२७२

श्रीनारायण उवाच-
वार्षिकसप्तमीनां वै व्रतानि कथयामि ते ।
यानि कृत्वा व्रती लक्ष्मि! भुक्तिं मुक्तिमवाप्नुयात् ॥१ ॥ चैत्रस्य शुक्लसप्तम्यां तीर्थे स्नानं समाचरेत् ।
स्थण्डिलं गोमयालिप्तं गौरमृत्तिकयाऽन्वितम् ॥२ ॥ कृत्वा तत्राऽष्टदलकं कमलं कर्णिकोपरि ।
विभावसुं स्थापयित्वा पूर्वपत्रे रविं हरिम् ॥३ ॥ आग्नेये चानलं शुक्रं दक्षिणे मङ्गलं यमम् ।
नैर्ऋत्ये निर्ऋतं राहुं केतुं विन्यस्य वै ततः ॥४ ॥ प्रतीच्यां शनिवरुणौ वायव्येऽनिलचन्द्रकौ ।
उदीच्यां बुधकुबेरौ ऐशान्यां च गुरुं हरम् ॥५ ॥ स्थापयित्वाऽर्चयेत् सर्वान् गन्धमाल्यानुलेपनैः ।
धूपदीपसुनैवेद्यताम्बूलफलचर्वणैः ॥६ ॥ अष्टोत्तरशतं होमं घृतेन कारयेद् व्रती ।
अष्टाष्ट चाहुतीर्दद्यात्प्रत्येकं नाममन्त्रतः ॥७ ॥ ततः पूर्णाहुतिं कुर्याद् दद्याच्च दक्षिणां शुभाम् ।
एवं वै दिक्प्रपालानां कुर्यात्तु पूजनं व्रतम् ॥८ ॥ व्रतं कृत्वा त्वेकभुक्तं सर्वं सौख्यमवाप्नुयात् ।
देहान्ते मण्डलं भानोर्भित्त्वा याति परं पदम् ॥९ ॥ वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा ।
पीता त्यक्ता पुनश्चैव गङ्गाव्रतमिदं मतम् ॥1.272.१० ॥ गङ्गां तु जाह्नवी स्नात्वा पूजयेदुपचारकैः ।
घटसाहस्रदानं वै कर्तव्यं भूतिमिच्छता ॥११ ॥ सप्तकुलं नयेत्स्वर्गं गङ्गाव्रतमिदं शुभम् ।
अत्र तिथौ तथा बोध्यं कमलव्रतमित्यपि ॥१२ ॥ तिलमात्रसुवर्णस्य कर्तव्यं कमलं शुभम् ।
वस्त्रयुग्मावृतं कृत्वा गन्धधूपादिनाऽर्चयेत् ॥१३ ॥ सायं सूर्याय नत्वाऽथ पद्मं द्विजाय चार्पयेत् ।
उदकुम्भं च तत्पद्मं कपिलां गां द्विजेऽर्पयेत् ॥१ ४॥ उपवासं प्रकुर्याच्च पारणां तु परेऽहनि ।
ब्राह्मणान् भोजयेद्भक्त्या साधून् साध्वीः सतीस्तथा ॥१५ ॥ एवं व्रतं प्रकर्तव्यं दानं देयं गवां तथा ।
भुक्तिं मुक्तिं व्रजेन्नारी व्रतकर्त्री धनं लसेत् ॥१६ ॥ अत्रैव तिथौ कार्यं निम्बव्रतं शुभावहम् ।
सूर्यपूजा प्रकर्तव्या निम्बपत्रैर्विशेषतः ॥१ ७॥ निम्बपत्रं तथाऽश्नीयाद् भूशायी स्याद्विनाऽशनम् ।
परेऽह्नि ब्राह्मणान् भोजयित्वा भुञ्जीत बन्धुभिः ॥१८ ॥ शर्करासप्तमी त्वेषा भूमौ सर्वरसप्रदा ।
कर्तव्यं शर्करायास्तु व्रतं रसार्थिभिर्यतः ॥१९ ॥ अमृतं पिबतो हस्तात्सूर्यस्याऽमृतबिन्दवः ।
निपेतुर्भुवि चोत्पन्ना शालिमुद्गयवेक्षवः ॥1.272.२० ॥ शर्करा चेक्षुतो जाता रवेरिष्टा सदा शुभा ।
हव्ये कव्ये पवित्रा सा दातव्या देवतुष्टये ॥२१ ॥ अत्र वै शर्करादानं शर्कराभोजनं तथा ।
कर्तव्यं व्रतिना सम्यक् पुत्रसन्ततिवर्धनम् ॥२२ ॥ सर्वदुःखोपशमनं वाजिमेधफलप्रदम् ।
दानं चान्यत्प्रकर्तव्यं भोजनीयाश्च साधवः ॥२३ ॥ ज्येष्ठे वै शुक्लसप्तम्यां सूर्यं इन्द्रोऽभवत् स्वयम् ।
सोपवासं व्रतं कार्यं पूज्य इन्द्रो विधानत ॥२४॥ दानमिन्द्रस्य कर्तव्यं सौवर्णस्य द्विजातिके ।
साधून् बालान् भोजयित्वा ततौ भुञ्जीत वै व्रती ॥१५ ॥ अषाढशुक्लसप्तम्यां विवस्वान्नामभास्करः ।
राज्याभिषेक सम्प्राप्तः पूजा तस्य मता व्रते ॥२६ ॥ विवस्वन्तं तु सौवर्ण प्रपूज्य कुसुमादिभिः ।
लभते रर्हसायुज्य दिव्यं सुख च शाश्वतम् ॥२७ ॥ श्रावणे शुक्लसप्तम्याम् अर्व्यगाख्यं व्रतं स्मृतम् ।
कार्पासं वस्त्रभेवात्र दाने देयं विशेषतः ॥२८ ॥ हस्तर्क्षसहिता चेत्स्यात् सप्तमी पुण्यदायिनी ।
अस्यां दानं जपो होमः सर्वं त्वक्षयतां व्रजेत् ॥२९ ॥ शीतलासप्तमी चेयं इज्या वै पार्वती सती ।
शीतलायै प्रदातव्या शाटी पिष्टादिभोजनम् ॥1.272.३० ॥ आरोग्यं तेन व्रतिनो भवेद्वै सर्वदा कुले ।
उपवासः प्रकर्तव्यो देयं दानं फलादिकम् ॥३१ ॥ भाद्रे तु शुक्लसप्तम्याम् अमुक्ताभरणं व्रतम् ।
चन्द्रो धृतो ललाटे वै शम्भुनाऽऽभूषणात्मकः ॥३२॥ सोमस्य च महेशस्य पूजनं षोडशादिभिः ।
प्रकुर्याद् विसृजेन्नत्वा सर्वकामसमृद्धये ॥३२ ॥ फलसप्तमी चैवेयं फलसप्तात्मिकी मता ।
नालिकेरं च वृन्ताकं नारङ्गं बीजपूरकम् ॥३४॥ कूष्माण्डं ब्रुहतीपूगं फलान्येतानि चार्पयेत् ।
सप्ततन्तुकृतं चात्र सप्तग्रन्थिसुदोरकम् ॥३५ ॥ समर्प्य शङ्करायाथ बध्नीयाद् वामहस्तके ।
नारी वामे नरो दक्षे हस्ते वर्षं सुरक्षयेत् ॥३६ ॥ व्रतान्ते बालकान् सप्त भोजयित्वा ततो व्रती ।
स्वयं भुञ्जीत निजयुग् व्रतसम्पूर्तिहेतवे ॥३ ७॥ फलानि तु द्विजेभ्यो वै दद्यात् सन्तुष्टिहेतवे ।
एवं. सप्त तु वर्षाणि व्रतं कृत्वा यथाविधि ॥३८॥ सायुज्यं लभते लक्ष्मि! महादेवस्य तद्वती ।
पूजनं तद्व्रते कार्ये यथाविधि यथाधनम् ॥३९ ॥ आश्विने शुक्लपक्षे तु पञ्चगव्यव्रतं स्मृतम् ।
शुभसप्तमी सम्प्रोक्ता शुद्धिदा पुण्यदा तथा ॥1.272.४० ॥ स्नात्वा देवं हरिं सूर्य पूजयित्वा व्रती ततः ।
कपिलां गां पूजयित्वा प्रार्थयेत्तां शृणु प्रिये ॥४१ ॥ ददेऽहं त्वां सुकल्याणि! प्रीयतामर्यमा स्वयम् ।
पालय त्वं जगत्कृत्स्नं धर्मपुण्यप्रभावतः ॥४२॥ एवमुच्चार्य नत्वा च द्रवा द्विजाय विसृजेत् ।
मतेऽऽभभीयात्पञ्चगव्यं परेऽहि पारणा चरेत् ॥४३ ॥ द्विजोत्तमान् भोजयित्वा गृह्णीयाच्छिष्टकं व्रती ।
स ३ इरिप्रसादेन भुक्तिं मुक्तिमवाप्नुयात् ॥४४॥ अथ कार्तिकशुक्लायां शाकाख्यसप्तमीव्रतम् ।
शाकाहारो व्रती तिष्ठेत् सप्तशाकानि साधवे ॥४ ५ ॥ द्विजाय सप्तकायाथ दद्यादन्नं च दक्षिणाम् ।
द्वितीयेऽह्नि पारणां च कुर्यात्पापहरं व्रतम् ॥४६ ॥ मार्गस्य शुक्लसप्तम्यां मित्रव्रतमुदाहृतम् ।
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः ॥४७॥ तस्य व्रतं सोपवासं सोत्सवं कार्यमुत्तमम् ।
पूजनं विधिना कार्य मधुरं भोजयेत् सतः ॥४८ ॥ सुवर्णदक्षिणां दत्वा विसृजेच्च ततो व्रती ।
पारणां तु परे प्रातः कुर्यान्नत्वा रविं पुनः ॥४९॥ कृत्वैवं व्रतमेवात्र सूर्यलोकं प्रयाति वै ।
यः कोपि व्रतकर्ताऽत्र सत्कुले जन्मवान् भवेत् ॥1.272.५० ॥ पौषशुक्लस्य सप्तम्यां व्रतं चाभयनामकम् ।
धरास्थितो व्रती सूर्यं त्रिकालं पूजयेत्तथा ॥५ १ ॥ सोपवासो भवेच्चान्यान् ब्राह्मणान् सप्त भोजयेत् ।
क्षीरान्नं मोदकान् प्रस्थमितान् दद्याद् द्विजातये ॥५२॥ दक्षिणां भूयसीं पृथ्वीं सुवर्णं वाऽर्पयेद् व्रती ।
विप्राश्चाशिष एवाऽस्मै दद्युरभयदास्तथा ॥५३ ॥ अभयाख्यं व्रतं त्वेतत् सर्वस्याऽभयदं स्मृतम् ।
मार्तण्डाख्यं व्रतं चैतन्मार्तण्डं पूजयेद् व्रती ॥५४॥ माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिनामकम् ।
आदित्यपूजनं तत्र कर्तव्यं समुपोषणम् ॥५५॥ रात्रौ जागरणं कार्यं भोज्या: सन्तः प्रगे ततः ।
पायसान्नैस्तोषणीया दक्षिणाभिः फलादिभिः ॥५६ ॥ विसृज्य च ततोऽद्यात् स व्रती चेयादभीप्सितम् ।
एतत्सर्वाप्तिदं नाम व्रतं वै सार्वकामिकम् ॥५७॥ माघशुक्लस्य सप्तम्यामचलाख्यं व्रतं मतम् ।
उपोषणं विधेयं यत्पुण्यं स्यादचलं ध्रुवम् ॥५८ ॥ त्रिलोचनः पूजनीयस्त्रिलोचनान्वितो हरः ।
त्रिलोचनाजयन्तीयं सर्वपापहरा कृता ॥५९॥ रथीयसप्तमीयं वै चक्रवर्तित्वदायिनी ।
हस्तियुक्तरथस्थं श्रीसूर्यं सौवर्णमर्चयेत् ॥1.272.६० ॥ भास्करीसप्तमी चेयं प्रातश्चात्र व्रती स्वयम् ।
अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै ॥६ १ ॥ निधाय मस्तके स्नायात् सप्तजन्माद्यशान्तये ।
पुत्रप्रदव्रतं त्वेतत्कर्तव्यं पुत्रमिच्छता ॥६२॥ तस्य सूर्यो भवेत्पुत्रः स्वांशेन भृशतोषितः ।
परे दिने समुपोष्य प्रातर्होमं समाचरेत् ॥६ ३ ॥ दध्योदनं पयश्चापि भोजयेत्पूजयेत् सतः ।
एवं कृत्वा व्रतं पुत्रं प्राप्नुयाद्वै चिरायुषम् ॥६४॥ फाल्गुनशुक्लसप्तम्यां व्रतमर्कपुटं चरेत् ।
अर्कपत्रैर्यजेत् सूर्यमर्कपत्राणि भक्षयेत्॥६५॥ अर्कनाम जपेच्छश्वदर्कव्रतमिदं मतम् ।
धनपुत्रसुतास्मृद्धिपतिपत्नीप्रदं शुभम् ॥६६॥ धर्मार्थकामदं सर्वपापनाशकमित्यतः ।
कार्यं यज्ञव्रतं त्वेतत्सर्वसौख्यसुलब्धये ॥६७॥ भास्कराराधनं सर्वकामनासम्प्रदं भवेत् ।
तस्मात्सर्वासु सप्तमीतिथिष्वर्कं प्रपूजयेत् ॥६८ ॥ मण्डलं सर्वतोभद्रं कलशारोपणं तथा ।
पञ्चामृतैः स्नपन चावाहनाद्युपचारकम् ॥६९ ॥ नैवेद्यं तण्डुलपुष्पाञ्जलिविसर्जनान्तकम् ।
सर्वं यथाविधं कुर्याद् व्रते वै व्रतकृत् सदा ॥1.272.७० ॥ उद्यापनं महत्कुर्याद् भोजयेद् बालकान्सतः ।
दानं होमो जपो भक्तिः श्रीहरेश्चेति वै ध्रुवम् ॥७ १ ॥ कर्तव्यं व्रतिना येन हरेस्तोषो भवेद् बहुः ।
भुक्तिर्मुक्तिर्भवेच्चापि व्रतपूर्णफलं भवेत् ॥७२ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकसप्तमीव्रतेषु दिक्पालव्रतजाह्नवीव्रतनिम्बसूर्यव्रतेन्द्र-
सूर्यव्रतविवस्वदभिषेकव्रताऽव्यङ्गशीतलासप्तमीचन्द्राभरणव्रतशुभफलसप्तमीशाकव्रतमित्रार्कजयन्तीमार्तण्डाभयव्रतसार्वकामिकाप्तिव्रतत्रिलोचना
जयन्तीभास्करीसप्तमीपुत्रप्रदाऽर्कपुटव्रतादिनिदर्शननामा द्वासप्तत्यधिकद्विशततमोऽध्यायः ॥२७२ ॥