२४६

श्रीलक्ष्मीरुवाच-
अहो चातिप्रहृष्टं मे चित्तं भवति केशव ।
आमलक्या व्रतं श्रुत्वा धात्रीमाहात्म्यमित्यपि ॥१ ॥ चैत्रस्य कृष्णपक्षे तु किन्नाम्न्येकादशी मता ।
को देवस्तत्र पूज्योऽस्ति का च पत्नी हरेस्तथा ॥२ ॥ किं फलं च विधानं च दानं पूजां च मे वद ।
श्रुत्वा लक्ष्मीवचः कृष्णो नारायणोह्युवाच ताम् ॥३ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि चैत्रस्य प्रथमे दले ।
एकादशीं पापमोचनिकानाम्नीं महाफलाम् ॥४ ॥ कामानां पूरणी सिद्धिदायिनी धर्मवर्धिनी ।
निर्जला तु कृता येन प्राप्नुयाद्ब्रह्म स व्रती ॥५ ॥ दशम्यां नक्तभोजी च रात्रौ भूशयनस्तथा ।
ब्रह्मचारी व्रती प्रातश्चानिरुद्धं विचिन्तयेत् ॥६ ॥ सुशिलासहितं देवं पापमोचनिकायुतम् ।
पूजायां कुन्दकलिकापुष्पाणि त्वर्पयेत्तथा ॥७ ॥ नैवेद्ये सेविकां दद्यादर्घ्ये बदरिकाफलम् ।
तथान्यानि फलान्यत्र मिष्टान्नानि बहून्यपि ॥८ ॥ दद्याच्चाऽप्यनिरुद्धाय दाने तु तिलगौर्मता ।
एवं प्रातः समुत्थाय ध्यात्वा हरिं तु मानसे ॥९ ॥ स्नात्वा च मानसं चानिरुद्धस्य पूजनं चरेत् ।
अर्पयेन्मानसान्येवोपकरणानि षोडश ॥1.246.१०॥ ततो वै बाह्यपूजां तु कुर्याद्वै क्रमशो व्रती ।
आवाहयेदनिरुद्धं सुशीलासहितं प्रभुम् ॥१ १॥ स्वर्णमूर्तौ समाहूयाऽऽसनं दद्यान्महत्तमम् ।
पाद्यं चार्घ्यं तथा दद्यादाचमनीयकं जलम् ॥१२॥ पञ्चामृतकृतं स्नानं त्वभिषेकं समर्पयेत् ।
वस्त्रैरङ्गजलानां च प्रमार्जनमथाऽऽचरेत् ॥१ ३॥ ततो वस्त्रेऽर्पयेद् धौते बहुमूल्ये ह्युभे शुभे ।
अन्यान्यपि सुसूक्ष्माणि त्वर्पयेत् तृप्तिहेतवे ॥१४॥ यज्ञोपवीतं दद्याच्च मणिरत्नानि चार्पयेत् ।
केशप्रसाधनद्रव्यदन्तिकातैलदर्पणम् ॥१५ ॥ अर्पयेद्धरये चापि प्रकृष्टाभरणानि च ।
कज्जलं कुङ्कुमाबीरगुलालाक्षतचन्दनम् ॥१६॥ पुष्पाणि त्वर्पयेच्चापि तुलसीदलमित्यपि ।
फलानि चार्पयेत्तस्मै धूपदीपनिवेदनम् ॥१७॥ भोजनं विविधं दद्याद् दुग्धं च शर्करायुतम् ।
जलं फलं मुखवासं ताम्बूलं गन्धचूर्णकम् ॥१८॥ दद्यात्त्वत्तरतैलादि सुगन्ध्यर्थं तु शार्ङ्गिणे ।
आरार्त्रिकं ततः कुर्यान्नमः स्तोत्रं क्षमापनम् ॥१९॥ प्रदक्षिणं दण्डवच्च पुष्पाञ्जलिं च दक्षिणाम् ।
दद्याच्च व्रतकरणायार्थयेत्परमेश्वरम् ॥1.246.२०॥ अद्यैकादशिका नाम्ना पापमोचनकारिणी ।
मया व्रताय मनसा वृतास्ति परमेश्वर ॥२१॥ अस्याः कृत व्रतं मया निर्विघ्नं स्याज्जनार्दन ।
प्रसन्नो भव देवेश सुशीलाधिप केशव ॥२२॥ इति वै पूजनं चाथ समाप्य सप्तधान्यकम् ।
मण्डलं सर्वतोभद्रं कारयेत्स्थापयेत्ततः ॥२३॥ घटं कनकजं किम्वा ताम्रजं पञ्चपल्लवैः ।
रत्नैः पञ्चविधैश्चापि जलवस्त्रादिभिर्युतम् ॥२४॥ तस्योपरि शुभं पात्रं तिलैः सम्भृतमर्पयेत् ।
तत्र मूर्तिं सुशीलायाश्चानिरुद्धस्य वै प्रभोः ॥२५॥ स्थापयित्वाऽर्चयेत् षोडशोपचारैर्व्रती ततः ।
नीराजयेत्तु विधिना नमस्कारादि चाचरेत् ॥२६॥ पर्यङ्कं गेन्दुकं गुप्तदोरकं शयनाय च ।
शिरस्कं पार्श्वके चापि छत्रं चोपानहौ शुभौ ॥२७॥ स्थालीं सकलशां चापि वटिकां व्यजनं तथा ।
दर्पणं चामरे यष्टिं पादुके नक्तकं शुभम् ॥२८॥ शाटीं च प्रच्छदपटीं कञ्चुकीं कुचलीं तथा ।
कर्पटिकां सचन्द्रां च घर्घरी चेति वै ददेत् ॥२९॥ घटं यज्ञोपवीतं च शीतसलिलपूरितम् ।
चन्दनं च सुगन्धं चानिरुद्धायार्पयेद्व्रती ॥1.246.३ ० ॥ फलानि चाम्लमिष्टानि लड्डुकान् शर्करान्वितान् ।
चार्पयेदनिरुद्धाय सर्वतोभद्रमण्डले ॥३ १ ॥ घृतदीपमखण्डं तु कारयेन्निकटे व्रती ।
एवं पूजां तदा कृत्वा स्वकार्यं स समाचरेत् ॥३२॥ मध्याह्ने तु व्रती स्नात्वा पूजयित्वा विधानतः ।
नैवेद्यं विविधं मिष्टं जलं च हरयेऽर्पयेत् ॥३३॥ फलं ताम्बुलमेलां च लवङ्गं मुखवासनम् ।
फलं पूगीफलं चापि व्रती श्रीहरयेऽर्पयेत् ॥३४॥ सायं च कदलीस्तम्भैर्मण्डपं कारयेच्छुभम् ।
सवितानं सकलशं हरित्प्रत्रादितोरणम् ॥३५॥ मध्ये तु वेदिकां कुर्यात् दोलां च बन्धयेत्तथा ।
स्थापयित्वाऽत्र मुरलीधरं त्वान्दोलयेद् व्रती ॥३६॥ नीराजनं तथा धूपं दीपं नैवेद्यमर्चनम् ।
जलपानं मुखवासं कारयेत् कीर्तयेद्गुणान् ॥३७॥ रात्रौ जागरणं नृत्यगीतवादित्रसंयुतम् ।
कुर्यात्प्रातः पूजनं च तथा दानानि दापयेत् ॥३८॥ यथाशक्ति यथावस्तु व्रताङ्गानि प्रपूरयेत् ।
सर्वं वै गुरवे दद्यादेवं समापयेद् व्रतम् ॥३९॥ साधून्साध्वीस्तथा विप्रान्दीनान्धकृपणादिकान् ।
बालांश्च भोजयेद्भक्त्या विविधान्नानि वै व्रती ॥1.246.४० ॥ ततः स्वीयान् भोजयित्वा बालिकास्त्वथ पारणाम् ।
स्वयं कुर्याद् व्रती भक्तो भुक्तिं मुक्तिं स वै व्रजेत् ॥४१ ॥ शृण्वाश्चर्यकथां लक्ष्मि! प्राग्वृत्तां पापनाशिनीम् ।
पुरा चैत्ररथोद्याने वनमध्ये हिमालये ॥४२॥ हरिति शाद्वले दिव्ये फलपुष्पभरद्रुमे ।
वनदेवीश्रिते देशे ह्यप्सरोगणसेविते ॥४३॥ वसन्तसमयेऽरण्ये षटपदैरभिनादिते ।
कोकिलाकूजिते रम्ये मनोभवसुपुष्टिदे ॥४४॥ गन्धर्वकन्यका वाद्यैः रमन्ते सह किङ्करैः ।
महेन्द्राद्याश्च सुरपाः क्रीडन्ति त्रिदिवौकसः ॥४५॥ ऋषयो मुनयः सर्वे तपन्ति बहुलं तपः ।
साधवो योगिनः साध्व्यः सत्यो योगिन्य इत्यपि ॥४६॥ तपन्ति ब्रह्मलाभार्थं यत्र शीलव्रतस्थिताः ।
नापरं सुखदं तस्माच्चैत्ररथाद् वनस्थलम् ॥४७॥ त्रिलोकवासिनस्तत्र परिश्रमविनुत्तये ।
सायं नित्यं समायान्ति यान्ति च स्वस्वकालयान् ॥४८॥ मञ्जुघोषाऽप्सरा तत्र रमते वनवासिनी ।
मुनीनां सेवनं चापि प्रेम्णा करोत्यहर्निशम् ॥४९॥ दासीव किङ्करीवेयं मोक्षेच्छया तु सेवते ।
नतु निकृष्टमनसा किन्तु शुद्धेन चेतसा ॥1.246.५०॥ सेवते स्म मुनिं बालं युवानं वृद्धमित्यपि ।
मुनिपत्नीर्बालिका वा किङ्करीव प्रसेवते ॥५१ ॥ एवं नित्यं मुनीनामाश्रमेषु बहुभावतः ।
वासं करोति सा मञ्जुघोषाऽथैकदिने शुभे ॥५२॥ मेधाविनं नाम ऋषिं क्रोशमात्रवने स्थितम् ।
तपन्तं ब्रह्मचर्यस्थं यौवनं पुष्टिशालिनम् ॥५३॥ सुरूपं सुघटं स्वर्णतन्तुसमजटान्वितम् ।
प्रोद्भिन्नश्मश्रुसद्रेखं रक्तौष्ठं वर्तुलाननम् ॥५४॥ पद्मपत्रनिभनेत्र स्थलपद्मशरीरकम् ।
प्रसन्नतानिधिं कान्तिपरिधिव्याप्तकन्धरम् ॥५५॥ सूक्ष्मचन्द्रनिभनखं स्वस्या अपि सुरूपिणम् ।
श्रुत्वा राजसभावेन सेवनार्थं गताऽन्तिकम् ॥५६॥ प्रथमं तु भयात्तस्य स्थिता त्वाश्रमसन्निधौ ।
किञ्चिद्दूरमुषित्वैनं प्रसादयितुं चक्रमे ॥५७॥ जगौ सा मधुरं साधु मार्जयामास चाश्रमम् ।
विपञ्चिकां तदा रम्यां वादयामास चादरात् ॥५८॥ सेवनार्थं तु सा कुट्यां जगाम च त्वरान्विता ।
शनैः शनैः ऋषिं वीक्ष्य पस्पर्श तापसी यथा ॥५९॥ पुष्पसुगन्धकस्तूरीकेसरचन्दनार्चिता ।
सेवाबुद्ध्या हावभावान् विलासान् समदर्शयत् ॥1.246.६ ० ॥ मेधाविनस्तु निकटे शनैर्ननर्त शोभनम् ।
नमश्चकार हस्ताभ्यां नेत्राभ्यां स्वीकृतिं ददौ ॥६१ ॥ न्यवेदयत्सुभक्तां स्वां करे जग्राह तमृषिम् ।
मानसे निश्चिकायापि सेवालाभो भविष्यति ॥६२॥ युवानं सुरूपतेजस्विनं प्राप्याऽतिहर्षिता ।
चकिता मानसे भावे त्वाकृष्टा यूनि सा मुनौ ॥६३ ॥ राजसी रजसा व्याप्ताऽभवदालिङ्गने मुनेः ।
कृताभ्यासे पथि प्रायस्तादृशीनां व्रजेन्मनः ॥६४॥ तस्याः शरीरे संवासमकरोद्वै मनोभवः ।
एवमेव जयाकाङ्क्षी मेधाविन्यकरोत् स्थलम् ॥६५॥ उभयोः कामनाव्याप्तौ देहौ जातौ सुविकृतौ ।
मनसी चाऽनङ्गवेगाविष्टे जाते पुनः पुनः ॥६ ६ ॥ तदा मेधाविना तत्र मेधया तु विचारितम् ।
नार्याः प्रसङ्गजः कामः कोऽयं मां बाधतेऽधुना ॥६७॥ क्षमां धैर्यं समालम्ब्य गच्छाम्यन्यद्वनं यतः ।
रक्षणं मे तपसः स्यात् कामवेगोऽपि यास्यति ॥६८॥ विचार्यैवं स मेधावी शीघ्रं स्थानात् स्थलान्तरम् ।
यावद्गच्छति विप्रेन्द्रस्तावत्कामोऽपि वेगवान् ॥६९ ॥ शिवभक्तं विजेतुं वै वने बहिः सुमूर्तिमान् ।
अभवच्च प्रयन्तं सञ्चकार सर्वतोमुखम् ॥1.246.७० ॥ कृत्वा भ्रुवं धनुष्कोटि गुणं कृत्वा कटाक्षकम् ।
मार्गणे नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥७ १ ॥ कुचौ कृत्वा परकुटौ मोहनायोपचक्रमे ।
मञ्जुघोषाऽभवत्तस्य कामस्यात्र वरूथिनी ॥७२॥ कामेन पञ्चबाणास्तु ऋषेरुपरि चाहिताः ।
चमत्कृतं तु प्रथमं द्वितीयं जाग्रतात्मकम् ॥७३ ॥ तृतीयं रसवाहाख्यं चतुर्थं मोहनात्मकम् ।
पञ्चमं मिथुनीभावगमकं स मुमोच ह ॥७४॥ मेधावी तद्वशं नीतो युयुजे मञ्जुघोषया ।
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता ॥७५॥ यौवनोद्भिन्नदेहेन युयुजे ऋषिणा तदा ।
गाढमालिङ्ग्य तौ तत्र राजेते स्मरयोजितौ ॥७६॥ सितोपवीतसंयुक्तो दृष्टः स्मर इवापरः ।
मञ्जुघोषायुतो विप्रो राजते द्यौर्युतः शशी ॥७७॥ सुरतस्य वशं याता मन्दं मन्दं जहास सा ।
रणद्वलयहस्ताभ्यामाश्लिक्षत् तं मुनिं हृदि ॥७८॥ प्रेमकण्ठस्वरं सूक्ष्मं लीनं कृत्वा तु मूकवत् ।
नेत्रे प्रमील्य चौष्ठाभ्यामास्वादयद्ऋषेर्मुखम् ॥७९॥ स्पर्शमग्नाऽऽनन्दमग्ना शान्तनूपुरमेखला ।
स्पर्शैभावैस्तथा नेत्रैर्वर्ष्मणा सस्वजे मुनिम् ॥1.246.८ ० ॥ वीणा तु पतिता भूमौ पतिता स्वं च सस्वजे ।
बलादिव लता वृक्षं वातवेगेन कम्पितम् ॥८१ ॥ सोपि रेमे तया सार्धं कामभेदैरनेकशः ।
शिवतत्त्वं तु विस्मृत्य कामतत्त्ववशङ्गतः ॥८ २ ॥ तपसा साधिते सौधे सोद्याने सविमानके ।
वाहने चोपकरणे भक्ष्यभोज्यसुलेह्यके ॥८३ ॥ धारणेऽलङ्करणे चोत्सवे समानके ऋतौ ।
विविधे गृहयोग्ये च भोग्ये तत्साधने सति ॥८४॥ निरतिशयतां प्राप्ते तृप्तिं लेभे तया सह ।
पुनस्तृष्णां पुनस्तृप्तिं पुनस्तृष्णां जगाम सः ॥८५॥ तृष्णाया नैव चान्तोस्ति भुक्त्वा भुक्त्वा विवर्धते ।
एवं तारुण्यभरया तृष्णया तरुणोऽपि सः ॥८६॥ न निशां न दिनं सोपि रमञ्जानाति कामुकः ।
दीर्घः कालो गतो रममाणस्याचारलोपतः ॥८७॥ नवशतानि वर्षाणां गतान्यस्य तया सह ।
सा रेमे मुनिना तस्य निशार्धमिव चाऽभवत् ॥८८॥ मञ्जुघोषा देवलोके गमनायोपचक्रमे ।
सन्नद्धा तं प्रत्युवाच सतृष्णं मुनिसत्तमम् ॥८९॥ आज्ञा मे दीयतां विप्र स्वर्लोकगमनाय वै ।
मेधावी तु समाकर्ण्य तामुवाच विमोहितः ॥1.246.९ ०॥ यावत्प्रभातसन्ध्या स्यात् तावत्तिष्ठ ममान्तिके ।
श्रुत्वा विचारयामास मञ्जुघोषा हृदन्तरे ॥०५१ ॥ अहो कामेन वैक्लव्यं जानात्ययं न वत्सरान् ।
निशार्धमात्रं जानाति काममूर्छापराजितः ॥९२॥ प्रत्याख्याने शापभीतिसमुद्विग्ना बभूव सा ।
पुनर्वै रमयामास तमृषिं बहुवत्सरान् ॥९३ ॥ वर्षाणां पञ्चपञ्चाशन्नव मासान् दिनत्रयम् ।
सा तं पुनरुवाचाथ तथा काले गते मुनिम् ॥९४॥ आदेशो दीयतां ब्रह्मन् गन्तव्यं स्वगृहं मया ।
मेधाव्युवाच कामान्धः कालभानविवर्जिन्तः ॥९५॥ निशान्तसमयस्त्वास्ते श्रूयतां वचनं मम ।
क्षणं मां रमयित्वा त्वं गन्तुमर्हसि शोभने ॥९६॥ त्वां विना मे क्षणश्चापि युगतुल्यो भविष्यति ।
त्वया सार्धं निशामात्रं व्यतीतं तिष्ठ मे चिरम् ॥९७॥ पुनः शापप्रभीता सा रमयामास तमृषिम् ।
वर्षाणां पञ्चचत्वारिंशदित्यधिकभावतः ॥९८॥ पुनः प्राह मुनिं नम्रा ब्रह्मँस्तृप्तोऽसि वा नहि ।
आदेशो दीयतां विप्र गन्तव्यं स्वगृहं मया ॥९९॥ मेधाव्युवाच तां स्निग्धां रक्षितुं स्वान्तिके तदा ।
प्रातःकालोऽधुना त्वास्ते श्रूयतां वचनं मम ॥1.246.१०० ॥ सर्वदा तिष्ठ मे सौधे मां च रमय कामतः ।
एका निशा स्थिता चात्र का मे तृप्तिर्भवेद् वद ॥१० १॥ सन्ध्यां यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ।
इति श्रुत्वा मुनेर्वाक्यं स्मितं कृत्वा ह्युवाच तम् ॥१ ०२॥ कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गताऽधुना ।
कतिवत्सरकालस्ते गतश्चेति विचार्यताम् ॥१ ०३॥ एकां सन्ध्यां निशां वेत्सि का ते सुप्तिर्युगात्मिका ।
इति तस्या वचः श्रुत्वा प्रोद्भिन्नान्तरलोचनः ॥१०४॥ तां पृष्ट्वा गतकालस्य मेधावी मानमाचरत् ।
नवनवत्यधिकानि नवशतानि सङ्ख्यया ॥१ ०५॥ जातान्येव गतान्येव वर्षाणि प्रियया सह ।
सुविदित्वैकोनदशशतान्येकनिशामुखे ॥१०६ ॥ तथापि तृष्णया व्याप्त इति स्वं धिक् चकार सः ।
चुक्रोध तस्यै कामाय स्वस्मै च यौवनाय च ॥१ ०७॥ मोक्षहानिं तपोहानिं चात्महानिं विलोक्य च ।
नेत्राभ्यां विस्पुल्लिङ्गान्स मुमोचातीव कोपतः ॥१ ०८॥ तपःक्षयकरीं नारीं मृत्युरूपां च राक्षसीम् ।
आत्ममुक्तिरोधकर्त्री कष्टाप्तपुण्यभक्षिणीम् ॥१० ९॥ हानिदां तां सक्म्पौष्ठो मुनिरुवाच वेगतः ।
धिक् त्वां प्रिये दुराचारे कुलटे कामनाप्रिये ॥1.246.११० ॥ सेवामिषेण मुनिषु स्वैरिणि पुण्यनाशिनि ।
तपोलोपकरि याम्यमार्गसंसर्गदायिनि ॥१११ ॥ पिशाची भव दुष्टे त्वं कामच्छिद्रप्रदायिनि! ।
मेधावी तां शशापैवं सापि नम्रा ह्युवाच तम् ॥११ २॥ नैकस्या मे हि दोषोऽस्ति युवा त्वं सुविचारय ।
द्वयोः कार्ये जये प्राप्ते सबल परिपूज्यते ॥११३ ॥ पराजये तु सम्प्राप्ते निर्बलस्तत्र हन्यते ।
मैवं भवतु मेधाविन्! हानिस्ते नैव केवला ॥११४ ॥ ममापि स्वपरित्यागस्त्वया त्यक्ता सधिक्कृता ।
आत्महानिर्लोकहानिर्यशोहानिस्तु मे तथा ॥१ १५॥ शापं दातुं समर्थाऽस्मि यथा वदसि तत्तथा ।
तथापि प्रणयिकान्ते नैवं कार्यं स्त्रिया क्वचित् ॥११६ ॥ क्षमा दत्ता हि नारीभ्यो ब्रह्मणा परमेष्ठिना ।
अदोषा अपि पत्युस्ताः सहन्ते क्रौर्यमव्यथाः ॥१ १७॥ प्रसादं कुरु तस्मात् त्वं शापस्यानुग्रहं कुरु ।
सतां सङ्गः सुखकरः साप्तपदीन एव सः ॥११८ ॥ त्वया सह मया विप्र योषिता पत्नीरूपया ।
नीताश्च सेवया शश्वत् कति सहस्रवत्सराः ॥११९ ॥ एतस्मात् कारणात्स्वामिन् त्यज क्रौर्यं प्रसीद च ।
इति तथ्यं प्रियावाक्यं दोषं स्वीयं च चिन्तयन् ॥1.246.१२० ॥ प्रह्वीभावं तथा पत्न्या विलोक्योवाच तां मुनिः ।
शृणु मे वचनं भद्रे शापानुग्रहकारकम् ॥१२१ ॥ किं करोमि त्वया साकं क्षयं नीतं महातपः ।
गतं तत्तु गतं त्वेव नष्टं नायाति वै पुनः ॥१२२ ॥ पुनः सम्पादयिष्यामि तवापि शुभमस्तु वै ।
चैत्रस्य कृष्णपक्षे तु भवत्येकादशी शुभा ॥१ २ ३ ॥ पापमोचनिका नाम सर्वशापक्षयङ्करी ।
तस्या व्रते कृते सुभ्रु पिशाचीत्वं वियास्यति ॥१ २४॥ श्रुत्वैतन्मञ्जुघोषा सा ययौ वनान्तरं तदा ।
पिशाची तु बभूवेयं यावच्चैत्रो न सङ्गतः ॥१२५ ॥ प्राप्ते चैत्रे मञ्ज्रुघोषा व्रतं जातिस्मरा तदा ।
चकार विधिना चैत्रकृष्णैकादशिकादिने ॥१२६ ॥ पुपूज परया भक्त्या श्रीहरिं मानसे हि सा ।
रात्रौ जागरणं कृत्वा प्रातः कृत्यं विधाय च ॥१२७ ॥ पिशाचीत्वाद्विनिर्मुक्ता पापमोचनिकाबलात् ।
दिव्यरूपधरा सा वै गता स्वर्गे स्वके गृहे ॥१२८ ॥ मेधाव्यपि तया त्यक्तो जगाम पितुराश्रमम् ।
च्यवनस्य ऋषेर्दिव्यं तपस्तेजोऽतिशोभितम् ॥१२९ ॥ निस्तेजस्कं चिरं यान्तं विलोक्य च्यवनः पिता ।
प्राहैतत् किं कृतं पुत्र त्वया पुण्यक्षयः कृतः ॥1.246.१३० ॥ कथं न दृश्यते तेजस्तपोबाहुल्यसम्भवम् ।
मेधावी प्राह ताताऽस्मिन्वने तु तपसा मया ॥१३१ ॥ प्राप्ताऽप्सरा तया सार्धं पातकं वै कृतं बहु ।
रमिता बहुकालं सा तपो नष्टं ममाऽद्भुतम् ॥१३२ ॥ प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ।
पिता प्राह तदा पुत्रं व्रतं वच्मि निबोध मे ॥१३३॥ चैत्रस्य त्वसिते पक्षे नाम्ना तु पापमोचनी ।
एकादशी मता ह्यस्या व्रते तु विधितः कृते ॥१३४॥ पापराशिः क्षयं यायान्मुक्तिं चान्ते व्रजेद् व्रती ।
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् ॥१३५॥ गतं पापं क्षयं तस्य तपोवृद्धिर्बभूव च ।
तेजो व्याप्तोऽभवच्छीघ्रं पापमोचनिकाव्रतात् ॥१ ३६॥ यथापूर्वं तपोयुक्तो ह्यभूद्् बभूव वै तथा ।
पापमोचनिकां लक्ष्मि! ये कुर्वन्ति जना भुवि ॥१३७॥ तेषां पापं तु यत्किञ्चित् सर्वं विलयतां व्रजेत् ।
वाजपेयसहस्रस्य फलं तस्यापि जायते ॥१ ३८॥ भुक्तिर्मुक्तिर्महामुक्तिः सर्वं चैकव्रतेन हि ।
प्राप्येतैतादृशी शक्ता फलदाने त्वियं तिथिः ॥१ ३९॥ ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
व्रतस्य चास्य करणान्मुक्तो भवति तद्व्रती ॥1.246.१४० ॥ पठनाच्छ्रवणाच्चापि स्मरणात्कीर्तनादपि ।
बहुपुण्यप्रदं चैतद् गोसहस्रफलप्रदम् ॥१४१ ॥ कर्तव्यं सर्वथा लक्ष्मि शापपापनिवृत्तये ।
नातः परतरं भुक्तिमुक्तिदं सचराचरे ॥१४२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चैत्रकृष्णपापमोचन्येकादशीव्रतमाहात्म्यं मेधाविना तपस्विना सहस्रवत्सरं भुक्ताया मज्जुघोषाख्याऽप्सरायाः ऋषिशापात्पिशाचीत्वमनुग्रहाद् व्रतकरणान् मुक्तिश्चेति निरूपणनामा षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४६॥