२४९

श्रीलक्ष्मीरुवाच-
भगवन् देवदेवेश भक्तानामभयङ्कर ।
आयुःप्रदं व्रतं सम्यक् श्रावितं भवता विभो ॥१ ॥ श्रुत्वा वरूथविप्रस्य महापातकनाशनम् ।
प्रसन्नं जायते चेतः कृपासागर केशव ॥२ ॥ वैशाखशुक्लपक्षे तु किं नाम्न्येकादशी मता ।
किं फलं को विधिस्तत्र को देवो वद माधव ॥३ ॥ श्रीनारायण उवाच-
पद्मजे कथयिष्यामि लोकानां हितकाम्यया ।
पवित्राणां पवित्रं यद्व्रतानामुत्तमं व्रतम् ॥४ ॥ वैशाखस्याऽर्जुने पक्षे नामतो मोहिनी तु सा ।
भवेदेकादशी लक्ष्मि! सर्वपातकनाशिनी ॥५ ॥ पापजालानि नश्यन्ति मोहो नश्यति तद्व्रतात् ।
महादुःखानि नश्यन्ति सुखं भवति तद्व्रतात् ॥६ ॥ यस्याः कर्तव्यताभावादपि पापं विनश्यति ।
दशम्यामेकभक्तेन नक्तेनापि व्रतार्थिना ॥७ ॥ वर्तितव्यं तथा रात्रौ ब्रह्मचर्यव्रतेन च ।
प्रातरुत्थाय कृष्णश्च स्मर्तव्यो व्रतिना सदा ॥८ ॥ स्नात्वा हरिः सुपूज्यश्च पूजनीयो व्रतार्थिना ।
नित्यविध्यनुसारेण व्रतार्थं प्रार्थनां क्रियात् ॥९ ॥ अद्याहं देवदेवेश करिष्ये व्रतमच्युत ।
तवानुग्रहलेशेन सम्पूर्णं तद्भवेदिति ॥1.249.१० ॥ एवं तु पूजनं नित्यतया प्राप्तं समाप्य च ।
कारयेत् सर्वतोभद्रमण्डलं तण्डुलादिभिः ॥११ ॥ तन्मध्ये सुघटः स्थाप्यः सुवर्णस्याऽथ वा नवः ।
ताम्रजः सजलः पञ्चरत्नयुक् पञ्चपल्लवः ॥१ २॥ वस्त्रवेष्टितकण्ठश्च चन्दनाक्षतपूजितः ।
फलं न्यस्येन्नारिकेलं पार्श्वे तस्यान्तराऽब्भृतम् ॥१३ ॥ न्यस्येन्मुखोपरि रम्यां स्थालीं तिलप्रपूरिताम् ।
तत्र न्यस्येत् स्वर्णरूप्यताम्रद्रव्यं च शर्कराम् ॥१४॥ कारयित्वा कनकस्य मूर्तिं त्वेकादशीपतेः ।
मधुसूदनदेवस्य माधव्या सह शोभिताम् ॥१५॥ मोहिन्या च युतां तत्र स्थाल्यां वै स्थापयेत्तु ताम् ।
स्वर्गनिःश्रेणिकां कूप्यमयीं न्यस्येत्प्रपूजयेत् ॥१ ६॥ स्वस्तिकं ब्रह्मसूत्रं च चन्द्रकं तिलकं तथा ।
स्वर्णरौप्यं कारयित्वा घटपार्श्वे निधापयेत् ॥१७॥ फलानि विविधान्येव पूगीफलादिकानि च ।
एलालवङ्गत्वक्सारजातीफलानि चूर्णकम् ॥१८ ॥ शर्करां गूडधानादीन् नववस्तूनि दापयेत् ।
पर्यङ्कं गेन्दुकं गुप्तदोरकं पार्श्वकं तथा ॥१ ९॥ दर्पणं व्यजनं छत्रं चामरं यष्टिकां शुभाम् ।
पादुके केशसंस्कर्त्रीं सुगन्धद्रव्यसंयुताम् ॥1.249.२० ॥ सजलं मृद्घटं नव्यं पक्वान्याम्रफलानि च ।
विन्यस्येत् पूजनं कुर्याद् विधिना व्रतकारकः ॥२१ ॥ पुष्पेषु मल्लिकां दद्यान्नैवेद्यं पायसं शुभम् ।
अर्घ्यं फलं तु पनसं शय्यादानं समुत्तमम् ॥२२॥ प्रथमं तिलपात्रे तं मधुसूदनमच्युतम् ।
आवाहयेत् ततो दद्यादासनं चोत्तमोत्तमम् ॥२३ ॥ पादप्रक्षालनवारि तथाऽर्चनजलं शुभम् ।
आचमनार्थे सलिलं दद्याद् देवाय भावतः ॥२४॥ दन्तधावनमार्द्रं च दद्याच्चूर्णं सुगन्धवत् ।
मुखप्रक्षालनं तस्य कारयेत् तीर्थवारिणा ॥२५ ॥ शौचादिकल्पयेद्धस्तपादशुद्धिं प्रकल्पयेत् ।
पञ्चामृतैः स्नापयेच्च शुद्धोदकेन तत्परम् ॥२६ ॥ वस्त्रैरामार्जनं कुर्यात् सुवस्त्राणि समर्पयेत् ।
धौत्रं सूक्ष्म शुभं प्रावरणं श्वेतं नवं तथा ॥२७॥ अर्पयेच्चन्दनं तैलं सुगन्धं द्रव्यमत्तरम् ।
गन्धसारं मणिं ब्रह्मसूत्रं च कज्जलादिकम् ॥२८ ॥ कुङ्कुमं त्वर्पयेच्चाबीरं गुलालं शुभाक्षतान् ।
पुष्पाणि कुन्दकलिकारूपाणि पुष्पमालिकाः ॥२९॥ विभूषणानि सर्वाणि शृङ्गारद्रव्यमुत्तमम् ।
अलङ्काराणि रम्याणि त्वर्पयेद्धरये तदा ॥1.249.३० ॥ तिलकं चन्द्रकं भाले कारयेच्चन्दनेन वै ।
लेपयेच्चाभितो वर्ष्मणि व्रती हृदयादिके ॥३१ ॥ धूपं दीपं च नैवेद्यं दद्यान्मिष्टान्नमुत्तमम् ।
शार्करं दधिसारं श्रीखण्डं दद्यात्तु पूरिकाः ॥३२॥ शार्करं शीतसलिलं फलं चाम्रं च बीटिकाम् ।
नागवल्लीपर्णकृतां दद्यात्त्वन्यत्तु यत् कृतम् ॥३३ ॥ आरार्त्रिकं नमस्कारं स्तुतिं प्रदक्षिणं तथा ।
दण्डवच्च क्षमायाञ्चां फलपूर्णत्वयाचनाम् ॥३४ ॥ पुष्पाञ्जलिं दक्षिणां च दद्यात् पश्चाद् विसर्जयेत् ।
कुर्याच्चावश्यकं कार्यं व्रती भक्त्यात्मकं तदा ॥३५ ॥ मध्याह्ने पूजयेत् कृष्णं भोजनं कारयेद् बहु ।
षट्पञ्चाशत्प्रभोगाँश्च दद्यादर्थान्वितस्तदा ॥३६ ॥ जलपानं प्रदद्याच्च ताम्बूलं मुखशोधकम् ।
दद्याच्च तं नमस्कृत्य व्रती भक्त्यादिकं चरेत् ॥३७॥ सायं चारार्त्रिकं कुर्यान्नैवेद्यं च जलार्पणम् ।
मण्डपं कदलीस्तम्भैः कारयेद् बन्धयेच्च सः ॥३८ ॥ प्रेङ्खां सुशोभितां रम्यां नवपल्लवतोरणाम् ।
आन्दोलयेद्धरिं तत्र स्थापयित्वा स्वयं व्रती ॥३९ ॥ पूजनं षोडशवस्तूत्तमैर्निर्वर्तयेद्व्रती ।
रात्रौ भक्तियुतं कालं भक्तैः सह तु यापयेत् ॥1.249.४० ॥ एवं जागरणं कुर्यान्महोत्सवपुरःसरम् ।
नर्तनं गायनं गीतिं तालमानादिसंयुताम् ॥४ १ ॥ स्मरणं कीर्तनं चापि कथाख्यानानि कारयेत् ।
गापयेत् कृष्णपद्यानि नरा नार्यश्च सर्वथा ॥४२॥ हरिकीर्तनयुक्ताश्च कुर्युर्जागरणं तथा ।
प्रातः स्मरेद्धरिं स्नात्वा पुनः पूजनमाचरेत् ॥४३ ॥ व्रती दानानि दद्याच्च गुरवेऽतिसुभावतः ।
भोजयेद् ब्राह्मणान् साधून् साध्वीर्बालाँच पूजयेत् ॥४४॥ दीनान् कृपणान् बालिकाश्च पराधीनाँश्च भोजयेत् ।
आश्रितान् कर्मचाराँश्च प्रमदाश्च कुटुम्बिनः ॥४५॥ पूज्याँश्च भोजयेन्मिष्टं मातृँश्च जनकाँस्तथा ।
वृद्धाँश्च भोजयेन्नम्रभावनां च प्रदर्शयेत् ॥४६॥ ततो व्रती स्वयं कुर्यात्पारणां तु हरिं स्मरन् ।
शय्यादानं गजवाजिगोदानं भूगृहार्पणम् ॥४७॥ सुसत्पात्रे प्रकुर्यात्तु यानवाहधनार्पणम् ।
एवं व्रती व्रतं कुर्वन्नाप्नोति परमं पदम् ॥४८ ॥ शाश्वतं च सुखं स्वर्गे यथेष्टं कृपया हरेः ।
शृणु लक्ष्मि! कथां पूर्वभवां वैश्यस्य पावनीम् ॥४९॥ सौराष्ट्रे तु सरस्वत्याः प्राच्या नातिविदूरके ।
उत्तरे तु प्रदेशे वै भद्रावत्यास्तु दक्षिणे ॥1.249.५ ० ॥ भाण्डीराख्यनगर्यां वै धृतिसिंहोऽभवन्नृपः ।
तस्य श्रेष्ठी धनपालो ह्यभवद्धनशेवधिः ॥५ १ ॥ धनपालः सदा ख्यातः पुण्यकार्यप्रवर्तने ।
प्रपाकूपमठारामतडागगृहकारकः ॥५२॥ विष्णुभक्तः साधुसेवी परोपकृतिसद्व्रतः ।
कथाश्रवणसुश्रद्धः सर्वदा भक्तितत्परः ॥५३॥ पुत्रास्तस्याऽभवन् पञ्च श्रेष्ठिनो धनशालिनः ।
सुमना द्युतिमाँश्चैव मेधावी सुकृतिस्तथा ॥५४॥ चत्वारः पुण्यपात्राणि पञ्चमश्चातिपापकृत् ।
धृष्टबुद्धिरिति ख्यातः परस्त्रीसङ्गसंरतः ॥५५॥ द्यूतादिव्यसनासक्तो वारस्त्रीरतिकारकः ।
देवपूजाविहीनश्च पितृतर्पणनास्तिकः ॥५६॥ द्विजानां निन्दको वेदनिन्दको न्यायवर्जितः ।
दुष्टात्मा स्वपितुर्द्रव्यनाशको मदिरापिबः ॥५७॥ अभक्ष्यभक्षक पापी सर्वसम्पत्क्षयङ्करः ।
चौर्यादिकर्मनिरतो दुष्टसङ्गो ह्यकर्मकृत् ॥५८॥ पित्रा चतुष्पथे दृष्टो वेश्यास्कन्धस्थहस्तकः ।
पापाचाररतश्चैवं विज्ञातो बन्धुभिस्ततः ॥५९॥ पित्रा निष्कासितो गेहाद् बान्धवैश्च विवासितः ।
दायभागेन यत्किञ्चिल्लब्धं निर्वाहकं धनम् ॥1.249.६० ॥ सर्वं नीतं क्षयं तेन वेश्यासङ्गेन नित्यदा ।
आभूषणानि पात्राणि वस्त्राण्युपस्कराणि च ॥६१ ॥ क्षयं नीतानि तेनैव गणिकासङ्गकारिणा ।
धनहीनः परित्यक्तो गणिकाभिस्ततः स तु ॥६२॥ चिन्तातुरोभवद् वस्त्रधनहीनः क्षुधार्दितः ।
किं करोमि क्व गच्छामि जीवनोपायवर्जितः ॥६३॥ तस्मात् कार्यं तस्करत्वं चौर्यं कार्यं प्रसह्य च ।
लुण्ठनापहरणे च कृत्वा जीवामि नान्यथा ॥६४॥ एवं बलाऽपहरणं करोति वनगे पथि ।
पितुस्तु नगरे रात्रौ तस्करत्वं करोति च ॥६५॥ सुरां पिबति नित्यं स मांसं खादति नित्यदा ।
चौर्यं नित्यं करोत्येव पुंश्चलीसङ्गतिं गतः ॥६६॥ रात्रौ चौर्यं सुवर्णस्य कृतं तेन तु तत्क्षणे ।
राजदूतैर्धृतो रात्रौ किन्तु स्वर्णं धनं तदा ॥६७॥ लुञ्चारूपं राजदूतेभ्योऽर्पयित्वा विबन्धनः ।
मुक्तिं प्राप्य गतोऽरण्ये पुनश्चौर्यं चकार सः ॥६८॥ पुनर्धृतो राजदूतो पुनर्लुञ्चाप्रदानतः ।
बन्धनान्मुक्तिमासाद्य गतोऽरण्यं पुनस्तथा ॥६९॥ पुनश्चौर्यं समारेभे धनापहरणं तथा ।
जनानामर्दनं चक्रे सङ्घानां लुण्टनं तथा ॥1.249.७०॥ पुनश्च नगरे चौर्ये कर्तुं रात्रौ ययौ तदा ।
मनुष्यैः स दुराचारो निबद्धो रश्मिभिर्दृढैः ॥७ १ ॥ निगडैर्दण्डितो राज्ञा कशाघातैश्च ताडितः ।
कारागारं यथादण्डं क्षपयित्वा पुनर्हि सः ॥७२ ॥ निर्बन्धो वनमासाद्य भोजनार्थं प्रधावति ।
सिंहवद्घातयत्युग्रो मृगशूकरवानरान् ॥७३ ॥ आमिषाहारनिरतो वने भ्रमति सर्वथा ।
करे धनुः समागृह्य धृत्वा पृष्ठे निषङ्गकम् ॥७४॥ आरण्यकान् पशून् पतत्रिणो हन्ति पदा चरन् ।
चक्रवाकान्कपोताँश्च पारावताँश्च तित्तिरान् ॥७५॥ कुक्कुटान् सारसान् हन्ति मयूरान्मूषकानपि ।
वराहान् गवयाँश्चैव गरुडान् हन्ति हंसकान् ॥७६॥ एतानन्यान् हिनस्त्युग्रो धृष्टबुद्धिर्हि निर्दयः ।
पूर्वपापैः पापमार्गे प्रवृत्तः पापकर्मसु ॥७७ ॥ दुःखाविष्टः सुखलेशरहितोऽभूदहर्निशम् ।
एवं वृक्षेषु शैलेषु दुर्गे चारण्यभूमिषु ॥७८॥ अनासनोऽटति दैवात् प्राप्तः कुण्डिननामकम् ।
पुरं ह्युद्यानशोभाढ्यं निकटे वनभूमिकम् ॥७९॥ नातिदूरे वने तत्र कौण्डिन्याख्यो महानृषिः ।
स्वाश्रमे वर्तते नित्यं पान्थानां शान्तिसम्प्रदः ॥1.249.८ ० ॥ अतिथीन् सत्करोत्येषो भक्ष्यपानासनादिभिः ।
गतोऽयं त्वाश्रमद्वारे मुनिं श्रुत्वा तपोधनम् ॥८ १ ॥ वैशाखे मासि सरसि कृतस्नानं तपोधनम् ।
आससाद धृष्टबुद्धिः स्वोद्धारोदयसन्मुखः ॥८ २॥ पादयोः पतितः प्रह्वीभावेनैवाऽऽर्द्रमानसः ।
तावदृषेरार्द्रवस्त्रबिन्दवः पतितास्तदा ॥८ ३ ॥ मस्तके धृष्टबुद्धेस्तु स्कन्धयोः करयोस्तथा ।
नारायणाय विद्महे वासुदेवाय धीमहि ॥८४॥ वदतो मुनिराजस्य शब्दोऽपि श्रवणे गतः ।
एवं मन्त्रेण ऋषिणा सलिलेन तु पावितः ॥८५ ॥ चरणस्पर्शमात्रेण नष्टपापो बभूव सः ।
मुमुक्षुताङ्कुरोद्भेदो जातस्तत्र क्षणेऽस्य च ॥८६ ॥ कौण्डिन्यस्याऽग्रतः स्थित्वा समुवाच कृताञ्जलिः ।
भो भो ब्रह्मन्मोक्षदातर्दयां कृत्वा ममोपरि ॥८७॥ येन पुण्यप्रभावेण मुक्तिर्भवति पापिनः ।
तादृशं पुण्यकार्यं मे व्रतं वा वद मोक्षदम् ॥८८ ॥ महात्मनां प्रसङ्गेन महापातकिनोऽपि च ।
तरन्ति पावना भूत्वा पावयन्त्यपरानपि ॥८ ९॥ तस्माच्चौर्यसुरापानाऽऽमिषभक्षणमैथुनम् ।
कृत्वा पापदुराचारान् पतितोऽस्मि च सर्वतः ॥1.249.९० ॥ पावयित्वेदृशं मां च मोक्षभाजं कुरु प्रभो ।
श्रुत्वा प्राह तदा कौण्डिन्यर्षिस्तं शरणागतम् ॥९ १ ॥ वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ।
एकादशी भवत्येषा व्रतं तस्याः समाचार ॥९२॥ मेरुतुल्यानि पापानि क्षयं यास्यन्ति तद्व्रतात् ।
बहुजन्मार्जितान्याशु नश्यन्ति व्रतिनो ध्रुवम् ॥९३ ॥ इति कौण्डिन्यसद्वाचं श्रुत्वा धृष्टसुधीस्तदा ।
व्रतं चकार विधिवत् कौण्डिन्याश्रमसन्निधौ ॥९४॥ धौतपापोऽभवच्छुद्धो वासनाऽस्य लयं गता ।
आयुश्चापि गतं त्वन्तं कर्मलेशो न विद्यते ॥९५॥ द्वादश्यां सः फलपत्राहारः सन् सरसस्तटे ।
सुप्तो मुनिं स्मरन् कृष्णं नारायणं भजन् रटन् ॥९६ ॥ शरीरं भौतिकं त्यक्त्वा दिव्यदेहो बभूव सः ।
जगाम वैष्णवं लोकं गरुडोपरि संस्थितः ॥९७॥ एवं लक्ष्मि! मोहिनीसद्व्रतं मोक्षप्रदं शुभम् ।
नातः परतरं किञ्चित् त्रैलोक्ये सचराचरे ॥९८॥ यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम् ।
व्रतस्याऽस्याऽघहर्तुर्वैं मोक्षदातुर्हरेर्बलात् ॥९९ ॥ मायामोहप्रसक्तानां मोहिनी मोहनाशिनी ।
ब्रह्मपूजातिरिक्तानां मोहिनी मोहनप्रदा ॥1.249.१०० ॥ मोहं नास्ति यतो यस्यां मोहिनी प्रोच्यते ततः ।
मोही पापी यया धाम्नि स्वर्गे वा नीयते तु सा ॥१०१ ॥ मोहिनी कृष्णसम्बन्धात्प्रोच्यते नित्यसौख्यदा ।
कोटियज्ञफलाधिक्यफलदात्री व्रतेन सा ॥१०२ ॥ पालनीया प्रयत्नेन स्वर्गमोक्षफलप्रदा ।
पूर्वजन्मकृताऽनेककर्मपापापनुत्तये ॥१०३ ॥ वैष्णवेन विशेषेण कर्तव्या मोहशान्तये ।
कृष्णनारायणपादाम्बुजमोहाभिलब्धये ॥१ ०४॥ पुत्रपौत्रधनदारास्मृद्धियानगृहादिकम् ।
सकामो लभते सर्वं व्रतेनाऽस्याः कृतेन यत् ॥१०५ ॥ लभेद्धनं धनहीनो ह्यबुद्धो बुद्धिमाप्नुयात् ।
यद्यत्सङ्कल्पयेच्चापि सम्प्राप्नुयात्तु तद्व्रती ॥१०६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैशाखशुक्लमोहिन्येकादशीव्रतमाहात्म्यं धृष्टबुद्धिनाम्नः पापिवैश्यस्य कौण्डिन्योपदेशाद् व्रतकरणेन मुक्तिरित्यादिनिरूपणनामैकोनपञ्चाशदधिकद्विशततमोऽध्याय ॥२४९ ॥