाग्यतः ॥४४॥ एवं व्रती धर्मराजप्रसन्नतामवाप्य च ।
अत्र भोगान्परान् भुक्त्वा देहान्ते विष्णुधामभाक् ॥४५ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकदशमीव्रतेषु धर्मराजव्रतविष्णुव्रतगङ्गादशहरा-मन्वादितिथिसर्वाशापूर्तिव्रतदशावतारपूजाविजयादशमीसार्वभौमव्रताऽऽरोग्यव्रतविश्वेदेवाङ्गिरस-यमव्रतादिप्रदर्शननामा पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५ ॥