श्रीलक्ष्मीरुवाच-
स्वयं कृष्णः परम्ब्रह्म लोकरक्षणहेतवे ।
अवतारं परिगृह्य करोत्यपि व्रतं स्वकम् ॥१ ॥
लोकसङ्ग्रहकार्याय समाचरति वै स्वयम् ।
शिक्षयति जनान् सत्त्वमयान् चाऽऽचर्य्यमित्यपि ॥२ ॥
वद कृष्ण मयाऽप्यत्र भवतेव व्रतं शुभम् ।
कार्यं यस्य प्रतापेन मुक्तिः स्याद्धस्तगामिनी ॥३ ॥
जना अपि व्रतं कृत्वा परं फलमवाप्नुयुः ।
फाल्गुनस्याऽर्जुने पक्षे यन्नाम्न्येकादशी मता ॥४ ॥
वद तां धर्मपुत्र त्वं नारायण पते मम ।
इत्यापृष्टो हरिर्विष्णुर्व्रतं प्रोवाच तां प्रियाम् ॥५ ॥
श्रीनारायण उवाच-
शृणु कल्याणदे देवि! सर्वसम्पत्करि प्रिये ।
यद्व्रतेन जनानां सुस्मृद्धयो यान्ति पोषणम् ॥६ ॥
वर्धन्ते च सदा लक्ष्म्यः सम्पदश्च भवन्ति वै ।
बहुमुक्तिर्महामुक्तिस्तस्य सङ्कल्पवर्तिनी ॥७ ॥
फाल्गुनस्याऽर्जुने पक्षे भवेत्येकादशी शुभा ।
आमलकीतिनाम्ना सा विष्णुलोकफलप्रदा ॥८ ॥
वैकुण्ठे श्रीहरिर्लक्ष्मी पप्रच्छ किमपेक्ष्यते ।
किमिष्यते त्वया लक्ष्मि! यत् तद् ब्रूहि ददामि ते ॥९ ॥
नाऽनवाप्तमवाप्तव्यं त्वत्कृते ब्रह्मरूपिणी ।
यन्मदीयं तु तत्सर्वं त्वदीयं च त्वदात्मकम् ॥1.245.१०॥
तस्माद्वरय भद्रं ते करोमि तव कामनाम् ।
मा सङ्कोचं वह लक्ष्मि! यत्तवास्ति ममास्ति तत् ॥१ १॥
लक्ष्मीरेवं हरेः श्रुत्वा प्रोवाच भगवन्मम ।
ललाटभूषा प्रेष्ठाऽस्ति तन्तिका देहि तां प्रभो ॥१२॥
हरिस्तदानीं सङ्कल्प्याऽऽभूषणार्थं नवं शुभम् ।
सुवर्णवर्णं सरसं ललाटे शीतलङ्करम् ॥१३॥
स्वच्छं दिव्यं मणिप्रख्यं शशितुल्यं गुणान्वितम् ।
प्रकटीकृतवान् भाले बिन्द्वात्मकं विभूषणम् ॥१४॥
बिन्दुः स फलरूपोऽभून्मणिश्रेष्ठः प्रभान्वितः ।
अक्षतो वर्तुलः सौम्यः सुवर्णमणिसदृशः ॥१५॥
तस्माच्चान्येऽपि मणयो दिव्या जातास्त्वनेकशः ।
हारस्तन्तिमयस्तेषां कृतोऽलङ्कारशोभनः ॥१६॥
सूर्यकान्तनिभो दृश्ये चन्द्रकान्तसमो गुणे ।
कौस्तुभेन समो हृद्ये तन्तिकाभूषणात्मकः ॥१७॥
चूडामणिसमो धार्ये स्पृश्ये कोमलपेशलः ।
पुण्ये विष्णुशिलातुल्यो धार्ये चन्दनशीतलः ॥१८॥
सुगन्धे दिव्यगन्धाढ्यः पुष्टौ स्तन्यसमस्तथा ।
शाश्वतश्च महादिव्यो हरेर्भालस्य बिन्दुजः ॥१९॥
तन्तिकात्मकभूषाख्यो हारो निर्मलनूतनः ।
संस्कृतो हरिणा चैकचत्वारिंशत्फलात्मकः ॥1.245.२० ॥
मध्ये सप्तफलान्यत्र पार्श्वयोश्च द्विसूत्रयोः ।
अष्टाविंशतिमण्याढ्यः प्रान्तयोः षड्फलात्मकः ॥२ १॥
अर्पितश्च महालक्ष्म्यै हरिणा परमात्मना ।
सम्प्राप्य सूर्यसदृशं तेजस्विनं प्रशीतलम् ॥२२॥
सरसं शाश्वतं हारं जहर्ष प्रजहर्ष सा ।
जिघ्राति स्पृशति चैनं विलोकयति सादरम् ॥२३॥
मुहुर्भाले धारयति पश्यति स्म पुनः पुनः ।
नूतनं कनकप्रख्यं सुगन्धरससम्भृतम् ॥२४॥
ललाटे शान्तिदं स्निग्धस्पर्शं रेखाभिरन्वितम् ।
स्वकृते एव हरिणा कृतं वीक्ष्य मुमोद सा ॥२५॥
स्तौति प्रशंसति हस्ते गृह्णाति स्म मुहुर्मुहुः ।
सखीभ्यः स्म दर्शयति प्रसन्ना सम्बभूव सा ॥२६॥
नारायणोऽपि भगवान् आसमन्तात् फलस्य वै ।
नैर्मल्यं तु विलोक्यैव नामाऽकरोद् यथागुणम् ॥२७॥
आमलकं फलं चेति तन्तिकाऽऽमलकैः कृता ।
भाले बबन्ध लक्ष्मीस्तां शुशुभे सर्वतोऽधिका ॥२८॥
द्यौर्यथाऽनेकशशिकृत्पङ्क्तिभिः शोभते तथा ।
शुशुभे तु महालक्ष्मी समासाद्य सुतन्तिकाम् ॥२९॥
एवं जाते महानन्दे सृष्टावत्रापि वेधसः ।
कल्पादौ प्राकृते जाते सर्गे स्थावरजङ्गमे ॥1.245.३०॥
लक्ष्म्या युतो हरिः साक्षात्परमात्मा परात्परः ।
समाजगाम भूमौ च लक्ष्मीकान्तः समादरात् ॥३ १॥
लक्ष्म्या ललाटदेशाच्च तन्तिकायाः शुभं फलम् ।
श्रीहरिः पातयामास पृथ्व्यां तत्सत्त्वसिद्धये ॥३२॥
तस्यात्फलात्समुत्पन्नः फलभारेण नामितः ।
शाखाप्रशाखाबहुलः स्वयं धात्रीतरुर्महान् ॥३३॥
सर्वेषां चैव वृक्षाणामतिश्रेष्ठः स कीर्तितः ।
स्वर्णनिभफलोपेतो वृक्षो लक्ष्मीप्रियः शुभः ॥३४॥
यथा नारायणभालं प्रियं वृक्षः प्रियस्तथा ।
नारायणस्वरूपोऽयं नारायणेन निर्मितः ॥३५॥
नारायण्याः कृते सोऽयं मुक्तिदो भुक्तिदस्तथा ।
बदरिकाश्रमे सोऽयं प्रथमः प्रकटीकृतः ॥३६॥
तस्माच्च रैवताद्रौ सः समायातस्तरुर्महान् ।
त एते मुक्तिदाः सर्वे वृक्षा आमलकाह्वयाः ॥३७॥
यस्मिन्दिने हरिणाऽयं वृक्षस्तु प्रकटीकृतः ।
सोऽयं तु दिवसोऽप्यासीदेकादशीसमाह्वयः ॥३८॥
तत्र त्वामलकीवृक्षोत्पत्तेरेकादशी तिथिः ।
आमलकीतिनाम्ना वै कृता देवर्षिसत्तमैः ॥३९॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
किन्नरा मानवा नागाः ऋषयो मुनयोऽपरे ॥1.245.४०॥
विद्याध्राः किम्पुरुषाश्च योगिनो भूसुरास्तथा ।
यतयो न्यासिनः साध्व्यो योगिन्यो ब्रह्मचर्यगाः ॥४१ ॥
सुदिव्यदृष्टयोऽप्यन्ये येऽभवन् वेधसा कृताः ।
ते सर्वेऽपि ययुस्त्वत्याश्चर्यं श्रुत्वाऽऽमलद्रुमम् ॥४२॥
साश्चर्या आमलकीद्रुं चिन्तयन्तो ययुश्च ते ।
प्रशंसन्तोऽतिभूषार्हफलान्यामलकानि च ॥४३॥
आजग्मुस्तत्र देवाद्या यत्र धात्री हरिप्रिया ।
तां दृष्ट्वा ते च तत्पत्न्यः परं विस्मयमागताः ॥४४॥
विष्णुः प्राह स्वयं तेभ्यः प्रवरो वैष्णवो ह्ययम् ।
आमलकीद्रुमश्चास्य स्मृतेर्गोदानजं फलम् ॥४५॥
स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा ।
आमलकानि वै भाले कर्णयोर्गलहस्तयोः ॥४६॥
येन धृतानि तेषां वै वैकुण्ठे वसतिर्ध्रुवा ।
आमलकं मदुत्पन्नं सर्वपापहरं प्रियम् ॥८७॥
वैष्णवं विष्णुगमकं भक्षणात्पापशोधकम् ।
तस्मात् सर्वप्रयत्नेन सेव्या त्वामलकी जनैः ॥४८॥
एवं वदति श्रीकृष्णे देव्यः प्राहुर्हरिं तदा ।
आभूषणार्थं देवेश देहि फलानि नो विभो ॥४९॥
तदा श्रीहरिणा तत्र फलान्यसङ्ख्यकानि वै ।
सङ्कल्प्य प्रकटीकृत्याऽर्पितानि ताभ्य इत्यपि ॥1.245.५०॥
ताभिः कृतानि तत्रैवाऽऽभरणानि बहून्यथ ।
धृतानि भालकण्ठादौ करकर्णादिकेष्वपि ॥५ १॥
प्रजहृषुश्चातितमा यथेष्टं जगृहुस्तथा ।
अथ देवादयोऽप्येनं नारायणं जगद्गुरुम् ॥५२॥
प्राहुर्नारायण विष्णो शृणु नोऽभ्यर्थनं प्रभो ।
वृक्षोऽयं रोचतेऽस्मभ्यं दीयतां नोऽधिवासनम् ॥५३॥
यद्वासेन सदाऽस्माकं परं निःश्रेयसं भवेत् ।
हरिः प्राह तदा देवान् योग्यं युष्माभिरर्थितम् ॥५४॥
यद्यत्स्थलं निवासाय रोचते तु विशन्तु तत् ।
इत्याश्रुत्य हरेर्वाक्यं देवा रुच्यनुसारतः ॥५५॥
प्रविष्टा आमलकीद्रौ वसन्ति स्म च नित्यदा ।
तस्य मूले स्थितो विष्णुस्तदूर्ध्वं तु पितामहः ॥५६॥
स्कन्धे च भगवान् रुद्रः शाखासु मुनयः स्थिताः ।
देवास्त्वन्ये प्रशाखासु पर्णेषु वसवः स्थिताः ॥५७॥
पुष्पेषु मरुतः सर्वे फलेषु च प्रजेश्वराः ।
पत्रशलाकास्वर्षयस्त्वचि ब्रह्म स्वयं स्थितम् ॥५८॥
रसेऽवसद्ब्रह्मरसस्तृप्ती रूपे व्यवस्थिता ।
सुगन्धे ब्रह्मसायुज्यं स्पर्शे मुक्तिर्व्यवस्थिता ॥५९॥
मुक्ताः फलानां तन्त्वादौ बीजे श्रीपतिरास्थितः ।
सर्वदेवमयी ह्येषा धात्री बोध्या जगत्प्रसूः ॥1.245.६ ०॥
लक्ष्मीप्रदा रमा सेव्या सम्पत्प्रदाऽतिवल्लभा ।
तस्मात्पूज्यतमा ह्येषा सर्वैर्भक्तिपरायणैः ॥६ १ ॥
फाल्गुने चामलक्यास्तु व्रतवन्तो हि मानवाः ।
गच्छेयुरामलक्यास्तु छायायां भजनाय मे ॥६२॥
व्रतं जागरणं तत्र कुर्याद् भक्तिपुरःसरम् ।
द्वादश्यामपि तत्रैव गत्वा कुर्याच्च पारणाम् ॥६३॥
तत्फलं शाश्वतं प्रोक्तं मत्सम्बन्धात्सुरेश्वराः ।
कार्तिके फाल्गुने चापि ह्यामलकीतरोरधः ॥६४॥
भोजनादि प्रकुर्वीत फलं तस्य तु शाश्वतम् ।
धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषणः ॥६५॥
धात्रीफलकृताहारो मानवो मोक्षमाप्नुयात् ।
धात्रीछायां समाश्रित्य योऽर्चयेच्चक्रधारिणम् ॥६६ ॥
पुष्पे पुष्पे भवेत्तस्य राजसूयफलं प्रिये ।
हरिं कृष्णं समभ्यर्च्य धात्रीवृक्षतलस्थले ॥६७॥
ब्राह्मणान् भोजयेत् साधून् वैकुण्ठं स व्रजेद् ध्रुवम् ।
धात्रीवृक्षतले दानं कुर्वन् स्वर्गमवाप्नुयात् ॥६८॥
धात्रीफलरसास्वादं गृह्णन् निर्गुणतां व्रजेत् ।
धात्रीफलं प्रभुञ्जन् वै दिव्यमुक्तिं व्रजेद्व्रती ॥६९॥
धात्रीधात्रीति तन्नाम गृणन् याति मृतिं यदि ।
धात्रीव लक्ष्मीरायाति नारायणेन संयुता ॥1.245.७०॥
नयत्येनं हरेर्धाम दिव्यं वैकुण्ठमक्षरम् ।
धात्रीसमुद्भवो यत्र दिने जातस्तदीयकम् ॥७१॥
व्रतं चैकादशीरूपं कर्तव्यं मुक्तिमिच्छता ।
धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् ॥७२॥
अल्पायासं बहुफलं व्रतानां व्रतमुत्तमम् ।
कृतेन येन मनुजो विष्णुलोके महीयते ॥७३ ॥
फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि ।
भवेत् सैकादशी पुण्या महापातकनाशिनि ॥७४॥
कर्तव्या व्रतिना सैषा भुक्तिमुक्तिप्रदायिनी ।
दशम्यां त्वेकभुक्तत्वं रात्रौ भूशयनं तथा ॥७५॥
ब्रह्मचारित्वमेवापि रक्षणीयं व्रतार्थिना ।
एकादश्यां ब्राह्मकाले समुत्थायाऽऽन्तरे निजे ॥७६॥
हरिं स्मृत्वा तथा ध्यात्वा स्नानं तीर्थे समाचरेत् ।
हरेरग्रे समागत्य व्रतं सङ्कल्पयेत् ततः ॥७७॥
अद्य देवप्रसादेन करिष्ये निर्जलं व्रतम् ।
तद्वै सम्पूर्णतां यातु मा विघ्नो मे भवेत्प्रभो ॥७८॥
इत्यभ्यर्थ्याऽऽचमनं वै कुर्यात् सन्ध्यादिकं चरेत् ।
नैत्यकं पूजनं कुर्याद् विष्णोर्नारायणस्य च ॥७९॥
ततो वै मण्डले सर्वतोभद्राख्येऽन्ननिर्मिते ।
मध्ये स्वर्णकृतं ताम्रं घटं वा पञ्चरत्नकम् ॥1.245.८० ॥
वस्त्रपल्लवसलिलतन्तुफलादियोजितम् ।
स्थापयेच्च तिलस्थालीं न्यस्येत्तत्र सुशोभनाम् ॥८ १॥
आमलक्या अधिपतिं गोविन्दं स्वर्णनिर्मितम् ।
चन्द्रवत्या सह पत्न्या स्थापयेत्तत्र पूजयेत् ॥८२॥
आवाहनात् समारभ्य पुष्पाञ्जल्यन्तकं तदा ।
पूजनं तत्र कर्तव्यं व्रतिना दिव्यवस्तुभिः ॥८३ ॥
षोडशसूपचारैश्च तथाऽन्यैरुपचारकैः ।
नीराजनस्तुतिभोज्यजलताम्बूलवस्तुभिः ॥८४॥
गुलदावदिकापुष्पैः कमलादिभिरित्यपि ।
पूजयेत्तन्दुलैर्देवं कुङ्कुमाऽगुरुचन्दनैः ॥८५ ॥
निवेदने विशेषेण कंसारपूरिकादिकम् ।
अर्पयेदतिभक्त्या चाऽऽक्षोडं प्रपूजने फलम् ॥८ ६ ॥
तिलपात्रं तथा दद्याद् दाने स्वर्णादिकं धनम् ।
एवं प्रातः समर्चां तु कृत्वा भक्तिं समाचरेत् ॥८७ ॥
मध्याह्ने तु विशेषेण पूजा धात्रीदिने मता ।
नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् ॥८८ ॥
शरीरे मृत्तिकां दत्वा ततः स्नानं समाचरेत् ।
सर्वतीर्थानि चायान्तु तत्र स्नानं करोम्यहम् ॥८ ९॥
एवं स्नात्वा तथा शुद्धे वस्त्रे धृत्वाऽथ पुण्ड्रकम् ।
तिलकं चन्द्रकं कृत्वा गच्छेदामलकीद्रुमम् ॥1.245.९० ॥
सर्वोपस्करसंयुक्तः पूजोपकरणैर्युतः ।
धात्रीछायां समाश्रित्य संशोध्यापि समन्ततः ॥९१ ॥
रचयेत् सर्वतोभद्रमण्डलं सप्तधान्यजम् ।
मध्ये तु स्थापयेत्कुम्भं स्वर्णजं ताम्रजं च वा ॥९२ ॥
पञ्चरत्नसमोपेतं दिव्यगन्धाधिवासितम् ।
छत्रोपानद्वस्त्रयुक्तं सितचन्दनचर्चितम् ॥९३ ॥
स्रङ्मालालम्बितग्रीवं सर्वधूपविधूपितम् ।
दीपमालाकुलं रम्यं सर्वतः सुमनोहरम् ॥९४॥
पात्रे न्यस्येत् तदूर्ध्वे च दिव्यलाजाप्रपूरितम् ।
तिलपात्रे च लाजायाः स्थाल्यां चन्द्रावतीयुतम् ॥९५॥
जामदग्न्यं हरिं राम सपरशुं हिरण्मयम् ।
स्थापयेच्च तथा धात्रीं स्वर्णमूर्तिमयी शुभाम् ॥९६ ॥
आवाहनं चासनं च पाद्यमर्घ्यं जलेन च ।
दद्यादाचमनं पञ्चामृतैः संस्नपयेत् प्रभुम् ॥९७॥
ततस्तीर्थजलैर्देवं स्नापयेन्मार्जनं चरेत् ।
वस्त्रे सन्धारयेद्यज्ञोपवीतं दापयेन्मणिम् ॥९८ ॥
आभूषणानि सर्वाणि मुकुटादीनि चार्पयेत् ।
सुगन्धचन्दनादीन्यत्तरतैलादि चार्पयेत् ॥९९ ॥
गुलालकुङ्कुमाऽबीराऽगुरुद्रव्याऽक्षतैस्तथा ।
पुष्पैर्नानाविधैर्देवं धूपदीपनिवेदनैः ॥1.245.१०० ॥
नीराजनेन विधिना जलताम्बूलसत्फलैः ।
दण्डवत्स्तुतिनमनैरपराधक्षमार्थनैः ॥१०१ ॥
प्रदक्षिणादक्षिणाभिः सत्पुष्पाञ्जलिना तथा ।
अर्चयेद् देववेशं धात्रीवृक्षतले शुभे ॥१०२॥
ध्यायेत्तु भगवद्रूपं सौम्याभं पादयोः स्वयम् ।
जान्वोस्तु विश्वरूपं च सक्थ्नोः तेजःस्वरूपकम् ॥१०३ ॥
कट्यां दामोदरं ध्यायेत्पद्मनाभं तथोदरे ।
वक्षसि श्रीवत्सयुतं वामबाहौ तु चक्रिणम् ॥१ ०४॥
गदिनं दक्षिणे बाहौ कण्ठे वैकुण्ठमित्यपि ।
आस्ये यज्ञमुखं ध्यायेन्नासायां सुखसागरम् ॥१ ०५॥
अक्ष्णोर्ध्यायेद्वासुदेवं ललाटे वामनं तथा ।
सर्वात्मानं ब्रह्मरन्ध्रे ध्यात्वाऽङ्गानि विचिन्तयेत् ॥१०६ ॥
नमस्ते देवदेवेश जामदग्न्य नमोऽस्तु ते ।
मया कृतां महापूजां धात्रीफलार्पणान्विताम् ॥१ ०७॥
गृहाण परमप्रीत्या भुक्तिमुक्तिप्रदो भव ।
इत्यभ्यर्च्य समाप्यैव ततो वै भोजनादिकम् ॥१०८ ॥
गोभ्यो दद्यात्तथा सूक्ष्मजन्तुभ्योऽपि प्रदापयेत् ।
धात्रीमूले प्रसादश्च समर्प्यो देवभावतः ॥१० ९॥
जलं देयं धात्रिकायाः मूले पितृप्रतर्पकम् ।
सूर्याय त्वञ्जलिं दद्यात् पितॄनुद्दिश्य भावतः ॥1.245.११० ॥
भूतेभ्यस्तु प्रसादांशं दद्याद् बालेभ्य एव च ।
शेषं प्रसादं त्वनयेत् स्वगृहं रक्षयेच्च तम् ॥१११ ॥
द्वादश्यामुपभुञ्जीत फलं जलं तु तद्दिने ।
व्रतिना यदि ग्राह्यं स्यान्न व्रतघ्नं हि तद्भवेत् ॥११ २॥
एवं कृत्वा तु दानानि मणिस्वर्णमयानि हि ।
आभूषणानि वस्त्राणि विविधान्नानि भूमयः ॥११३ ॥
गोमहिष्यो गृहोद्यानयानवाहनकानि च ।
अतिश्रेष्ठानि रत्नानि मिष्टान्नानि बहून्यपि ॥१ १४॥
दद्याद्धात्रीतले तस्य फलं ब्रह्मणि शाश्वतम् ।
स्वर्गं तस्याऽक्षयं चापि निरतिशयमेव च ॥१ १५॥
एवंविधं व्रतं दानं स्वर्गमोक्षफलप्रदम् ।
सर्वान्सन्तोष्य दानेन जलेनान्नेन वाससा ॥११६ ॥
नमस्कृत्य हरिं नत्वा दत्त्वा द्विजाय चेतरत् ।
गृहं यायात् परभक्त्या चापराह्णेपि सर्वथा ॥१ १७॥
समयं कीर्तनभक्त्या यापयेच्च तथा निशि ।
पूजनं विधिवत् कृत्वा कृत्वा चारार्त्रिकादिकम् ॥१ १८॥
नैवेद्यं च जलं गन्धं ताम्बूलं प्रसमर्प्य च ।
देवं त्वान्दोलयेत्प्रेङ्खादोलादौ जागरं तथा ॥११९ ॥
कुर्यान्नृत्यैस्तथा गीतैर्वादित्राद्यैः कथामृतैः ।
धर्माख्यानैस्तथा कृष्णशृङ्गारपदगायनैः ॥1.245.१२० ॥
गृहे वा मन्दिरे यद्वा धात्रीवृक्षतले व्रती ।
परशुराममूर्तिं च स्थापयित्वा दिने निशि ॥१२ १॥
पूजनं च व्रतं जागरणं कुर्याद् द्रुमस्थले ।
वैष्णवामुक्तिदाऽऽख्यानैर्यापयेयुर्निशामिमाम् ॥१ २२॥
प्रदक्षिणास्ततः कुर्याद्धात्रीद्रौ विष्णुनामभिः ।
अष्टाधिकशतं चापि ह्यष्टाविंशतिमित्यपि ॥१२३॥
धात्रीवृक्षं हरिं ज्ञात्वा प्रातः पूजनमाचरेत् ।
स्नात्वा नीराजनं कृत्वा पूजयित्वा तु भूसुरम् ॥१२४॥
गुरुं समर्च्य दानार्हं सर्वं तस्मै निवेदयेत् ।
जामदग्न्यं घटं स्वर्णं वस्त्रयुग्ममुपानहौ ॥१२५॥
जामदग्न्यस्वरूपाय गुरवे त्वर्पयेत्ततः ।
वदेदामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ॥१२६॥
जामदग्न्यस्वरूपेण प्रीयतां मम केशव ।
दद्याद्भक्तजनेभ्यश्च विष्णुप्रसादमुत्तमम् ॥१ २७॥
आश्रितेभ्यो विधानेन दत्वा त्वन्नं जलं तथा ।
विप्रान् बालान् भोजयेच्च साधून् साध्वीश्च बालिकाः ॥१२८॥
ततः स्वयं समश्नीयात् कुटुम्बेन समावृतः ।
एवङ्कृतेन पुण्यं तु शाश्वतं मोक्षदं भवेत् ॥१२९॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।
सर्वयज्ञेषु यत्पुण्यं तत्फलं लभते व्रती ॥1.245.१३०॥
सर्वपापविनिर्मुक्तः परामुक्तिं प्रपद्यते ।
आमलकीव्रतकर्तुर्विष्णुलोको ध्रुवो मतः ॥१३१ ॥
एतत्ते कथितं सर्वं व्रतानां व्रतमुत्तमम् ।
पुत्रदं जयदं कान्तिप्रदं मोक्षप्रदं तथा ॥१३२॥
अव्याहतगतिस्वर्गप्रदं सिद्धिप्रदं द्रुतम् ।
सर्वसङ्कल्पफलदं लक्ष्मीप्रसन्नताप्रदम् ॥१३३॥
यानवाहनसद्भूषोपस्कारादिप्रदं शुभम् ।
व्रतमेतद्दुराधर्षं सर्वपापविमोचकम् ॥१३४॥
नार्या लक्ष्मीस्वरूपत्वप्रद रमात्वदायकम् ॥
नरस्य तु चतुर्बाहुविष्णुरूपत्वसम्प्रदम् ॥१ ३५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने फाल्गुनशुक्लाऽऽमलकीनाम्न्येकादशीव्रतमाहात्म्यं लक्ष्मीललाटभूषार्थम् आमलकीप्राविर्भावः, पृथिव्यां वृक्षरूपस्यैकादशीव्रते पूजनमाहात्म्यं चेत्यादिनिरूपणनामा पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४५॥