२४३

श्रीलक्ष्मीरुवाच-
हरे कृष्ण कृपासिन्धो जगदुद्धारकारक ।
माघशुक्लैकादशीं मे कथयस्व प्रसादतः ॥१ ॥ को विधिः कोऽधिदेवोऽत्र व्रतस्य फलमित्यपि ।
कथयस्वोद्यापनं च व्रतिनो भुक्तिमुक्तिदम् ॥२ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि माघशुक्ले जयानामेतिपुण्यदा ।
पापहन्त्री मोक्षकर्त्री कामदात्री सुखप्रदा ॥३ ॥ एकादशी समाख्याता कर्तव्या व्रतिना शुभा ।
ब्रह्महत्यादिहन्त्री च पिशाचत्वादिनाशिनी ॥४ ॥ सर्वसम्पत्करी राज्ञां सङ्ग्रामे जयदायिनी ।
स्वर्गे जयप्रदा लोके व्यवहारे जयप्रदा ॥५ ॥ यत्र कुत्रापि कार्ये सा कृता जयफला मता ।
तत्फलं जयदं प्रोक्तं त्रिषु लोकेषु यायिनाम् ॥६ ॥ एतस्मात्कारणाल्लक्ष्मि कर्तव्या सा प्रयत्नतः ।
दशम्यामेकभुक्तेन नक्तमात्रेण वा स्वयम् ॥७ ॥ देहयात्रां निर्वहँश्च रात्रौ भूशयनं चरेत् ।
प्रातरुत्थाय च ब्राह्मे मुहूर्त्ते श्रीहरिं स्मरेत् ॥८ ॥ शौचस्नानादिकं कृत्वा सन्ध्यावन्दनमाचरेत् ।
गायत्रीं च जपित्वाऽथ हरेः पूजां समाचरेत् ॥९ ॥ नित्यया सह सम्पूज्यो माधवस्तत्पतिः प्रभुः ।
पञ्चामृतेन वै पूर्वं स्नापयेदभिषेचनैः ॥1.243.१ ०॥ शुद्धतीर्थजलैः कृष्णं स्नापयेल्लेपयेद् द्रवम् ।
सुगन्धसारोत्तमतैलचन्दनादि विलेपयेत् ॥११ ॥ पुनश्च स्नापयेत्तीर्थजलैर्वस्त्राणि धारयेत् ।
मुकुटं कुण्डले हारान् कटकाङ्गदसूर्मिकाः ॥१२॥ शृङ्खलारशनारत्नहीरकादिकृतानि च ।
विभूषणानि सर्वाणि तथा दिव्यानि धारयेत् ॥१३॥ गुलालाक्षतकुङ्कुमाबीरैः सम्पूजयेत् प्रभुम् ।
धूपदीपैस्तथा पुष्पैर्बकुलस्य प्रपूजयेत् ॥१४॥ तत्कालप्रोद्भवैश्चान्यैः कमलै स्थलपद्मकैः ।
शृङ्गारहारैः सत्पत्रैस्तुलसीमञ्जरीयुतैः ॥१९’॥ पूजयेच्छ्रीहरिं चाथ चन्दनैर्गन्धिवस्तुभिः ।
मिष्टान्नानि तु नैवेद्ये बीजपूरफलानि च ॥१६॥ मण्डका लड्डुका मुद्गभवा मेशुभमौक्तिकाः ।
दातव्या हरये दुग्धपाकः सुगन्धमिश्रिताः ॥१७॥ दाडिमं नवरङ्गं च नारिकेलफलं तथा ।
दातव्यानि तथा द्राक्षाफलानि कदलानि च ॥१८॥ आरार्त्रिकं तथा कार्यं प्रदक्षिणादिकं ततः ।
पुष्पाञ्जलिं क्षमां प्रार्थ्य ततो वै व्रतमर्थयेत् ॥१९॥ अद्याऽहं वै जयानाम्न्या एकादश्या व्रतं शुभम् ।
करोमि कृष्ण तेऽतीव प्रसन्नत्वप्रसक्तये ॥1.243.२०॥ तद् व्रतं मे प्रसम्पूर्णं भवत्वत्र कृपां कुरु ।
इति प्रार्थ्य ततो नत्वा देवदेवं च माधवम् ॥२१॥ शोभितं सप्तधान्यैः सन् मण्डलं कारयेद् व्रती ।
मध्ये स्वर्णघटं संस्थापयेत् ताम्रघटं च वा ॥२२॥ पञ्चपल्लवरत्नादिजलवस्त्रादिशोभिते ।
तिलपात्रं घटे तत्र स्थापयेत् फलसंयुतम् ॥२३॥ घटं प्रपूजयेत्तत्र तीर्थान्यावाहयेत्तथा ।
स्वर्णमूर्तिं माधवस्य जयया सह निर्मिताम् ॥२४॥ नित्यया च तथा पत्न्या सहितां स्थापयेत्तथा ।
पूजयेच्चावाहनादिक्रमेण स्नापयेत्तथा ॥२५॥ विभूषयेत्तथा पुष्पभोजनादि समर्पयेत् ।
षोडशोपसुवस्त्वाद्यैरर्चयेद्बहुभावतः ॥२६॥ जलपानं समर्प्याऽथ नीराजयेच्च माधवम् ।
ताम्बूलं चार्पयेत्तत्राऽपराधाँश्च क्षमापयेत् ॥२७॥ व्रतार्थं प्रार्थयेत् पूर्णं व्रतं मे च भवेदिति ।
गोश्च प्रपूजनं कुर्याद् गोदानं चापि कारयेत् ॥२८॥ भूदानं वस्त्रदानं च स्वर्णदानं च कारयेत् ।
पश्चात्पूजां समाप्यैवं कुर्यात्कार्यं स्वकं दिने ॥२९॥ मध्याह्नेऽपि तथा भक्ष्यभोज्यलेह्यसुचोश्यकम् ।
अन्नं चतुर्विधं दद्याद्देवाय माधवाय वै ॥1.243.३ ०॥ सायं निशि तथा कृष्णपूजार्थं मण्डपं शुभम् ।
कारयेत्तु महान्तं च तत्रोल्लेच्चं प्रबन्धयेत् ॥३ १ ॥ पूजनं श्रीहरेः कृत्वा नीराजयेद्विधानतः ।
नैवेद्यं च क्षमाऽदानं कृत्वा ततो हरेः पुरः ॥३२॥ मण्डपे रासरीत्या श्रीहरेः पद्यानि गापयेत् ।
कुर्याज्जागरणं रात्रौ रञ्जयेत्कृष्णमत्यति ॥३३॥ भक्तैर्नृत्यं कीर्तनं च सवादित्रं च जागरम् ।
कर्तव्यं च ततः प्रातः स्नात्वाऽर्च्यो माधवः प्रभुः ॥३४॥ दानानि विविधान्येव देयानि च यथाबलम् ।
साधून् साध्वीर्ब्राह्मणाँश्च भोजयेच्च निवेदितम् ॥३५॥ ततः स्वयं पारणां च कुर्यादेवं व्रतं कृते ।
फलं पूर्णं भवत्येव विजयः सर्वथा भवेत्॥३६॥ शृणु त्वत्र व्रते पूर्वां कथां लक्ष्मि! वदामि ते ।
स्वर्गे लोके महेन्द्रे वै शासति देवतागणाः ॥३७॥ वसन्ति सुखिनः सर्वे पीयूषपानपोषिताः ।
अप्सरोभिश्च देवीभिः परीभिश्च समर्चिताः ॥३८॥ पूजिताः सुखिता देवा रमन्ते नन्दने वने ।
रमयन्ति च देवीश्च नृत्यन्ति कीर्तयन्ति च ॥३९॥ नन्दनाख्ये वने दिव्ये स्वर्गङ्गा या जलान्तिके ।
उद्याने पुष्पशोभाढ्ये सुगन्ध्यनिलसेविते ॥1.243.४०॥ प्रवृत्तं नर्तनं चाप्सरसामिन्द्रस्य तुष्टये ।
गन्धर्वास्तत्र गायन्ति नृत्यन्त्यप्सरसस्तदा ॥४१ ॥ वादयन्ति च गन्धर्वास्तालस्याऽऽपूरिकाः स्त्रियः ।
एवं तु गायने नृत्ये प्रवृत्तेऽतिप्रहर्षतः ॥४२॥ दर्शकोऽपि महेन्द्रः स्वेच्छया रङ्गे ह्युपस्थितः ।
ननर्तेन्द्रः सहर्षः स्वपञ्चाशत्कोटिनायकः ॥४३॥ गन्धर्वाः सहगायन्ति पुष्पदन्तश्च सुस्वरः ।
चित्रसेनस्तथा तस्य पत्नी पुष्पवती तथा ॥४४॥ पुष्पदन्तस्य पुत्रश्च माल्यवान्नामतस्तथा ।
पुष्पवत्याः स्वरूपे च माल्यवान्मोहितस्तदा ॥४५॥ पुष्पवत्या कटाक्षैश्च माल्यवान् स्ववशे कृतः ।
पुष्पवती माल्यवाँश्च नृत्यार्थमिन्द्रतुष्टये ॥४६॥ समागतौ च कामेन परीताङ्गौ बभूवतुः ।
चित्तभ्रमसमायुक्तौ कामबाणवशङ्गतौ ॥४७॥ गायतः शुद्धगानं न बद्धदृष्टी च रागतः ।
नृत्यतीन्द्रस्तु वै सम्यङ् नृत्यानुसारि गायनम् ॥४८॥ तयोः क्षतिं समगच्छत्तालमानविलोपनम् ।
चिन्तयित्वा तु मघवा सङ्गतं मानसं तयोः ॥४९॥ समकालीनवैगण्यं ताले माने च गायने ।
क्रमलोपं परं दृष्ट्वा मत्वाऽवज्ञां तथाऽऽत्मनः ॥1.243.५०॥ कुपितश्च तयोस्तत्र शशाप च वदन्निदम् ।
धिङ्युवा पतितौ मूढौ मन्महत्ताप्रभञ्जकौ ॥५ १॥ स्वर्गे विषयबाहुल्ये भुज्यमानेऽपि सर्वदा ।
तृप्तिर्नास्ति न मे श्रेष्ठ्यमर्यादारक्षणे मतिः ॥५२॥ नृत्यकाले मम दाक्ष्ये प्रोत्साहेऽपि युवां यतः ।
विगणय्य सभामध्ये नृत्यं वै मोहितौ किमु ॥५३ ॥ तस्मात् पिशाचौ भवतं दम्पतीरुपधारिणौ ।
न गन्धर्वस्थितियोग्यौ गौरवभङ्गकारकौ ॥५४॥ मर्त्यलोकमनुप्राप्तौ भुञ्जानौ कर्मणः फलम् ।
दुःखं चानुभवन्तौ वै तिष्ठतं तु चिरं समाः ॥५५॥ एवं महेन्द्रशापात्तौ हिमाद्रौ त्वतिदारुणे ।
पिशाचतां गतौ दुःखैस्तप्तौ शान्तिं न चेयतुः ॥५६॥ गन्धर्वत्वं चाप्सरत्वं विस्मृतौ चेरतुर्वने ।
तुषारेणातिवेगेन पीड्यमानो मुहुर्मुहुः ॥५७॥ दन्तघर्षं प्रकुर्वाणौ वदतश्च परस्परम् ।
पिशाचः समुवाच स्वां प्रियां पत्नीं पिशाचिकाम् ॥५८॥ अहो चाल्पापराधस्य फलं दुःखतमं महत् ।
नरकं दारुणं चेदं पिशाचरूपकं खलु ॥५९॥ कदा स्यादन्तवच्चैतत् कदा शान्तिर्मिलिष्यति ।
शैत्यं चातितमं त्वत्र पीडा तेनातिजायते ॥1.243.६०॥ इति चिन्तापरौ तौ च क्षुधादुःखातिकर्षितौ ।
पिप्पलाख्यदेवतरोः स्तम्बे वासं प्रचक्रतुः ॥६१ ॥ हिमपातेन दशमीरात्रौ चैकादशीदिने ।
चैकादश्यास्तथा रात्रौ हिमझञ्झानिलेन तौ ॥६२॥ वेपमानौ भोजनार्थं निर्गतौ न स्ववासतः ।
दैवयोगात्स दिवसो माघस्यैकादशी जया ॥६३॥ उपोषिता निशा ताभ्यां सुजागरयुता कृता ।
तत्राऽऽस्तां तावुभौ भोज्यजलपानादिवर्जितौ ॥६४॥ कष्टेन हिमवातेन सर्वाहारविवर्जितौ ।
न कृतो जीवघातश्च न प्राप्तं फलभक्षणम् ॥६५॥ न पानं सलिलस्यापि जातं नेन्द्रियरञ्जनम् ।
न च निद्रापि सञ्जाता न तौ सौख्यमविन्दताम् ॥६६॥ तयोर्दुःखितयोरित्थं निर्जगाम निशीथिनी ।
प्रातः सूर्योदये प्राप्ते द्वादश्यां च मया तयोः ॥६७॥ पिप्पलवृक्षरूपेण कृता भक्तिधृता हृदि ।
अश्वत्थोऽहं हि वृक्षाणां भवामि मूर्तिमान् यतः ॥६८॥ तयोराश्रयदाताऽहं व्रतं जयातिथेस्तयोः ।
गणयन् जागराढ्यं च फलं व्रतस्य वै ददौ ॥६९॥ तेन फलप्रभावेण पिशाचत्वं गतं तयोः ।
दिव्यरूपौ तु गन्धर्वौ पूर्वरूपौ बभूवतुः ॥1.243.७० ॥ पुरातनस्नेहयुतौ पूर्वालङ्कारशोभितौ ।
पुष्पावतीमाल्यवन्तौ विमानवरमास्थितौ ॥७१ ॥ गतौ स्वर्गं च देवेन्द्रं प्रणामं चक्रतुर्मुदा ।
तौ देवौ देवगन्धर्वौ वीक्ष्येन्द्रो विस्मितोऽब्रवीत् ॥७२ ॥ वदतं केन पुण्येन विनष्टा वां पिशाचता ।
मम शापात्तु मुनिना केन वै मोचितौ युवाम् ॥७३ ॥ प्रा श्च तदा तौ तं दैवयोगेन देवराट् ।
वासुदेवप्रसादेन जयायास्तु व्रतेन च ॥७४॥ पिशाचत्वं विनष्टं नौ तव भक्तिप्रभावतः ।
श्रुत्वेति मघवा हृष्टः पुनस्तावाह चादरात् ॥७५ ॥ युवां हरेः कृपापात्रवर्यौ जातौ व्रताहतः ।
तस्मात्पूज्यौ मम जातौ व्रतपुण्यप्रभावतः ॥७६॥ सदा सुधां तु पिबत वचनान्मेऽतिहर्षतः ।
रमेथां च सदा स्वर्गे यथासौख्यं युवां प्रियौ ॥७७॥ हरिव्रतप्रकर्तारो हरेर्भक्तिपरायणाः ।
मर्त्या अमर्त्या ये केचित्त्वस्मत्पूज्याः सदैव ते ॥७८॥ एवं लक्ष्मि! च तौ गन्धर्वीगन्धर्वौ पिशाचकौ ।
पुनर्जातौ स्वर्निवासौ जयाया व्रतवैभवात् ॥७९॥ एतस्मात्कारणाल्लक्ष्मि! कर्तव्यं च जयाव्रतम् ।
जया पापहरा पुण्यप्रदा स्वर्गप्रदा तथा ॥1.243.८० ॥ ब्रह्महत्यादिपापानां नाशिनी मोक्षदायिनी ।
सर्वदानानि दत्तानि कृतं येन जयाव्रतम् ॥८ १ ॥ सर्वेऽपि क्रतवस्तेन कृताः कृते जयाव्रते ।
कृताः परोपकाराश्च कृते श्रेष्ठे जयाव्रते ॥८२॥ धनधान्यसुतपत्नीगृहगोवाजिसत्पतिम् ।
लभते माघशुक्लैकादशीजयाव्रतेन वै ॥८३ ॥ नात्र परत्र किञ्चिद्वै दुर्लभं व्रतिनो भवेत् ।
सुलभं स्याद्धरेर्योगाद् दुर्लभं नैव विद्यते ॥८४॥ कर्तव्यं सर्वथा तस्माद्व्रतं जयासुवासरे ।
कल्पकोटिं वसेत् कर्ता वैकुण्ठे मोदते ध्रुवम् ॥८५ ॥ व्रतस्यास्य कथायाश्च श्रवणात्पठनादपि ।
अग्निष्टोमफलं स्याद्वै भुक्तिं मुक्तिं च विन्दति ॥८६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माघशुक्लजयैकादशीव्रतमाहात्म्यं माल्यवतीमाल्यवन्नामगन्धर्वयोः पिशाचत्व-
प्राप्तयोः व्रतेन मुक्तिरित्यादिनिरूपणनामा त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४३ ॥