२६८

श्रीनारायण उवाच -
श्रूयतां च त्वया लक्ष्मि! तृतीयाया व्रतानि वै ।
यानि कृत्वा नरो नारी भुक्तिं मुक्तिं समाप्नुयात् ॥१ ॥ चैत्रशुक्लतृतीयातो गौर्या तपः सुदारुणम् ।
कृतं शङ्करप्राप्त्यर्थं गौरीव्रतं हि तन्मतम् ॥२ ॥ चैत्रशुक्लतृतीयायां गौरीं कृत्वा सशङ्कराम् ।
सौवर्णां राजतीं वापि ताम्रीं वा मृण्मयीं च वा ॥३ ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ।
दुर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका ॥४ ॥ वरार्थिनी सुतापुत्रार्थिनी भर्त्रर्थिनी तथा ।
नीराजयेन्महागौरीं शाङ्करीं शङ्करान्विताम् ॥५ ॥ पुनः पुनः प्रणम्यैव प्रार्थयेन्मनसि स्थितम् ।
सप्त नवैकादश चाधिका वा द्विजयोषितः ॥६ ॥ भर्तृमतीश्च वा कन्या गौरीरूपा सुलक्षणाः ।
समाहूय बहुमानपूर्वकं तु च तास्ततः ॥७ ॥ सिन्दूरांऽजनवस्त्राद्यैर्भूषाभिः प्रीतमानसा ।
व्रतकर्त्री पूकयेत्ता तथा दानैश्च तोषयेत् ॥८ ॥ मिष्टान्नानि पिण्डकादीन् फलान्यपि समर्पयेत् ।
एवं सन्तोषयित्वा ताः व्रतिनी फलमाप्नुयात् ॥९ ॥ रात्रौ जागरणं कुर्याद् व्रतसम्पूर्तिकाम्यया ।
प्रातस्तां च पुनः सम्पूज्याऽर्पयेद् गुरवे मुदा ॥1.268.१० ॥ यद्वा विसर्जयेन्मूर्तिं तीर्थे वार्याशये क्षिपेत् ।
एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ॥११ ॥ कन्या तु लभते शम्भुसदृशं गुणिनं पतिम् ।
धेनूर्द्वादश सङ्कल्प्य दद्याद्व्रतस्य सिद्धये ॥१२ ॥ किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ।
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥१३ ॥ धनं पुत्रान्पतिं पुत्रीं विद्यां सिद्धिं यशः सुखम् ।
ददाति सर्वमेवेष्टं गौरी व्रतेन तोषिता ॥१४॥ पार्वत्या प्रभया लक्ष्म्या माणिक्या रमया कृतम् ।
व्रतं लब्धः पतिरीशः कृष्णो ध्वजधनुःकरः ॥१५॥ मीनत्रिशूलचक्रस्वस्तिकचिह्नकरो हरिः ।
तस्मादिदं व्रतं रूपसौभाग्यभोगमुक्तिदम् ॥१६ ॥ वैशाखशुक्लतृतीया त्वक्षयतृतीयाव्रतम् ।
तिथिस्त्रेतायुगाद्या सा कृतस्याऽक्षयकारिणी ॥१७॥ अत्र त्रेतायुगं स्वर्णमूर्तिरूपं विधाय च ।
यद्वा लक्ष्मीयुतं कृष्णं नारायणं समर्चयेत् ॥१८॥ पुष्पधूपविलेपाद्यैर्गङ्गावार्भिस्तथाऽक्षतैः ।
विविधैर्भोजनैश्चैव तोषयेच्छ्रीजगद्गुरुम् ॥१९॥ सक्तून् सम्भोजयेद् विप्रान् व्रतीत्वेकादनो भवेत् ।
एवं कृतविधेस्तस्य व्रतितोऽनाशनं फलम् ॥1.268.२० ॥ कार्याऽऽरम्भोपि सफलो निर्विघ्नो याति पूर्णताम् ।
नरो नारी व्रतं चास्मिन् कृतकार्यत्वमाप्नुयात् ॥२१ ॥ वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ ।
जमदग्निगृहे प्रादुरासीत्परशुधृक् हरिः ॥२२॥ अस्मिन् रामं सपरशु सौवर्णं कारयेद् व्रती ।
मध्याह्ने तु महापूजां कृत्वा कुर्वीत भोजनम् ॥२३॥ इत आरभ्य नित्यं च ज्येष्ठपूर्णाऽवधिं प्रभुम् ।
धारयेद् गन्धवासांसि वासांसि च सितान्यपि ॥२४॥ उशीरतालवृन्तैश्च वेजयेत्प्रत्यहं प्रभुम् ।
नैवेद्ये शर्करायुक्तं दद्यादाम्ररसादिकम् ॥२५॥ ज्येष्ठशुक्लतृतीयायां रम्भा स्वर्गाद् भुवं गता ।
रभाफलं व्रते भक्ष्यं रम्भा पृज्याऽक्षतैर्जलैः ॥२६॥ गन्धपुष्पांशुकाद्यैश्च सभार्यं पूजयेद् द्विजम् ।
रम्भाव्रतं करोत्यत्र नारी सौभाग्यकाम्यया ॥२७॥ वित्तं लभते पुत्राँश्च मतिं लक्ष्मीं धनादिकम् ।
पतिं गां पृथिवीं सौधं तथोपकरणानि च ॥२८॥ लभते कदलीसाम्यं सौकुमार्यं व्रतार्थिनी ।
दाने रम्भाफलान्यत्र शर्कराघृतमित्यपि ॥२९॥ अथाऽषाढतृतीयायां समारेभे तपो रमा ।
केशवार्थमतो लक्ष्मीव्रतं कार्यं तु योषिता ॥1.268.३ ०॥ केशवं तु सलक्ष्मीकं सुवर्णप्रतिमात्मकम् ।
षोडशोपसुवस्त्वाद्यैः पूजयेत्तु विधानतः ॥३ १॥ भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ।
आरार्त्रिकनमस्कारैर्दक्षिणाभिश्च पूजयेत् ॥३ २॥ सस्त्रीकं च द्विजं तत्र पूजयेद् भोजयेत्तथा ।
विप्रवाक्यैर्मानयेच्च तोषयेद्धर्षयेत्तथा ॥३३ ॥ एवं व्रते प्रसाद्यैनां लक्ष्मीरूपां तु भूसुरीम् ।
विप्रं विष्णुस्वरूपं च विसर्जयेच्च तौ गृहम् ॥३४॥ व्रतकर्त्री गृहयुक्ता नारी सौभाग्यवाञ्च्छया ।
देवदेवप्रसादेन धनधान्यसमन्विता ॥३५ ॥ पुत्रपौत्रयुता भूत्वा विष्णुलोकमवाप्नुयात् ।
कन्या विन्देत्सुरूपं सुपतिं स्वेष्टसुभोगदम् ॥३६ ॥ श्रावणशुक्लतृतीया स्वर्णगौरीव्रतं मतम् ।
काली तपः परं कृत्वा स्वर्णगौर्यभवद् यतः ॥३७॥ उपचारैः षोडशभिर्भवानी पूजयेत् व्रती ।
प्रार्थयेद्त्पूजनान्ते च रूपं गौरं प्रदेहि मे ॥३८ ॥ पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ।
अन्याँश्च विविधान्कामान्पूरयाऽत्र नमोऽस्तु ते ॥३९ ॥ ततो भवयुतां देवीं वायनं तु ददेच्छुभम् ।
षोडषवर्षपर्यन्तं व्रतमेतत्प्रकीर्तितम् ॥1.268.४० ॥ तदन्ते सुभगा नारी कुर्यादुद्यापनं महत् ।
कदलीमण्डपे सर्वभद्राख्यमण्डले सतीम् ॥४ १ ॥ मध्ये संस्थापयेत्स्वर्णघटे रत्नादिसंयुते ।
परितः श्रीगणेशादिपञ्चायतनमर्चयेत् ॥४२॥ कलशोपरि ताम्रस्याऽक्षतयुक्ते सुपात्रके ।
सौवर्णी प्रतिमां शम्भुभवान्याः प्रतिपूजयेत् ॥४३ ॥ षोडशभिर्वस्तुभिश्च ततो होमं समाचरेत् ।
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥४४॥ समर्प्य सत्यै नैवेद्यं साधुष्वेतन्निवेदयेत् ।
वायनं च ततो दद्यादुत्तमं बान्धवादिषु ॥४५॥ प्रतिमां गुरवे दद्याद् द्विजेभ्यो दक्षिणां तथा ।
बहुदानानि कुर्वीत व्रतसाफल्यहेतवे ॥४६ ॥ पूर्णं विन्देत् फलं नारी कन्या वा सधवाऽधवा ।
धनधान्यादिसुस्मृद्धा भूत्वा याति परं पदम् ॥४७॥ भाद्रशुक्लतृतीयायां व्रतं वै हरतालिकम् ।
हरहस्तेन पार्वत्या हस्तस्य मेलनं ह्यभूत् ॥४८ ॥ तदिदं हरताल्याख्यं व्रतं सौभाग्यवर्धनम् ।
कुर्याद् भक्त्या विधानेन पाद्यार्घ्यार्चनपूर्वकम् ॥४९ ॥ अत्र वै काञ्चने पात्रे राजते वाऽथ ताम्रके ।
वैणवे मृन्मये वाऽथ विन्यस्याऽन्नं सदक्षिणम् ॥1.268.५ ० ॥ भर्जितं तिलतण्डुलचणकादिकमित्यपि ।
फलं वस्त्रादिकं भूषां विन्यस्यात्रैव पात्रके ॥५ १ ॥ दद्यात्तु गुरवे तद्वै कुर्यात्पश्चात्तु पारणाम् ।
भोजयेद् ब्राह्मणान्साधून्साध्वीः कन्याश्च बालकान् ॥५२ ॥ सौभाग्यद्रव्य पात्राणि वंशपात्राणि षोडश ।
प्रदद्याच्छ्रद्धया त्वेवं विप्रेभ्यो विधिना तथा ॥५ ३ ॥ अन्येभ्यो ब्राह्मणेभ्यश्च भूयसीं दक्षिणां शुभाम् ।
दद्याद् व्रतवती नारी तेन सौभाग्यमाप्नुयात् ॥५४॥ एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ।
व्रतप्रभावतोऽमुत्र गौरोसहचरी भवेत् ॥५५॥ धनं धान्यं सुतां पुत्रान् लभतेऽत्र परत्र शम् ।
भुक्तिमुक्तिप्रदं देवीप्रसादाप्यं व्रतं मतम् ॥५६ ॥ यदा तृतीया भाद्रेऽत्र भवेद्धस्तर्क्षसंयुता ।
सामगैस्त्वत्र कर्तव्यं पितृदेवर्षितर्पणम् ॥५७॥ नवं यज्ञोपवीतं च धार्यं शाखोक्तकर्मणा ।
हस्तगौरीव्रतं नाम कर्तव्यं भूतिहेतवे ॥५८ ॥ विषप्राणिप्रदंशादिनिवारकमिदं भवेत् ।
महिषासुरनाशार्थं कोटिरूपधरा यदा ॥५९ ॥ बभूव सा तदा दुर्गा कोटीश्वरीति नामतः ।
पिनाकिना स्वयं प्रोक्ता कोटीश्वरीव्रतं तु तत् ॥1.268.६० ॥ लक्षचण्डीस्वरूपाणि यदा धृतवती हि सा ।
लक्षेश्वरी तदा प्रोक्ता स्वयं पिनाकिना सती ॥६ १ ॥ लक्षेश्वरीव्रतं कार्यं यावद्वर्षचतुष्टयम् ।
सोपवासं प्रकर्तव्यं लक्षेश्वर्याः प्रपूजनम् ॥६२ ॥ अखण्डानां तण्डुलानां तिलानां वापि पद्मजे ।
लक्षमेकं विशोध्याऽत्र क्षिपेद् दुग्धेऽग्नसंश्रुते ॥६३ ॥ यावद्वै कठिनो द्रव्यसारो भवेत्सुपिण्डकः ।
तेन पिण्डेन निर्माय देव्या मूर्तिं सुरूपिणीम् ॥६४॥ गन्धपुष्पाक्षतरत्नरोमवस्त्रविभूषिताम् ।
पार्वतीं तत्र चाऽऽवाह्य पूजयेद् भक्तिभावतः ॥६५ ॥ गन्धैः पुष्पैर्जलैर्धूपैर्दीपैर्नैवेद्यप्रार्थनैः ।
विविधैः सत्फलैः श्रेष्ठदक्षिणाभिश्च वन्दनैः ॥६६॥ आरार्त्रिकैर्दण्डवद्भिर्वर्धयेच्च क्षमापयेत् ।
अर्थयेद्धनधान्यादिसुतापुत्रगृहादिकम् ॥६७ ॥ ततो विसर्जयेद् दुर्गां जलमध्येऽथ दक्षिणाम् ।
दत्वा श्रीगुरवे पश्चाद् रात्रौ जागरणं चरेत् ॥६८ ॥ दत्वा दानानि विप्रेभ्यो भुञ्जीतायं परे दिने ।
इति ते कथितं लक्ष्मि! कोटिलक्षेश्वरीव्रतम् ॥६ ९॥ व्रतकर्त्र्या गृहे लक्ष्मीर्धनधान्यमयी सदा ।
राजते वर्धते नित्यं व्रतस्याऽस्य प्रभावतः ॥1.268.७ ० ॥ गौरीलोकं प्रयात्यन्ते भोगमोक्षौ हि विन्दति ।
इषशुक्लतृतीयायां बृहदगौरीव्रतं मतम् ॥७ १ ॥ पञ्चवर्षं प्रकर्तव्यं कोटिकुन्दनमाप्नुयात् ।
दुर्गां तु पूजयेत्प्रातः षोडशभिः सुवस्तुभिः ॥७२॥ सुवासिन्यः पञ्च पूज्या वस्त्रालङ्कारचन्दनैः ।
शाटीकञ्चुकताटङ्ककण्ठसूत्रविभूषणैः ॥७ ३ ॥ धातुपात्राणि पञ्चैव वाटिकास्थालिकास्तथा ।
सिन्दूरं जीरकं मिष्टं सौभाग्यद्रव्यमञ्जनम् ॥७४॥ गोधूमपिष्टजातं च नवाऽपूपं फलादिकम् ।
वस्त्राणि विविधान्येव वायनानि च पञ्च वै ॥७५ ॥ ताभ्यो दद्याद् भोजयेच्च पश्चाद् भुञ्जीत वाग्यता ।
रात्रौ जागरणं कुर्यात् कृष्णकीर्तनमिश्रितम् ॥७६ ॥ फलं तु धारयेत्कण्ठे पूगीं वान्यद् यदर्पितम् ।
रात्रौ कण्ठगतं सर्वकामस्मृद्धिप्रदं फलम् ॥७७॥ तत प्रातः समुत्साहा सालङ्कारा सखीजनैः ।
गीतवाद्ययुता गच्छेत् सरितं स्नानमाचरेत् ॥७८ ॥ गौरीं सम्बोधयेत्तत्र प्रार्थनां संवदेदिमाम् ।
आहूताऽसि मया भद्रे पूजिता च यथाविधि ॥७९ ॥ मम सौभाग्यदे देवि सर्वं रक्षय नित्यदा ।
न्यूनं च क्षम्यतां देवि यथेष्टं गम्यतां त्वया ॥1.268.८ ० ॥ इत्यभ्यर्थ्य नमस्कृत्य जयशब्दैश्च वादनैः ।
सोत्साहपूर्वकं दृष्ट्वा जले गौरीं विसर्जयेत् ॥८ १ ॥ एवं कृत्वा व्रतं भक्त्या व्रती देवीप्रसादतः ।
भुक्त्वा भोगाँस्तु देहान्ते गौरीलोकमवाप्नुयात् ॥८२ ॥ ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं मतम् ।
गौर्या प्रपूजितो विष्णुस्तपसः फलसिद्धये ॥८ ३ ॥ तस्माद् व्रतमिदं प्रोक्तं विष्णुगौर्यभिधं शुभम् ।
तत्र वै पूजनीयाऽसौ गौरी विष्णुयुता मुदा ॥८४॥ षोडशभिस्तूचारैर्भोजनैश्च पृथग्विधैः ।
सुवासिनीरूपां गौरीं लक्ष्मीनाम्ना प्रभोजयेत् ॥८५ ॥ पूजयेन्मङ्गलद्रव्यैविष्णुगौरीप्रतुष्टये ।
विसर्जयेत्प्रणम्यैनां दद्याद् दानानि भावतः ॥८६॥ पुत्रं वै लभते नारी व्रतकर्त्री न संशयः ।
मार्गशुक्लतृतीयायां हरगौरीव्रतं मतम् ॥८७॥ हरशय्यागता गौरी हरयोगमुपागता ।
हरयोगेन सा तृप्ताऽभवत् स्वामिसुखान्विता ॥८८ ॥ हरं गौरीं व्रते त्वत्र चैकशय्यां प्रकल्प्य च ।
स्वापयेत्पूजयेद् भक्त्या सेवयेद् दिव्यभावतः ॥८ ९॥ एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ।
गौरीलोकं समासाद्य हरेण सह मोदते ॥1.268.९० ॥ पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं मतम् ।
ब्रह्मणा तु समागत्याऽऽशीर्वादाः शङ्कराप्तये ॥९१ ॥ प्रदत्ता तद् व्रतं प्रोक्तं कर्तव्यं सुविधानतः ।
गौरीं च वेधसं कृत्वा सुवर्णस्य प्रपूजयेत् ॥९२॥ षोडशभिश्चोपचारैरेकभुक्तं समाचरेत् ।
दानं दद्याद् यथेष्टं तु गुरवे भोजयेद् द्विजान् ॥९३॥ ब्रह्मगौरीप्रसादेन मोदते तत्र सङ्गता ।
माघशुक्लतृतीयायां लक्ष्मीः सौभाग्यसुन्दरी ॥९४॥ विष्णौ वरमालिकाया अर्पणात् समभूत् प्रिया ।
तस्मात् सौभाग्यसुन्दर्यात्मकं कार्यं व्रतं मुदा ॥९५॥ लक्ष्मीस्तत्र पूजनीया नालिकेरार्घ्यदानतः ।
उपचारैः षोडशभिर्मिष्टान्नैर्भूषणादिभिः ॥९६॥ सौभाग्यदा प्रसन्ना स्यात् स्वीयं धाम नयत्यपि ।
दानं श्राङ्गारिकं सर्वं देयं वस्तु तु योषिते ॥९७॥ एकभुक्तं व्रतं कार्यं हारश्चार्प्यस्तु विष्णवे ।
प्रसादमाला सा चाऽर्प्या पतिकण्ठे तु पुत्रदा ॥९८॥ फाल्गुनस्य सिते पक्षे तृतीयायां निशोत्तरे ।
हरयोगात्सती लब्धवती पुत्राँस्तु रुद्रकान् ॥९९॥ तस्मात्सोक्ता तृतीया तु कुलसौख्यव्रतात्मिका ।
पूजिता गन्धपुष्पाद्यैर्गौरी कुलकरी भवेत् ॥1.268.१०० ॥ एवं सर्वव्रतेष्वत्र दानं होमो विसर्जनम् ।
देवदेवीप्रपूजा च विप्रगुरुप्रपूजनम् ॥१० १॥ एकभुक्तादिकं सर्वसामान्यं प्रसमाचरेत् ।
भक्त्या कृतानि सर्वान्वै कामान् दद्युर्मनोगतान् ॥१० २॥ सर्वदेवेषु तत्सर्वान्तरात्मा श्रीहरिः स्वयम् ।
वर्तते पूजनीयोऽसौ सर्वकर्मफलप्रदः ॥१०३ ॥ यद्यद् व्रत्यर्थयेद् वस्तु नरो नारी तथाऽन्यकः ।
समाप्नोति च तत्सर्वं श्रीहरेः समनुग्रहात् ॥१ .४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकतृतीयाव्रतेषु गौरीतपोव्रताऽक्षयतृतीयात्रेताद्य-तिथिपर्शुरामजयन्तीकदलीव्रतलक्ष्मीतपोव्रतकाली-गौरीव्रतहरगौरीलग्नव्रतसामगश्रावणीकोटीश्वरी-माहिषघ्नलक्षेश्वरीबृहद्गौरीविष्णुगौरीहर-
गौरीयोगब्रह्माशीर्गौरीविष्णुवरमाला-कुलवृद्धिव्रतादिनिरूपणनामाऽष्ट-षष्ट्यधिकद्विशततमोऽध्यायः ॥२६८॥