२३६

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्ये त्वां पक्षवर्धिनिकाऽभिधाम् ।
एकादशी प्रियां मेऽति यया मोक्षमवाप्नुयात् ॥१ ॥ एकादशी प्रपूर्णा च दशमीवेधसंयुता ।
एकदशीवेधयुक्ता द्वादश्यर्कोदये च या ॥२ ॥ एवङ्क्रमादमावास्या पूर्णिमा वाऽर्कप्राक्क्षणे ।
सम्पूर्णा नाडिकाषष्टिः प्रतिपच्च तथाविधम् ॥२ ॥ एकादशी समारभ्य प्रतिपद्दिवसावधि ।
सम्पूर्णा नाडिकाषष्टिर्यदा त्वह्नः प्रमाणता ॥४ ॥ सैकादशी तदा ज्ञेया पक्षवर्धिनिकाऽभिधा ।
द्वादशी सा समुपोष्या व्रतं कार्यं विधानतः ॥५ ॥ अश्वमेधाऽयुतैस्तुल्या सा भवेत् पक्षवर्धिनी ।
यां कृत्वा तु महालक्ष्मि! फलाऽऽनन्त्यमवाप्नुयात् ॥६ ॥ पूजिते चाऽर्चिते विष्णौ वैकुण्ठं फलमाप्यते ।
पूजां तत्र प्रवक्ष्यामि यया तुष्यति केशवः ॥७ ॥ मण्डलं सर्वतोभद्रं सप्तधान्यैः प्रकारयेत् ।
मध्ये घटं च सौवर्ण सजलं स्थापयेन्नवम् ॥८ ॥ ताम्रघटं च यद्वाऽत्र पञ्चपल्लवशोभितम् ।
पञ्चरत्नसमायुक्तं श्वेतवस्त्रप्रवेष्टितम् ॥९ ॥ चन्दनार्चितमेवैनं पुष्पहाराभिवेष्टितम् ।
घटे तत्र महत्पात्रं सगोधूमं तु ताम्रजम् ॥1.236.१० ॥ सफलं सनारिकेलं समिष्टान्नं सुयोजयेत् ।
सौवर्णं कारयेत् कृष्णं माससञ्ज्ञाभिधानकम् ॥१ १॥ स्नापयेच्च तथा पञ्चामृतेन विधिना हरिम् ।
अभिषेकं तीर्थजलैः कारयेल्लेपयेत्ततः ॥१२॥ कुङ्कुमाऽक्षतकस्तूरीचन्दनात्तरकर्पुरैः ।
वस्त्रयुग्मं चोपवीतं कौस्तुभं भूषणानि च ॥१३ ॥ अलङ्काराः प्रदातव्याः पुष्पहारादयस्तथा ।
कटकाङ्गदमुकुटशृङ्खलारशनोर्मिकाः ॥१४॥ सिंहासनं प्रदातव्यं छत्रोपानहसंयुतम् ।
सुगन्धद्रव्यमत्युग्रं प्रदातव्यं च भावतः ॥१५॥ लक्ष्मीस्तत्र च संस्थाप्या सर्वाभरणभूषिता ।
सर्वालङ्कारसौभाग्यद्रव्यभूषणभूषिता ॥१६॥ पूजनीया हरेः पार्श्वे त्वेकादशी स्वरूपिणी ।
पूजयेच्छ्रीहरिं तत्र कुम्भपात्रोपरि स्थितम् ॥१७॥ ध्यायेच्च पद्मनाभं वै पादौ तत्र विचिन्तयेत् ।
विश्वमूर्तिं विचिन्त्यैव जानुनी संस्मरेत्ततः ॥१८॥ ज्ञानगम्यं च संस्मृत्य ह्यूरू तत्र विचिन्तयेत् ।
ज्ञानप्रदं हरिं स्मृत्वा कटिं चापि विचिन्तयेत् ॥१ ९॥ विश्वनाथं हरिं स्मृत्वा ह्युदरं संविचिन्तयेत् ।
श्रीधरं श्रीहरिं स्मृत्वा हृदयं चिन्तयेद्धरेः ॥1.236.२०॥ सकौस्तुभं हरिं स्मृत्वा कण्ठं सम्यग् विचिन्तयेत् ।
क्षत्रान्तकारिणं स्मृत्वा बाहू सम्यग् विचिन्तयेत् ॥२१॥ चिदाकाशं हरिं स्मृत्वा ललाटं चिन्तयेत्ततः ।
सर्वरूपं हरिं ध्यात्वा शिरः सम्यग् विचिन्तयेत् ॥२२॥ कृष्णनाम्ना च शस्त्राणि सर्वाङ्गानि च चिन्तयेत् ।
एवं ध्यात्वा ततश्चार्घ्यं नालिकेरेण दापयेत् ॥२३॥ संसारसागरात् कृष्ण मां समुद्धर केशव ।
पूजामर्घ्यं गृहाणेश हरिकृष्ण नमोऽस्तुते ॥२४॥ षोडशवस्तुवर्याणि देयानि परमात्मने ।
नैवेद्यं विविधं दद्याज्जलं दद्यात्तु शीतलम् ॥२५॥ ताम्बूलं सुसुगन्धं सुद्रव्यं दद्याच्च भक्तितः ।
घृतेनाऽप्यथ तैलेन दीप कुर्याच्च भक्तितः ॥२६॥ आरार्त्रिकं नमस्कारं प्रदक्षिणं च संस्तवम् ।
क्षमापनं च याचेत पुष्पाञ्जलिं प्रकल्पयेत् ॥२७॥ हरेः पूजां शुभां कृत्वा गुरोः पूजां प्रकारयेत् ।
चन्दनाद्यर्पणवस्त्रभूषादानादिना तथा ॥२८॥ कञ्चुकोष्णीषहारादिसुगन्धादि प्रदापयेत् ।
दक्षिणां चान्नधान्यादि तथा मुद्रादि चार्पयेत् ॥२९ ॥ भोजनं चैव ताम्बूलं दत्वाऽऽचार्यं प्रतोषयेत् ।
यथावित्तं यथाशक्ति कार्यं उत्सव उत्तमः ॥1.236.३० ॥ सायं चापि तथा पूजा कर्तव्या भक्तिभावतः ।
ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम् ॥३१॥ प्राच्याख्यानकथायुक्तं हास्याह्लादसमायुतम् ।
श्रीं पक्षवर्धिनीनाम्नीं पूजयेत् कृष्णसन्निधौ ॥३२॥ तन्माहात्म्यं संशृणुयाद्व्रतस्य फलमाप्नुयात् ।
पञ्चाग्निसाधने पुण्यं यत्तु स्यात्तीर्थकोटिषु ॥३३॥ तत्फलं समवाप्नोति विष्णोर्जागरणाज्जनः ।
उपवासे कृते तत्र हत्याकोटिक्षयो भवेत् ॥३४॥ कर्तव्या तु विशेषेण वैष्णवैर्ज्ञानयोगिभिः ।
न तीर्थानि न चारण्यक्षेत्राणि कुलपर्वताः ॥३५॥ तारयन्ति जनान् यद्वत्तारयेत्पक्षवर्धिनी ।
सिते चन्द्रे कलावृद्धिस्तथाऽस्यां पुण्यवर्धनम् ॥३६॥ सूर्योदये तमोनाशस्तथाऽज्ञानविनाशिनी ।
पक्षविवर्धिनी सेयं मोक्षपक्षविवर्धिनी ॥३७॥ मुक्तिकलाप्रदा षोडशादिकलाप्रपोषिका ।
काशीसमा सदा मुक्तौ द्वारकासदृशी तथा ॥३८॥ कुङ्कुमवापिकातुल्या वाञ्छितं प्रददात्यसौ ।
भक्तानां तु सदा मुक्तिपक्षं वर्धयतीव सा ॥३९॥ ज्ञानं धर्मं तथा भक्तिं वर्धयत्येव सर्वथा ।
यथा शुक्ला तथा कृष्णा विभेदं नैव कारयेत् ॥1.236.४०॥ सन्तारयति कर्तारं दशपूर्वान्दशाऽपरान् ।
सन्तारयति व्रतिनं द्वादश्युभयतः कृता ॥४१ ॥ वाराणस्यां भवेद्वासः षष्टिवर्षसहस्रकम् ।
यज्ञदानं कुरुक्षेत्रे सोमपर्वसहस्रकम् ॥४२॥ विधृत्यादिसुयोगेषु लक्षदानोत्तमोत्तमम् ।
सूर्यचन्द्रग्रहदानं कुरुक्षेत्रे कृतं शतम् ॥४३॥ प्रभासे वा कृतं दानं सोमयागसहस्रकम् ।
यतिलक्षं गृहे भुङ्क्ते तत्फलं नित्यमेव यत् ॥४४॥ केदारजलपानस्य जन्माऽदर्शनकं फलम् ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥४५॥ गोसहस्रप्रदानाद्वै सहस्रगुणितं फलम् ।
साधूनां पूजने प्रोक्तं तस्माद् दशगुणं फलम् ॥४६॥ ब्रह्मनिष्ठप्रपूजायां ततो दशगुणं पुनः ।
देवार्थं भूमिदातुश्च कन्यादातुस्ततस्तथा ॥४७॥ ततोऽपि दशगुणकं यज्ञावभृथपावने ।
ततोऽनन्तं भवेदेकादशीव्रतिनि वै फलम् ॥४८॥ उपवासे तु यत्पुण्यं ततोऽर्धं नक्तभोजने ।
नक्तस्याऽर्धं भवेदेकभुक्ते वा फलभोजने ॥४९॥ एकभुक्तेन नक्तेनोपवासेन फलेन च ।
यत्पुण्यं लभते तच्च रात्रौ जागरणे कृते ॥1.236.५०॥ एकादश्युपवासस्य पुण्यसङ्ख्या न विद्यते ।
प्रत्येकायाश्च माहात्म्यं प्रवदामि निबोध मे ॥५१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पक्षवर्धिन्येकादशीव्रतपूजादिनिरूपणनामा षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६ ॥