२६२

श्रीलक्ष्मीरुवाच-
कानि व्रतानि चान्यानि कार्तिके पुण्यदानि वै ।
कर्तव्यानि च मे नाथ वद सर्वाणि तानि च ॥१ ॥ श्रीनारायण उवाच-
आकाशदीपो दातव्यो व्रतिना देवमन्दिरे ।
तीर्थदीपाः प्रदातव्याः शतशोऽथ सहस्रशः ॥२ ॥ नद्यां नदे तडागे च सरस्यपि च वारिधौ ।
कूपे वाप्यां जले देया दीपाः स्वर्गप्रदा मताः ॥३ ॥ एकभुक्तिर्दीपदानं कार्तिके व्रतमित्यपि ।
द्विदलाः कार्तिके देया नक्तमुक्तिर्मतं व्रतम् ॥४ ॥ त्रींस्त्रीन्पिण्डान्समश्नीयान्मासम् ऋषिशशिव्रतम् ।
गोक्षीरं सप्तरात्रं च पिबेत्स्तनचतुष्टयात् ॥५ ॥ स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ।
षड्रात्रं च तथैकस्मात् त्रिरात्रं वायुभुग्भवेत् ॥६ ॥ एतत्सोमायनं नाम महच्चान्द्रायणं मतम् ।
एकभक्तैस्तथा नक्तैस्तथैवाऽयाचितैरपि ॥७ ॥ उपवासैश्चतुर्भिश्चेत्येवं षोडशभिर्दिनैः ।
महापापध्वंसकृत्तत् कृच्छ्राख्यं व्रतमुच्यते ॥८ ॥ दुग्धं घृतं जलं चोष्णं मिश्रमेकदिनं पिबेत् ।
उपावसेदेकदैनं तप्तकृच्छ्रव्रतं तु तत् ॥९ ॥ उष्णदुग्धघृतवारि प्रत्येकं प्रत्यहं पिबेत् ।
चतुर्थेऽह्नि चोपवसेत् तप्तकृच्छ्रान्तरं त्विदम् ॥1.262.१० ॥ प्रतित्र्यहं जलं दुग्धं घृतं चोष्णं समीरणम् ।
पिबेद् द्वादशदैनात्मतप्तकृच्छ्रव्रतं हि तत् ॥११ ॥ पिबेत् प्रतित्र्यहं शीतं शीतकृच्छ्रव्रतं च तत् ।
पाने क्रमात्प्रमाणं तु त्रिपलं द्विपलं पलम् ॥१२ ॥ एकाहं पञ्चगव्यं सम्पिबेद्दर्भोदकान्वितम् ।
द्वितीये तूपवासेन व्रतं सान्तपनं मतम् ॥१३ ॥ प्रत्यहं गव्यमेकैकं षष्ठे कुशोदकं पिबेत् ।
सप्तमेऽह्नि त्पवसेन्मध्यसान्तपन व्रतम् ॥१४॥ सान्तपनं त्रिरावृद्यैकविंशतिदिनैर्महत् ।
प्रतित्र्यहं क्रमाद् गोमूत्रं गोमयं च गोदधि ॥१ ५॥ गोदुग्धं च गवाज्यं च सान्तपनं महत्तरम् ।
त्र्यहं मिश्रं पञ्चगव्यं यतिसान्तपनं व्रतम् ॥१६ ॥ पलाशोदुम्बरपद्मबिल्वानां पल्लवैः पृथक् ।
कुशेन क्वथितं प्रत्यहं तु वारि पिबेद् व्रती ॥१ ७॥ पञ्चाहसाध्यमित्येतत् पर्णकृच्छ्रव्रतं मतम् ।
त्रिरात्रोपोषितस्तुर्ये पञ्चक्वाथं पिबेद् यदि ॥१८ ॥ पर्णकूर्चव्रतं त्वेतन्मतं चातुर्दिनीयकम् ।
मासः फलैर्हि नेतव्यः फलकृच्छ्र उदाहृतः ॥१९ ॥ श्रीफलैः श्रीफलकृच्छ्रः पद्मैश्च पद्मकृच्छ्रकः ।
आमलकैश्च श्रीकृच्छ्रः पल्लवैः पत्रकृच्छ्रकः ॥1.262.२० ॥ पुष्पैस्तु पुष्पकृच्छ्रः स्यान्मूलैश्च मूलकृच्छ्रकः ।
जलेन जलकृच्छ्रः स्याद् दुग्धेन दुग्धकृच्छ्रकः ॥२१ ॥ येन मासो व्यतीयेत तन्नामा कृच्छ्र उच्यते ।
एकभक्तेन नक्तेनाऽयाचितेनोपवासतः ॥२ २॥ चतुर्भिर्दिवसैः पादकृच्छ्रं तदुच्यते व्रतम् ।
त्र्यहं मध्ये त्र्यहं नक्तं त्र्यहं यादृच्छिकं हविः ॥२ ३ ॥ ततस्त्र्यहं च नाश्नीयात्प्राजापत्यं व्रतं तु तत् ।
द्वादशाहश्चातिकृच्छ्रः पाणिपूरान्नभोजनः ॥२४॥ त्र्यहं निरशनं कार्यं पादकृच्छ्रं व्रतं मतम् ।
त्र्यहं यादृच्छिकं ग्राह्यं द्वितीयं पादकृच्छ्रकम् ॥२५ ॥ त्र्यहं नक्तं तथा ग्राह्यं तृतीयं पादकृच्छ्रकम् ।
त्र्यहं मध्याह्नके ग्राह्यं चतुर्थं पादकृच्छ्रकम् ॥२६ ॥ मध्ये पञ्चदशग्रासा नक्ते तु द्वादश स्मृताः ।
यादृच्छिकाश्चतुर्विंशतिग्रासा भोजने स्मृताः ॥२७॥ एकाहं मध्यके ग्राह्यं द्वितीयाहं तु नक्तकम् ।
पुनर्द्व्यहं यादृच्छिकं ततो द्व्यहमुपोषणम् ॥२८ ॥ व्रतमेवं षडाहं तदर्धकृछ्रमुदीरितम् ।
एकविंशत्यहं दुग्धं पिबेत् कृच्छ्रातिकृच्छ्रकम् ॥२९ ॥ द्वादशाहं जलमात्रं पिबेत् कृच्छ्रातिकृच्छ्रकम् ।
द्वादशाहोपवासैस्तु पाराकः कृच्छ्र उच्यते ॥1.262.३० ।
प्रत्यहं तिलपिष्टं च सक्तून् तक्रमुपोषणम् ।
चतुर्दिनात्मकं सौम्यकृच्छ्रं व्रतमुदीरितम् ॥३१ ।
प्रत्यहं तिलपिष्टं च तक्रं वारि कुशोदकम ।
पञ्चदिनोपवासश्च सौम्यकृच्छ्रान्तरं तु तत् ॥३२ ।
तिलपिष्टमोदननिःस्रावस्तक्रं जलं सक्तून् ।
उपवासः षडहं तत् सौम्यकृच्छ्रान्तरं मतम् ॥३३ ।
तिलपिष्टादिकं प्रत्येकं त्रिरात्रं समभ्यसेत् ।
तुलापुरुषकृच्छ्रः स बोध्यः पञ्चदशाह्निकः ॥३४।
पञ्चदशदिनान्ते तु त्र्यहं वायुं त्र्यहं ततः ।
उपोषणं चैकविंशत्यहं तुलानृकृच्छ्रकम् ॥३५ ।
शुक्ले चोर्जे चतुर्दश्यां जले स्थित्वाऽनिलं पिबेत् ।
पूर्णिमायामुपवसेज्जलकृच्छ्रं व्रतं मतम् ॥३६ ।
दशम्यां पञ्चगव्याशी ह्येकादश्यामुपावसेत् ।
विष्णुपूजां प्रकुर्वीत हरिकृच्छ्रं व्रतं स्मृतम् ॥३७ ॥ सप्तमीतः पृथग् वारि दुग्धं दधि घृतं पिबेत् ।
एकादश्यामुपवसेत् कृच्छ्रः पैतामहो व्रतम् ॥३८ ॥ षष्ठीतस्तु त्र्यहं वारि त्र्यहं चोपवसेद् व्रती ।
द्वादश्यां पारणां कुर्यान्माहेन्द्रकृच्छ्रकं व्रतम् ॥३ ९॥ तृतीयातस्त्र्यहं निवारादि त्र्यहं च यावकम् ।
ततस्त्र्यहं तूपवसेद् विष्णुकृच्छ्रव्रतं हि तत् ॥1.262.४० ॥ प्रतिपत्तः पञ्चदिनं दुग्धं पञ्चदिनं दधिं ।
एकादशीमुपवसेद् भास्करकृछ्र उच्यते ॥४ १ ॥ पञ्चमीतः सिते भाजीं यवान् शाकं पयो दधि ।
घृतं जलं क्रमाद् ग्राह्यं सप्तर्षिकृच्छ्रकं व्रतम् ॥४२ ॥ प्रतिपत्तः क्रमात्पेयं दुग्धं वा क्वाथितं जलम् ।
पलाशबिल्वदर्भाऽब्जोदुम्बरपर्णकैः पृथक ॥४३ ॥ षष्ठ्यामुपोषणं चैतदग्निकृच्छ्रं व्रतं स्मृतम् ।
सप्तमीतः क्रमाद् दुग्धं बिल्वं पक्वं च पद्मजम् ॥४४॥ बिसतन्तून् भक्षयेश्चैकादश्यां समुपोषणम् ।
पञ्चदिनात्मकं चेदं लक्ष्मीकृच्छ्रव्रतं स्मृतम् ॥४५ ॥ ब्रह्मकूर्चव्रतं श्रेष्ठं व्रतानामुत्तमं व्रतम् ।
कृतेन येन मुच्यन्ते मानवाः सर्वपातकैः ॥४६ ॥ साध्यं त्वेतत् त्रिदिवसैर्विधिं वक्ष्यामि तस्य तु ।
उपवसेन्नवम्यां तु पञ्चगव्यं कुशाम्भसा ॥४७॥ सम्पिबेत्तु दशम्यां च ह्येकादश्यामुपावसेत् ।
गोमूत्रं गोमयं दुग्धं दर्भोदिकं घृतं दधि ॥४८ ॥ पञ्चगव्यं तु तत्प्रोक्तं पवित्रं देहशोधकम् ।
गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चैव गोमयम् ॥४९ ॥ दुग्धं सुवर्णरूपायाः नीलायास्तु तथा दधि ।
कृष्णायास्तु घृतं यद्वा कपिलायास्तु पञ्चकम् ॥1.262.५ ० ॥ सुवर्णा कपिला त्वेका द्वितीया सा त्वपिङ्गला ।
तृतीया सा तु रक्ताक्षी चतुर्थी गूडपिङ्गला ॥५१ ॥ पञ्चमी कर्बुरा सा स्यात् षष्टी स्यात् श्वेतपिङ्गला ।
सप्तमी श्वेतपिङ्गाक्षी ह्यष्टमी कृष्णपिङ्गला ॥५ २॥ नवमी पाटला सा स्याद् दशमी पुच्छपिङ्गला ।
एता दशविधा प्रोक्ता कपिला हव्यदायिनी ॥५ ३ ॥ अलाभे सर्ववर्णानां पञ्चगव्यं मतं शुभम् ।
गोमूत्रं माषकास्स्वष्टौ गोमयस्य तु षोडश ॥५४॥ बोध्या द्वादश दुग्धस्य दध्नो ग्राह्या दशैव ह ।
घृतस्य माषकास्त्वष्टौ चत्वारस्तु कुशाम्भसः ॥५५॥ लक्ष्मीनारायणनाम्ना गायत्र्या वाथ मन्त्रतः ।
गृहीत्वा तदृचा यद्वा गायत्र्या वा पुंसूक्ततः ॥५६॥ अग्नौ होतव्यमेवेति पञ्चगव्यमुद्धृत्य तु ।
हरिताऽऽकुण्ठिताऽग्र्यसप्तपत्रान्वितसःकुशैः ॥५७॥ हरेर्नाम्नामष्टोत्तरशतेन होम इष्यते ।
हुतशेषं तु पातव्यं प्रणवेनाऽभिमन्त्रितम् ॥५८ ॥ प्रणवेनाऽऽभिश्रितं च प्रणवेनोद्धृतं च तत् ।
पलाशमध्यपत्रेण पिबेत् पद्मदलेन वा ॥५९ ॥ स्वर्णपात्रेण रौप्येण ब्रह्मतीर्थेन वा पिबेत् ।
कथितो ब्रह्मकूर्चोऽयं पापघ्नो मुक्तिदस्तथा ॥1.262.६० ॥ द्वादशाहं तिलाः प्राश्या अग्निकृच्छ्रव्रतं तु तत् ।
गवा त्यक्तैर्यवैर्मासं निर्वहेद् यवकृच्छ्रकम् ॥६१ ॥ गवा त्यक्तयवसक्तून् भुञ्जीत मासमेव तु ।
याम्यकृच्छ्रं तु तत्प्रोक्तं देहकल्मषनाशकम् ॥६ २॥ नित्यं तु प्रसृतिमात्रतिलपिष्टेन निर्वहेत् ।
मासमेकं तु तत्प्रोक्तं कुबेरकृच्छ्रकं व्रतम् ॥६३ ॥ गोमूत्रेणाऽऽचरेत् स्नानं गोमयं भक्षयेदपि ।
गवां मध्ये निवसेच्च गोपूरीषे स्वपेत्तथा ॥६ ४॥ पिबेन्न गोष्वपीतासु नाऽभुक्तासु तु भक्षयेत् ।
उत्थितासु समुत्तिष्ठेदुपविष्टासु संविशेत् ॥५५ ॥ मासमात्रं व्रतं चैतद् गोव्रतं बोध्यमेव तत् ।
साधुषु वसतिः साधुसेवनं साधुवर्तनम् ॥६६ ॥ साधोः प्रासादिकं भोज्यं पेयं साधुव्रतं तु तत् ।
आमिक्षया तु मासौ द्वौ दुग्धेन पक्षमेव च ॥६ ७॥ दध्ना चाऽष्टाहमेवापि घृतेन त्र्यहमेव च ।
निराहारं त्र्यहं तिष्ठेदुद्दालकं व्रतं त्विदम् ॥६८ ॥ श्रीकामः पुष्टिकामश्च स्वर्गकामस्तथा जनः ।
देवप्रीणनकामश्च कृच्छ्रं कुर्वीत भक्तितः ॥६९ ॥ एवमेतानि कृच्छ्राणि व्रतानि कथितानि ते ।
पापघ्नानि मुक्तिदानि सर्वेषामपि पद्मजे ॥1.262.७० ॥ कुर्वन् कृच्छ्राणि सर्वाणि यतवाङ्मानसेन्द्रियः ।
धौतवस्त्रधरः शान्तः स्नात्वा सम्पूजयेद्धरिम् ॥७१ ॥ व्रतद्रव्याणि सर्वाणि दुग्धादीनि सदा व्रती ।
अश्नीयाच्छ्रीहरेः प्रासादिकान्येव न चेतरत्॥७ २॥ कुर्वन् कृच्छ्राणि मुह्येश्चेन् मूर्छां यद्वाऽभिसंविशेत् ।
अमृतं तु गवां दुग्धं पाययेत्तं व्रतार्थिनम् ॥७ ३ ॥ जलं रसं फलं पुष्पं तक्रं पत्रं पयो दधि ।
भाजाऽऽमिक्षौषधं क्वाथः कन्दः शाकं गुरोर्वचः ॥७४॥ विप्राज्ञाऽज्ञातकवलः आपत्तिग्रसनं तथा ।
मुखवासार्हसद्वस्तु नवनीतं च शर्करा ॥७५॥ गूडो दुग्धविकाराद्यास्तैलं तिलादिकं तथा ।
भिवारादि च मुन्यन्नं भूफली वृक्षपेशिका ॥७६ ॥ लवङ्गैलामरीचत्वगार्द्रकसूम्फगुन्द्रकाः ।
शिलारसश्च कस्तूरी चन्दनं लवणं तथा ॥७७॥ मधु धूम्रश्चत्वारिंशदव्रतघ्नानि सन्ति वै ।
व्रतान्ते भोजयेत् साधून् शाश्वतं तत्फलं भवेत् ॥७८ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कार्तिके कर्तव्यकृच्छ्रव्रतानां निरूपणं नाम द्वाषष्टथधिकद्विशततमोऽध्यायः ॥२६२ ॥