२५२

श्रीलक्ष्मीरुवाच-
कृपासिन्धो सदाऽऽलस्यान्वितानां भवपारकृत् ।
तारिता वै त्वया नाथ निर्जलाव्रतवर्णनात् ॥१ ॥ येन मुक्तिं तथा भुक्तिं सर्वैकादशिकाफलम् ।
व्रतिनः प्राप्नुवन्त्यत्र कारणं करुणा तव ॥२ ॥ सङ्कल्पस्तव जीवानां कथञ्चिद्वै भवेद्यथा ।
निःश्रेयः परमं यद्वा मोक्षो वा स्वर्गमेव वा ॥३ ॥ जननीवद्रक्षणं स्याद् भवसागरवारिधेः ।
तथा त्वं यतसे नाथ कृपा केवलकारणम् ॥४ ॥ वद मेऽषाढकृष्णैकादश्या व्रतफलं विधिम् ।
देवं पूजां च माहात्म्यं कृपालो दानमित्यपि ॥‘९ ॥ श्रीनारायण उवाच-
अषाढकृष्णपक्षीया योगिनीसञ्ज्ञिका मता ।
क्षेमङ्कर्या सहाऽत्राऽर्च्यो नृसिंहाख्यो हरिः प्रभुः ॥६ ॥ भृङ्गराजोऽत्र पुष्पेषु तथाऽर्घ्ये जाम्बवं फलम् ।
नैवेद्ये पिण्डका देया दाने तु जलगौर्मता ॥७ ।
विशेषोऽयं विधिः प्रोक्तः कार्यं व्रतं व्रतोत्तमम् ।
सर्वपापक्षयकृच्च सर्वभुक्तिप्रदायकम् ॥८ ॥ संसारार्णवमग्नानां पोतरूपं सनातनम् ।
जगत्त्रये सारभूतं योगिनीव्रतमुत्तमम् ॥९ ॥ दशम्यामेकभक्तेन नक्तेन व्रतिना खलु ।
भूशायिना वर्तितव्यं ब्रह्मचर्यादिना तथा ॥1.252.१०॥ एकादश्यां व्रती प्रातरुत्थाय श्रीहरिं स्मरेत् ।
ध्यात्वा स्नात्वा पूजयित्वा हरिं षोडशवस्तुभिः ॥१ १॥ प्रार्थयेद् भगवन् कृष्ण योगिन्या व्रतमुत्तमम् ।
करोम्यद्य तु निर्विघ्नं सम्पूर्णफलदं भवेत् ॥१२॥ कृपया तव भक्तानामभयङ्कर माधव ।
इत्यभ्यर्थ्य ततो धान्यैः कारयेत् सर्वतः शुभम् ॥१३॥ मण्डलं रङ्गचित्रादिशोभितं मण्डलान्तरे ।
मध्ये संस्थापयेत्स्वर्णकलशं रत्नगर्भितम् ॥१४॥ फलपल्लवयुक्तं च जलवस्त्रसमन्वितम् ।
चन्दनाक्षतसत्कुङ्कुमाऽर्चितं नवधातुजम् ॥१५॥ शङ्खं च पूजयेत्तत्र घण्टां प्रपूजयेत्तथा ।
शालग्रामं पूजयेच्च गणेशं पूजयेत्तथा ॥१६॥ पूजाद्रव्यैः पूजयित्वा श्रीकृष्णं नरसिंहकम् ।
पूजयेत्परया भक्त्या स्वर्णनिर्मितमूर्तिकम् ॥१७॥ तिलस्थाल्यां स्थापयित्वा पूजयेदक्षतादिभिः ।
आवाहनादिभिः पञ्चामृतैः सुगन्धिचन्दनैः ॥१८॥ सद्वस्त्रैश्च विभूषाभिः शृङ्गारद्रवमर्दनैः ।
धूपदीपसुनैवेद्यफलताम्बूलवारिभिः ॥१९॥ आरार्त्रिकस्तुतिपुष्पाञ्जल्यादिभिः समर्चयेत् ।
क्षमापराधं त्वभ्यर्थ्य स्वकार्यं चेत् क्रियात् ततः ॥1.252.२ ०॥ मध्याह्नेपि सुनैवेद्यं त्वाम्ररसश्रीखण्डकम् ।
शीतलं मधुरं वारि पूरिका दधि शर्कराम् ॥२१ ॥ आरनालं च कूष्माण्डखण्डपाकम्पयोरसम् ।
भोजयेन्मुखवासं च पूगीफलं च वीटिकाम् ॥२२॥ दद्यात्सायं तथा सौम्यं कारयेन्मण्डपं नवम् ।
तत्र दोलां बन्धयित्वा स्थापयित्वा हरिं ततः ॥२३ ॥ आन्दोलयेत्समुद्याने विहारयेदितस्ततः ।
शाद्वले शीतले भागे विश्रमयेज्जनार्दनम् ॥२४॥ पूजयेद् विविधैः श्रेष्ठैर्वस्तुभिश्च ततः परम् ।
नीराजयेन्नरसिंहं स्तुतिं कुर्याच्च सैंहिकीम् ॥२५॥ रात्रौ जागरणं कुर्यान्नृसिंहपदगायनैः ।
प्रातरुत्साहपूर्वं तं ध्यात्वा स्नात्वा प्रपूजयेत्॥२६ ॥ विधिवद्वस्तुभिः सर्वैर्निवेद्य मिष्टमिष्टकम् ।
जलं दद्यात्ततो भक्तः कुर्याद्वै पारणां शुभाम् ॥२७॥ जलदानं जलधेनुं स्वर्णधेनुं घृतादिकम् ।
दधि दुग्धं नवनीतं शर्करां गूडमित्यपि ॥२८ ॥ दद्याद् दानं सुपात्राय यानं वाहनमर्थकम् ।
गुरवे दक्षिणां दद्याद् घटं मूर्तिं हरेस्तथा ॥२९॥ मिष्टान्नानि तथान्यानि दापयेत् सद्भ्य एव च ।
गृहक्षेत्रपशूद्यानदासदानानि कारयेत् ॥1.252.३ ०॥ एवं कृत्वा व्रतं भक्तो योगिन्या_ श्रद्धया युतः ।
योगिलभ्यं फलं स्वर्ग्यं कैवल्यं चापि संलसेत् ॥३१ ॥ शृणु लक्ष्मि! कथां रम्यां दैवीं पापविनाशिनीम् ।
अलकायां नगर्यां वै कुबेरः शिवभक्तिमान् ॥३२॥ यदा शम्भोः प्रपूजायां वर्तते तु तदा सदा ।
स्वानुचरो महायक्षो हेममालीति नामतः ॥३३ ॥ समानयति पुष्पाणि पार्श्वोद्यानभवानि वै ।
एवं नित्यं शङ्करस्य पूजोपकरणानि सः ॥३४॥ उपस्थापयति तत्र सदा कुबेरसन्निधौ ।
स किन्तु यौवनोद्भेदात् कामपूरेण सम्भृतः ॥३५॥ स्वपत्न्या तु विशालाक्ष्या सह कामे विशेषतः ।
कामबाणेन चाकृष्टो वर्तते दिवसेऽपि च ॥३६॥ कार्यं चापि परित्यज्य कामनायां प्रवर्तते ।
एवं चातीव कामार्थी पत्न्या सह क्वचित्क्वचित् ॥३७॥ कुसुमादीनि चानेतुं गच्छत्येव द्रुमादिषु ।
एकदा तु कुबेरेण मानसाख्यसरः प्रति ॥३८ ॥ प्रेषितो हेममाली सः कमलानयनाय वै ।
सोऽपि नूत्नं सरो रम्यं दृश्यार्हं त्वभिमत्य च ॥३९ ॥ पत्न्या सह गतस्तत्राऽऽनेतुं सु कमलानि तु ।
जलं च शाद्वलं सूक्ष्मवालुकाचाकचक्यताम् ॥1.252.४० ॥ रमणीयप्रदेशं च सुगन्धिकुसुमादिकम् ।
राजसं विविधं भावं विहारक्षोभकारकम् ॥४ १ ॥ दृष्ट्वा विकृतिमायातो विसृज्य कुसुमानि च ।
पत्न्या सह तदा रेमे मानसे तु सरोवरे ॥४२॥ पत्न्या मुहुर्धृतः कामे संसक्तो न निवर्तते ।
तृप्तापि तु पुनः पत्नी प्रवृत्ता न निवर्तते ॥४३॥ एवं परस्परं प्राप्तौ कामभावौ विशेषतः ।
पुनः पुनः प्रवृत्तौ तौ विविदतुर्न मोहितौ ॥४४॥ कालातिक्रमणं जातं पूजायाश्च तथापि तौ ।
पुष्पाण्यादाय नाऽऽयातौ कुबेरोऽपि प्रतीक्षते ॥४५॥ कामप्रेमरसासक्तौ न कुबेरालयं गतौ ।
कुबेरो देवसदने करोति शिवपूजनम् ॥४६ ॥ प्रातः कालो व्यतीतश्च मध्याह्नसमये ततः ।
कुबेरः पूजनार्थं तु पुष्पागमसमीक्षकः ॥४७॥ चिन्तयामास विघ्नं वै यतो नायाति यक्षकः ।
द्वितीयो यक्षकस्तत्र प्रेषितोऽन्वेषणाय यत् ॥४८॥ स गत्वा रममाणं तं ददर्श हेममालिनम् ।
हेममाली तु सलिले रमते कान्तया सह ॥४९॥ प्रेष्यस्तौ प्राह पुष्पाणि स काङ्क्षति कुबेरराट् ।
शीघ्रं वै तत्र गन्तव्यं मध्याह्ने पूजनं भवेत् ॥1.252.५०॥ इति कृत्वा गतौ पुष्पाण्यादाय राजराजकम् ।
कुबेरं तौ ततो नत्वा ययाचाते क्षमां मुहुः ॥५ १॥ यक्षराट् प्रत्युवाचाऽथ कालातिक्रमकोपितः ।
वनिताकामुकं ज्ञात्वा रममाणं निजेच्छया ॥५२॥ आः पाप दुष्ट दुर्वृत्त कामासक्ततया त्वया ।
अनादाय तु पुष्पाणि कृतं वै देवहेलनम् ॥५ ३ ॥ कामभोगो महान् विघ्नः स च दोषो महान्मतः ।
दण्डस्तत्र प्रदातव्यो न कर्तव्या मया कृपा ॥५४॥ भवाष्टादशकुष्ठी त्वं वियुक्तो कान्तया तया ।
अस्मात्स्थानादपध्वस्तो गच्छस्वाऽधम भूतलम् ॥५५॥ इत्युक्ते वचने यक्षस्तस्मात्स्थानात्पपात ह ।
महादुःखाभिभूतश्च कुष्ठैश्चित्रितविग्रहः ॥५६॥ गलत्कुष्ठः श्वेतकुष्ठो रक्तकुष्ठोऽभवत्तदा ।
चर्मकुष्ठो ललत्कुष्ठो दुर्गन्धपूयकुष्ठकः ॥५७।
एवं जातः शरीरे स हेममाली स्वकर्मणा ।
दिवा सुखं न लभते न निद्रां लभते निशि ॥५८॥ छायायां वा निदाघे वा गृहे कुञ्जे च गह्वरे ।
कुट्यां भूमौ लतामध्ये लभते न सुखं क्वचित् ॥५९॥ दाहेन पीड्यते चाति खर्जनेन ज्वलत्यपि ।
पातकेनाभिभूतोपि पूर्वकर्म स्मरत्यसौ ॥1.252.६०॥ शिवार्पितसु पुष्पादिफलप्राबल्यतो ननु ।
पतितस्याऽभिभूतस्य स्मृतिस्तस्य न लुप्यति ॥६१॥ हिमालये महारण्ये घोररूप इतस्ततः ।
भ्रममाणो ययौ देवान् मार्कडेयाश्रमं शुभम् ॥६२॥ तपोनिधिं मुनिश्रेष्ठं ब्रह्मध्यानपरायणम् ।
यस्याऽऽयुर्विद्यते लक्ष्मि! ब्रह्मणो दिनसप्तकम् ॥६३॥ ववन्दे चरणौ तस्य दूरतः कुष्ठविग्रहः ।
मार्कण्डेयो दयां कृत्वा कम्पितं दुष्टविग्रहम् ॥६४॥ परोपकरणार्थाय समाहूयेदमब्रवीत् ।
कस्मात्कुष्ठाभिभूतस्त्वं कुतो निन्द्यतमो ह्यसि ॥६५॥ श्रुत्वा प्राह तदा सोपि मुनिं पापविनाशकम् ।
राजराजस्यानुचरो हेममालीति नामतः ॥६६॥ उद्यानात्पद्मनिचयं त्वानीय प्रत्यहं मुने ।
शिवपूजनवेलायां कुबेराय समार्पयम् ॥६७॥ एकस्मिन्दिवसे पत्न्या सहितोऽहं कृपालुना ।
सम्प्रेषितः कुबेरेण त्वानेतुं कमलानि हि ॥६८॥ अतिसुगन्धिचित्राणि मानसाख्यसरोवरम् ।
दृष्ट्वा तु नूतनं रम्यं भूतलं सजलं शुभम् ॥६९॥ कामसुखप्रसक्ताभ्यां कालश्चाऽविदितो गतः ।
पुष्पं विना शिवपूजा प्रातर्जाता ततो ह्यहम् ॥1.252.७०॥ अतिक्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ।
कुष्ठाभिभूतः सञ्जातो वियुक्तः कान्तया तया ॥७ १॥ भ्रममाणोऽत्र सान्निध्ये प्राप्तोहं मे शुभं कुरु ।
सतां स्वभावतश्चित्तं परोपकरणे क्षमम् ॥७२॥ इति मदर्थं भगवन् कुरु सौख्यं भवेद् यथा ।
श्रुत्वा तथ्यं तदोवाच मार्कण्डेयो महामुनिः ॥७३॥ शृणु व्रतोपदेशं ते कथयामि शुभप्रदम् ।
आषाढे कृष्णपक्षस्यैकादशीव्रतमाचर ॥७४॥ योगिनीव्रतपुण्येन कुष्ठं यास्यति वै ध्रुवम् ।
पुनः प्राप्स्यसि पत्नीं त्वं लप्स्यसे शाश्वतं सुखम् ॥७५॥ इतिवाक्यमृषेः श्रुत्वा दण्डवत्पतितो भुवि ।
आशीर्भिर्वर्धितस्तेन बभूवाऽतीव हर्षितः ॥७६॥ योगिन्येकादशीं चक्रे व्रती त्वाश्रमसन्निधौ ।
मार्कण्डेयस्य कृष्णस्य पूजनं प्रचकार सः ॥७७॥ मुनेर्वचनतः सम्यग् व्रते चीर्णेऽभवत्सुखी ।
अष्टादशैव कुष्ठानि तनौ नष्टानि सर्वथा ॥७८॥ गतो नत्वा स्वकं लोकं यक्षो भूत्वा यथायथम् ।
लब्ध्वा पत्नीं पुनस्त्वेवाऽलकायां न्यवसत्सुखम् ॥७९॥ एवं शापनिवृत्तिर्वै योगिनीव्रततो भवेत् ।
कुष्ठादिरोगनाशश्च पत्नी नष्टापि लभ्यते ॥1.252.८ ०॥ लोकः स्थानं गृहं स्मृद्धिर्नष्टं वै प्राप्यते पुनः ।
योगिन्या व्रतपुण्येन योगलभ्यं लसेद् व्रती ॥८ १ ॥ इदृग्विधं महालक्ष्मि! कथितं योगिनीव्रतम् ।
नार्या भूत्वा तु योगिन्या योगिना तु नरेण च ॥८२॥ कर्तव्यं योगफलदं भुक्तिमुक्तिप्रदं व्रतम् ।
अष्टाशीतिसहस्राणि साधून् भोजयते तु यः ॥८३॥ तत्समं फलमाप्नोति योगिन्या व्रतवान्नरः ।
योगाभ्यासफलदात्री योगिलोकप्रदायिनी ॥८४॥ कृष्णयोगान्मोक्षदात्री ह्युपोष्या योगिनीतिथिः ।
पठनाछ्रवणाच्चास्याः सर्वपापैः प्रमुच्यते ॥८५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आषाढकृष्णयोगिन्येकादशीव्रतमाहात्म्यं हेममालियक्षस्य कुबेरशापेन जातकुष्ठादिरोगस्य व्रतकरणेन नाश इत्यादिनिरूपणनामा द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५२ ॥