२६०

श्रीलक्ष्मीरुवाच-
महाकालो महारुद्रो यमो यमस्य किङ्कराः ।
यदात्मानो जगत्सर्वं नियमयन्ति ते नमः ॥१ ॥ पाशो वज्रं गदा शक्तिर्दण्डश्चक्रं त्रिशूलकम् ।
यदात्मानः प्रवर्तन्ते तस्मै ते विभवे नमः ॥२ ॥ धृतिर्दया सहायत्वं नीतिक्षमोपकारिताः ।
यत्प्रयुक्ता प्रभवन्ति तस्मै गुणात्मने नमः ॥३ ॥ ममता परता नैजं स्थितिः पुष्टिर्विमोक्षणम् ।
यदात्मक कृतं स्याद्वै निर्गुणं गुणिने नमः ॥४ ॥ भगवँस्ते कृपा पारावारतुल्या सदा मयि ।
वद कार्तिककृष्णैकादशी किन्नामिका भवेत् ॥५ ॥ को देवः पूजनीयोऽत्र दानं पुण्यं विधिं वद ।
व्रतेऽपि कीदृशं कार्यं कर्तव्यमिति मे वद ॥६ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि! कार्तिकोऽयं मासो मोक्षप्रदोऽस्ति वै ।
चातुर्मास्यान्तमासोऽयं व्रतदानादिपूजने ॥७ ॥ मासः श्रेष्ठतमश्चायं वर्तते व्रतिनां कृते ।
तत्र सर्वं शुभं पुण्यं कर्म कर्तव्यमेव यत् ॥८ ॥ तत्राऽप्येकादशी श्रेष्ठा कृष्णपक्षे रमाभिधा ।
हिरण्यया सहाऽभ्यर्च्यो हरिस्तस्यामधीश्वरः ॥९ ॥ पुष्पेषु बटुकुन्दानि तदर्घ्ये कदलं मतम् ।
नैवेद्ये शर्कराऽऽज्याक्तकदलानि च पोलिकाः ॥1.260.१० ॥ दानं घृतघटादीनां यदिष्टं स्वस्य वै भवेत् ।
तत्सर्वं तु प्रदातव्यं स्वर्णं लक्ष्मीविवृद्धये ॥११ ॥ दशम्यामेकभुक्तः स्याद् व्रती भूशयनो भवेत् ।
ब्रह्मचारी भवेत् क्रोधमोहदोषादिवर्जितः ॥१२॥ प्रातरुत्थाय गोविन्दं ध्यायेत्स्नात्वा प्रपूजयेत् ।
पूजां तु नैत्यिकीं कृत्वा कारयेत्सप्तधान्यकम् ॥१३ ॥ मण्डलं सर्वतोभद्रं रङ्गचित्रालिशोभितम् ।
तन्मध्ये तु घटं स्वर्णं ताम्रजं स्थापयेच्च वा ॥१४॥ पञ्चरत्नसुपत्राद्यक्षतवारिसुवस्त्रकैः ।
शर्कराश्रीफलपूगीफलचन्दनसंयुतम् ॥१५॥ तन्मुखाग्रे तिलस्थालीं राजतीं स्थापयेद् व्रती ।
न्यस्येन्मूर्ति तत्र हिरण्यारमाशालिनो हरेः ॥१६ ॥ आवाहनादिभिः पञ्चामृताऽद्भिस्तैलमर्दनैः ।
सेवेताऽथाऽम्बरभूषाशृङ्गारादि समर्पयेत् ॥१७॥ पुष्पमालां कटके च मुकुटादि समर्पयेत् ।
धूपदीपसुनैवेद्यजलताम्बूलकादिकम् ॥१८॥ आरार्त्रिकाद्यर्पयेच्च कुर्यात् स्तोत्रं क्षमार्थनाम् ।
दानानि विविधान्येव दद्याच्छ्रीगुरवे तदा ॥१ ९॥ मध्याह्नेऽपि पूजयेच्च भोजयेज्जलमर्पयेत् ।
सायं स्नात्वा पूजयित्वा नीराजनं विधापयेत् ॥1.260.२० ॥ स्तुत्यादिकं विनिर्वृत्य भोजयेत् सेवयेत्तथा ।
रात्रौ तु जागरं कुर्याद्भक्तमण्डलमण्डितः ॥२ १ ॥ गीतनृत्यकथावार्ताऽऽख्यानरञ्जनतां चरेत् ।
द्वादश्यां तु व्रती प्रातः स्नात्वा समर्च्य केशवम् ॥२२ ॥ दद्याच्छ्रेष्ठानि दानानि राजा वापि प्रजा व्रती ।
त्यागी वापि गृही वापि नारी वापि नरोपि वा ॥२३ ॥ यथाशक्ति सतः साध्वीर्विप्रान् बालान् प्रभोजयेत् ।
ततः कुर्यात्पारणां वै व्रतसिद्धिं समर्थयेत् ॥२४॥ एवं कृत्वा व्रतं नारी रमातुल्या भवेद् ध्रुवम् ।
नरः कृत्वा व्रतं देवो जायते मुक्त एव सः ॥२५ ॥ शृणु लक्ष्मि! चन्द्रभागाशशिसेनकथां शुभाम् ।
मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा ॥२६ ॥ इन्द्रकुन्दनसञ्ज्ञं तन्नगरं दक्षिणेऽभवत् ।
राजधान्यां वसन्पृथ्वीमेकराट् प्रशशास सः ॥२७ ॥ देवेन्द्रेण समं तस्य मित्रत्वमभवद् बहु ।
यमेन वरुणेनैव कुबेरेण तथाग्निना ॥२८ ॥ बिभीषणेन तस्यैवं मित्रत्वमभवत्तथा ।
यानविमानकैः सोऽयं त्रिलोक्यां याति सर्वतः ॥२९ ॥ विष्णुभक्तः सत्यसन्धः शास्ति राज्यमकण्टकम् ।
सर्वे तु वैष्णवास्तस्य राज्ये भवन्ति मानवाः ॥1.260.३० ॥ विष्णुभक्ताः प्रजास्तस्य सम्प्राप्ते हरिवासरे ।
अन्नं न भुञ्जते सर्वाः कुर्वते समुपोषणम् ॥३१ ॥ पटहस्ताड्यते तस्य सम्प्राप्ते दशमीदिने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते तु हरेर्दिने ॥३२ ॥ गजैरश्वैश्च कलभैरन्यैश्च पशुभिस्त्वपि ।
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने ॥३३ ॥ एवं कारयति सर्वान् राज्यस्थान् व्रतमुत्तमम् ।
चन्द्रभागा नदीश्रेष्ठा सुता तस्य बभूव ह ॥३८ ॥ समकालेऽथ कावेर्यास्तटे बभूव भूपतिः ।
चन्द्रसेनाह्वयः पुण्यः कनकाख्यपुराधिपः ॥३५ ॥ तत्पुत्राय शशिसेनाह्वयाय गुणशालिने ।
चन्द्रभागा प्रदत्ता वै मुचुकुन्देन भूभृता ॥३ ६॥ महाभागवती सापि व्रतं करोति वैष्णवी ।
एकदा पतियुक्ता सा पितृगेहं जगाम वै ॥३७॥ भर्ता ज्वराभिभूतोऽस्या बभूव त्वतिदुर्बलः ।
एकादशीव्रतं चाहः समायातं सुपुण्यदम् ॥३८ ॥ समागते व्रते चन्द्रभागा मनस्यचिन्तयत् ।
किं भविष्यति भर्तुर्मे ह्यत्यशक्तस्य वै व्रते ॥३९ ॥ क्षुधां न क्षमते सोढुं रुग्णः कृशोऽतिनिर्बलः ।
व्रतस्य दिवसे त्वत्र पिता मे तूग्रशासनः ॥1.260.४ ० ॥ सशक्तो वाऽप्यशक्तो वा व्रतं करोतु शासनम् ।
केनाप्युलङ्घ्यते चेत् स दण्डपात्रं न संशयः ॥४१ ॥ यद्भावि तद्भवत्वत्र किं कार्यं विवशेन वै ।
इति विचिन्त्य सा त्वास्ते व्रताहश्चापि संस्थितम् ॥४२ ॥ पटहस्ताड्यते तस्य सम्प्राप्ते दशमीदिने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते तु हरेर्दिने ॥४३ ॥ मच्छासनोल्लङ्घयिता दण्डार्हो वै भविष्यति ।
श्रुत्वा पटहनिर्घोषं शशिसेनोऽब्रवीत् प्रियाम् ॥४४ ॥ किं, कर्तव्यं मया कान्ते मरिष्यामि विनाऽदनम् ।
चन्द्रभागा तदा प्राह कान्तं चिन्तातुरं शनैः ॥४५ ॥ मत्पितुर्विषये क्वापि भोक्तव्यं नाऽद्य केनचित् ।
मानवैर्मानवाधीनपशुपक्षिसरीसृपैः ॥४६ ॥ तृणमन्नं जलं पिष्टं न भोक्तव्यं हरेर्दिने ।
यदि त्वं भोक्ष्यसे कान्त ततो दण्डं प्रयास्यसि ॥४७ ॥ प्रयास्यसि विगर्हां च तस्मात्कुरु मनो दृढम् ।
श्रुत्वाऽऽहशशिसेनस्तां करिष्येऽहमुपोषणम् ॥८८ ॥ दैवेन विहितं यन्मे तत्तथैव भविष्यति ।
एवं दृढां मतिं कृत्वा चकार निर्जलं व्रतम् ॥४ ९ ॥ क्षुधातृषातिसंव्याप्तो बभूव बहुविहलः ।
रात्रौ मूर्छाभिभूतः स ब्रह्मरन्ध्रं समाश्रितः ॥1.260.५ ० ॥ रवेरुदयवेलायां शशिसेनो मृति गतः ।
दाहयामास राजा तं राजयोग्यैश्च दारुभिः ॥५१ ॥ चन्द्रभागा हरेर्भक्तेर्माहात्म्यबोधवत्तया ।
पतिव्रताऽपि पतिना सहाऽऽत्मानं ददाह न ॥५२ ॥ कृत्वौर्ध्वदैहिकं भर्तुस्तस्थौ जनकवेश्मनि ।
शशिसेनो दिव्यदेहो रमाव्रतसुपुण्यतः ॥५३ ॥ प्राप्तः स्वर्गे तु साम्राज्यं स्वतन्त्रमैन्द्रसदृशम् ।
बहुस्मृद्धमनाधृष्यमसङ्ख्येयगुणान्वितम् ॥५४॥ हेमस्तम्भमयैः सौधैः रत्नवैदूर्यमण्डितैः ।
स्फाटिकैर्विविधाकारैर्विचित्रैर्दिव्यसूज्ज्वलैः ॥५५॥ भवनैरसङ्ख्यभौमैः शोभितं स्वर्गमाप सः ।
विमानवरमारूढः सिंहासनसमाश्रितः ॥५६ ॥ किरीटकुण्डलयुतो हारकेयूरमण्डितः ।
स्तूयमानश्च गन्धर्वदेवाऽप्सरःपरीगणैः ॥५७॥ करात्तव्यजनच्छत्रचामराभिजनैर्वृतः ।
शशिसेनः स्वके स्वर्गे राजते मोदते बहु ॥५८ ॥ अथैकदा महेन्द्रस्य दूतः पृथ्व्यां समागतः ।
मुचुकुन्दगृहे कार्यवशादिन्द्रेण मोदितः ॥५९॥ यदेन्द्रस्य महायुद्धं दैत्यैः सहोपतिष्ठति ।
मुचुकुन्दस्तदा दैत्यान् विजित्वेन्द्रसहायवान् ॥1.260.६ ० ॥ जयप्रदो भवत्येव ब्रह्मणो वरदानतः ।
इत्यर्थे त्वागतं दूतं भोजितं सत्कृतं तथा ॥६ १ ॥ नृपः पप्रच्छ वै स्वर्गिसुराणां तु निरामयम् ।
दूतो यदर्थमायातः सर्वं निवेद्य वै ततः ॥६२॥ नृपं प्राह मया स्वर्गं शशिसेनोऽवलोकितः ।
इन्द्रादन्यूनसामर्थ्यस्मृद्धिवैभववारिधिः ॥६ ३ ॥ रूपलावण्यसम्पन्नो युवा देवो विराजते ।
जामाता तव राजेन्द्र दृष्ट्वाऽऽयान्तं भुवं तु माम् ॥६४ ॥ प्राह पृथ्व्यां श्वशुरस्य चन्द्रसेननृपस्य च ।
कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च ॥६५॥ मत्सकाशात्तु कुशलं प्रष्टव्यं च निरामयम् ।
मम स्वस्ति च वक्तव्यं स्वर्ग्यं सर्वं यथाऽस्ति मे ॥६६ ॥ मम पत्नी च वक्तव्या पतिस्ते त्वां प्रतीक्षते ।
इति राजन् हि जामातुस्तेऽस्ति स्वर्गे सुखं बहु ॥६७॥ कुशलं वर्तते तस्याऽऽश्चर्यं च विद्यतेऽद्भुतम् ।
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ॥६८ ॥ दिव्यं व्योम्नि सुगतिमत्तेजोऽम्बरप्रकाशितम् ।
अमृतभोगभोगाढ्यं दासाऽप्सरोभिसेवितम् ॥६९ ॥ वर्णयितुं न शक्नोमि महाश्चर्यमयं पुरम् ।
तव लब्धं हि जामात्रा व्रतपुण्येन शाश्वतम् ॥1.260.७०॥ कार्तिकस्याऽसिते पक्षे या नामैकादशी रमा ।
तामुपोष्य मृतश्चात्र प्राप्तवान् स्वर्गमीदृशम् ॥७ १ ॥ श्रद्धाहीनो व्रतकर्ता प्राप्तोऽपि स्वर्गमुत्तमम् ।
तदूर्ध्वं दिव्यलोकं स गन्तुमिच्छति नाकतः ॥७२ ।
स्वीयपत्न्याऽनुष्ठितस्य रमाव्रतस्य वै बलात् ।
श्रुत्वा तत्र स्थिता चन्द्रभागा हृष्टाऽऽह वै मुहुः ॥७३ ।
नाथदर्शनवेगाढ्या मुचुकुन्दस्य पुत्रिका ।
तत्र मां नय दूत त्वं यत्राऽऽस्ते मे प्रियः पतिः ॥७४।
नेष्ये तं ब्रह्मधामाऽपि रमाव्रतस्य पुण्यतः ।
आवयोर्दूत! संयोगो यथा भवति तत् कुरु ॥७५।
श्रुत्वा दूतो मुचुकुन्दस्याऽऽज्ञां प्राप्य तदाऽम्बरे ।
चन्द्रभागां दिव्यदेहां कृत्वा नीत्वा जगाम ह ॥७६।
सापि स्वर्गसहं दिव्यं रूपं यौवनमित्यपि ।
दिव्यं चोड्डयनं प्राप्य भर्तुः समीपमागता ॥७७
भर्तुः स्वर्गं महाराज्यं दृष्ट्वा दृष्ट्वा जहर्ष सा ।
इन्द्रसेनो जहर्षाऽति दृष्ट्वा कान्तां समागताम् ॥७८ ॥ समाहूय स्वके वामे पार्श्वे तां स न्यवेशयत् ।
दूतः प्राप्य सुसत्कारमिन्द्रं प्रति जगाम ह । ७९ ॥ अथोवाच प्रियं हर्षाच्चन्द्रभागा प्रियं वचः ।
शृणु कान्त! हितं वाक्यं यत्पुण्यं विद्यते मयि ॥1.260.८ ० ॥ अष्टवर्षाधिका जाता यदाऽहं पितृवेश्मनि ।
ततः प्रभृति यच्चीर्णं मया त्वेकादशीव्रतम् ॥८ १ ॥ तस्य पुण्यप्रभावेण यास्यावो धाम चाक्षरम् ।
सर्वकामसमृद्धं च शाश्वतं श्रीहरेः पदम् ॥८ २ ॥ बहुकालं तु तौ स्वर्गं भुक्त्वा पुण्यप्रभावतः ।
ययतुस्त्वक्षरं धाम दिव्यमुक्तौ बभूवतुः ॥८ ३ ॥ चिन्तामणिसमा त्वेषा कामधेनुसमाऽपि वा ।
कल्पद्रुसदृशी रमाभिधानैकादशी मम ॥८४॥ एकादशीव्रतानां च पक्षयोरुभयोरपि ।
यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत् ॥८९ ॥ धेनुः श्वेता यथा कृष्णा चोभयोः सदृशं पयः ।
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ॥८ ६ ॥ सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ।
श्रवणात्पठनाच्चापि व्रततुल्यफलं भवेत् ॥८७॥ इति श्रीलक्ष्मीनारायणोयसंहितायां प्रथमे कृतयुगसन्ताने कार्तिककृष्णरमैकादशीव्रतमाहात्म्यं मुचुकुन्दपुत्र्याश्चन्द्रभागायाः पत्युरिन्द्रसेनस्य व्रतदिने मरणात् स्वर्गं ततः पत्न्याः स्वर्गगत्युत्तरं द्वयोर्मोक्षं इत्यादिनिरूपणनामा षष्ट्यधिकद्विशततमोऽध्यायः ॥२६० ॥