२५४

श्रीलक्ष्मीरुवाच-
श्रीकृष्णस्य हरेर्योगात् सर्वं भवति निर्गुणम् ।
स्वर्गदं मोक्षदं चापि चतुर्बाहुस्वरूपदम् ॥१ ॥ यत्किञ्चित्कर्म काम्यं वा फलेच्छाविधुरं च वा ।
कृष्णतुष्ट्यै कृतं सर्वं गोलोकप्रदमेव तत् ॥२ ॥ तद्व्रतं सा क्रिया रम्या स धर्मस्तत्तु पूजनम् ।
येन तुष्टो भवेत्स्वामी हरिकृष्णः सतां पतिः ॥३ ॥ चातुर्मास्यव्रतं तद्वै येन तुष्यति माधवः ।
यमाश्च नियमास्ते वै येन तुष्टो ह्यधोक्षजः ॥४ ॥ वद श्रावणकृष्णे मे किन्नाम्न्येकादशी मता ।
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो ॥५ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि! च ते वक्ष्ये लोकानां हितकाम्यया ।
श्रावणैकादशी कृष्णा कामिका नाम नामतः ॥६ ॥ अच्युतो विजयायुक्तः सम्पूज्यस्तत्र भक्तितः ।
पुष्पेषु पारिजातानि बिल्वमर्घ्ये फलं मतम् ॥७ ॥ शतच्छिद्रादि नैवेद्ये दानं स्त्रीपुंसुवस्त्रयोः ।
देयं तु व्रतिना सर्वमच्युतप्रेमकारकम् ॥८ ॥ न गङ्गायां न च काश्यां नैमिषे न न पुष्करे ।
सत्फलं लभ्यते यद्वै फलं श्रीकृष्णपूजनात् ॥९ ॥ गोदावर्यां गुरौ सिंहे व्यतीपाते च दण्डके ।
यत्फलं लभ्यते तस्मादधिकं फलमुच्यते ॥1.254.१० ॥ ससागरवनोपेतां यो ददाति वसुन्धराम् ।
कामिकाव्रतवांस्तस्मादधिकं फलमश्नुते ॥११ ॥ धेनुं सोपस्करां दद्याद् यस्तु चोभयतोमुखीम् ।
ततोऽधिकं फलं तस्य जायते कामिकाव्रतात् ॥१२॥ श्रावणे श्रीधरं कृष्णं पूजयेद् यो व्रती जनः ।
तेन सम्पूजिता देवा गन्धर्वोरगपन्नगाः ॥१ ३॥ संसारार्णवमग्नानां कामिकाव्रतमुत्तमम् ।
तत्पारप्रापकं पोतं विद्यते हरिनिर्मितम् ॥१४॥ अध्यात्मविद्याप्राप्यं च फलं वै कामिकाव्रतात् ।
सजागरं व्रतं कृत्वा दुर्गतिं नैव गच्छति ॥१५॥ न पश्यति यमं रौद्रं कुयोनिं नैव विन्दति ।
कामिकाव्रतपुण्येन कैवल्यं योगिनो ययुः ॥१६॥ तुलसीप्रभवैः पत्रैर्यो जनः पूजयेद्धरिम् ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१७॥ सुवर्णं भारमेकं च रजतं च चतुर्गुणम् ।
अर्प्यते तत्फलावाप्तिस्तुलसीदलपूजनात् ॥१८ ॥ रक्तमौक्तिकवैदूर्यप्रवालादिभिरर्चितः ।
न तुष्यति तथा कृष्णस्तुलसीदलतो यथा ॥१ ९॥ तुलसीमञ्जरीभिः सम्पूजितो येन माधवः ।
अनेकजन्मपापानि तस्य यान्ति हि सङ्क्षयम् ॥1.254.२० ॥ या दृष्टा पापशमनी स्पृष्टा देहस्य पावनी ।
स्तुता रोगनिरसनी सिक्ताऽन्तकनिवारिणी ॥२१ ॥ रोपिता कृष्णचरणप्रत्यासत्तिविधायिनी ।
अर्पिता मुक्तिफलदा तत्तुलस्यै नमो नमः ॥२२॥ इत्युक्त्वा तुलसीं दद्याद् देवाय परमात्मने ।
कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीतिथौ ॥२३ ॥ पितरस्तस्य तृप्यन्ति ह्यमृतेन दिवि स्थिताः ।
दीपदानं तु शिखरे कर्तव्यं वै हरेर्दिने ॥२४॥ तस्य पुण्यस्य सङ्ख्यां तु विष्णुश्चापि न वेत्त्यलम् ।
घृतस्य तिलतैलस्य दीपी देयो हि मन्दिरे ॥२५ ॥ दाता प्रयाति द्युलोकं दीपकोटिशतोज्ज्वलः ।
ब्रह्महत्यापहरणी महापुण्यफलप्रदा ॥२६ ॥ त्रिदिवस्थानदात्री च भ्रूणहत्यादिनाशिनी ।
कर्तव्यैकादशी कामपूरणी श्रद्धया प्रिये ॥२७॥ व्रतकर्ता पावनो वै भूत्वा भक्तिसमन्वितः ।
विष्णुलोकमवाप्नोति भुङ्क्ते सुखं तु शाश्वतम् ॥२८ ॥ दशम्यामेकभोजी स्याद् भूशायी च भवेन्निशि ।
ब्रह्मचारी भवेच्चैव प्रातरुत्थाय च व्रती ॥२९ ॥ स्नात्वा नित्यार्चनं कृत्वा मण्डपं कारयेच्छुभम् ।
धान्यैश्च सर्वतोभद्रं मण्डलं कारयेत्ततः ॥2.254.३० ॥ अच्युतस्य स्वर्णमूर्तिं विजयासहितस्य वै ।
पूजयेद्विधिना तत्राऽऽवाहनादिभिरादरात् ॥३१ ॥ पञ्चामृतैर्जलैश्चापि स्नपयेन्मार्जयेत्ततः ।
वस्त्रभूषाद्यलङ्कारशृङ्गारैश्च प्रशोभिताम् ॥३२ ॥ स्थापयित्वा तिलपात्रे न्यस्येत्पात्रं घटोपरि ।
पञ्चरत्नसुपल्लवफलवारिसमन्वितम् ॥३३ ॥ भोजयेद् विविधैर्भोज्यैस्ताम्बूलादि समर्पयेत् ।
नीराजयेत् स्तुतिं प्रदक्षिणाञ्जली समर्पयेत्॥३४॥ निर्विध्नं मे व्रतं भूयादित्येवमर्थयेद्धरिम् ।
मध्याह्नेऽपि सुमिष्टान्नैस्तर्पयेदच्युतं व्रती ॥३५॥ सायं चापि तथा कुर्यान्महापूजादिकं व्रती ।
भोजयेत्पूजयेदान्दोलयेदङ्गानि मर्दयेत् ॥३६॥ जागरणं प्रकुर्याच्च द्वादश्यां प्रातरेव तु ।
स्नात्वाऽर्चयित्वा दानानि दद्याच्च विविधानि वै ॥३७॥ सतः साध्वीर्भोजयेच्च बालान् कुर्याच्च पारणाम् ।
सुकामिकाव्रतं त्वेवं सर्वकामफलप्रदम् ॥३८ ॥ धनार्थी धनमाप्नोति पुत्रार्थी लभते सुतम् ।
भार्यार्थी त्वाप्नुयाद् भार्यां स्वामिकामा पतिं लभेत् ॥३९ ॥ गृहक्षेत्रपशुस्मृद्धिधान्यार्थी लभते तु तत् ।
कीर्त्यारोग्यसुसम्मानराज्यसत्तार्थी तल्लभेत् । 2.254.४० ॥ धर्मार्थकाममोक्षार्थी व्रतं कृत्वाऽर्जयेत्तु तत् ।
शत्रूपद्रवविघ्नात्तिक्षयार्थी तत्क्षयं व्रजेत् ॥४१ ॥ एवं सर्वप्रदं त्वेतत् कामिकाव्रतमुत्तमम् ।
स्वर्गदं सत्यदं तद्वै तथा वैराजलोकदम् ॥४२॥ गोलोकदं व्रतं चैतदक्षरप्रदमुत्तमम् ।
सर्वसिद्धिप्रदं त्वस्या आख्यानं शृणु पूर्वजम् ॥४३ ॥ श्रवणाः पितरः पूर्वं धर्मराजकुलोद्भवाः ।
धर्मेण योजिताः प्राणिवृत्तान्तानयनाय ते ॥४४ ॥ यत्र गच्छन्ति जीवानां वृत्तान्तानयनाय ते ।
न शृण्वन्ति न पश्यन्ति कर्म सूक्ष्मात् सुसूक्ष्मकम् ॥४५॥ न जानन्ति च वृत्तान्तं त्वानयेयुः कथं तु ते ।
अजानन्तो यम ते निवेदयेयुः कथं तदा ॥४६ ॥ इति चिन्तापरा सर्वे मिलित्वाऽऽहुर्यमं पुरः ।
सूक्ष्मकर्मकृतां सर्वं यथा विद्मो वयं तथा ॥४७ ॥ धर्मराज विधेह्येव जानीमो जीवकर्म यत् ।
वयं द्वादशसङ्ख्याका जीवाश्चासङ्ख्यकोटयः ॥४८ ॥ कथं कुत्र भवेद् व्याप्तिरस्माकं सिद्धिमन्तरा ।
तस्मात् सिद्धिं प्रदेहि त्वं यद्वा दर्शय तत्तपः ॥४९ ॥ येन स्याम तवाग्रे वै सर्वाऽऽवेदनशक्तयः ।
श्रुत्वा यमस्तु तान्प्राह सेवध्वं कामिकाव्रतम् ॥2.254.५० ॥ श्रावणे कृष्णपक्षे सा कामिकैकादशी मता ।
सर्वकामसुसंसिद्धियात्री त्वैश्वर्यसम्प्रद ॥५ १ ॥ विधिं श्रुत्वा कामिकाया व्रतस्य श्रवणास्ततः ।
चक्रुर्व्रतं कामिकाया ददुर्दानानि भूरिशः ॥५ २ ॥ द्वादश्यां पारणाकाले प्रसन्नो धर्मराजकः ।
स्वयं विप्रस्वरूपेणाऽतिथिर्भूत्वा समागतः ॥५३ ॥ भिक्षां देहीति सूच्चार्य तस्थौ त्वङ्गणभूतले ।
श्रवणैरर्पितां भिक्षां जग्राह बहुभावतः ॥५४ ॥ वरं वृणुत भो क्षत्राः प्रसन्नोऽस्मि व्रतेन वः ।
इत्याह तान् धर्मदेवोऽच्युतस्य जनकः स्वयम् ॥५५ ॥ प्राहुस्ते श्रवणा तं वै जीवानां सूक्ष्मकर्मकम् ।
यथा जानीम एवात्र सार्वज्ञ्यं देहि तद्विधम् ॥५६ ॥ दूरश्रवणमेवापि दूरदर्शनमित्यपि ।
गुप्तकर्तव्यवेत्तृत्वं बहुरूपधृतिं तथा ॥५७ ॥ सर्वदेशादिसंस्थेषु जीवेषु व्यापितां तथा ।
सर्वेषां सर्वथा सर्ववेत्तृत्वशक्तिमुत्तमाम् ॥५८ ॥ शाश्वतीं तत्स्मृतिं चापि यथार्थां देहि यद्यथा ।
श्रुत्वैवं धर्मराजस्तु समुवाच तु ताँस्तदा ॥५९ ॥ कामिकाया व्रतं युष्माभिः कृतं तत्फलं बहु ।
सर्वसिद्धिमयं चेष्टप्रदं लब्धं यतो ह्यहम् ॥2.254.६० ॥ ददामि सर्वसिद्धीश्च तथा यूयं भवन्त्विति ।
ईशवत्सर्वदा सर्वजीवानामितिवृत्तजम् ॥६१ ॥ सर्वं ज्ञानं भवत्स्वेव भवत्विति ददाम्यहम् ।
एवं वरं परं दत्वा धर्मराजस्तिरोदधे ॥६२ ॥ श्रवणा द्वादशसङ्ख्यास्तत आरम्य सर्वदा ।
असङ्ख्यरूपधर्तारो जीवकर्म निवेदकाः ॥६३ ॥ सर्वज्ञा इव सञ्जाताश्चित्रगुप्ताग्रतः सदा ।
निवेदयन्ति वृत्तान्तं मृतानां पूर्वगामिनाम् ॥६४॥ सर्वकामफलं प्राप्ताः कामिकाया व्रतेन ते ।
सर्वसिद्धिप्रदा तस्मात्कर्तव्या कामिका जनैः ॥६५ ॥ शृणु त्वन्यकथां लक्ष्मि! रतेर्जातां पुरा यथा ।
शङ्करेण यदा दग्धः कामदेवो हिमालये ॥६६ ॥ कामपत्नी रतिर्जाता विधवा पतिमन्तरा ।
बहु सा पीडिता जाता वैधव्याऽऽर्त्त्यतिकर्षिता ॥६७॥ शङ्करं प्रति गत्वा सा प्राह नाथ कृपां कुरु ।
पतिं विना तु मे प्राप्तं ह्यमाङ्गल्यं दुःखप्रदम् ॥६८ ॥ तन्मे विनाशयाऽऽर्त्तिन्याः शम्भो शं कुरु योषितः ।
श्रुत्वा शम्भुश्च तां प्राह कामिकाया व्रतं कुरु ॥६९ ॥ अमाङ्गल्यं सदा ते वै दूरं यास्यति निश्चितम् ।
अदेहोऽपि पतिस्ते वै रतिस्थाने मिलिष्यति ॥2.254.७० ॥ अवैधव्यममाङ्गल्यं सर्वं ते यास्यति क्षयम् ।
कृष्णपुत्रस्तु वै प्रद्युम्ननामा ते पतिस्ततः ॥७ १ ॥ सुशरीरोऽतिसौभाग्यवत्या वै प्राप्स्यते त्वया ।
श्रुत्वैवं सा कामिकाया व्रतं चक्रे रतिर्मुदा ॥७ २ ॥ विधिवच्च ददौ सर्वदानानि बहुभक्तितः ।
शम्भुस्तु पारणाकाले भूत्वा भिक्षुक एव ह ॥७ ३ ॥ समाययौ सुभिक्षार्थं तया भिक्षा समर्पिता ।
भुक्त्वा प्राह ततः शम्भुर्वरं याचस्व दद्म्यहम् ॥७४॥ कामिकाया व्रतेनास्मि प्रसन्नः शङ्करः स्वयम् ।
श्रुत्वा रतिस्तदा प्राह पतिं कामं प्रदेहि मे ॥७५॥ तथास्त्विति समुच्चार्याऽदृश्योऽभूच्छङ्करस्ततः ।
रत्या लब्धः पतिः स्वस्या रत्याः काले प्रतिस्थले ॥७६॥ भूते भूते सर्वयोनौ पति प्राप्तः स मैथुने ।
मूर्तः प्रद्युम्ननामापि प्राप्तः कृष्णसुतस्ततः ॥७७॥ एवं व्रतप्रभावेण रतिः सौभाग्यतां गता ।
ब्रह्माण्डप्राणिषु व्याप्तिं प्राप्ता सिद्धिं तु शाश्वतीम् ॥७८॥ व्रतं त्वेवं कामिकायाः सर्वकामप्रसाधकम् ।
सर्वसङ्कल्पसिद्धिधृक् सर्वस्मृद्धिप्रदायकम् ॥७९॥ सर्वार्त्तिनाशकं सौम्यं स्वर्गमोक्षप्रदं शुभम् ।
सर्वयज्ञफलदातृ योगसिद्धिकरं तथा ॥2.254.८०॥ नष्टवस्तुप्रदं चापि सदैश्वर्यप्रदं महत् ।
रतिदं कामदं पत्नीप्रदं स्वामिप्रदं तथा ॥८ १॥ दुःखघ्नं त्वार्त्तिशमनं कामभोगसुखप्रदम् ।
विघ्ननाशकरं वाञ्छापूरकं नरयोषिताम् ॥८२॥ कर्तव्यं सर्वथा लक्ष्मि! चाऽवैधव्यकरं परम् ।
रतिशक्तिकामशक्तिसिद्धिदं काम्यमित्यपि ॥८३॥ निष्कामानां तु वैकुण्ठप्रापकं पुण्यभाजनम् ।
लक्षाऽश्वमेधयज्ञानां पुण्यदं श्रवणादपि ॥८५८॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रावणकृष्णकामिकैकादशीमाहात्म्यं श्रवणाख्यपितॄणां सर्वसिद्धिप्राप्तिः रतेश्च कामाख्यपतिप्राप्तिश्चेतिनिरूपणनामा चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५४ ॥